अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् ।
अ॒ष्टप॑त्नीमि॒मां मही॑म् ।
अ॒हव्ँ वेद॒ न मे॑ मृत्युः ।
न चामृ॑त्युर॒घाह॑रत् ।
अ॒ष्टयो॑न्य॒ष्टपु॑त्रम् ।
अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् ।
अ॒हव्ँ वेद॒ न मे॑ मृत्युः ।
नचामृ॑त्युर॒घाह॑रत् ।
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् ।
अ॒ष्टप॑त्नीम॒मून्दिव॑म् ।
[61]
अ॒हव्ँ वेद॒ न मे॑ मृत्युः ।
न चामृ॑त्युर॒घाह॑रत् ।
सु॒त्रामा॑णं म॒हीमू॒षु ।
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् ।
अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः॑ ।
अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ।
अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः ।
ये जा॒तास्त॒न्वः॑ परि॑ ।
दे॒वा(2)म् उप॑प्रैत्स॒प्तभिः॑ ।
[62]
प॒रा॒मा॒र्ता॒ण्डमास्य॑त् ।
स॒प्तभिः॑ पु॒त्रैरदि॑तिः ।
उप॒प्रैत्पू॒र्व्यय्ँ॑ युग॑म् ।
प्र॒जायै॑ मृ॒त्यवे त॑त् ।
प॒रा॒मा॒र्ता॒ण्डमाभ॑र॒दिति॑ ।
ताननुक्र॑मिष्या॒मः ।
मि॒त्रश्च॒ वरु॑णश्च ।
धा॒ता चा॑र्य॒मा च॑ ।
अँश॑श्च॒ भग॑श्च ।
इन्द्रश्च विवस्वाँ॑श्चेत्ये॒ते ।
हि॒र॒ण्य॒ग॒र्भो हँ॒सश्शु॑चि॒षत् ।
ब्रह्म॑ जज्ञा॒नन्तदित्प॒दमिति॑ ।
ग॒र्भः प्रा॑जाप॒त्यः ।
अथ॒ पुरु॑षस्स॒प्त पुरु॑षः ॥ [63]