१४ आदित्योपस्थानम्

योऽसौ॑ त॒पन्नु॒देति॑ ।
स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दायो॒देति॑ ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णाना॒दायोद॑गाः ।
अ॒सौ यो॑ऽस्त॒मेति॑ ।
स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दाया॒स्तमेति॑ ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णाना॒दायास्त॑ङ्गाः ।
अ॒सौ य आ॒पूर्य॑ति ।
स सर्वे॑षां भू॒तानां॑ प्रा॒णैरा॒पूर्य॑ति ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः ।
अ॒सौ यो॑ऽप॒क्षीय॑ति ।
स सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑क्षीयति ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑क्षेष्ठाः ।
[64]

अ॒मूनि॒ नक्ष॑त्राणि ।
सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ।
इ॒मे मासा॑श्चार्धमा॒साश्च॑ ।
सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ।
इ॒म ऋ॒तवः॑ ।
सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ।
[65]

अ॒यँ सव्ँ॑वत्स॒रः ।
सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
इ॒दमहः॑ ।
सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
ओं भूर्भुव॒स्स्वः॑ ।
एतद्वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ [66]