१ अब्-इष्टक-ब्राह्मणम्
चतु॑ष्टय्य॒ आपो॑ गृह्णाति ।
च॒त्वारि॒ वा अ॒पाँ रू॒पाणि॑ ।
मेघो॑ वि॒द्युत् ।
स्त॒न॒यि॒त्नुर्वृ॒ष्टिः ।
तान्ये॒वाव॑ रुन्धे ।
आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ।
ताः पु॒रस्ता॒दुप॑दधाति ।
ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ ।
मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
तस्मा॑न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ।
[98]
कूप्या॑ गृह्णाति ।
ता द॑क्षिण॒त उप॑दधाति ।
ए॒ता वै ते॑ज॒स्विनी॒रापः॑ ।
तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति ।
तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः ।
स्था॒व॒रा गृ॑ह्णाति ।
ताः प॒श्चादुप॑दधाति ।
प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति ।
वह॑न्तीर्गृह्णाति ।
[99]
ता उ॑त्तर॒त उप॑दधाति ।
ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः ।
ओज॑ ए॒वास्यो॑त्तर॒तो द॑धाति ।
तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः ।
सं॒भा॒र्या गृ॑ह्णाति ।
ता मध्य॒ उप॑दधाति ।
इ॒यव्ँ वै सं॑भा॒र्याः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
प॒ल्व॒ल्या गृ॑ह्णाति ।
ता उ॒परि॑ष्टादु॒पाद॑धाति ।
[100]
अ॒सौ वै प॑ल्व॒ल्याः ।
अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ।
दि॒क्षूप॑दधाति ।
दि॒क्षु वा आपः॑ ।
अन्नव्ँ॒ वा आपः॑ ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ।
२ अरुण-केतुक-ब्राह्मणम्
तव्ँ वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋषयो॑ऽचिन्वन् ।
तस्मा॑दारुणके॒तुकः॑ ।
[101]
तदे॒षाऽभ्यनू॑क्ता ।
के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाँ श॒तधा॑हि ।
स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ।
श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥ [102]