इ॒मानु॑कं॒ भुव॑ना सीषधेम ।
इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ ।
आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु ।
आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ ।
अ॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ।
आप्ल॑वस्व॒ प्रप्ल॑वस्व ।
आ॒ण्डी भव ज॒मामु॒हुः ।
सुखादीन्दुः॑खनि॒धनाम् ।
प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ।
[113]
मरी॑चयः स्वायम्भु॒वाः ।
ये श॑री॒राण्य॑कल्पयन् ।
ते ते॑ दे॒हङ्क॑ल्पयन्तु ।
मा च॑ ते॒ ख्यास्म॑तीरिषत् ।
उत्ति॑ष्ठत॒ मा स्व॑प्त ।
अ॒ग्निमि॑च्छध्वं॒ भार॑ताः ।
राज्ञः॒ सोम॑स्य तृ॒प्तासः॑ ।
सूर्ये॑ण स॒युजो॑षसः ।
युवा॑ सु॒वासाः॑ ।
अ॒ष्टाच॑क्रा॒ नव॑द्वारा ।
[114]
दे॒वानां॒ पूर॑यो॒ध्या ।
तस्याँ॑ हिरण्म॑यः को॒शः ।
स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः ।
यो वै तां॑ ब्रह्म॑णो वे॒द ।
अ॒मृते॑नावृ॒तां पु॑रीम् ।
तस्मै॑ ब्रह्म च॑ ब्रह्मा॒ च ।
आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः ।
वि॒भ्राज॑मानाँ॒ हरि॑णीम् ।
य॒शसा॑ संप॒रीवृ॑ताम् ।
पुरँ॑ हिरण्म॑यीं ब्र॒ह्मा ।
[115]
वि॒वेशा॑प॒राजि॑ता ।
पराङेत्य॑ज्याम॒यी ।
पराङेत्य॑नाश॒की ।
इ॒ह चा॑मुत्र॑ चान्वे॒ति ।
वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् ।
यत्कु॑मा॒री म॒न्द्रय॑ते ।
य॒द्यो॒षिद्यत्प॑ति॒व्रता॑ ।
अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते॑ ।
अ॒ग्निस्तदनु॑ वेधति ।
विश्वास-प्रस्तुतिः - ऋक्
अ॒शृता॑सश्शृ॑तास॒श्च । [116]
य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ ।
स्व॑र्यन्तो॒ नापे॑क्षन्ते ।
इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः ।
मूलम्
अ॒शृता॑सश्शृ॑तास॒श्च । [116]
य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ ।
स्व॑र्यन्तो॒ नापे॑क्षन्ते ।
इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः ।
भट्टभास्कर-टीका
अशृतास इति ॥
अशृतासो ऽपक्वा बाल-मूकादयः शृतासः पक्वाः शृतवन्तः
यज्वानः श्रुति-स्मृति-विहित-कर्मानुष्ठायिनो
ऽयज्वनस् तद्-विपरीतास्
ते सर्वेऽपि स्वर् यन्तो नापेक्षन्ते - हेतौ शतृप्रत्ययः -
स्वर्गगमनार्थम् अन्यन् नापेक्षन्ते,
वक्ष्यमाण-ज्ञान-व्यतिरेकेणान्यत् किञ्चित् स्वर्ग-गमन-साधनं नापेक्षन्ते,
तेषां तद् एव पर्याप्तम् इति भावः ।
किं पुनस् तद् इत्याह -
इन्द्रम् अग्निं च ये विदुः शचीपतिं स्वाहापतिं च ये यथावज् जानन्ति ।
यद् वा - पूर्वोक्तं ब्रह्म-लक्षणम् ईश्वरम् आरुण-केतुकं चाग्निं
ये यथार्थेन जानन्ति
तेषां तद् एव ज्ञानं सर्व-श्रेयस्-साधनम् इति ॥१३॥
सिक॑ता इव सय्ँ॒यन्ति॑ ।
र॒श्मिभि॑स्समु॒दीरि॑ताः ।
अ॒स्माल्लो॒काद॑मुष्मा॒च्च ।
ऋ॒षिभि॑रदात्पृ॒श्निभिः॑ ।
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ ।
येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् ।
[117]
य॒मो द॑दात्वव॒सान॑मस्मै ।
नृमु॑णन्तु नृपा॒त्वर्यः॑ ।
अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः ।
कु॒मारी॑षु क॒नीनी॑षु ।
जा॒रिणी॑षु च॒ ये हि॒ताः ।
रेतः॑पीता॒ आण्ड॑पीताः ।
अड्गा॑रेषु च॒ ये हु॒ताः ।
उ॒भया॑न्पुत्र॑पौत्र॒कान् ।
यु॒वे॒ऽहय्ँय॒मराज॑गान् ।
श॒तमिन्नु श॒रदः॑ ।
[118]
अदो॒ यद्ब्रह्म॑ विल॒बम् ।
पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।
वरु॑ण॒स्याश्वि॑नोर॒ग्नेः ।
म॒रुता॑ञ्च वि॒हाय॑साम् ।
का॒म॒प्र॒यव॑णम्मे अस्तु ।
स ह्ये॑वास्मि॑ स॒नात॑नः ।
इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् ।
पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ [119]