विशी॑र्ष्णीङ्गृध्र॑शीर्ष्णीञ्च ।
अपेतो॑ निर्ऋ॒तिँ ह॑थः ।
परिबाधँ श्वे॑तकु॒क्षम् ।
नि॒जङ्घँ॑ शब॒लोद॑रम् ।
स॒तान् वा॒च्याय॑या स॒ह ।
अग्ने॒ नाश॑य स॒न्दृशः॑ ।
ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् ।
म॒न्युङ्कृ॒त्याञ्च॑ दीधिरे ।
रथे॑न किँशु॒काव॑ता ।
अग्ने॒ नाश॑य स॒न्दृशः॑ ।
[120]
॥ 28 ॥