०१ मन्त्राः
भास्करोक्त-विनियोगः
गता वर्षाः; शरदिदानीं वर्ण्यते ऋतुवतीष्षडुपदधाति - अक्षिदुःखोत्थितस्येति ॥
विश्वास-प्रस्तुतिः
अक्षि॑ दुः॒खोत्थि॑तस्यै॒व ।
वि॒प्रस॑न्ने क॒नीनि॑के ।
आङ्क्ते चाद्ग॑णन्ना॒स्ति ।
ऋ॒भूणा॑न्तन्नि॒बोध॑त ।
मूलम्
अक्षि॑ दुः॒खोत्थि॑तस्यै॒व । [[अत्र भाष्ये समस्तपदत्वेन व्याख्या कृता । भिन्नपदं मूले प्रतीयते । साधु वा??]]
वि॒प्रस॑न्ने क॒नीनि॑के ।
आङ्क्ते चाद्ग॑णन्ना॒स्ति ।
ऋ॒भूणा॑न्तन्नि॒बोध॑त ।
भट्टभास्कर-टीका
अनुष्टुभः सर्वाः; चतुर्थी तु उपरिष्टाज्ज्योतिः । त्रिष्टुबित्येके । तत्र प्रथमा । अक्षिदुःखोत्थितः निवृत्ताक्षिरोगः तस्येव । उपाध्याया ऐकारं ब्रुवते । एवशब्द एव सादृश्यं ब्रूते । वर्णव्यत्ययो वा । कनीनिके अक्षितारके । अवयवाभ्याम् अवयविनोः लक्षणा । अस्यर्तोः चक्षुषी विप्रसन्ने निवृत्तदोषे निर्मले भवतः । ऋतुचक्षुषोः प्रसन्नत्वात्ताभ्यां दृष्टं जलादिकमपि प्रसीदतीति । आङ्क्ते चक्षुषी कृताञ्जनसंस्कारे इव निर्मले करोति अयमृतुः । अत एव च अद्गणं नास्ति । चक्षुष्यं किञ्चित् तमोरूपमद्गणं यद्रजनीमुखेषु विजृम्भते, तदत्र प्रजा न बाधते । तत् एतत् सर्वम् ऋभूणां देवताविशेषाणां स्वभूतं सामर्थ्यं निबोधत ॥१॥
विश्वास-प्रस्तुतिः
क॒न॒का॒भानि॑ वासाँ॒सि ।
अ॒हता॑नि नि॒बोध॑त ।
अन्नमश्नीत॑ मृज्मी॒त ।
अ॒हव्ँ वो॑ जीव॒नप्र॑दः ।
मूलम्
क॒न॒का॒भानि॑ वासाँ॒सि ।
अ॒हता॑नि नि॒बोध॑त ।
अन्नमश्नीत॑ मृज्मी॒त ।
अ॒हव्ँ वो॑ जीव॒नप्र॑दः ।
भट्टभास्कर-टीका
अथ द्वितीया - कनकाभानीति ॥ तृतीयस्यैकश्रुत्यम्, अन्यत्र पूर्ववत् स्वरान्यत्वमनुसंधेयम् । तेषाम् ऋभूणां कनकाभानि स्वर्णाभानि अहतानि अच्छिद्राणि वासांसि परिधानानि निबोधत । अथ शारद्यो वाचः प्रदर्श्यन्ते - अन्नमश्नीत भक्ष्यं भोज्यं च पुष्कलम् अश्नीत । मृज्मीत शोधयत च लेपान् । यद्वा - मृष्टमश्नीतेति विशिष्टाशनविधिः मकारोपजनः छान्दसः, यासुडभावश्च । अहं खलु वो युष्माकं जीवनप्रदः प्राणधारणसाधनमन्नादिकं प्रकर्षेण युष्मभ्यं ददामि ॥२॥
विश्वास-प्रस्तुतिः
ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒दृश्य॑ते । [12]
अभिधून्वन्तोऽभिघ्न॑न्त इ॒व ।
वा॒तव॑न्तो म॒रुद्ग॑णाः ।
मूलम्
ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒दृश्य॑ते । [12]
अभिधून्वन्तोऽभिघ्न॑न्त इ॒व ।
वा॒तव॑न्तो म॒रुद्ग॑णाः ।
भट्टभास्कर-टीका
अथ तृतीया - एता इति ॥ एताः एवंप्रकाराः वाचः प्रयुज्यन्ते । कदा ? यत्र यदा शरत् उपदृश्यते । शरत्प्रतिपत्तौ हि व्रीह्यादीनामुत्पत्या अकिञ्चनोपि सुखभोजी भवतीति सर्वलोकोऽनेनर्तुना एताभिः वाग्भिः प्रेर्यमाण इव दृश्यते । अतः परं हेमन्तर्तुवर्णनम् - अभिधून्वन्तः कम्पयन्तः विश्वम् अभिघ्नन्त इव आभिमुख्येन हननं कुर्वन्त इव च भवन्ति । वातवन्तः वायुना बलेन वा तद्वन्तः मरुद्गणाः मरुतां देवताविशेषाणां संघाताः । अस्यर्तोरेति सहकारिणो भवन्ति ॥३॥
विश्वास-प्रस्तुतिः
अमुतो जेतुमिषुमु॑खमि॒व ।
सन्नद्धास्सह द॑दृशे॒ ह ।
अपध्वस्तैर्वस्तिव॑र्णैरि॒व ।
वि॒शि॒खासः॑ कप॒र्दिनः ।
मूलम्
अमुतो जेतुमिषुमु॑खमि॒व ।
सन्नद्धास्सह द॑दृशे॒ ह ।
अपध्वस्तैर्वस्तिव॑र्णैरि॒व ।
वि॒शि॒खासः॑ कप॒र्दिनः ।
भट्टभास्कर-टीका
अथ चतुर्थी - अमुत इति ॥ अन्त्यवर्जमेकश्रुति । इषुमुखम् इषुमुखविषयम् इषुमुखे वर्तमानं शत्रुं जेतुम् इव सन्नद्धाः कृतसन्नाहाः कवचादिभृतः सह सङ्घीभूताः अमुतः अन्तरिक्षात् ते मरुद्गणा ददृशे दृश्यन्ते प्रकाशमाना भवन्ति । छान्दसो लिट् । वचनव्यत्ययेनैकवचनम् । यद्वा - लट्येव “बहुलं छन्दसि” इति शपः श्लुः, “लोपस्त आत्मनेपदेषु” इति तलोपः । ह इति पादपूरणः । अपध्वस्तैः अवलम्बितैः अपगतध्वंसैर्वा वस्तिवर्णैः वस्त्राकारैरिव कैश्चित्परिधानैरुपलक्षिताः । वसेः कर्मणि क्तिनि वस्तयो वस्त्राणि । विशिखासः विविधशिखाः तत्रापि कपर्दिनः बद्धशिखण्डाः । अन्ते द्वावुदात्तौ ॥४॥
विश्वास-प्रस्तुतिः
अक्रुद्धस्य योत्स्य॑मान॒स्य ।
क्रु॒द्धस्ये॑व॒ लोहि॑नी ।
हेमतश्चक्षु॑षी वि॒द्यात् ।
अ॒क्ष्णयोः॑ क्षिप॒णोरि॑व ।
मूलम्
अक्रुद्धस्य योत्स्य॑मान॒स्य ।
क्रु॒द्धस्ये॑व॒ लोहि॑नी ।
हेमतश्चक्षु॑षी वि॒द्यात् ।
अ॒क्ष्णयोः॑ क्षिप॒णोरि॑व ।
[13]
भट्टभास्कर-टीका
अथ पञ्चमी - अक्रुद्धस्य अप्यस्यर्तोः हेमतः हिमवतः । हेभावः छान्दसः । योत्स्यमानस्य क्रुद्धस्येव पुरुषस्य चक्षुषी लोहिनी लोहितवर्णे विद्यात् । व्यत्ययेन स्त्रीलिङ्गता । “वर्णादनुदात्तात्” इति ङीब्नकारौ । “वा छन्दसि” इति पूर्वसवर्णदीर्घत्वम् । हिमोपघातेन तदानीं प्रजानां चक्षुषां लोहितत्वादेवमुक्तम् । किञ्चायमृतुः अक्ष्णयोः क्षिपणोरिव । यकारस्य स्थानव्यत्ययः । अक्ष्णोः क्षिपण्योरित्यर्थः । क्षिपणी क्षेपणी कशा । क्षिपण्योरिवायमक्ष्णोः प्रेरयिता भवति । अक्षिप्रेरणमात्रेण प्रवृत्तेः क्षेपण्योरिव सर्ववस्तुविनाशहेतुत्वाद्वा अक्ष्णोः प्रवर्तकत्वातिशयप्रतिपत्यर्थं विनाशहेतुप्रतिपत्यर्थं वा अक्ष्णोः क्षिपणीसादृश्यम् ॥५॥
विश्वास-प्रस्तुतिः
दुर्भिक्षन्देव॑लोके॒षु ।
म॒नूना॑मुद॒कङ्गृ॑हे ।
ए॒ता वा॒चः प्र॑वद॒न्तीः ।
वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ।
मूलम्
दुर्भिक्षन्देव॑लोके॒षु ।
म॒नूना॑मुद॒कङ्गृ॑हे ।
ए॒ता वा॒चः प्र॑वद॒न्तीः ।
वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ।
भट्टभास्कर-टीका
अथ षष्ठी - दुर्भिक्षमिति॥ अत्र शिशिरमधिकृत्योच्यते । दुर्भिक्षं दुःखेन भिक्ष्यं लभ्यं दुर्भिक्षम् उदकं देवलोकेषु देवग्रहणात् ज्योतिषां प्रकाशस्थाने अन्तरिक्षे । अतः परम् अन्तरिक्षे उदकभिक्षा नास्ति, वृष्ट्यभावात् । मनूनां मनुष्याणां गृहे इदानीम् उदकं तिष्ठतीति । उपलक्षणमिदं गुप्तप्रदेशानां कूपादीनाम् । तस्मादुदकार्थिभिः तत एवोदकं ग्राह्यमिति । एताः एवंरूपा वाचः प्रवदन्तीः एवं प्रकर्षेण वदन्त्यः इव यान्ति गच्छन्ति । वदतिरत्र प्रकाशने । एवं प्रकाशयन्त्यो वाच इति, यथा “वाचं वदन्तीम्” इति ।वैद्युतः विद्योतनशीलाः । विद्युतो वा । वर्णव्यत्ययेनैकारः, यलोपो वा । शैशिरीः शिशिरे भवाः शैशिर्यः । उत्साद्यञन्तात् ङीप् । उभयत्रापि “वा छन्दसि " इति पूर्वसवर्णदीर्घत्वम् । यद्वा - एताः शैशिरीः वाचः प्रवदन्त्यो वैद्युतो यान्ति क्वापि लयं गच्छन्तीति । यद्वा - वैद्युतो नाम वायोः स्त्रियः विद्युद्रूपाः यान्ति गच्छन्ति । छान्दसो यलोपः ॥६॥
०२ ब्राह्मणम्
विश्वास-प्रस्तुतिः
ता अ॒ग्निः पव॑माना॒ अन्वै॑क्षत ।
इ॒ह जी॑वि॒कामप॑रिपश्यन् ।
तस्यै॒षा भव॑ति ।
मूलम्
ता अ॒ग्निः पव॑माना॒ अन्वै॑क्षत ।
इ॒ह जी॑वि॒कामप॑रिपश्यन् ।
तस्यै॒षा भव॑ति ।
भट्टभास्कर-टीका
अतः परं ब्राह्मणम् - ता वाचो विद्युतो वा पवमानाः शोधयन्तीः निरुदकं लोकं कुर्वन्तीः अग्निः अन्वैक्षत अनुक्रमेण ऐक्षिष्ट । इह पृथिव्यां जीविकां जीवनहेतुम् उदकम् अपरिपश्यन् । एता एवं प्रवदन्ति, इह च उदकं न पश्यामि, किं भविष्यतीति ता एव गच्छन्तीरनुक्रमेणासंतृप्त एवैक्षतेति । तस्य एतस्यार्थस्य प्रतिपादिका एषा वक्ष्यमाणा ऋक् भवति ॥७॥
विश्वास-प्रस्तुतिः
इ॒हेह व॑स्स्वत॒पसः ।
मरु॑त॒स्सूर्य॑त्वचः ।
शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ [14]
मूलम्
इ॒हेह व॑स्स्वत॒पसः । [[इ॒हेहव॑ → इ॒हेह व॑ ]]
मरु॑त॒स्सूर्य॑त्वचः ।
शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ [14]
भट्टभास्कर-टीका
इहेहेति ॥ इयं त्रिपदा गायत्री । हे मरुतः स्वतपसः स्वायत्ततपसः सूर्यत्वचः सूर्यदीप्तयः सूर्यरूपाः वा तत्प्रेषणकारित्वात् अहं वः युष्मत्सकाशात् शर्म सुखं कीदृशम् ? सप्रथाः प्रथनवत् विस्तीर्णम् । वर्णव्यत्ययेनाकारः । इहेह इह चेह स्थाने आवृणे आभिमुख्येन वृणे प्रार्थये । “इह जीविकामपरिपश्यन्” इत्युक्तम्, तस्मादिह सर्वस्मिन् पृथिव्यवकाशे जीविकाभूतमुदकं विस्तीर्णमुदकं युष्मत्सकाशात् प्रसादेन प्राप्नवानीति प्रार्थयते । अत्र मरुत इति हेमन्ते प्रसिद्धाः मरुद्गणाः आमन्त्र्यन्ते, हेमन्तशिशिरयोरेकदेवताकत्वात् “सतां सत्यानाम्” इति च तेषामेव संज्ञाभेद इति । अत एव हेमन्तशिशिरयोरेकत्वात् “पञ्च वा ऋतवः” इत्यादिकमुपपद्यते । “हेमन्तशिशिरावृतूनां प्रीणामि” इत्यादिसहनिर्देशादिश्चोपपन्नो भवति ॥८॥
इति आरण्यके प्रथमे चतुर्थोऽनुवाकः ॥४॥