२३ अबिष्टका-ब्राह्मणम्

आपो॒ वा इ॒दमा॑सन्त्सलि॒लमे॒व ।
स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् ।
तस्यान्त॒र्मन॑सि काम॒स्सम॑वर्तत ।
इदँ सृ॑जेय॒मिति॑ ।
तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति ।
तद्वा॒चा व॑दति ।
तत्कर्म॑णा करोति ।
तदे॒षाऽभ्यनू॑क्ता ।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ।
मन॑सो॒ रेतः॑ प्रथ॒मय्ँयदासी॑त् ।
[89]

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् ।
हृ॒ति प्र॒दीष्या॑ क॒वयो॑ मनी॒षेति॑ ।
उपै॑न॒न्तदुप॑नमति ।
यत्का॑मो॒ भव॑ति ।
य ए॒वव्ँ वेद॑ ।
स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ।
शरी॑रमधूनुत ।
तस्य॒ यन्माँ॒समासी॑त् ।
ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ।
[90]

ये नखाः॑ ।
ते वै॑खान॒साः ।
ये वालाः॑ ।
ते वा॑लखि॒ल्याः ।
यो रसः॑ ।
सो॑ऽपाम् ।
अ॒न्त॒र॒तः कू॒र्मं भू॒तँ सर्प॑न्तम् ।
तम॑ब्रवीत् ।
मम॒ वै त्वङ्माँ॒सा ।
सम॑भूत् ।
[91]

नेत्य॑ब्रवीत् ।
पूर्व॑मे॒वाहमि॒हास॒मिति॑ ।
तत्पुरु॑षस्य पुरुष॒त्वम् ।
स स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् ।
भू॒त्वोद॑तिष्ठत् ।
तम॑ब्रवीत् ।
त्वव्ँ वै पूर्वँ॑ सम॑भूः ।
त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ ।
स इ॒त आ॒दायापः॑ ।
[92]

अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् ।
ए॒वाह्ये॒वेति॑ ।
तत॑ आदि॒त्य उद॑तिष्ठत् ।
सा प्राची॒ दिक् ।
अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् ।
ए॒वाह्यग्न॒ इति॑ ।
ततो॒ वा अ॒ग्निरुद॑तिष्ठत् ।
सा द॑क्षि॒णा दिक् ।
अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।
ए॒वा हि वायो॒ इति॑ ।
[93]

ततो॑ वा॒युरुद॑तिष्ठत् ।
सा प्र॒तीची॒ दिक् ।
अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् ।
ए॒वाहीन्द्रेति॑ ।
ततो॒ वा इन्द्र॒ उद॑तिष्ठत् ।
सोदी॑ची॒ दिक् ।
अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् ।
ए॒वाहि पूष॒न्निति॑ ।
ततो॒ वै पू॒षोद॑तिष्ठत् ।
सेयन्दिक् ।
[94]

अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् ।
ए॒वा हि देवा॒ इति॑ ।
ततो॑ देवमनु॒ष्याः पि॒तरः॑ ।
ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् ।
सोर्ध्वा दिक् ।
या वि॒प्रुषो॑ वि॒परा॑पतन् ।
ताभ्योऽसु॑रा॒ रक्षाँ॑सि पिशा॒चाश्चोद॑तिष्ठन् ।
तस्मा॒त्ते परा॑ऽभवन् ।
वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् ।
तदे॒षाऽभ्यनू॑क्ता ।
[95]

आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भ॒माय॑न् ।
दक्ष॒न्दधा॑ना ज॒नय॑न्तीस्स्वय॒म्भुम् ।
तत॑ इ॒मेऽध्यसृ॑ज्यन्त॒ सर्गाः॑ ।
अद्भ्यो॒ वा इ॒दँ सम॑भूत् ।
तस्मा॑दि॒दँ सर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ ।
तस्मा॑दि॒दँ सर्वँ॒ शिथि॑लमि॒वाऽध्रुव॑मिवाभवत् ।
प्र॒जाप॑ति॒र्वाव तत् ।
आ॒त्मना॒ऽऽत्मान॑व्विं॒धाय॑ ।
तदे॒वानु॒ प्रावि॑शत् ।
तदे॒षाऽभ्यनू॑क्ता ।
[96]

वि॒धाय॑ लो॒कान् वि॒धाय॑ भू॒तानि॑ ।
वि॒धाय॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ।
आ॒त्मना॒ऽऽत्मान॑म॒भि सव्ँ वि॑वे॒शेति॑ ।
सर्व॑मे॒वेदमा॒प्त्वा ।
सर्व॑मव॒रुध्य॑ ।
तदे॒वानु॒ प्रवि॑शति ।
य ए॒वव्ँ वेद॑ ॥ [97]