जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा ।
अ॒पां पू॑रयति ।
अ॒पाँ स॑र्व॒त्वाय॑ ।
पु॒ष्क॒र॒प॒र्णँ रु॒क्मं पुरु॑ष॒मित्युप॑दधाति ।
तपो॒ वै पु॑ष्करप॒र्णम् ।
स॒त्यँ रु॒क्मः ।
अ॒मृतं॒ पुरु॑षः ।
ए॒ताव॒द्वावा॑स्ति ।
याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ ।
[103]
तदव॑रुन्धे ।
कू॒र्ममुप॑दधाति ।
अ॒पामे॒व मेध॒मव॑रुन्धे ।
अथो॑ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
आप॑मापाम॒पस्सर्वाः॑ ।
अ॒स्माद॒स्मादि॒तोऽमुतः॑ ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒हस॑ञ्चस्क॒रर्धि॑या॒ इति॑ ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
लो॒कं पृ॑ण च्छि॒द्रं पृ॑ण ।
[104]
यास्ति॒स्रः प॑रम॒जाः ।
इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ ।
पञ्च॒ चित॑य॒ उप॑दधाति ।
पाङ्क्तो॒ऽग्निः ।
यावा॑ने॒वाग्निः ।
तञ्चि॑नुते ।
लो॒कम्पृ॑णया द्वि॒तीया॒मुप॑दधाति ।
पञ्च॑पदा॒ वै वि॒राट् ।
तस्या॒ वा इ॒यं पादः॑ ।
अ॒न्तरि॑क्षं॒ पादः॑ ।
द्यौः पादः॑ ।
दिशः॒ पादः॑ ।
प॒रोर॑जाः॒ पादः॑ ।
वि॒राज्ये॒व प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑चैनमे॒वव्ँ वेद॑ ॥ [105]