१० संयान्य्-आद्य्-उपधानम्

स॒ह॒स्र॒वृदि॑यं भू॒मिः ।
प॒रव्व्ँ यो॑म स॒हस्र॑वृत् ।
अ॒श्विना॑ भुज्यू॑ नास॒त्या ।
वि॒श्वस्य॑ जग॒तस्प॑ती ।
जाया भूमिः प॑तिर्व्यो॒म ।
मि॒थुन॑न्ता अ॒तुर्य॑थुः ।
पुत्रो बृहस्प॑ती रु॒द्रः ।
स॒रमा॑ इति॑ स्त्रीपु॒मम् ।
शु॒क्रव्ँ वा॑म॒न्यद्य॑ज॒तव्ँ वा॑म॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ।
[41]

विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा वा॑म्पूषणावि॒ह रा॒तिर॑स्तु ।
वासा॑त्यौ चि॒त्रौ जग॑तो नि॒धानौ॑ ।
द्यावा॑भूमी च॒रथ॑स्सँ॒सखा॑यौ ।
ताव॒श्विना॑ रा॒सभा॑श्वा॒ हवं॑ मे ।
शु॒भ॒स्प॒ती॒ आ॒गतँ॑ सू॒र्यया॑ स॒ह ।
त्युग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे ।
र॒यिन्न कश्चि॑न्ममृ॒वा (2) म् अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिः ।
अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ।
[42]

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भिः ।
नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे ।
त्रि॒भीरथै॑श्श॒तप॑द्भि॒ष्षड॑श्वैः ।
स॒वि॒तारव्ँ॒ वित॑न्वन्तम् ।
अनु॑बध्नाति शाम्ब॒रः ।
आपपूर्षम्ब॑रश्चै॒व ।
स॒विता॑ऽरेप॒सो॑ऽभवत् ।
त्यँ सुतृप्तं वि॑दित्वै॒व ।
ब॒हु सो॑म गि॒रव्ँव॑शी ।
[43]

अन्वेति तुग्रोव॑क्रिया॒न्तम् ।
आयसूयान्त्सोम॑तृप्सु॒षु ।
ससङ्ग्रामस्तमो॑द्योऽत्यो॒तः ।
वाचो गाः पि॑पाति॒ तत् ।
स तद्गोभिस्तवा॑त्येत्य॒न्ये ।
र॒क्षसा॑नन्वि॒ताश्च॑ ये ।
अ॒न्वेति॒ परि॑वृत्या॒ स्तः ।
ए॒वमे॒तौ स्थो॑ अश्विना ।
ते ए॒ते द्युः॑पृथि॒व्योः ।
अह॑रह॒गर्भ॑न्दधाथे ।
[44]

तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे ।
पृ॒थि॒व्या अहः॑ ।
दि॒वो रात्रिः॑ ।
ता अवि॑सृष्टौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ।
अ॒ग्निश्चा॑दि॒त्यश्च॑ ।
रा॒त्रेर्व॒त्सः ।
श्वे॒त आ॑दि॒त्यः ।
अह्नो॒ऽग्निः ।
[45]

ता॒म्रो अ॑रु॒णः ।
ता अवि॑सृष्टौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ।
वृ॒त्रश्च॑ वैद्यु॒तश्च॑ ।
अ॒ग्नेर्वृ॒त्रः ।
वै॒द्युत॑ आदि॒त्यस्य॑ ।
ता अवि॑सृष्टौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ।
[46]

उ॒ष्मा च॑ नीहा॒रश्च॑ ।
वृ॒त्रस्यो॒ष्मा ।
वै॒द्यु॒तस्य॑ नीहा॒रः ।
तौ तावे॒व प्रति॑पद्येते ।
सेयँ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ सव्ँव॑सति ।
तस्या॒ वा ए॒तदु॒ल्बण॑म् ।
यद्रात्रौ॑ र॒श्मयः॑ ।
यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण॑म् ।
ए॒वमे॒तस्या॑ उ॒ल्बण॑म् ।
प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ।
य ए॑वव्ँ वे॒द ।
एतमुद्यन्तमपिय॑न्तञ्चे॒ति ।
आदित्यः पुण्य॑स्य व॒त्सः ।
अथ पवि॑त्राङ्गि॒रसः ।
[47]