१८ अष्टपुरुषाग्न्य्-उपधानम्

अथाग्ने॑रष्टपु॑रुष॒स्य ।
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
ओंभूर्भुव॒स्स्वः॑ ।
दिशो वो मिथुनं मा नो मिथु॑नँ रीढ्वम् ॥ [71]