२९ द्विपदाद्य्-उपधानम्

प॒र्जन्या॑य॒ प्रगा॑यत ।
दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ ।
स नो॑ य॒वस॑मिच्छतु ।
इ॒दव्ँवचः॑ प॒र्जन्या॑य स्व॒राजे॑ ।
हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत ।
म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयस्सन्त्व॒स्मे ।
सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः ।
यो गर्भ॒मोष॑धीनाम् ।
गवा॑ङ्कृ॒णोत्यर्व॑ताम् ।
प॒र्जन्यः॑ पुरु॒षीणा॑म् ॥ [121]