क्वेदमभ्र॑न्निवि॒शते ।
क्वायँ॑ सव्ँवत्स॒रो मि॑थः ।
क्वाहः क्वेयन्दे॑वरा॒त्री ।
क्व मासा ऋ॑तवः॒ श्रिताः ।
अर्धमासा॑ मुहू॒र्ताः ।
निमेषास्त्रु॑टिभि॒स्सह ।
क्वेमा आपो नि॑विश॒न्ते ।
य॒दीतो॑ यान्ति॒ संप्र॑ति ।
काला अप्सु नि॑विश॒न्ते ।
आ॒पस्सूर्ये॑ स॒माहि॑ताः ।
[26]
अभ्रा॑ण्य॒पः प्र॑पद्य॒न्ते ।
वि॒द्युत्सूर्ये॑ स॒माहि॑ता ।
विश्वास-प्रस्तुतिः
अन्-अ-वर्णे इमे भू॒मी ।
इ॒यञ् चा॑सौ च॒ रोद॑सी ।
किँस्विद् अत्रान्त॑रा भू॒तम् ।
येने॒मे विधृ॒ते उभे ।
मूलम्
अनवर्णे इ॑मे भू॒मी ।
इ॒यञ्चा॑सौ च॒ रोद॑सी ।
किँस्विदत्रान्त॑रा भू॒तम् ।
ये॒नेमे वि॑धृते॒ उभे ।
भट्टभास्कर-टीका
अथ द्यावापृथिव्योर् विधारकं पिपृच्छिषुः प्रथमं ते स्तौति - अनवर्णे इति ॥
अनवर्णे अनेकरूपे,
“इयं वै रजता । असौ हरिणी” इति दर्शनात् ।
“अन इति निपातोऽनेकवचनः” ।
यद्वा - नञ एव तत्पुरुषश्च बहुव्रीहिः । यद्वा - नशब्दस्य बहुव्रीहिर् नञस्तत्पुरुषः; ।
यद्वा - अवर्णो ऽरूपम् अवद्यं; नञस्तत्पुरुषः; ततस् तद्रहिते अनवर्णे अनवद्ये; बहुव्रीहिः । ईदृश्यौ इमे भूमी द्यावापृथिव्यौ । तदेवाह - इयं चासौ च रोदसी । रोदश्श्ब्दवाच्ये रोदनाधारभूते प्रजापतेः । अत्र भूमिशब्देन द्यौरप्युच्यते । दिव्यपि हि पृथिवीनामानि दृश्यन्ते । यथा - “यो द्वितीयस्यां तृतीयस्यां” इति । यद्वा - विश्वभूतभवनाधारभूते इमे भवतो ऽनवद्ये चेति । अथ एवम्भूते इमे रोदसी येन विधृते विविधधृते पृथक्त्वेनासङ्कलिते येन तिष्ठतस् तादृशमहिमशाली कः । अत्र अनयोर् अन्तरा मध्ये भूतं विद्यमानं किं स्विद् वस्तु स्यात् । किमिति प्रश्ने, स्विदिति वितर्के ॥४॥
विश्वास-प्रस्तुतिः
वि॒ष्णुना॑ विधृ॑ते भू॒मी ।
इ॒ति व॑त्सस्य॒ वेद॑ना ।
मूलम्
वि॒ष्णुना॑ विधृ॑ते भू॒मी ।
इ॒ति व॑त्सस्य॒ वेद॑ना ।
भट्टभास्कर-टीका
अत्रोत्तरं - विष्णुनेति ॥ अत्र सूर्यप्रकरणत्वाद् उपसंहारे च “अग्नयो वायवश्चैव । एतदस्य परायणम् ।” इति त्रिस्थानस्थानाम् अग्निवायुसूर्याणां मध्ये स्वरूपेणाग्निवायूपादाने सूर्यस्यैव पारिशेष्यसिद्धेः सूर्यस्यैव विधारकत्वं प्रतिपादयिष्यन् विष्णुत्वेन सूर्यं व्यपदिशति ।
विष्णुना व्यापकेन इमे उभे अपि व्याप्य तिष्ठता भगवतैव इमे विधृते भवितुमर्हतः, अन्येनाशक्यत्वात् । यद्वा - सूर्यस्थो विष्णुरेव इह विष्णुः । अतस्ते विधारयन्नयम् अतुल्यमहिमा सूर्य इति वत्सस्यऋषेर् वेदना ज्ञानं समजनीति ॥५॥
भास्करोक्त-विनियोगः
अथैकामुपदधाति - इरावती इति ॥
विश्वास-प्रस्तुतिः
+++(२ उदक=)+++इ᳓रावती धेनुम᳓ती हि᳓ भूत᳓म् ।
सू-यवसि᳓नी+++(=सु-गो-भक्ष्य-घासे)+++ म᳓नुषे दशस्ये᳓ +++(=दानार्हे)+++। [27]
व्य᳓ष्टभ्नाद् रो᳓दसी विष्णव्!! एते᳓।
दाध᳓र्थ पृथिवी᳓म् अभि᳓तो मयू᳓खैः ।
मूलम्
इरा॑वती धेनु॒मती॒ हि भू॒तम् ।
सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये॑ । [27]
व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ ते ।
दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ।
भट्टभास्कर-टीका
त्रिष्टुबेषा । इरावती इरावत्यौ उदकवत्यौ धेनुमती प्रीणनत्वेन धेनुस्थानीयैर् निधानैस् तद्वत्यौ, गोमत्यौ वा । सूयवसिनी शोभनैर् भक्ष्यैस् तद्वत्यौ मनुषे मनुष्यार्थं दशस्ये दानार्हे दातुं समर्थे । “दाशृ दाने” इति धातोर् ह्रस्वत्वं, “छन्दसि च” इति यः । मनुष्यशब्दपर्यायो मनुश्शब्दस्सान्तः । इत्थं रोदसी भूतम् अभूतां परिनिष्पन्ने । पुरुषव्यत्ययः । “बहुलं छन्दस्यमाङ्योगेऽपि” इत्यडभावः, हि च इति निघाताभावः, छान्दसो वा लुङ् ।
मनुष्यार्थम् ईदृश्यौ इमे भवताम् इति व्यष्टभ्नाद् विष्टभ्नाति द्वे एते । यद्वा - निष्ठायां लिङ्गवचनयोर्व्यत्ययः । ईदृश्यौ भूते सम्पन्ने रोदसी व्यष्टभ्नाद् व्यष्टभ्नाः । छान्दसो लुङ् । विष्टभ्नासि । पुरुषव्यत्ययः, “स्तन्भुस्तुम्भु” श्नाप्रत्ययः, ‘स्तम्भेः’ इति षत्वम् । हे विष्णो ! व्यापक विष्णुस्थानीय सूर्य दाधर्थ धारयसि । छान्दसो लिट् । “तुजादीनाम्” इत्यभ्यासस्य दीर्घत्वम् ।
अभितो ऽध उपरि च पृथिवीं भूमिं दिवं च मयूखैः शङ्कुस्थानीयैः रश्मिभिर् अधोमुखैर् इमां धारयसि पृतिवीं, ऊर्ध्वमुखैर् अमूं धारयसि । पृथिवीशब्दो दिव्यपि वर्तते इत्युक्तम् । तस्मादयं सूर्यो मयूखैर् लोकद्वयं धारयन् व्याप्नुवन् विष्णुवद्धारयतीति स्तुतिः ॥६॥
भास्करोक्त-विनियोगः
अथ तिस्र उपदधाति - किं तदिति ॥
विश्वास-प्रस्तुतिः
किन् तद् विष्णोर् ब॑लम् आ॒हुः ।
का॒ दीप्तिः॑, किं प॒राय॑णम् ।
एको॑ य॒द् धार॑यद् दे॒वः ।
रे॒जती॑+++(=राजति)+++ रोद॒सी उ॑भे ।
मूलम्
किन्तद्विष्णोर्ब॑लमा॒हुः ।
का॒ दीप्तिः॑ किं प॒राय॑णम् ।
एको॑ य॒द्धार॑यद्दे॒वः ।
रे॒जती॑ रोद॒सी उ॑भे ।
भट्टभास्कर-टीका
द्वे अनुष्टुभौ । इतरा द्विपदा गायत्री । उक्तं विष्णुरूपेण सूर्यः स्तूयत इति । अथ तस्य विष्णोर् विष्णुस्थानीयस्य सूर्यस्य तत् तादृशं बलं विश्वप्रतिष्ठाहेतुभूतं प्रवृत्तिसामर्थ्यं किम् आहुः किन्निबन्धनमाहुर् मन्त्रदृशः । बल प्रतिष्ठायाम् । अथ का दीप्तिः किन्निबन्धना तस्य दीप्तिर् दीपनसामर्थ्यं प्रकाशकत्वम् । अथ किं परायणम् एतत्कुर्वतोऽस्य परममाश्रयणं सहायभूतं भवति । अथ एक एव देवो रेजती राजमाने अनुपक्षीणे रोदस्य् उभे यद् येन धारयन् तादृशं चास्य व्यापनसामर्थ्यं प्रकाशकत्वं किम्परायणं किन्निबन्धनम् । छान्दसो लुङ्, “बहुलं छन्दस्यमाङ्योगेऽपि” इत्यडभावः । राजतेश् छान्दसमेत्वम् ॥७॥
विश्वास-प्रस्तुतिः
वाताद्+++(=heavenly winds)+++ विष्णोर् ब॑लम् आ॒हुः ।
अ॒क्षरा॑द्+++(=ब्रह्मणः)+++ दीप्ति॒र् उच्य॑ते ।
त्रि॒पदा॒द्+++(←“त्रिपाद् ऊर्ध्व उदैत्”)+++ धार॑यद् दे॒वः ।
यद् विष्णो॑र् एक॒म् उत्त॑मम् । [28]
मूलम्
वाताद् विष्णोर्ब॑लमा॒हुः ।
अ॒क्षरा॑द्दीप्ति॒रुच्य॑ते ।
त्रि॒पदा॒द्धार॑यद्दे॒वः ।
यद्विष्णो॑रेक॒मुत्त॑मम् । [28]
भट्टभास्कर-टीका
उत्तरम् - वातादिति ॥ सर्वप्राणिप्रवृत्तिनिबन्धनं क्रियाशक्त्यात्मकं प्रधानं वातशब्देनोच्यते । यथोक्तं “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इति “वाते वाते यज्ञः प्रतितिष्ठति” इति । तस्माद् वाताद् अस्य विष्णोर् व्यापिनः सूर्यस्य बलं प्रवृत्तिसामर्थ्यम् आहुर् मन्त्रदृशस् तद्वशीकारातिशयविशेषेण प्रकाशसामर्थ्यातिशयोऽस्येति ।
अथ अक्षराद् दीप्तिर् उच्यते अस्य मन्त्रदृग्भिः ।
तत्-प्रत्यासत्ति-विशेषेण प्रकाश-सामर्थ्यातिशयो ऽस्येति ।
यथा “तमेव भान्तमनुभाति सर्वम्” इति ।
त्रिपदाद् धारयद्देव इति । पञ्चविंशः पुरुषः पादः, परमात्मा त्रिपात् । यथा “त्रिपादूर्ध्व उदैत्पुरुषः” इति । यस् त्रिभिः पादैर् अमृतं व्याप्नोति पादेन विश्वं तदैक्यादेव देवः सूर्यो धारयति रोदसी । यथा - “स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः” इति ।
अथ कीदृशस्त्रिपादित्यत आह -तद्विष्णोरेकमुत्तममिति ।
यद् विष्णोर् विश्वव्यापिनः भगवत एकं प्रधानम् उत्तमम् उद्गततमं स्वरूपं
तादृशं त्रिपादस्य व्यापनसामर्थ्यं तदैक्यसमासादितव्यापनसामर्थ्यातिशयो धारयतीति । त्रीणि पदानि पादा अस्येति त्रिपदस् तस्मात् । यद्वा - त्रयः पादा अस्येति बहुव्रीहिः । “सङ्ख्यासुपूर्वस्य” इति लोपः समासान्तः, पञ्चम्येकवचने “पादः पत्” इति पद्भावः । “सुपां सुलुक्” इति पञ्चम्या आदादेशः ॥८॥
विश्वास-प्रस्तुतिः
अ॒ग्नयो॑ वाय॑वश् चै॒व ।
ए॒तद् अ॑स्य प॒राय॑णम् ।
मूलम्
अ॒ग्नयो॑ वाय॑वश्चै॒व ।
ए॒तद् अ॑स्य प॒राय॑णम् ।
भट्टभास्कर-टीका
अग्नयो वायवश्चैव इति ॥
एतद् अस्य परायणम् एत एव
परमसहायास् त्रिस्थान-स्था ह्य् अग्नि-वायु-सूर्याः परस्-परोपकार्योपकारि-भावेन लोक-त्रयं धारयन्तीति ।
सावित्रादयः पञ्चाग्नि-विद्याः “अग्नयो वायवश्च” इत्युच्यन्ते इत्येके ॥९॥
पृच्छामि त्वा प॑रं मृ॒त्युम् ।
अ॒वमं॑ मध्य॒मञ्च॑तुम् ।
लो॒कञ्च॒ पुण्य॑पापा॒नाम् ।
ए॒तत्पृ॑च्छामि॒ संप्र॑ति ।
अ॒मुमा॑हुः प॑रं मृ॒त्युम् ।
प॒वमा॑नन्तु॒ मध्य॑मम् ।
अ॒ग्निरे॒वाव॑मो मृ॒त्युः ।
च॒न्द्रमा॑श्चतु॒रुच्य॑ते ।
[29]
अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् ।
पा॒पास्सय्ँ॑यन्ति॒ सर्व॑दा ।
आ भोगास्त्वेव॑ सय्ँय॒न्ति ।
य॒त्र पु॑ण्यकृ॒तो ज॑नाः ।
ततो॑ म॒ध्यम॑माय॒न्ति ।
च॒तुम॑ग्निञ्च॒ संप्र॑ति ।
पृच्छामि त्वा॑ पाप॒कृतः ।
य॒त्र या॑तय॒ते य॑मः ।
त्वन्नस्तद्ब्रह्म॑न्प्रब्रू॒हि ।
य॒दि वे॑त्था स॒तो गृ॑हान् ।
[30]
क॒श्यपा॑दुदि॑तास्सू॒र्याः ।
पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।
रोदस्योरन्त॑र्देशे॒षु ।
तत्र न्यस्यन्ते॑ वास॒वैः ।
तेऽशरीराः प्र॑पद्य॒न्ते ।
य॒थाऽपु॑ण्यस्य॒ कर्म॑णः ।
अपा॑ण्य॒पाद॑केशा॒सः ।
त॒त्र ते॑ऽयोनि॒जा ज॑नाः ।
मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते ।
अ॒द्यमा॑नास्स्व॒कर्म॑भिः ।
[31]
आशातिकाः क्रिम॑य इ॒व ।
ततः पूयन्ते॑ वास॒वैः ।
अपै॑तं मृ॒त्युञ्ज॑यति ।
य ए॑वव्ँ वे॒द ।
स खल्वैवव्ँ॑ विद्ब्रा॒ह्मणः ।
दी॒र्घश्रु॑त्तमो॒ भव॑ति ।
कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः ।
तस्यै॒षा भव॑ति ।
आ यस्मि॑न्त्स॒प्त वा॑स॒वाः ।
रोह॑न्ति पू॒र्व्या॑ रुहः॑ ।
[32]
ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः ।
इन्द्रस्य घर्मो अति॑थिरि॒ति ।
कश्यपः पश्य॑को भ॒वति ।
यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् ।
अथाग्ने॑रष्टपु॑रुष॒स्य ।
तस्यै॒षा भव॑ति ।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ ।
भूयिष्ठान्ते नमउक्तिं वि॑धेमे॒ति ॥ [33]