अग्निः
अग्निश्च जात॑वेदा॒श्च ।
सहोजा अ॑जिरा॒प्रभुः ।
वैश्वानरो न॑र्यापा॒श्च ।
प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः ।
विर्सपेवाष्ट॑मोऽग्नी॒नाम् ।
एतेऽष्टौ वसवः क्षि॑ता इ॒ति ।
यथेर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः ।
नीलार्चिश्च पीतका॑र्चिश्चे॒ति ।
वायुः
भट्टभास्कर-टीका
अथ अनन्तरं वायोरेकादशपुरुषस्य एकादशस्त्रीकस्य उपधानक्रम उच्यते -
पूर्ववत् पुरुषा वेदितव्याः ।
स्त्रियस् तु वायोर्वैद्युत्यो नाम ।
विद्युत एवेति केचित् ।
नामधेयान्य् एव मन्त्राः ।
विश्वास-प्रस्तुतिः
अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
मूलम्
अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
विश्वास-प्रस्तुतिः
प्रभ्राजमाना व्य॑वदा॒ताः ।[34]
याश्च वासु॑किवै॒द्युताः ।
रजताः परु॑षाः श्या॒माः ।
कपिला अ॑तिलो॒हिताः ।
ऊर्ध्वा अवप॑तन्ता॒श्च ।
वैद्युत इ॑त्येका॒दश ।
मूलम्
प्रभ्राजमाना व्य॑वदा॒ताः ।[34]
याश्च वासु॑किवै॒द्युताः ।
रजताः परु॑षाः श्या॒माः ।
कपिला अ॑तिलो॒हिताः ।
ऊर्ध्वा अवप॑तन्ता॒श्च ।
वैद्युत इ॑त्येका॒दश ।
भट्टभास्कर-टीका
प्रभ्राजमानाः प्रकर्षेण विराजमाना व्यवदाता विशेषेणावदाता शुद्धा या इति लिङ्गव्यत्ययः । वासुकिर्वैद्युता वासुकिवद् वर्णतो विद्योतमाना रजता रजतवर्णाः पुरुषा रूक्षाः श्यामाः श्यामच्छायाः कपिलाः कपिलच्छाया अतिलोहिता अतिलोहितप्रभा ऊर्ध्वा ऊर्ध्ववृत्तयो ऽवपतन्ता अधोवृत्तयः । पतेरौणादिको झच् । वैद्युतः विद्योतनशीलाः । वचनव्यत्ययः, उपसर्गस्य वा वर्णव्यत्ययः ।
फलम्
विश्वास-प्रस्तुतिः
नैनव्ँ वैद्युतो॑ हिन॒स्ति ।
य ए॑वव्ँ वे॒द ।
मूलम्
नैनव्ँ वैद्युतो॑ हिन॒स्ति ।
य ए॑वव्ँ वे॒द ।
विश्वास-प्रस्तुतिः
इत्य् एते एकादशवायुगणा एनम् एवंवेदितारं वैद्युतो वायुगणो विद्युद्भवो वा अग्निर् न हिनस्ति न हन्ति ॥३॥
मूलम्
इत्य् एते एकादशवायुगणा एनम् एवंवेदितारं वैद्युतो वायुगणो विद्युद्भवो वा अग्निर् न हिनस्ति न हन्ति ॥३॥
विश्वास-प्रस्तुतिः
स होवाच व्यासः पा॑राश॒र्यः ।
मूलम्
स होवाच व्यासः पा॑राश॒र्यः ।
भट्टभास्कर-टीका
अथ कः पुनरस्य वैद्युतस्य वधस्य विशेष इत्याह - स खलु पाराशर्यः पराशरस्य पुत्रो व्यासः विपुलज्ञान उवाच ह
विश्वास-प्रस्तुतिः
“विद्युद्वधम् एवाहं मृत्युम् ऐ॑च्छम्” इ॒ति ।
मूलम्
विद्युद्वधमेवाहं मृत्युमै॑च्छमि॒ति ।
भट्टभास्कर-टीका
विद्युद्वधमेव विद्युत्सम्पाततो यो वधः मरणं तमेव अहं मृत्युमैच्छम् इच्छामि, अन्याय्यत्वादस्य मरणस्य । अनेन हि मृताः पापिष्ठा भवन्ति । तस्मादिदमेव मरणम् अन्यान्यमरणानि । तस्मादिदमेकमेव मरणं जन्तूनां मा भूत्, सन्त्येवान्यमरणानीत्येवमेव ममेच्छेत्युवाच भगवान् व्यासः ।
विश्वास-प्रस्तुतिः
न त्वका॑मँ ह॒न्ति ।
[35]
मूलम्
न त्वका॑मँ ह॒न्ति ।
[35]
भट्टभास्कर-टीका
एवंवेदितारं पुरुषम् अकामं कामरहितं न तु नैव हन्ति मृत्युर् अन्याय्यो विद्युदादिमृत्युर् न बाधत इत्यर्थः ॥४॥
य ए॑वव्ँ वे॒द ।
अथ ग॑न्धर्व॒गणाः ।
स्वान॒ भ्राट् ।
अङ्घा॑रि॒र्बम्भा॑रिः ।
हस्त॒स्सुह॑स्तः ।
कृशा॑नुर्वि॒श्वाव॑सुः ।
मूर्धन्वान्त्सू॑र्यव॒र्चाः ।
कृतिरित्येकादश ग॑न्धर्व॒गणाः ।
देवाश्च म॑हादे॒वाः ।
रश्मयश्च देवा॑ गर॒गिरः ।
[36]
नैनङ्गरो॑ हिन॒स्ति ।
य ए॑वव्ँ वे॒द ।
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती ।
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ ।
सहस्राक्षरा परमे व्यो॑मन्नि॒ति ।
वाचो॑ विशे॒षणम् ।
अथ निगद॑व्याख्या॒ताः ।
ताननुक्र॑मिष्या॒मः ।
व॒राहव॑स्स्वत॒पसः ।
[37]
वि॒द्युन्म॑हसो॒ धूप॑यः ।
श्वापयो गृहमेधा॑श्चेत्ये॒ते ।
ये॒ चेमे शि॑मिवि॒द्विषः ।
पर्जन्यास्सप्त पृथिविमभिव॑र्ष॒न्ति ।
वृष्टि॑भिरि॒ति ।
एतयैव विभक्तिवि॑परी॒ताः ।
स॒प्तभि॒र्वातै॑रुदी॒रिताः ।
अमूल्ँ लोकानभिव॑र्ष॒न्ति ।
तेषा॑मेषा॒ भव॑ति ।
स॒मा॒नमे॒तदुद॑कम् ।
[38]
उ॒च्चैत्य॑व॒चाह॑भिः ।
भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति ।
दिवञ्जिन्वन्त्यग्न॑य इ॒ति ।
यदक्ष॑रं भू॒तकृ॑तम् ।
विश्वे॑ देवा उ॒पास॑ते ।
म॒हर्षि॑मस्य गो॒प्तार॑म् ।
ज॒मद॑ग्नि॒मकु॑र्वत ।
ज॒मद॑ग्नि॒राप्या॑यते ।
छन्दो॑भिश्चतुरुत्त॒रैः ।
राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ।
[39]
ब्रह्म॑णा वी॒र्या॑वता ।
शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ ।
तच्छय्ँ॒ योरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।
दैवी॑ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।
ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे॑ ।
शञ्चतु॑ष्पदे ।
सोमपा (३) असोमपा (३) इति निगद॑व्याख्या॒ताः ।
[40]