विश्वास-प्रस्तुतिः
आरोगो भ्राजः पटरः॑ पत॒ङ्गः ।
स्वर्णरो ज्योतिषीमा॑न् विभा॒सः ।
ते अस्मै सर्वे दिवमा॑तप॒न्ति ।
ऊर्जन्दुहाना अनपस्फुर॑न्त इ॒ति ।
मूलम्
आरोगो भ्राजः पटरः॑ पत॒ङ्गः ।
स्वर्णरो ज्योतिषीमा॑न् विभा॒सः ।
ते अस्मै सर्वे दिवमा॑तप॒न्ति ।
ऊर्जन्दुहाना अनपस्फुर॑न्त इ॒ति ।
विश्वास-प्रस्तुतिः
कश्य॑पोऽष्ट॒मः ।
स महामेरुन्न॑ जहा॒ति ।
तस्यै॒षा भव॑ति ।
मूलम्
कश्य॑पोऽष्ट॒मः ।
स महामेरुन्न॑ जहा॒ति ।
तस्यै॒षा भव॑ति ।
विश्वास-प्रस्तुतिः
यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् । [20]
तस्मिन्राजानमधिविश्रये॑ममि॒ति ।
मूलम्
यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् । [20]
तस्मिन्राजानमधिविश्रये॑ममि॒ति ।
विश्वास-प्रस्तुतिः
ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते ।
तान्त्सोमः कश्यपादधि॑ निर्ध॒मति ।
भ्रस्ता कर्मकृ॑दिवै॒वम् ।
प्राणो जीवानीन्द्रिय॑जीवा॒नि ।
सप्त शीर्ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः ।
अपश्यमहमेतान्त्सप्त सू॑र्यानि॒ति ।
मूलम्
ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते ।
तान्त्सोमः कश्यपादधि॑ निर्ध॒मति ।
भ्रस्ता कर्मकृ॑दिवै॒वम् ।
प्राणो जीवानीन्द्रिय॑जीवा॒नि ।
सप्त शीर्ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः ।
अपश्यमहमेतान्त्सप्त सू॑र्यानि॒ति ।
विश्वास-प्रस्तुतिः
पञ्चकर्णो॑ वात्स्या॒यनः ।
सप्तकर्ण॑श्च प्ला॒क्षिः ।[21]
आनुश्रविक एव नौ कश्य॑प इ॒ति ।
मूलम्
पञ्चकर्णो॑ वात्स्या॒यनः ।
सप्तकर्ण॑श्च प्ला॒क्षिः ।[21]
आनुश्रविक एव नौ कश्य॑प इ॒ति ।
उभौ॑ वेद॒यिते ।
न हि शेकुमिव महामे॑रुङ्ग॒न्तुम् ।
अपश्यमहमेतत्सूर्यमण्डलं परिव॑र्तमा॒नम् ।
गा॒र्ग्यः प्रा॑णत्रा॒तः ।
गच्छन्त म॑हामे॒रुम् ।
एक॑ञ्चाज॒हतम् ।
भ्राज पटर पत॑ङ्गा नि॒हने ।
तिष्ठन्ना॑तप॒न्ति ।
तस्मा॑दि॒ह तप्त्रि॑तपाः । [22 ]
अ॒मुत्रे॒तरे ।
तस्मा॑दि॒हातप्त्रि॑तपाः ।
तेषा॑मेषा॒ भव॑ति ।
स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः ।
तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावा॑न् ।
ते अस्मै सर्वे घृतमा॑तप॒न्ति ।
ऊर्जन्दुहाना अनपस्फुर॑न्त इ॒ति ।
सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः ।
तेषा॑मेषा॒ भव॑ति ।
स॒प्त दिशो॒ नाना॑सूर्याः । [23]
स॒प्त होता॑र ऋ॒त्विजः॑ ।
देवा आदित्या॑ ये स॒प्त ।
तेभिस्सोमाभी रक्ष॑ण इ॒ति ।
अ॒शृता॑सः
तद॑प्याम्ना॒यः ।
दिग्भ्राज ऋतू॑न्करो॒ति ।
एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शम्पा॒यनः ।
तस्यै॒षा भव॑ति ।
यद्द्याव॑ इन्द्र ते श॒तँ श॒तं भूमीः॑ ।
उ॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रँ॒ सूर्याः॑ । [24]
अनु न जातमष्ट रोद॑सी इ॒ति ।
नानालिङ्गत्वादृतूनान्नाना॑सूर्य॒त्वम् ।
अष्टौ तु व्यवसि॑ता इ॒ति ।
सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् ।
तेषा॑मेषा॒ भव॑ति ।
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ।
[25]