३१ वैश्रवण-यज्ञः

अ॒द्भ्यस्तिरो॒धाजा॑यत ।
तव॑ वैश्रव॒णस्स॑दा ।
तिरो॑धेहि सप॒त्नान्नः॑ ।
ये अपो॒ऽश्नन्ति॑ केच॒न ।
त्वा॒ष्ट्रीं मा॒याव्ँ वै॑श्रव॒णः ।
रथँ॑ सहस्र॒वन्धु॑रम् ।
पु॒रु॒श्च॒क्रँ सह॑स्राश्वम् ।
आस्था॒याया॑हि नो ब॒लिम् ।
यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति ।
धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वा॑न् ।
[123]

असा॑म सुम॒तौ य॒ज्ञिय॑स्य ।
श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज॑म् ।

सु॒द॒र्श॒ने च॑ क्रौ॒ञ्चे च॑ ।
मै॒ना॒गे च॑ म॒हागि॑रौ ।
स॒तद्वा॒ट्टार॑गम॒न्ता ।
सँ॒हार्य॒न्नग॑र॒न्तव॑ ।

इति मन्त्राः॑ ।

कल्पो॑ऽत ऊ॒र्ध्वम् ।
यदि॒ बलिँ॒ हरे॑त् ।
हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ।
[124]

सर्वभूताधिपतये न॑म इ॒ति ।
अथ बलिँ हृत्वोप॑तिष्ठे॒त ।
क्ष॒त्रङ्क्ष॒त्रव्ँ वै॑श्रव॒णः ।
ब्राह्मणा॑ वयँ॒ स्मः ।
नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
अस्मात्प्रविश्यान्न॑मद्धी॒ति ।
अथ तमग्निमा॑दधी॒त ।
यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूः ।
ति॒रोधा॒ भुवः॑ ।
[125]

ति॒रोधा॒स्स्वः॑ ।
ति॒रोधा॒ भूर्भुव॒स्स्वः॑ ।
सर्वेषाल्ँ लोकानामाधिपत्ये॑ सीदे॒ति ।
अथ तमग्नि॑मिन्धी॒त ।
यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूस्स्वाहा॑ ।
ति॒रोधा॒ भुव॒स्स्वाहा॑ ।
ति॒रोधा॒स्स्व॑स्स्वाहा॑ ।
ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा॑ ।
यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः ।
[126]

अपि ब्राह्मण॑मुखी॒नाः ।
तस्मिन्नह्नः काले प्र॑युञ्जी॒त ।
पर॑स्सु॒प्तज॑नाद्वे॒पि ।
मा स्म प्रमाद्यन्त॑माध्या॒पयेत् ।
सर्वार्था॑स्सिध्य॒न्ते ।
य ए॑वव्ँ वे॒द ।
क्षुध्यन्निद॑मजा॒नताम् ।
सर्वार्था न॑ सिध्य॒न्ते ।
यस्ते॑ वि॒घातु॑को भ्रा॒ता ।
ममान्तर्हृ॑दये॒ श्रितः ।
[127]

तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि ।
स मे॑ऽर्था॒न्मा विव॑धीत् ।
मयि॒ स्वाहा॑ ।
रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ ।
नमो॑ व॒यव्वैं॑श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य॑म् ।
का॒मे॒श्व॒रो वै॑श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नमः॑ ।
के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाँ श॒तधा॑हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा न॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ।
[128]