०६ ऋतुमण्डलोपधानम्

०१ मन्त्राः

भास्करोक्त-विनियोगः

अथ ऋतुमण्डलानि त्रीण्युपदधाति - अत्यूर्ध्वाक्ष इति ॥ आसामृचामियं संज्ञा । वक्ष्यति चानुवाकान्ते “इत्यृतुमण्डलानि” इति । सर्वाश्चानुष्टुभः । अत्रापि शिशिरधर्मा एवोच्यन्ते ।

विश्वास-प्रस्तुतिः

अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् ।
शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूपन्न॑ वासाँ॒सि ।
न चक्षुः॑ प्रति॒दृश्य॑ते ।

मूलम्

अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् ।
शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूपन्न॑ वासाँ॒सि ।
न चक्षुः॑ प्रति॒दृश्य॑ते ।

भट्टभास्कर-टीका अत्यूर्ध्वाक्षः शीतपीडया अत्यर्थमूर्ध्वे अक्षिणी यस्येति । षच् समासान्तः । अतिरश्चात् न कदाचिदपि तिरश्चीनमक्षि देहं वा कर्तुं शक्नोतीति । अतिरश्चीनेन देहेन अक्ष्णा वा उपलक्षितः शिशिरः प्रदृश्यते । तिर्यक्छब्दात्परस्याः तृतीयायाः छान्दसः तकारोपजनः । "सपां सुलुक्" इति वा आदादेशः । तत्कालभाविनां प्रजाधर्माणां शिशिरस्थानीयतयोपचारः । किञ्च - नैवास्मिन्काले रूपादीनि दृश्यन्ते शीतपीडया रूपादिशोभनवस्तु वा नाद्रियते लोक इत्यर्थः ॥१॥
विश्वास-प्रस्तुतिः

अ॒न्योन्य॒न्तु न॑ हिँस्रा॒तः ।
स॒तस्त॑द्देव॒लक्ष॑णम् ।
लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः ।
सू॒र्यस्यो॑दय॒नं प्र॑ति ।

मूलम्

अ॒न्योन्य॒न्तु न॑ हिँस्रा॒तः ।
स॒तस्त॑द्देव॒लक्ष॑णम् ।
लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः ।
सू॒र्यस्यो॑दय॒नं प्र॑ति ।

भट्टभास्कर-टीका

अथ द्वितीया - अन्योन्यमिति ॥ तुशब्दो विशेषणार्थः न शब्द उपमार्थः । न केवलं रूपाद्यनादर एव, अपि तु अन्योन्यमिव हिंस्रातः हिंस्तः काललोकौ परस्परं बाधकाविव भवतः । हिंसेर्लेटि “लेटोडाटौ” इत्यडागमः । छान्दसः रेफोपजनः; “बहुलं छन्दसि” इति वा रुट् । यद्वा - यौ नित्यविरुद्धौ पदार्थौ तावप्यस्मिन्काले अन्योन्यं न हिंस्तः । शीतजन्मना आलस्यातिशयेन तूष्णीम् आसाते । एवं सतः अस्य शिशिरस्य तत् रूपं देवलक्षणं देवस्य सूर्यस्य ऋतूनां प्रवर्तयितुः लक्षणं चिह्नं तत्प्रेरणाविशेषस्य फलमिदमित्यर्थः । यद्वा - सन्नाम्नो गणस्य शैशिरस्य । व्यत्ययो वा सतामिति । केचिदाहुः वकारतकारयोर्लोपोपजनौ - स्वतस्तदेव लक्षणं शिशिरस्य रूपान्तरोत्पादकत्वमित्यर्थः । यथोक्तं - “अधिसंवत्सरं विद्यात् । तदेव लक्षणे” इति । स्वरस्य तु अव्याप्तिबहुलत्वात् न विशेषाध्यवसानहेतुत्वमिति न तत्प्रमाणीक्रियते । पक्षद्वयेऽपि तदित्यस्य निहतत्वात् । किञ्च - अस्मिन् शिशिरकाले सूर्यस्योदयनं प्रति सूर्यस्य उदयकाले प्राणिनां हिमक्लिन्नत्वात् तदानीं लोकोऽयम् अक्ष्णि लोहितः भवति । शैत्यजन्मा विकारविशेषो लौहित्यमक्ष्णि दृश्यते । शारशीर्ष्णिः शारश्शीर्ष्णीति व्यत्यस्तस्थानस्स(श्श) कारः । शारो वर्णविशेषः विषमरूपः यश्शांरिकासु दृश्यते तद्वर्णः शिरशि भवति, लोकस्य हिमकुण्ठितत्वात् । “शीर्षन् छन्दसि” इति शीर्षन्भावः । यद्वा - शारशिरसोऽस्य शिशिरर्तोरपत्यं लौकिको जनः शारशीर्ष्णिः । बाह्वादिषु शिरश्शब्दस्य पाठादिञ्, पूर्ववत् शीर्षन्भावः, “अल्लोपोऽनः” ॥२॥

विश्वास-प्रस्तुतिः

त्वङ्करोषि॑ न्यञ्ज॒लिकाम् ।
त्व॒ङ्करो॑षि नि॒जानु॑काम् । [17] निजानुका मे॑ न्यञ्ज॒लिका ।
अमी वाचमुपास॑तामि॒ति ।

मूलम्

त्वङ्करोषि॑ न्यञ्ज॒लिकाम् ।
त्व॒ङ्करो॑षि नि॒जानु॑काम् । [17] निजानुका मे॑ न्यञ्ज॒लिका ।
अमी वाचमुपास॑तामि॒ति ।

भट्टभास्कर-टीका

अथ तृतीया -त्वं करोषीति ॥ अत्र शिशिरस्य प्रत्यक्षवदामन्त्रणम् । हे शिशिर ! त्वं करोषि किम्? न्यञ्जलिकां न्यग्भूतः अवाचीनकरतलः अञ्जलिः क्रियते तस्यां क्रियायां यस्यां शीताभिभूता अग्निसमीपं गत्वा तादृशमञ्जलिं धारयन्तीति शीतापनयनक्रिया न्यञ्जलिका तां त्वं करोषि । तस्मिन्काले प्राणिनां तत्कारित्वात् शिशिरे तत्कारित्वमुपचर्यते । किञ्च - त्वं करोषि निजानुकां न्यग्भूते जानुनी यस्यां तां तापनक्रियां त्वं करोषीति शीताभिभूता हि जना जानुनी भूमौ निपात्य प्रत्यासन्नतरं देशम् अग्नेः कुर्वन्ति तापनार्थम् । एवमनयोः क्रिययोः शीतनिवारणार्थत्वात् अयं लोकः निजानुका मे अस्तु न्यञ्जलिका च मे अस्तु इत्येवंविधां वाचम् अमी प्राणिनः उपासतां भजन्ताम् । ताभ्यां क्रियाभ्यां शीतनिवृत्तिर्यथा भवति तथा त्वमनुगृहाण प्राणिनः अग्निवत् । एवं माध्यमिकः कश्चिद्ब्रवीति ॥३॥

०२ ब्राह्मणम्

विश्वास-प्रस्तुतिः

तस्मै सर्व ऋतवो॑ नम॒न्ते ।
मर्यादाकरत्वात्प्र॑पुरो॒धाम् ।
ब्राह्मण॑ आप्नो॒ति ।
य ए॑वं वे॒द ।

मूलम्

तस्मै सर्व ऋतवो॑ नम॒न्ते ।
मर्यादाकरत्वात्प्र॑पुरो॒धाम् ।
ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द ।

भट्टभास्कर-टीका

अत उत्तरं ब्राह्मणम् - एवम् उक्तप्रकारम् ऋतुमण्डलानामेषां स्वरूपं यः वेद जानाति तस्मै सर्वे वसन्तादयोपि ऋतवो नमन्ते स्वयमेव प्रह्वीभवन्ति न शिशिर एव प्रह्वीभवति, तेन ऋतुनिमित्तानि सुखानि भवन्ति दुःखानि च न भवन्तीति । कर्मकर्तर्यात्मनेपदम् । “न दुहस्नुनमां यच्किणौ” इति यच्किणोः प्रतिषेधः । किञ्च - एवं वेदिता ब्राह्मणः पुरोधां पुरतो धानं सर्वलोकस्य प्राधान्यं च प्राप्नोति । उभयत्र हेतुः मर्यादाकरत्वादिति । मर्यादाकरत्वादेवंविदुषे ब्राह्मणाय सर्व ऋतवो नमन्ते पुरोधां च ततो हेतोः प्राप्नोतीति । मर्यैः मनुष्यैः आदीयन्त इति मर्यादाः । ऋतुनिमित्ता लोकस्य व्यवस्थाः तत्कर्तृत्वात् प्रकाशकत्वात् । अन्य आहुः - एवमिति सर्वस्यारुणकेतुकप्रकरणोक्तस्य प्रतिनिर्देशः । अयमर्थः - य एवं सर्वेष्वपि ऋतुषु उक्तप्रकारमारुणकेतुकस्य स्वरूपं वेद तस्मै सर्व ऋतवो नमन्ते, सर्वर्तुव्यवस्थाकरत्वात् पुरोधां च प्राप्नोतीति ॥४॥

विश्वास-प्रस्तुतिः

स खलु सव्ँवत्सर एतैस्सेनानी॑भिस्स॒ह ।
इन्द्राय सर्वान्कामान॑भिव॒हति ।
स द्र॒प्सः ।
तस्यै॒षा भव॑ति । [18]

मूलम्

स खलु सव्ँवत्सर एतैस्सेनानी॑भिस्स॒ह ।
इन्द्राय सर्वान्कामान॑भिव॒हति ।
स द्र॒प्सः ।
तस्यै॒षा भव॑ति । [18]

भट्टभास्कर-टीका

कथं पुनरारुणकेतुकविदो मर्यादाकरत्वमित्याह - स खल्विति ॥ यस्यायं वेदिता स खलु आरुणकेतुकः ऋतुभिः संवत्सरात्मना परिणतः सेनानीभिः सेनास्थानीयैः एतैः ऋतुभिः वस्वादिभिर्वा सह इन्द्राय सर्वान्कामान् इन्द्र ईश्वरः स्वामी यान्यान्कामान् वृष्ट्यादीन् कामयते तान् सर्वान् अस्मै अभिवहति आभिमुख्येन सम्पादयति । तस्मादेवं महानुभावस्य आरुणकेतुकस्य वेदिता मर्यादाकरो भवत्येवेति । तत्र तावदारुणकेतुकस्य वृष्टिहेतुत्वं दर्शयति - स द्रप्स इति । स ह्यारुणकेतुको द्रप्सः उदकं जगद्धेतुत्वात् अयं प्रधानं कारणम् अन्या देवताः प्रत्यङ्गानीति । द्रवणात् प्सानीयत्वाच्च द्रप्सः । प्सा भक्षणे, पृषोदरादिः तस्य एतस्यार्थस्य प्रतिपादिका एषा ऋग्भवति ॥५॥

विश्वास-प्रस्तुतिः

अव॑ द्र॒प्सो अँ॑शु॒मती॑मतिष्ठत् ।
इ॒या॒नः कृ॒ष्णो द॒शभि॑स्स॒हस्रैः॑ ।
आव॒र्तमिन्द्र॒श्शच्या॒ धम॑न्तम् ।
उपस्नुहितन्नृमणामथ॑द्रामि॒ति ।

मूलम्

अव॑ द्र॒प्सो अँ॑शु॒मती॑मतिष्ठत् ।
इ॒या॒नः कृ॒ष्णो द॒शभि॑स्स॒हस्रैः॑ ।
आव॒र्तमिन्द्र॒श्शच्या॒ धम॑न्तम् ।
उपस्नुहितन्नृमणामथ॑द्रामि॒ति ।

भट्टभास्कर-टीका

अव द्रप्स इति ॥ त्रिष्टुबेषा । एतां च द्रप्सवतीमुपदधाति । अंशुमती पृथिवी । अशनेन शं सुखं भवति येन अशनायायाश्शमो भवति सः अंशुः पर्जन्यः; तद्वर्षणं वा, तदधीनसिद्धित्वात् । तद्वती पृथिवी ताम् अवातिष्ठत् अतिक्रम्यातिष्ठत् । द्रप्स उदकम् । अवशब्दः अत्यर्थे । “ससाधनां क्रियाम् उपसर्ग आह” इति क्रमणमनेन विशेष्यते, अतिक्रम्येत्यर्थः । तेन तिष्ठतिना योगाभावात् “समवप्रविभ्यस्स्थः” इत्यात्मनेपदाभावः । तदतिक्रमे च सर्वमर्यादाविनाशः । अतिक्रमकारणमाह - इयानः ईयमानः तदीयैः दशभिस्सहस्रैः दशसहस्रसंख्यैः रश्मिभिः आदीयमानः । कर्मणि छान्दसस्य लिटः “लिटः कानज्वा” इति कानजादेशः । कृष्णः कर्षणशीलः हे आदित्य ! इन्द्रः ईश्वरः त्वरया वर्षस्य द्रावयिता वा त्वं शच्या कर्मणा तदनुरूपेण व्यापारेण सहितः आवर्तम् आवृत्यावृत्य । आभीक्ष्ण्ये णमुल् । धमन्तं गर्जनादिना शब्दयन्तम् । नृमणां नृभिः मनुष्यैः मननीयं सदा प्रार्थितम्, तेषां वा मनसा अर्थितम् अधद्रां वृष्टिरूपेण अधोद्रवणशीलाम् । छान्दसः सलोपः । उभयत्र छान्दसं दीर्घत्वम् । ईदृशं तं द्रप्सम् उपस्नुहि अस्मत्पार्श्वमुपेत्य स्रावय । “ष्णु प्रस्रवणे” आदादिकः ॥६॥

विश्वास-प्रस्तुतिः

एतयैवेन्द्रस्सलावृ॑क्या स॒ह ।
असुरान्प॑रिवृ॒श्चति ।

मूलम्

एतयैवेन्द्रस्सलावृ॑क्या स॒ह ।
असुरान्प॑रिवृ॒श्चति ।

भट्टभास्कर-टीका

एतयेति ॥ एतया अंशुमत्या सलावृक्या सलस्य सलिलस्य आवृश्चनकारिण्या आदात्र्या वा । “कुक वृक आदाने” । ईदृश्या पृथिव्या सह एव इन्द्रः असुरान् असुस्थानीयस्य सलिलस्य दातॄन् मेघान् परिवृश्चति परितः सर्वतः वृष्ट्यर्थं भिनत्ति । उदकाधारत्वाभ्युपगमः साहित्यमस्या वृष्टौ; यथा - किञ्चित् पात्रमानीय गां दोग्धीति ॥७॥

विश्वास-प्रस्तुतिः

पृथि॑व्यँ॒शुम॑ती ।
ताम॒न्वव॑स्थितस्सव्ँवत्स॒रो दि॒वञ्च॑ ।

मूलम्

पृथि॑व्यँ॒शुम॑ती ।
ताम॒न्वव॑स्थितस्सव्ँवत्स॒रो दि॒वञ्च॑ ।

भट्टभास्कर-टीका

उक्तं पूर्वस्यामृचि “अंशुमतीमतिष्ठत्” इति; का पुनरियम् अंशुमतीति जिज्ञासायां स्वयमेव ब्राह्मणं व्याचष्टे - पृथिव्यंशुमतीति ॥ उक्तं चांशुमतीत्वम् । ताम् अंशुमतीं पृथिवीं दिवं च अन्ववस्थितः । लक्षणे अनोः कर्मप्रवचनीयत्वम् । संवत्सरात्मा आरुणकेतुकोऽग्निः तदुभयाधीनात्मकत्वात् तयोरवस्थित इत्युच्यते ।

विश्वास-प्रस्तुतिः

नैवव्ँ विदुषाऽऽचार्या॑न्तेवा॒सिनौ ।
अन्योन्यस्मै॑ द्रुह्या॒ताम् ।

मूलम्

नैवव्ँ विदुषाऽऽचार्या॑न्तेवा॒सिनौ ।
अन्योन्यस्मै॑ द्रुह्या॒ताम् ।

भट्टभास्कर-टीका

नैवमिति । एवंरूपमारुणकेतुकमग्निं विदुषा ब्राह्मणेन सह आचार्यान्तेवासिनौ न द्रुह्याताम् अन्योन्यस्मै अन्योन्यद्रोहमनेन न कुर्याताम् । आचार्यः अध्वर्युः आचरति आचिनोति अस्मात् धर्मानिति । तस्य अन्तेवसन् यजमानः अन्तेवासी । अन्योन्यग्रहणं द्रोग्धृत्वद्रोह्यत्वयोः निषेधार्थम् । “सर्वनाम्नो द्वे भवतः समासवच्च बहुलम् । यदा न समासवत् पूर्वपदस्य तदा प्रथमैकवचनम्” । “क्रुधद्रुह” इति संप्रदानत्वम् । अन्योन्यस्मै ।

विश्वास-प्रस्तुतिः

यो द्रु॒ह्यति ।
भ्रश्यते स्व॑र्गाल्लो॒कात् ।
इत्यृतुम॑ण्डला॒नि ।

मूलम्

यो द्रु॒ह्यति ।
भ्रश्यते स्व॑र्गाल्लो॒कात् ।
इत्यृतुम॑ण्डला॒नि ।

भट्टभास्कर-टीका

अथ यो द्रुह्यति द्रोग्धा द्रोहयिता वा तस्य भवति स भ्रश्यते स्वर्गाल्लोकात् कर्मफलं न प्राप्नोति । इति एतानि ऋतुमण्डलानि ऋतुमण्डलनामधेयानि एता ऋचः आम्नाताः । सूर्यमण्डलानि सूर्यपरिवर्तनानि आख्यायिकाः आख्यातुं “तुमुण्ण्वुलौ” इति ण्वुल्, “अकेनोर्भविष्यदाधमर्ण्ययोः” इति षष्ठ्यभावः । अन्य आहुः - प्रकरणस्यायमुपसंहारः; इति एवमुक्तप्रकारेण आरुणकेतुकप्रकरणेन अनेन सर्वाण्यृतुमण्डलानि ऋतुपरिवर्तनानि उक्तानि ।

विश्वास-प्रस्तुतिः

सूर्यमण्डला॑न्याख्या॒यिकाः ।
अत ऊर्ध्वँ स॑निर्व॒चनाः । [19]

मूलम्

सूर्यमण्डला॑न्याख्या॒यिकाः ।
अत ऊर्ध्वँ स॑निर्व॒चनाः । [19]

भट्टभास्कर-टीका

सूर्यस्य मण्डलानि परिवर्तनरूपाणि उक्तानि । आख्यायिकाश्च तत्र तत्रोक्ताः उक्तमर्थमाख्यातुं शीलं यासां ताः “शुक्रं ते अन्यत्” इत्याद्या ऋच उक्ताः । “संज्ञायामिति” ण्वुल् । अत ऊर्ध्वम् अतः परं सनिर्वचनाः निर्वचनं ब्राह्मणं तत्सहिताः आख्यायिकाः वक्ष्यन्ते । पूर्वत्र मन्त्रोक्तार्थप्रसिध्यर्थम् आख्यायिका दर्शिताः । अत ऊर्ध्वं तु ब्राह्मणोक्तार्थप्रसिध्यर्थं काश्चिदाख्यायिका वक्ष्यन्त इति ॥८॥ इत्यारण्यके प्रथमे षष्ठोनुवाकः ॥६॥