२० अबिष्टकोपधानम्

इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यैरु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् ।
संज्ञानव्ँवः प॑श्चादि॒ति ।
आ॒दि॒त्यस्सर्वो॒ग्निः पृ॑थि॒व्याम् ।
वा॒युर॒न्तरि॑क्षे ।
सूर्यो॑ दि॒वि ।
च॒न्द्रमा॑ दि॒क्षु ।
नक्ष॑त्राणि॒ स्वलो॒के ।
ए॒वाह्ये॑व ।
ए॒वाह्य॑ग्ने ।
ए॒वा हि वा॑यो ।
ए॒वाही॑न्द्र ।
ए॒वा हि पू॑षन् ।
ए॒वा हि दे॑वाः ।
[73]