०२ शिष्टम्

इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः ।
तदे॒षाऽभ्यनू॑क्ता ।
अ॒पाँ रस॒मुद॑यँसन् ।
सूर्ये॑ शु॒क्रँ स॒माभृ॑तम् ।
अ॒पाँ रस॑स्य॒ यो रसः॑ ।
तव्ँ वो॑ गृह्णाम्युत्त॒ममिति॑ ।
इ॒मे वै लो॒का अ॒पाँ रसः॑ ।
ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः ।
जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा ।
अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ।
[84]

पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सँस्ती॒र्य ।
तस्मि॑न्विहा॒यसे ।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्प्रणी॒तेयम॒ग्निश्चीयते॑ ।
साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते॑ ।
अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः ।
तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
[85]

अथो॑ आहुः ।
सर्वे॑षु यज्ञक्र॒तुष्विति॑ ।
ए॒तद्ध॑ स्म॒ वा आ॑हुश्शण्डि॒लाः ।
कम॒ग्निञ्चि॑नुते ।
स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
सव्ँ॒व॒त्स॒रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः ।
अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
[86]

ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः ।
प्रा॒णान्प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
ब्रह्म॑ प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः ।
शरी॑रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ।
[87]

इ॒माल्ँ लो॒कान्प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न इति॑ ।
य ए॒वासौ ।
इ॒तश्चा॒मुत॑श्चाव्यतीपा॒ती ।
तमिति॑ ।
यो॑ऽग्नेर्मि॑थू॒या वेद॑ ।
मि॒थु॒न॒वान्भ॑वति ।
आपो॒ वा अ॒ग्नेर्मि॑थू॒याः ।
मि॒थु॒न॒वान्भ॑वति ।
य ए॒वव्ँ वेद॑ ॥ [88]