३० द्विपदाद्य्-उपधानम्

पुन॑र्मामैत्विन्द्रि॒यम् ।
पुन॒रायुः॒ पुन॒र्भगः॑ ।
पुन॒र्बाह्म॑णमैतु मा ।
पुन॒र्द्रवि॑णमैतु मा ।
यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्का॑न् ।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑ ।
इ॒दन्तत्पुन॒राद॑दे ।
दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ।
यन्मे॒ रेतः॒ प्रसि॑च्यते ।
यन्म॒ आजा॑यते॒ पुनः॑ ।
तेन॑ माम॒मृत॑ड्कुरु ।
तेन॑ सुप्र॒जस॑ड्कुरु ॥ [122]