प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते ।
पि॒तैषां॑ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् ।
म॒हस्स॑मु॒द्रव्ँवरु॑णस्ति॒रोद॑धे ।
धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ॑म् ।
प॒वित्र॑न्ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते॑ ।
प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒र्नतदा॒मो अ॑श्नुते ।
शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ।
ब्र॒ह्मा दे॒वाना॑म् ।
अस॑तस्स॒द्ये तत॑क्षुः ।
[48]
ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् ।
सर्वेऽत्रयो अ॑गस्त्य॒श्च ।
नक्ष॑त्रै॒श्शङ्कृ॑तोऽवसन् ।
अथ॑ सवितु॒श्श्यावाश्व॒स्यावर्ति॑कामस्य ।
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा ।
नक्त॒न्ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति ।
तत्स॑वि॒तुर्वरे॑ण्यम् ।
भर्गो॑ दे॒वस्य॑ धीमहि ।
[49]
धियो॒ यो नः॑ प्रचो॒दया॑त् ।
तत्स॑वि॒तुर्वृ॑णीमहे ।
व॒यन्दे॒वस्य॒ भोज॑नम् ।
श्रेष्ठँ॑ सर्व॒धात॑मम् ।
तुरं॒ भग॑स्य धीमहि ।
अपा॑गूहत सविता॒ तृभी॑न् ।
सर्वा॑न्दि॒वो अन्ध॑सः ।
नक्त॒न्तान्य॑भवन्दृ॒शे ।
अस्थ्य॒स्थ्ना संभ॑विष्यामः ।
नाम॒ नामै॒व ना॒म मे॑ ।
[50]
नपुँस॑कं॒ पुमाँ॒स्त्र्य॑स्मि ।
स्थाव॑रोऽस्म्यथ॒ जड्ग॑मः ।
य॒जेयक्षि॒ यष्टा॒हे च॑ ।
मया॑ भू॒तान्य॑यक्षत ।
प॒शवो॑ मम॑ भूता॒नि ।
अनूबन्ध्योऽस्म्य॑हं वि॒भुः ।
स्त्रिय॑स्स॒तीः ।
ता उ॑ मे पुँ॒स आ॑हुः ।
पश्य॑दक्ष॒ण्वान्न विचे॑तद॒न्धः ।
क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत ।
[51]
यस्तावि॑जा॒नात्स॑वि॒तुः पि॒ताऽस॑त् ।
अ॒न्धो मणिम॑विन्दत् ।
तम॑नङ्गुलि॒राव॑यत् ।
अ॒ग्री॒वः प्रत्य॑मुञ्चत् ।
तमजि॑ह्वा अ॒सश्च॑त ।
ऊर्ध्वमूलम॑वाक्छा॒खम् ।
वृ॒क्षय्ँ यो॑ वेद॒ सम्प्र॑ति ।
न स जातु जन॑श्श्रद्द॒ध्यात् ।
मृ॒त्युर्मा॑ मार॒यादि॑तिः ।
हसितँ रुदि॑तङ्गी॒तम् ।
[52]
वीणा॑पणव॒लासि॑तम् ।
मृ॒तञ्जी॒वञ्च॑ यत्कि॒ञ्चित् ।
अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ।
अतृ॑ष्यँ॒तृष्य॑ध्यायत् ।
अ॒स्माज्जा॒ता मे॑ मिथू॒चर॑न् ।
पुत्रो निर्ऋत्या॑ वैदे॒हः ।
अ॒चेता॑ यश्च॒ चेत॑नः ।
स॒ तं मणिम॑विन्दत् ।
सो॑ऽनङ्गुलि॒राव॑यत् ।
सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ।
[53]
सोऽजि॑ह्वो अ॒सश्च॑त ।
नैतमृषिव्ँ विदित्वा नग॑रं प्र॒विशेत् ।
य॑दि प्र॒विशेत् ।
मिथौ चरि॑त्वा प्र॒विशेत् ।
तत्संभव॑स्य व्र॒तम् ।
आ॒ तम॑ग्ने र॒थन्ति॑ष्ठ ।
एका॑श्वमेक॒योज॑नम् ।
एकचक्र॑मेक॒धुरम् ।
वा॒तध्रा॑जिग॒तिव्ँ वि॑भो ।
न॒रि॒ष्यति॑ न व्यथते ।
[54]
ना॒स्याक्षो॑ यातु॒ सज्ज॑ति ।
यच्छ्वेता॑न्रोहि॑ताँश्चा॒ग्नेः ।
र॒थे यु॑क्त्वाधि॒तिष्ठ॑ति ।
एकया च दशभिश्च॑ स्वभू॒ते ।
द्वाभ्यामिष्टये विँ॑शत्या॒ च ।
तिसृभिश्च वहसे त्रिँ॑शता॒ च ।
नियुद्भिर्वायविह ता॑ विमु॒ञ्च ॥ [55]