अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः ।
सर्वे॑षु यज्ञक्र॒तुष्विति॑ ।
अथ॑ ह स्मा हारु॒णस्स्वा॑यं॒भुवः॑ ।
सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे ।
नाना॒ वा ए॒तेषाव्ँ॑ वी॒र्या॑णि ।
कम॒ग्निञ्चि॑नुते ।
[106]
स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
[107]
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न इति॑ ।
वृषा॒ वा अ॒ग्निः ।
वृषा॑णौ॒ सँस्फा॑लयेत् ।
ह॒न्येता॑स्य य॒ज्ञः ।
तस्मा॒न्नानु॒षज्यः॑ ।
सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत ।
उ॒त्त॒र॒वे॒द्याँ ह्य॑ग्निश्ची॒यते॑ ।
प्र॒जाका॑मश्चिन्वीत ।
[108]
प्रा॒जा॒प॒त्यो वा ए॒षो॑ऽग्निः ।
प्रा॒जा॒प॒त्याः प्र॒जाः ।
प्र॒जावा॑न्भवति ।
य ए॒वव्ँ वेद॑ ।
प॒शुका॑मश्चिन्वीत ।
सं॒ज्ञानव्ँ॒ वा ए॒तत्प॑शू॒नाम् ।
यदापः॑ ।
प॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निञ्चि॑नुते ।
प॒शु॒मान् भ॑वति ।
य ए॒वव्ँ वेद॑ ।
[109]
वृष्टि॑कामश्चिन्वीत ।
आपो॒ वै वृष्टिः॑ ।
प॒र्जन्यो॒ वर्षु॑को भवति ।
य ए॒वव्ँ वेद॑ ।
आ॒म॒या॒वी चि॑न्वीत ।
आपो॒ वै भे॑ष॒जम् ।
भे॒ष॒जमे॒वास्मै॑ करोति ।
सर्व॒मायु॑रेति ।
अ॒भि॒चरँ॑श्चिन्वीत ।
वज्रो॒ वा आपः॑ ।
[110]
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति ।
स्तृ॒णु॒त ए॑नम् ।
तेज॑स्कामो॒ यश॑स्कामः ।
ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत ।
ए॒ताव॒द्वावा॑स्ति ।
याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ ।
तदव॑रुन्धे ।
१ अरुणकेतुकचयन्ते चर्या
विश्वास-प्रस्तुतिः
तस्यै॒तद्व्र॒तम् ।
वर्ष॑ति॒ न धा॑वेत् ।
अ॒मृतव्ँ॒ वा आपः॑ ।
अ॒मृत॒स्यान॑न्तरित्त्यै +++(=अबाधाय)+++ ।
नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् ।
न निष्ठी॑वेत् ।
न वि॒वस॑नस् स्नायात् ।
गुह्यो॒ वा ए॒षो॑ऽग्निः +++(यो ऽद्भ्य उत्पन्नः)+++ ।
ए॒तस्या॒ग्नेर् अन॑ति-दाहाय ।
न पु॑ष्कर-प॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे॑त् ।
ए॒तस्या॒ग्नेर् अन॑भ्यारोहाय ।
न कूर्म॒स्याश्नी॑यात् ।
नोद॒कस्य +++(जीवस्य)+++।
+++(फलश्रुतिः - )+++ अ॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति ।
अ॒घातु॑का॒ आपः॑ - य ए॒तम् अ॒ग्निञ् चि॑नु॒ते, य उ॑ चैनम् ए॒वव्ँ वेद॑ ।
मूलम्
तस्यै॒तद्व्र॒तम् ।
वर्ष॑ति॒ न धा॑वेत् ।
[111]
।
अ॒मृतव्ँ॒ वा आपः॑ ।
अ॒मृत॒स्यान॑न्तरित्त्यै ।
नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् ।
न निष्ठी॑वेत् ।
न वि॒वस॑नस्स्नायात् ।
गुह्यो॒ वा ए॒षो॑ऽग्निः ।
ए॒तस्या॒ग्नेरन॑तिदाहाय ।
न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे॑त् ।
ए॒तस्या॒ग्नेरन॑भ्यारोहाय ।
न कूर्म॒स्याश्नी॑यात् ।
नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति ।
अ॒घातु॑का॒ आपः॑ ।
य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
[112]
(नाप्सु मूत्र-पुरीषङ् कुर्यात् ।
न निष्ठीवेत् ।
न विवसनस् स्नायात् ।
गुह्यो वा एषोऽग्निः ।
एतस्याग्नेरनतिदाहाय ।
न पुष्करपर्णानि हिरण्यं वाऽधितिष्ठेत् ।
एतस्याग्नेरनभ्यारोहाय ।
न कूर्मस्याश्नीयात् ।
नोदकस्याघातुकान्येनमोदकानि भवन्ति ।
अघातुका आपः ।
)