०५ मदन्त्य्-उपधानम्

०१ मन्त्राः

भास्करोक्त-विनियोगः

प्रवर्ग्यमदन्तीरुपधाय शान्तिं करोति - अतिताम्राणीति चतसृभिः

सर्वा अनुष्टुभः । चतुर्थी अभिक्रान्ताक्षरा । पूर्वत्र आदित्यात्मना संवत्सरात्मना ऋत्वात्माना चाभिष्टुतः इदानीं विश्वदेवरूपेण स्तूयते -

विश्वास-प्रस्तुतिः

अति॑ता॒म्राणि॑ वासाँ॒सि ।
अ॒ष्टि व॑ज्रि श॒तघ्नि॑ च ।
विश्वेदेवा विप्र॑हर॒न्ति ।
अ॒ग्निजि॑ह्वा अ॒सश्च॑त ।

मूलम्

अति॑ता॒म्राणि॑ वासाँ॒सि ।
अ॒ष्टि व॑ज्रि श॒तघ्नि॑ च । [[अ॒ष्टिव॑ज्रि → अ॒ष्टि व॑ज्रि??]] विश्वेदेवा विप्र॑हर॒न्ति ।
अ॒ग्निजि॑ह्वा अ॒सश्च॑त ।

भट्टभास्कर-टीका

अतिताम्राणि अतिरक्तानि वासांसि विश्वेषां देवानाम् । अष्ट्यादयः प्रहरणविशेषाः । अश्नुते व्याप्नोति शत्रूनिति अष्टिः । वर्जयति, व्रजन्त्यनेन वा शत्रव इति वा वज्रः । शतं हन्तीति शतघ्नं शतघ्नी वा । तैः तद्वत् तत्सहितं वा विप्रहरन्ति विविधं प्रहरन्ति शत्रून् विश्वे देवाः । मत्वर्थीय इकारः । यद्वा - इकारान्तानि प्रहरणनामानि । तानि विप्रहरन्ति विविधं प्रहरन्ति शत्रुसकाशं प्रापयन्ति । शिशिरस्यैव एतद्देवताकथनमिति केचित् । शिशिराधिकारे च मदन्त्युपधानं निर्जलत्वादस्येत्याहुः । “अत्यूर्ध्वाक्षः” इति चोत्तरोऽनुवाकः शिशिरमेवाधिकृत्य भविष्यति । ते विश्वे देवाः अग्निजिह्वाः अग्निः आरुणकेतुकः प्रकृतः जिह्वा येषां तादृशा भूत्वा असश्चत शब्दमकुर्वन् । तेषां जिह्वास्थानीयः आरुणकेतुकोऽग्निः इत्थं सदर्पमिह शब्दयतीति भावः । सश्चतिः शब्दनकर्मा, व्यत्ययेनैकवचनं, शपो वा लुक् ॥१॥

विश्वास-प्रस्तुतिः

नैव देवो॑ न म॒र्त्यः ।
न राजा व॑रुणो॒ विभुः ।
नाग्निर्नेन्द्रो न प॑वमा॒नः ।
मा॒तृक्क॑च्चन॒ विद्य॑ते ।

मूलम्

नैव देवो॑ न म॒र्त्यः ।
न राजा व॑रुणो॒ विभुः ।
नाग्निर्नेन्द्रो न प॑वमा॒नः ।
मा॒तृक्क॑च्चन॒ विद्य॑ते ।

भट्टभास्कर-टीका

अथ द्वितीया - नैवेति ॥ इत्थं सदर्पं तेनाग्निना प्रतिज्ञातं कच्चन कश्चिदपि देवः मातृक् मादृक् मत्तुल्यप्रभावो नैव विद्यते । मातृक् कच्चन इति वर्णान्यत्वं छान्दसम् । मनुष्योऽपि नैव विद्यते मादृक् । न च विभुः वरुणो राजा नाग्निः नैवेन्द्रः पवमानोऽपि नैवेति ॥२॥

विश्वास-प्रस्तुतिः

दि॒व्यस्यैका॒ धनु॑रार्त्निः ।
पृ॒थि॒व्यामप॑रा श्रि॒ता । [15]
तस्येन्द्रो वम्रि॑रूपे॒ण ।
ध॒नुर्ज्या॑मछि॒नत्स्व॑यम् ।

मूलम्

दि॒व्यस्यैका॒ धनु॑रार्त्निः ।
पृ॒थि॒व्यामप॑रा श्रि॒ता । [15]
तस्येन्द्रो वम्रि॑रूपे॒ण ।
ध॒नुर्ज्या॑मछि॒नत्स्व॑यम् ।

भट्टभास्कर-टीका

अथ तृतीया - दिवीतिअस्य अग्नेः स्वं यत् धनुः तस्य एका आर्त्निः कोटिः दिवि श्रिता अवस्थिता । अपरा पृथिव्यां श्रिता । तस्य अग्नेः धनुर्ज्यां स्वभूतस्य तथाऽवस्थितस्य धनुषो ज्याम् इन्द्रो वम्रिरूपेण आगत्य स्वयमेव अलुनात् । वमनात् वम्रिः । तस्यावलेपोक्तिमसहमानः तमग्निं निग्रहीतुकामः तस्य धनुर्ज्याम् अच्छिनत् ॥३॥

विश्वास-प्रस्तुतिः

तदि॑न्द्र॒धनु॑रित्य॒ज्यम् ।
अ॒भ्रव॑र्णेषु॒ चक्ष॑ते ।
एतदेव शय्ँयोर्बार्ह॑स्पत्य॒स्य ।
ए॒तद्रु॑द्रस्य॒ धनुः ।

मूलम्

तदि॑न्द्र॒धनु॑रित्य॒ज्यम् ।
अ॒भ्रव॑र्णेषु॒ चक्ष॑ते ।
एतदेव शय्ँयोर्बार्ह॑स्पत्य॒स्य ।
ए॒तद्रु॑द्रस्य॒ धनुः ।

भट्टभास्कर-टीका

अथ चतुर्थी - ततः प्रभृति तत् अज्यं छिन्नज्याकम् इन्द्रधनुः इति चक्षते कथयन्ति मन्त्रदृशः; अज्यत्वस्य इन्द्रकृतत्वात् इन्द्रधनुरित्याचक्षते अभ्रवर्णेषु अपो बिभ्रतीति अभ्राणि जलदाः तेषां वर्णेषु प्रकाशनेषु । यद्वा - चक्षतिः पश्यतिकर्मा; अभ्रवर्णेषु चक्षते पश्यन्ति लौकिकाः । ़ एतदेवेति । शंयोः शंयुनाम्नः रोगभयार्तानां शमनयावनकर्तुः । यद्वा - यज्ञस्य स्वगाकर्तुः । बार्हस्पत्यस्य बृहस्पतिपुत्रस्य धनुः यथोक्तस्वार्थसंपादनसाधनम् । कोऽस्य विशेष इत्याह - एतत् खलु रुद्रस्य आरुणकेतुकस्य अग्नेः धनुः । तस्मात्किमनेन कर्तुं न शक्यत इति । रुद्रशब्देन आरुणकेतुकस्याग्नेरभिधानम् । तदीयत्वेन धनुषोऽप्यधृष्यत्वख्यापनार्थं यथा रुद्रस्य भगवतो धनुरप्रधृष्यम् एवमिदमपि श्रूयते “रुद्रो वा एष यदग्निः” इति । केचिदाहुः - यदित्यध्याह्रियते । यदेतत् रुद्रस्य आरुणकेतुकस्य धनुः एतदेव शंयोर्धनुः सोऽप्यनेन स्वाभिमतं साधयतीति ॥४॥

०२ ब्राह्मणम्

भास्करोक्त-विनियोगः

अतः परं ब्राह्मणम् - रुद्रस्य त्वेवेत्यादि

विश्वास-प्रस्तुतिः

रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः ।
शिर॒ उत्पि॑पेष ।
स प्र॑व॒र्ग्यो॑ऽभवत् ।
तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति ।
नैनँ॑ रु॒द्र आरु॑को भवति ।

मूलम्

रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः ।
शिर॒ उत्पि॑पेष ।
स प्र॑व॒र्ग्यो॑ऽभवत् ।
तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति ।
नैनँ॑ रु॒द्र आरु॑को भवति ।

भट्टभास्कर-टीका

उक्तं “इन्द्रो वम्रिरूपेण आरुणकेतुकस्य धनुः ज्यामच्छिनत्” इति । अथ तस्य लूनज्याकस्य धनुषः को वृत्तान्त इत्याकाङ्क्षायां वृत्तान्तशेषं ब्राह्मणं स्वयमेव ब्रवीति । लूनज्याकस्य धनुषः ऊर्ध्वं कोटिरुत्सर्पति । तस्यैव रुद्रस्य आरुणकेतुकस्याग्नेः यज्ञस्य च वोढा धनुः प्रतिष्कभ्यातिष्ठत् । तस्यैव स्वामिनः शिरः उत्पिपेष चूर्णीकृत्य ऊर्ध्वमगमयत् यथेन्द्रेणाभिहिंसितम् । सः प्रवर्ग्याख्यं तेजः अभवत् । उक्तं च प्रवर्ग्ये “तस्य धनुर्विप्रवमाणं शिर उदवर्तयत्” इत्यादि । तस्मात् सप्रवर्ग्येण यज्ञेन यः यजते सः रुद्रस्य अग्नेः यज्ञस्यैव प्रकृतस्य लूनज्याकात्मीयधनुःकोट्युत्सारितं शिरः प्रतिदधाति पुनः स्वस्थाने स्थापयति । “यज्ञस्यैव तच्छिरः प्रतिदधाति” इत्येव च्छन्दोगाः ।

भास्करोक्त-विनियोगः

अतः परं वेदितुः स्तुतिः -

विश्वास-प्रस्तुतिः

य ए॒वं वेद॑ ॥ [16]

मूलम्

य ए॒वं वेद॑ ॥ [16]

भट्टभास्कर-टीका

यः एवम् आरुणकेतुकवृत्तान्तं वेद नैनं रुद्रः अयमग्निः आरुणकेतुकः आरुकः भवति । आर्तिं कृत्वा न बाधते । छान्दसः उकञ्; आङ्पूर्वो हिंसायां वर्तते ॥५॥ इत्यारण्यके प्रथमे पञ्चमोऽनुवाकः ॥५॥