२१ अबिष्टकोपधानम्

आप॑मापाम॒पस्सर्वाः॑ ।
अ॒स्माद॒स्मादि॒तोऽमुतः॑ ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒हस॑ञ्चस्क॒रर्धि॑या ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
मरी॑च्यात्मानो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्वः॑ ।
[74]

दे॒वीः प॑र्जन्य॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
अ॒पाश्न्यु॑ष्णिम॒पारक्षः॑ ।
अ॒पाश्न्यु॑ष्णिम॒पारघ॑म् ।
अपा॑घ्रा॒मप॑ चा॒वर्ति॑म् ।
अप॑ दे॒वीरि॒तोहि॑त ।
वज्र॑न्दे॒वीरजी॑ताँश्च ।
भुव॑नन्देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिन्दे॒वीम् ।
योनि॑नोर्ध्वमु॒दीष॑त ।
[75]

०८ भद्रं कर्णेभिः ...{Loading}...

भद्रं᳓ क᳓र्णेभिः शृणुयाम देवा
भद्रं᳓ पश्येमाक्ष᳓भिर् य᳓जत्राः+++(=यष्टव्याः)+++ ।
स्थिरै᳓र् अ᳓ङ्गैस् तुष्टुवाँ᳓सस्+++(=स्तुवन्तः)+++ तनू᳓भिर्
व्य᳓शेम+++(=प्राप्नुयाम)+++ देव᳓-हितं य᳓द् आ᳓युः॥

008 ...{Loading}...

अधिमन्त्रम् - sa
  • देवता - विश्वेदेवाः
  • ऋषिः - गोतमो राहूगणः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

भद्रं᳓ क᳓र्णेभिः शृणुयाम देवा
भद्र᳓म् पश्येम अक्ष᳓भिर् यजत्राः
स्थिरइ᳓र् अ᳓ङ्गैस् तुष्टुवां᳓सस् तनू᳓भिर्
वि᳓ अशेम देव᳓हितं य᳓द् आ᳓युः

Vedaweb annotation

Strata
Normal on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M


Morph
bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}

kárṇebhiḥ ← kárṇa- (nominal stem)
{case:INS, gender:M, number:PL}

śr̥ṇuyāma ← √śru- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

akṣábhiḥ ← ákṣi ~ akṣán- (nominal stem)
{case:INS, gender:N, number:PL}

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

paśyema ← √paś- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

yajatrāḥ ← yájatra- (nominal stem)
{case:VOC, gender:M, number:PL}

áṅgaiḥ ← áṅga- (nominal stem)
{case:INS, gender:N, number:PL}

sthiraíḥ ← sthirá- (nominal stem)
{case:INS, gender:N, number:PL}

tanū́bhiḥ ← tanū́- (nominal stem)
{case:INS, gender:F, number:PL}

tuṣṭuvā́ṁsaḥ ← √stu- (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:ACT}

aśema ← √naś- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

deváhitam ← deváhita- (nominal stem)
{case:NOM, gender:N, number:SG}

ví ← ví (invariable)

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।
स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥

Hellwig Grammar
  • bhadraṃbhadrambhadra
  • [noun], accusative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • karṇebhiḥkarṇa
  • [noun], instrumental, plural, masculine
  • “ear; Karṇa; karṇa [word]; auricle; fluke; diameter; lobule.”

  • śṛṇuyāmaśru
  • [verb], plural, Present optative
  • “listen; come to know; hear; hear; listen; study; heed; learn.”

  • devādevāḥdeva
  • [noun], vocative, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • bhadrambhadra
  • [noun], accusative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • paśyemākṣabhirpaśyemapaś
  • [verb], plural, Present optative
  • “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”

  • paśyemākṣabhirakṣabhiḥakṣa
  • [noun], instrumental, plural, neuter
  • “eye; akṣa [word]; hole.”

  • yajatrāḥyajatra
  • [noun], vocative, plural, masculine
  • “adorable.”

  • sthirairsthiraiḥsthira
  • [noun], instrumental, plural, neuter
  • “firm; hard; lasting; calm; stable; immovable; firm; strong; sthira [word]; vegetable; potent; steadfast; durable; firm; trustworthy; trustworthy; diligent.”

  • aṅgaisaṅgaiḥaṅga
  • [noun], instrumental, plural, neuter
  • “body part; body; part; limb; extremity; Vedāṅga; section; root; army unit; aṅga [word]; subsection; aṅgamantra; part; body; ingredient.”

  • tuṣṭuvāṃsastuṣṭuvāṃsaḥstu
  • [verb noun], nominative, plural
  • “laud; praise; declare; stu.”

  • tanūbhirtanūbhiḥtanū
  • [noun], instrumental, plural, feminine
  • “body; self; own(a); person; form.”

  • vyvi
  • [adverb]
  • “apart; away; away.”

  • aśema
  • [verb], plural, Present optative
  • “get; reach; enter (a state).”

  • devahitaṃdeva
  • [noun], masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devahitaṃhitamdhā
  • [verb noun], nominative, singular
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • yadyatyad
  • [noun], nominative, singular, neuter
  • “who; which; yat [pronoun].”

  • āyuḥāyus
  • [noun], nominative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

सायण-भाष्यम्

हे देवाः दानादिगुणयुक्ताः सर्वे देवाः कर्णेभिः अस्मदीयैः श्रोत्रैः भद्रं भजनीयं कल्याणं वचनं शृणुयाम युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्राः योगेषु चरुपुरोडाशादिभिर्यष्टव्या देवाः अक्षभिः अक्षिभिरात्मीयैश्चक्षुर्भिः भद्रं शोभनं पश्येम द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् ( ’ इत्यस्यानन्तरं ‘ श्रोत्रचक्षुषोः भद्राभद्रविषयश्रवणदर्शने प्रतिनियते । अतो नित्यं भद्रविषयश्रवणदर्शने स्यातामिति प्रार्थ्यते ’ इत्यधिकम् )। स्थिरैः दृढैः अङ्गैः हस्तपादादिभिरवयवैः तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसः युष्मान् स्तुवन्तः यत् आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तत् व्यशेम प्राप्नुयाम ॥ कर्णेभिः ‘ बहुलं छन्दसि ’ इति भिसः ऐसभावः । अक्षभिः । छन्दस्यपि दृश्यते ’ इति अनङ् स च उदात्तः । यजत्राः । ‘ अमिनक्षि° ’ इत्यादिना यजे: अत्रन्प्रत्ययः । तुष्टुवांसः । ‘ ष्टुञ् स्तुतौ । लिटः क्वसुः । ‘ शर्पूर्वाः खयः’ इति तकारः शिष्यते । अशेम । अशू व्याप्तौ ’ । लिङ्याशिष्यङ्’। यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् ।’ तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥

भट्टभास्कर-टीका

हे देवाः ! उत्तरस्यामृचि श्रूयमाणा इन्द्रादय आमन्त्र्यन्ते । भद्रं भजनीयं कल्याणं वेदाख्यं साङ्गेतिहासपुराणं कर्णेभिः कर्णैः श्रोत्रैः । आचार्यान्तेवासिनां ऋत्विग्यजमानानां वा बहुत्वात् बहुवचनम् । “बहुलं च्छन्दसि” इति भिस ऐसभावः । शृणुयाम युष्मत्प्रसादात् सर्वदा श्रोतुं समर्था भवेम । किञ्च - भद्रं कल्याणं यज्ञादिकर्म च अक्षिभिः चक्षुरिन्द्रियैः पश्येम द्रष्टुं समर्थाः स्यामः । “च्छन्दसि दृश्यते” इत्युदात्तत्वात् । यजत्राः अध्ययनश्रवणैः यागार्हा वयं पश्येम । यजेरत्रन्प्रत्यय औणादिकः । केचिदाहुः - यजनीया देवा एभिरामन्त्र्यन्ते इति । तेषामामन्त्रितनिघातेन भाव्यम् । व्यत्ययेन वा निघाताभावः । बह्वृचास्तु सर्वानुदात्तमेवेच्छन्ति । यथोक्तश्रवणदर्शनसामर्थ्यं प्राप्तुमिदानीमाह - स्थिरैः अविकलैः अङ्गैः अवयवैः चक्षुरादिभिः हस्तादिभिश्च इत्थम्भूताभिः तनूभिः शरीरैर्युक्ता वयं आयुः देवहितं देवेन प्रजापतिना स्थापितं षोडशाधिकशतप्रमाणं, विंशत्यधिकशतप्रमाणं वा । यद्वा - देवेन देवनशीलेन हितं विहितं “शतायुः पुरुषः” इति शतप्रमाणमायुः । “तृतीया कर्मणि” इति पूर्वपदप्रकृतिस्वरत्वम् । ईदृशमायुः यत् यस्मात् व्यशेम विविधं प्राप्नुयाम । अश्नोतेर्व्यत्ययेन परस्मैपदम् । “लिङ्याशिष्यङ्” । यद्वा - विकरणव्यत्ययेन शप् । “अदुपदेशात्” इत्यादिना धातुस्वरः प्रवर्तते । “यद्वृत्तान्नित्यम्” इति निघाताभावः । शृणुयाम च पश्येम चेति चार्थस्य विवक्षितत्वात् शृणुयामेत्यत्र “चादिलोपे विभाषा” इति निघाताभावः । तत्र यासुट उदात्तत्वम् । कश्चिदाह - यद्देवविहितं तद्व्यशेमेति । तस्य “तिङतिङः” इति निघातेन भाव्यम्, विशब्दात् पदात्परत्वात् । पक्षान्तरे तु यद्वृत्तयोगित्वेन निघाताभावे सति “तिङि चोदात्तवति” इति गतेरनुदात्तत्वे “उदात्तवता तिङा” इति समासः । तुष्टुवांसः स्तुतिं कुर्वाणाः । च्छान्दसो लिट् । अध्ययनादिसामर्थ्यादेव भद्रकर्मणि युष्मान् स्तुवन्त इति ॥१॥

Wilson

English translation:

“Let us hear, gods, with our ears, what is good; objects of sacrifice, let us see with our eyes what is good; let us, engaged in your praises, enjoy, with firm limb and (sound) bodies, the term of life granted by the gods.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Devahitam = (singular) Prajāpati, a patriarch or Brahmā

Jamison Brereton

Might we hear (only what is) auspicious with our ears, o gods; might we see (only what is) auspicious with our eyes, o you who are worthy of the sacrifice.
Having praised (you?), with sturdy limbs and bodies might we traverse the lifetime that has been established by the gods.

Griffith

Gods, may we with our ears listen to what is good, and with our eyes see what is good, ye Holy Ones.
With limbs and bodies firm may we extolling you attain the term of life appointed by the Gods.

Geldner

Gutes wollen wir mit Ohren hören, ihr Götter, Gutes mit Augen sehen, ihr Opferwürdige. Mit festen Gliedern und Leibern wollen wir, die wir lobgesungen haben, das gottgesetzte Alter erreichen.

Grassmann

Heilvolles lasst uns mit den Ohren hören, heilvolles schaun mit Augen, hehre Götter, Mit festen Gliedern stehend, festen Leibern, das gottgesetzte Lebensziel erreichen.

Elizarenkova

Прекрасное да услышим мы ушами, о боги!
Прекрасное да увидим мы глазами, о достойные жертв!
Восхвалив вас, с крепкими членами и телами
Мы хотим достигнуть срока жизни, что положен (нам) богами!

अधिमन्त्रम् (VC)
  • विश्वेदेवा:
  • गोतमो राहूगणः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

मनुष्यों को ऐसा करके क्या-क्या करना चाहिये, यह उपदेश अगले मन्त्र में किया है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (यजत्राः) संगम करनेवाले (देवाः) विद्वानो ! आप लोगों के संग से (तनूभिः) बढ़े हुए बलोंवाले शरीर (स्थिरैः) दृढ़ (अङ्गैः) पुष्ट शिर आदि अङ्ग वा ब्रह्मचर्यादि नियमों से (तुष्टुवांसः) पदार्थों के गुणों की स्तुति करते हुए हम लोग (कर्णेभिः) कानों से (यत्) जो (भद्रम्) कल्याणकारक पढ़ना-पढ़ाना है, उसको (शृणुयाम) सुनें-सुनावें (अक्षभिः) बाहरी-भीतरली आँखों से जो (भद्रम्) शरीर और आत्मा का सुख है, उसको (पश्येम) देखें, इस प्रकार उक्त शरीर और अङ्गों से जो (देवहितम्) विद्वानों की हित करनेवाली (आयुः) अवस्था है, उसको (वि) (अशेम) वार-वार प्राप्त होवें ॥ ८ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विद्वान्, आप्त और सज्जनों के संग के विना कोई सत्यविद्या का वचन सत्य-दर्शन और सत्य व्यवहारमय अवस्था को नहीं पा सकता और न इसके विना किसी का शरीर और आत्मा दृढ़ हो सकता है, इससे सब मनुष्यों को यह उक्त व्यवहार वर्त्तना योग्य है ॥ ८ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे यजत्रा देवा ! भवत्सङ्गेन तनूभिः स्थिरैरङ्गैस्तुष्टुवांसः सन्तो वयं कर्णेभिर्यद्भद्रं तच्छृणुयामाक्षभिर्यद्भद्रं तत्पश्येम एवं तनूभिः स्थिरैरङ्गैर्यद्देवहितमायुस्तदशेम ॥ ८ ॥

दयानन्द-सरस्वती (हि) - विषयः

मनुष्यैरेवं कृत्वा किं किमाचरणीयमित्युपदिश्यते ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (भद्रम्) कल्याणकारकमध्ययनाध्यापनम् (कर्णेभिः) श्रोत्रैः। अत्र ऐसभावः। (शृणुयाम) (देवाः) विद्वांसः (भद्रम्) शरीरात्मसुखम् (पश्येम) (अक्षभिः) बाह्याभ्यन्तरैर्नेत्रैः। छन्दस्यपि दृश्यते। (अष्टा०७.१.७६) अनेन सूत्रेणाक्षिशब्दस्य भिस्यनङादेशः। (यजत्रा) यजन्ति सङ्गच्छन्ते ये ते। अमिनक्षियजिवधिपतिभ्योऽत्रन्। (उणा०३.१०३) अनेनौणादिकसूत्रेण यजधातोरत्रन्। (स्थिरैः) निश्चलैः (अङ्गैः) शिर आदिभिर्ब्रह्मचर्यादिभिर्वा (तुष्टुवांसः) पदार्थगुणान् स्तुवन्तः (तनूभिः) विस्तृतबलैः शरीरैः (वि) विविधार्थे (अशेम) प्राप्नुयाम। अत्राऽशूङ् धातो लिङ्याशिष्यङ् (अष्टा०३.१.८६) इत्यङ्। सार्वधातुकसंज्ञया लिङः सलोप इति सकारलोपः। आर्द्धधातुकसंज्ञया शपोऽभावः। (देवहितम्) देवेभ्यो विद्वद्भ्यो हितम् (यत्) (आयुः) जीवनम् ॥ ८ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - नहि विदुषां सत्पुरुषाणामाप्तानां सङ्गेन विना कश्चित्ससत्यविद्यावचः सत्यं दर्शनं सत्यनिष्ठामायुश्च प्राप्तुं शक्नोति, न ह्येतैर्विना कस्यचिच्छरीमात्मा च दृढो भवितुं शक्यस्तस्मादेतत्सर्वैर्मनुष्यैः सदाऽनुष्ठेयम् ॥ ८ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - विद्वान, आप्त व सज्जनांच्या संगतिशिवाय कुणीही सत्यविद्येची वाणी, सत्यदर्शन व व्यवहार प्राप्त करू शकत नाही व त्यांच्याशिवाय कुणाचे शरीर व आत्मा दृढ होऊ शकत नाही, त्यासाठी सर्व माणसांनी वरील व्यवहाराप्रमाणे वागणे योग्य आहे. ॥ ८ ॥

०६ स्वस्ति न ...{Loading}...

स्वस्ति᳓ न इ᳓न्द्रो वृद्ध᳓-श्रवाः
स्वस्ति᳓ नः पूषा᳓ विश्व᳓-वेदाः+++(=ज्ञानानि)+++ ।
स्वस्ति᳓ नस् ता᳓र्क्ष्यो अ᳓रिष्ट-नेमिः
स्वस्ति᳓ नो बृ᳓हस्प᳓तिर् दधातु ॥

006 ...{Loading}...

अधिमन्त्रम् - sa
  • देवता - विश्वेदेवाः
  • ऋषिः - गोतमो राहूगणः
  • छन्दः - विराट्स्थाना
Thomson & Solcum

सुअस्ति᳓ न · इ᳓न्द्रो वृद्ध᳓श्रवाः
सुअस्ति᳓ नः · पूषा᳓ विश्व᳓वेदाः
सुअस्ति᳓ नस् ता᳓र्क्ष्यो अ᳓रिष्टनेमिः
सुअस्ति᳓ नो बृ᳓हस्प᳓तिर् दधातु

Vedaweb annotation

Strata
Normal on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M


Morph
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}

vr̥ddháśravāḥ ← vr̥ddháśravas- (nominal stem)
{case:NOM, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}

svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}

viśvávedāḥ ← viśvávedas- (nominal stem)
{case:NOM, gender:M, number:SG}

áriṣṭanemiḥ ← áriṣṭanemi- (nominal stem)
{case:NOM, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}

tā́rkṣyaḥ ← tā́rkṣya- (nominal stem)
{case:NOM, gender:M, number:SG}

bŕ̥haspátiḥ ← bŕ̥haspáti- (nominal stem)
{case:NOM, gender:M, number:SG}

dadhātu ← √dhā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}

पद-पाठः

स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।
स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥

Hellwig Grammar
  • svasti
  • [noun], accusative, singular, neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • indroindraḥindra
  • [noun], nominative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • vṛddhaśravāḥvṛddhavṛdh
  • [verb noun]
  • “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”

  • vṛddhaśravāḥśravāḥśravas
  • [noun], nominative, singular, masculine
  • “fame; glory; ear.”

  • svasti
  • [noun], accusative, singular, neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • pūṣāpūṣan
  • [noun], nominative, singular, masculine
  • “Pushan; pūṣan [word]; sun.”

  • viśvavedāḥviśva
  • [noun]
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • viśvavedāḥvedāḥvedas
  • [noun], nominative, singular, masculine
  • “property.”

  • svasti
  • [noun], accusative, singular, neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • nasnaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • tārkṣyotārkṣyaḥtārkṣya
  • [noun], nominative, singular, masculine
  • “emerald; Garuda; Shiva.”

  • ariṣṭanemiḥariṣṭa
  • [noun]
  • “safe; unharmed.”

  • ariṣṭanemiḥnemiḥnemi
  • [noun], nominative, singular, masculine
  • “rim; felloe.”

  • svasti
  • [noun], accusative, singular, neuter
  • “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • bṛhaspatirbṛhaspatiḥbṛhaspati
  • [noun], nominative, singular, masculine
  • “Brihaspati; Jupiter; Bṛhaspati.”

  • dadhātudhā
  • [verb], singular, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

सायण-भाष्यम्

वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः इन्द्रः नः अस्माकम् । ‘स्वस्तीत्स्यविनाशनाम ’ ( निरु. ३. २१)। स्वस्ति अविनाशं दधातु विदधातु करोतु । विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः । यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः पूषा पोषको देवः नः अस्माकं स्वस्ति विदधातु । अरिष्टनेमिः । नेमिः इति आयुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा रथचक्रस्य धारा नेमिः । यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं स्वस्ति अविनाशं विदधातु । तथा बृहस्पतिः बृहतां देवानां पालयिता नः अस्माकं स्वस्ति अविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । ‘ विद ज्ञाने’, ‘ विद्लृ लाभे’। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्यो यञ्’ (पा. सू. ४. १. १०५ )। ञित्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टा अरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योः०’ (पा. सू. ६. १. १५७. ग. ) इति सुट्तलोपौ ।’ उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥

भट्टभास्कर-टीका

अथ द्वितीया - स्वस्ति न इति ॥ पूर्वत्र प्रत्यक्षेण प्रार्थिता देवाः । अत्र तु परोक्षेण निर्दिश्य एकैकशः प्रार्थ्यन्ते । नः अस्माकं स्वस्ति अविनाशं अध्ययनादेरविघ्नेन समाप्तिं इन्द्रो दधातु विदधातु वृद्धश्रवाः वृद्धश्रवणः सदा स्तोत्रश्रवणात् । यद्वा - वृद्धैः महात्मभिः सदा श्रूयत इति वृद्धश्रवाः । “गतिकारकपूर्वयोः पूर्वपदप्रकृतिस्वरत्वं च” इति कर्मण्यसुन्(ण्यसिः) । तथा पूषा च स्वस्ति नः दधातु विश्ववेदाः विश्वैर्विद्यते ज्ञायते लभ्यते वेति विश्ववेदाः । पूर्ववदसुन्(सिः) । यद्वा - विश्वानि ज्ञानानि धनानि वा यस्येति बहुव्रीहिः । एवं तार्क्ष्यः अपि नः स्वस्ति दधातु । तार्क्ष्यो नाम छन्दोमयो रथः यः “स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिः” इत्युक्तः । विहगराजो वा । तृक्षस्यापत्यं तार्क्ष्यः “गर्गादिभ्यो यञ्” । अरिष्टनेमिः अनुपक्षीणनेमिः । प्रथिर्नेमिः । बृहस्पतिश्च नः स्वस्ति दधातु । “तद्बृहतोः” सति सुट् । “उभे वनस्पत्यादिषु” इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् ॥२॥

Wilson

English translation:

“May Indra, who listens to much praise, guard our welfare; may Pūṣan, who knows all things, guard our welfare; may Tārkṣya, with unblemished weapons, guard our welfare.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Tārkṣya, son of Tṛkṣa is Garuḍa. He is Ariṣṭanemi, he who has unharmed or irresistible (aṛṣṭa) weapons (nemi, circumerference of a wheel). Ariṣṭanemi is a Prajāpati (Vāyu Purāṇa). Tārkṣya = Aruṇa, the person nified dawn

Jamison Brereton

Well-being for us (may) Indra of strengthened fame (establish);
well-being for us (may) Pūṣan of all possessions;
well-being for us (may) Tārkṣya of indestructible wheel-rims; well-being for us may Br̥haspati establish.

Jamison Brereton Notes

The rigid parallel structure of the four pādas is resolved by the final word of the verse dadhātu, which verb must be supplied for the first three pādas. This rigid structure, svastí naḥ GOD EPITHET, also allows the metrical irregularity of the first two pādas to be kept under strict control. Under Holland & van Nooten Rig Veda edition’s interpretation each of those two pādas has a rest after the s u vastí naḥ opening, with the GOD EPITHET phrase taking the rest of the line. Oldenberg suggests reading trisyllabic indi ra, as often, as well as pū̂ṣā́, with distracted ū. The former seems more likely than the latter, but because of the parallelism of a and b in Holland & van Nooten Rig Veda edition’s reading, I prefer theirs.

Griffith

Illustrious far and wide, may Indra prosper us: may Pusan prosper us, the Master of all wealth.
May Tarksya with uninjured fellies prosper us: Brhaspati vouchsafe to us prosperity.

Geldner

Glück soll uns Indra von hohem Ruhme, Glück uns Pusan, der alle Güter hat, Glück uns Tarksya mit unversehrtem Radkranz , Glück soll uns Brihaspati bringen.

Grassmann

Heil schenke uns Indra, der hochberühmte, Heil uns Puschan der alles besitzende, Heil uns Tārkschja [das Sonnenross], dessen Radkranz unversehrt bleibt, Heil schenke uns Brihaspati.

Elizarenkova

Благо – нам Индра с возросшей славой,
Благо – нам Пушан, у кого все достояние,
Благо – вам Таркшья с невредимым ободом,
Благо пусть даст нам Брихаспати!

अधिमन्त्रम् (VC)
  • विश्वेदेवा:
  • गोतमो राहूगणः
  • स्वराड्बृहती
  • मध्यमः
दयानन्द-सरस्वती (हि) - विषयः

फिर मनुष्यों को किस प्रकार ईश्वर की प्रार्थना करके किसकी इच्छा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (वृद्धश्रवाः) संसार में जिसकी कीर्त्ति वा अन्न आदि सामग्री अति उन्नति को प्राप्त है वह (इन्द्रः) परम ऐश्वर्यवान् परमेश्वर (नः) हम लोगों के लिये (स्वस्ति) शरीर के सुख को (दधातु) धारण करावे (विश्ववेदाः) जिसको संसार का विज्ञान और जिसका सब पदार्थों में स्मरण है, वह (पूषा) पुष्टि करनेवाला परमेश्वर (नः) हम लोगों के लिये (स्वस्ति) धातुओं की समता के सुख को धारण करावे जो (अरिष्टनेमिः) दुःखों का वज्र के तुल्य विनाश करनेवाला (तार्क्ष्यः) और जानने योग्य परमेश्वर है, वह (नः) हम लोगों के लिये (स्वस्ति) इन्द्रियों की शान्तिरूप सुख को धारण करावे और जो (बृहस्पतिः) वेदवाणी का प्रभु परमेश्वर है, वह (नः) हम लोगों को (स्वस्ति) विद्या से आत्मा के सुख को धारण करावे ॥ ६ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ईश्वर की प्रार्थना और अपने पुरुषार्थ के विना किसी को शरीर, इन्द्रिय और आत्मा का परिपूर्ण सुख नहीं होता, इससे उसका अनुष्ठान अवश्य करना चाहिये ॥ ६ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: वृद्धश्रवा इन्द्रो नः स्वस्ति दधातु विश्ववेदाः पूषा नः स्वस्ति दधातु। अरिष्टनेमिस्तार्क्ष्यो नः स्वस्ति दधातु बृहस्पतिर्नः स्वस्ति दधातु ॥ ६ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्मनुष्यैः कथं प्रार्थित्वा किमेष्टव्यमित्युपदिश्यते ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (स्वस्ति) शरीरसुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यवान् परमेश्वरः (वृद्धश्रवाः) वृद्धं श्रवः श्रवणमन्नं वा सृष्टौ यस्य सः (स्वस्ति) धातुसाम्यसुखम् (नः) अस्मभ्यम् (पूषा) पुष्टिकर्त्ता (विश्ववेदाः) विश्वस्य वेदो विज्ञानं विश्वेषु सर्वेषु पदार्थेषु वेदः स्मरणं वा यस्य सः (स्वस्ति) इन्द्रियशान्तिसुखम् (नः) अस्मभ्यम् (तार्क्ष्यः) तृक्षितुं वेदितुं योग्यस्तृक्ष्यः। तृक्ष्य एव तार्क्ष्यः। अत्र गत्यर्थात् तृक्ष धातोर्ण्यत्। ततः स्वार्थेऽण्। (अरिष्टनेमिः) अरिष्टानां दुःखानां नेमिर्वज्रवच्छेता। नेमिरिति वज्रनामसु पठितम्। (निघं०२.२०) (स्वस्ति) विद्ययाऽऽत्मसुखम् (नः) अस्मभ्यम् (बृहस्पतिः) बृहत्या वेदवाचः पतिः (दधातु) धारयतु ॥ ६ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - न हीश्वरप्रार्थनास्वपुरुषार्थाभ्यां विना कस्यचिच्छरीरेन्द्रियात्मसुखं सम्पूर्णं सम्भवति तस्मादेतदनुष्ठेयम् ॥ ६ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - ईश्वराची प्रार्थना व आपल्या पुरुषार्थाशिवाय कुणालाही शरीर, इंद्रिये व आत्मा यांचे परिपूर्ण सुख मिळत नाही, त्यामुळे त्याचे अनुष्ठान अवश्य करावे. ॥ ६ ॥

के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाँ श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा न॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ।
[76]