०३ सङ्ख्यावत्य्-उपधानम्

०१ मन्त्राः

भास्करोक्त-विनियोगः

एकादश संख्यावतीरुपदधाति - साकंजानामिति ॥ प्रथमा जगती; द्वितीया त्रिपदा गायत्री; तृतीया त्रिष्टुप्; उत्तरा अनुष्टुभः ; अन्त्या द्विपदा गायत्री । तत्र प्रथमा - साकंजानामिति । पुनरादित्यात्मना इष्टकाः स्तोतुं तस्य कालविशेषकारित्वेन स्तुतिः प्रस्तूयते । तत्रायं कालोऽनादिप्रवृत्तो वा? कुतश्चिद्वा अक्षय्यात् प्रवृत्तः? कादाचित्कादित्यादिपरिस्पन्दात्मा ? सर्वथा तस्यादित्यप्रवृत्तिनिबन्धनमेव विशेषणान्वयनिमित्तं वैलक्षण्यमिति सामान्येनोक्तं पूर्वानुवाके । अत्र तु वैलक्षण्ये विशेषहेतुम् ऋतुप्रवृत्तिं दर्शयति

विश्वास-प्रस्तुतिः

सा॒क॒ञ्जानाँ॑ स॒प्तथ॑माहुरेक॒जम् ।
षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः ।
स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ।

मूलम्

सा॒क॒ञ्जानाँ॑ स॒प्तथ॑माहुरेक॒जम् ।
षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः ।
स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ।

भट्टभास्कर-टीका

साकंजानां सहजानाम् आदित्यात् सहोत्पन्नानां रश्मीनां सप्ततं सप्तमम् । सप्तानां पूरण इति “थट्च छन्दसि” इति थडागमः । स पुनः “सूर्यो मरीचिमादत्ते” इति पूर्वोक्तः । तं मरीचिं सप्तानां मध्ये एकजम् एकत्वेन प्रधानत्वेन जातं सर्वसारभूतम् आहुः मन्त्रदृशः । अन्ये ये देवजाः षड् ऋषयः अर्षणादृषयः प्रकाशकत्वात् ते तस्यैवैकस्य उद्यमाः उद्यमनसाधनानि शिक्यषादस्थानीया गुणभूताः सहकारिण इति अप्याहुः । ते तु षण्णाम् ऋतूनां प्रवर्तका इति भावः । तदेव प्रपञ्चयति - तेषामिति । तेषां च ऋषीणाम् इष्टानि अभिप्रेतानि साधनानि विहितानि विविधं स्थापितानि वै । धामशः नामशः नामानि च भिन्नानि । “संख्यैकवचनाच्च” इति शस् । विकृतानि स्थात्रे स्थापयित्रे आदित्यात्मने संवत्सराय विविधं कृतानि रेजन्ते दीप्यन्ते । वर्णव्यत्ययेन एत्वम् । स्वामिकार्यसंपादनसामर्थ्येन उज्ज्वलानि भवन्ति । यद्वा - स्वामिकार्यार्थं रूपशो विकृतानि रेजन्ते कम्पन्ते । रेजृ कम्पने । उपकरणानां प्राधान्यख्यापनार्थं तान्येव रेजन्ते इत्युक्तानि ॥१॥

भास्करोक्त-विनियोगः

एवं सम्पूर्णसामग्रीका अप्रमत्ताः सखायस्सन्तः स्वामिकार्यमेव निर्वर्तयन्तीत्युक्तम् । इदानीं सखित्वादेवैते परस्परमप्रतिकूलाः स्वामिकार्यं निर्वहन्तीति दर्शयति । को नु मर्या इति द्वितीयया[द्वितीया → द्वतीयया??] ॥

विश्वास-प्रस्तुतिः

को नु॑ मर्या॒ अमि॑थितः ।
सखा॒ सखा॑यमब्रवीत् ।
जहा॑को अ॒स्मदी॑षते ।

मूलम्

को नु॑ मर्या॒ अमि॑थितः ।
सखा॒ सखा॑यमब्रवीत् ।
जहा॑को अ॒स्मदी॑षते ।

भट्टभास्कर-टीका

हे मर्य्या मनुष्या इदं ब्रूत को नु खलु युष्माकं मध्ये अमिथितः अबाधितः सखा समानख्यानस्सन् सखायं समानख्यानम् अब्रवीत् । इतः प्राक् किमेवं वक्ता दृष्टः सखा । कथमित्याह - जहाकः हानशीलः । जहातेरौणादिकः आकप्रत्ययः, द्विर्वचनं च । अयं हि तत्स्वभावः अस्मत्तः अस्मत्सकाशात् ईषते भीतः पलायते इति किमेवं कश्चित्सखा सखायं ब्रूते ; नैवं प्रतिकूलस्वभावित्वं सखिषु विद्यते इति । ईष गत्यादिषु ॥२॥

भास्करोक्त-विनियोगः

इत्थं सखीनां परस्पर विरोध एव नास्तीति प्रतिपादितम् । इदानीं सखिद्रोहिणो निन्दां दर्शयति - यस्तित्याजेति तृतीयया ॥

विश्वास-प्रस्तुतिः

यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑यम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति । [8]
न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ।

मूलम्

यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑यम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति । [8]
न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ।

भट्टभास्कर-टीका

सखिविदं सखीनां लब्धारं, सखित्वस्य वा ज्ञातारं सखायं यस्तित्याज त्यजति । छान्दसो लिट् । तस्य दुरात्मनः वाच्यपि भागो नास्ति वेदात्मिकायां वाचि अध्ययनाधिकारभागित्वमपि नास्ति । दूरे अर्थज्ञानयजनादिभागित्वम् । ईम् इति पादपूरणे । यत् यद्यपि स जाल्मः शृणोति (अर्थज्ञानादिकं करोति) अलकं शृणोति नैव शृणोति । अलमिति प्रतिषेधे । “अव्ययसर्वनाम्नामकच्प्राक्टेः” इत्यकच् । श्रवणफलाभावात् अश्रवणमेव तत् । हेतुमाह - न हि असौ सुकृतस्य सुष्ठुकरणार्हस्य फलस्य पन्थां मार्गं प्रवेद न प्रजानाति स पुनः पन्था अयमेवारुणकेतुकोऽग्निः । एवं सखिद्रोहिणः स्वाध्यायाध्ययनार्थावबोधयजनादिषु अधिकाराभावो मन्त्रलिङ्गेन दर्शितः । वेदेत्याख्यातस्य “हि च” इति निघाताभावः । समासगतिनिघातावुक्तौ । “सूपमानात्कः” इति सुकृतशब्दोन्तोदात्तः । पान्थमिति छान्दसमात्वं ; नलोपो वा । इतिशब्दो हेतौ । हिः पादपूरणार्थः । यद्वा - हिशब्दो हेतौ । इतिशब्दस्समाप्तौ । एवं सखिद्रोहिणः स्वाध्यायाध्ययनार्थावबोधयजनेष्वधिकाराभावो मन्त्रलिङ्गेन दर्शितः ॥३॥

भास्करोक्त-विनियोगः

अथ चतुर्थी - ऋतुर् ऋतुनेति ॥ अत्र ऋतूनां निर्वहणक्रमं दर्शयति -

विश्वास-प्रस्तुतिः

ऋ॒तुर्ऋ॑तुनानु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः ।
षष्टिश्च त्रिँश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ।

मूलम्

ऋ॒तुर्ऋ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः ।
षष्टिश्च त्रिँश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ।

भट्टभास्कर-टीका

ऋत्ववयवस्संवत्सरः ऋतुः सः ऋतुना वसन्तादिना नुद्यमानः प्रेर्यमाणः अभिधावः आभिमुख्येन धावन्न वेगेन गच्छन् विननाद विनदति विविधान् शब्दान्करोति जनयति । छान्दसो लिट् । यथा रथादिः प्रेर्यमाणः शब्दं करोति तूर्णगतिरेवं संवत्सरोपि प्रेर्यमाणः शब्दं करोति इत्युपचर्यते वेगवत्वप्रतिपादनार्थम् । यद्वा - विविधान् नादान् लोकस्य जनयति ऋतुभेदेन लोकस्य वाचो भिद्यन्ते । तच्च परस्तात् “एता वाचः प्रयुज्यन्ते” इत्यादौ वक्ष्यते । अपरा योजना - ऋत्ववयवौ मासौ ऋतुशब्देनोच्येते ; यथा “मधुश्च माधवश्च वासन्तिकावृतू” इति । अत्र च ऋतूनां सङ्गत्यतिशयः प्रतिपाद्यते । ऋतुना नुद्यमानः ऋतुः द्वितीयो मासः विननाद विनदति । कथम् अभिधावः तूर्णं तर्ह्यागच्छेति । एवं स्वामिकार्यायोद्युक्तौ परस्परसङ्गत्या ऋतुधर्मानुपजनयन्तौ संवत्सरत्वेन परिणमेते इति । अभिपूर्वाद्धावतेः लोण्मध्यमपुरुषैकवचने “इतश्च लोपः” इतीकारस्य लोपः । ऋतुनेत्यस्य छान्दसं सर्वानुदात्तत्वम् । एवं द्वौ मासौ एक ऋतुरित्युक्तं ; स च षष्टिश्च त्रिंशका वर्गाः त्रिंशत्परिमाणमेषामिति त्रिंशकाः । “विंशतित्रिंशद्भ्यां ड्वुन्” इति ड्वुन्प्रत्ययः । वर्गाः समूहाः त्रिंशन्मुहूर्ताः एकस्मिन् अहोरात्रे । तेन तादृशाः अहोरात्रा वर्गशब्देनोच्यन्ते । तादृशाः षष्टिवर्गाः एक ऋतुः । शुक्लकृष्णौ शुक्लतिथिवर्गः कृष्णतिथिवर्गश्च । एतौ द्वौ त्रिंशकौ एकस्मिन् ऋतौ षाष्टिकौ सम्भूय षष्टिपरिमाणौ । “प्राग्वहतेष्ठन्” इति ठन् । एवं त्रिंशन्मुहूर्तपरिमाणषष्ट्यहोरात्रात्मक एक ऋतुः ; स च शुक्लकृष्णात्मकषष्टितिथिपरिमाणा इति प्रतिपादितं भवति । अस्यास्संख्यावत्वं सर्वासां नामनिमित्तं छत्रिवत् ॥४॥

भास्करोक्त-विनियोगः

एवं सर्वर्तुप्रवृत्तिसाधारणो विधिर्दर्शितः । इदानीम् ऋतूनां प्रथमं वसन्तमधिकृत्योच्यते - सारागवस्त्रैरिति पञ्चम्या ॥

विश्वास-प्रस्तुतिः

सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भिस्स॒ह ।
सव्ँवत्सर॑स्य स॒वितुः ।
प्रै॒ष॒कृत्प्र॑थ॒मस्स्मृ॑तः ।

मूलम्

सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भिस्स॒ह ।
सव्ँवत्सर॑स्य स॒वितुः ।
प्रै॒ष॒कृत्प्र॑थ॒मस्स्मृ॑तः ।

भट्टभास्कर-टीका

आरागाः सर्वतो रागः तत्सहितानि वस्त्राणि येषां तैः वसुभिः प्रजानां वासहेतुभिः देवताविशेषैः सह संवत्सरात्मनः सवितुः देवस्य प्रैषकृत् किङ्करस्थानीयः प्रथमः ऋतुः स्मृतः मन्त्रदृग्भिः वसन्तो नाम । वसन्त्यत्र सुखिताः प्रजा इति वसन्तः । औणादिको झच् । यद्वा - “अमूनादयत” इत्यादेः प्रैषस्य कर्ता जलदक्षः जले दक्षः समर्थः सर्वत्र प्रजानां तत्र जलप्रियत्वात् । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । सारागवस्त्रैरिति बहुव्रीहिस्वराभावः छान्दसः ; सन्नतराभावश्च ॥५॥

भास्करोक्त-विनियोगः

अथ षष्ठी -अमूनिति ॥ यदुक्तमृतुना नुद्यमानः ऋतुर्विविधं नुदतीति तत्र वसन्तस्य नुद्यमानस्य वाचः अनया प्रदर्श्यन्ते -

विश्वास-प्रस्तुतिः

अ॒मूना॒दय॑तेत्य॒न्यान् । [9] अ॒मूँश्च॑ परि॒रक्ष॑तः ।
ए॒ता वा॒चः प्र॑पद्य॒न्ते ।
यत्रैत॑दुप॒दृश्य॑ते ।

मूलम्

अ॒मूना॒दय॑तेत्य॒न्यान् । [9] अ॒मूँश्च॑ परि॒रक्ष॑तः ।
ए॒ता वा॒चः प्र॑पद्य॒न्ते ।
यत्रैत॑दुप॒दृश्य॑ते ।

भट्टभास्कर-टीका

अमूनादयत भोजयत इति अन्यान् कांश्चित् ब्राह्मणान् प्रयुङ्क्ते । कुत एतत् ? एताः वाचः प्रयुज्यन्ते इति वक्ष्यमाणत्वात् । अमून् परिरक्षतः अन्यान् व्यतिरिक्तान् ब्राह्मणान् प्रयुङ्क्ते । वसन्ते प्रवृत्ते ब्राह्मणानां यज्ञोपनयनादौ प्रवृत्तेः अयनादौ निरुपद्रवावस्थानात् । एवं संवत्सर ऋतुद्वारेण जगद्व्यवस्थां ब्रवीतीति निरूप्यते । यद्वा - नोदकस्य ऋतोर्नोदनशब्दा एते “अमूनादयत, अमून्रक्षत” इति । अत्र लोण्मध्यमपुरुषबहुवचनस्य सकारोपजनः छान्दसः । व्यत्ययेन वा लट् प्रथमपुरुषद्विवचनान्तस्य । एवम् एताः वाचः प्रयुज्यन्ते यत्र एतत् वसन्तस्य स्वरूपम् उपदृश्यते । यद्वा - यत्र वसन्ते एतदारुणकेतुकस्य अग्नेश्चयनमुपदृश्यते । एतदनुष्ठानेन सम्यगृतुधर्माः प्रवर्तन्त इति यावत् । यत्रेति पूर्ववन्निहतानि ॥६॥

विश्वास-प्रस्तुतिः

ए॒तदे॒व वि॑जानी॒यात् ।
प्र॒माण॑ङ्काल॒पर्य॑ये ।
वि॒शे॒ष॒णन्तु॑ वक्ष्या॒मः ।
ऋ॒तूना॑न्तन्नि॒बोध॑त ।

मूलम्

ए॒तदे॒व वि॑जानी॒यात् ।
प्र॒माण॑ङ्काल॒पर्य॑ये ।
वि॒शे॒ष॒णन्तु॑ वक्ष्या॒मः ।
ऋ॒तूना॑न्तन्नि॒बोध॑त ।

भट्टभास्कर-टीका

सप्तमी - एतदेवेति ॥ एतत् आरुणकेतुकानुष्ठानम्मे एव कालस्य पर्याये परिवर्तने ऋतुधर्माणां स्वस्मिन्स्वस्मिन्काले यथापूर्वोन्मेषणे प्रमाणं कारणं विजानीयात् । यद्वा - यदेतत् वसन्तप्रवृत्तौ कालधर्माणां वैलक्षण्यप्रदर्शनं यथोक्तप्रकारं सर्वकालपर्यये प्रमाणं विजानीयात् । एवमेव सर्वेऽपि ऋतवो भिन्नस्वभावा इत्यनुमातव्यं सामान्यरूपम् । तत्र यत् ऋतूनां विशेषणं विशिष्टं रूपं तदपि वक्ष्यामःतत् उच्यमानं निबोधत हे बुधाः । बुध बोधने, भौवादिकः । पूर्ववत् स्वरव्यत्यया अनुसन्धेयाः ॥७॥

विश्वास-प्रस्तुतिः

शुक्लवासा॑ रुद्र॒गणः ।
ग्री॒ष्मेणा॑वर्त॒ते स॑ह ।
नि॒जह॑न्पृथि॑वीँ स॒र्वाम् । [10] ज्यो॒तिषा॑ (ऽ)प्रति॒ख्येन॑ सः ।

मूलम्

शुक्लवासा॑ रुद्र॒गणः ।
ग्री॒ष्मेणा॑वर्त॒ते स॑ह ।
नि॒जह॑न्पृथि॑वीँ स॒र्वाम् । [10] ज्यो॒तिषा॑ (ऽ)प्रति॒ख्येन॑ सः ।

[[प्रति॒ख्येन॑ → (ऽ)प्रति॒ख्येन॑ ??]]

भट्टभास्कर-टीका

अथाष्टमी - शुक्लवासा इति ॥ प्रथमतृतीययोरैकश्रुत्यं, प्रथमस्याद्युदात्तत्वात् । इदं ग्रीष्मवर्णनम् । शुक्लवस्त्रपरिधानो रुद्राणां रोदयितृस्वभावानां देवताविशेषाणां गणः ग्रीष्मेण सहावर्तते । गृह्यतेऽस्मिन्नुदकमिति ग्रीष्मः सः रुद्रगणः पृथिवीं सर्वाम् अप्रतिख्येन अप्रतिरूपकेण अप्रतिघातेन वा ज्योतिषा निदहन् नितरां दहन् ग्रीष्मेण सह ऋतुधर्मान् प्रवर्तयन् सवितुरभिप्रायेण पुनःपुनः प्रवर्तते । स्वरान्यत्वं यथायथं द्रष्टव्यम् ॥८॥

विश्वास-प्रस्तुतिः

वि॒श्व॒रू॒पाणि॑ वासाँ॒सि ।
आ॒दि॒त्याना॑न्नि॒बोध॑त ।
सव्ँवत्सरीण॑ङ्कर्म॒फलम् ।
वर्षाभिर्द॑दताँ॒ सह ।

मूलम्

वि॒श्व॒रू॒पाणि॑ वासाँ॒सि ।
आ॒दि॒त्याना॑न्नि॒बोध॑त ।
सव्ँवत्सरीण॑ङ्कर्म॒फलम् ।
वर्षाभिर्द॑दताँ॒ सह ।

भट्टभास्कर-टीका

अथ नवमी - विश्वरूपाणीति ॥ तृतीयचतुर्थयोरैकश्रुत्यम् । द्वे अप्युदात्ते । अत्र वर्षा वर्ण्यन्ते । विश्वरूपाणि नानावर्णयुक्तानि वासांसि आदित्यानां निबोधत । किं कुर्वताम् ? संवत्सरीणं संवत्सरभावि । “संपरिपूर्वात्ख च” इति खः । कर्मफलं कर्मणः कृष्यादेः फलं निष्पत्तिं वर्षाभिः वर्षर्तुना सह ददतां प्रयच्छतां प्रजाभ्यः वर्षासूत्पन्नस्य संवत्सरोपभोग्यत्वात् । यद्वा - संवत्सरीणस्य कर्मफलस्य हेतुमुदकं कृष्यादि कर्मफलहेतुत्वात्ताच्छब्द्यम् । ज्योतिष्टोमादेः कर्मणो वा फलभूतम् उदकं ग्रीष्मेण ग्रस्तं वृष्टिरूपेण ददतां जगद्रक्षणार्थमिति । प्रथमे पादे समासविभक्त्यन्तयोः स्वरान्यत्वेनान्तोदात्तत्वम् ॥९॥

विश्वास-प्रस्तुतिः

अदुःखो॑ दुःखच॑क्षुरि॒व ।
तद्मा॑(ऽ)पीत इव॒ दृश्य॑ते । शीतेना॑व्यथ॑न्नि॒व ।
रु॒रुद॑क्ष इव॒ दृश्य॑ते ।

मूलम्

अदुःखो॑ दुःखच॑क्षुरि॒व ।
तद्मा॑(ऽ)पीत इव॒ दृश्य॑ते ।[[तद्मा॑पीत → (ऽ)तद्मा॑(ऽ)पीत ??भाष्ये भिन्नपदत्वेन एवं समस्तपदत्वेनापि व्याख्या । भिन्नपदत्वे वा समस्तपदत्वेवा स्वरः यथास्थित एव भवति वा]]
शीतेना॑व्यथ॑न्नि॒व ।
रु॒रुद॑क्ष इव॒ दृश्य॑ते ।

भट्टभास्कर-टीका

अथ दशमी - अदुःख इति ॥ अयं वर्षर्तुरेव दृश्यते । अदुःखः सर्वदुःखरहितोऽपि दुःखचक्षुरिव दृश्यते अक्षिरोगेण कालिमादिनाऽभिभूतचक्षुषः प्रजा भवन्तीति कालोऽप्युपचर्यते । किञ्च - तद्मा तेन कालिमादिना अक्षिरोगेण तद्वान् स्वयमपि अपीत इव लोको दृश्यते चक्षुषामपीतवर्णत्वात् स्वयमप्यपीत [[आपीतः-अपीतः??]] इव प्रतिभाति । मतोर्वत्वाभावः अन्त्यलोपश्च वर्णान्यत्वम् । यद्वा - तस्मिन्काले लोको मयतीति तद्मा आपः ताभिः पीत इव लोको दृश्यते । किञ्च शीतेन तत्कालाभिवृद्धेन व्यथाहेतुनाऽपि अव्यथयन्निव अहिंसयन्निव प्रजा दृश्यते, शीतत्राणावहितत्वात् सर्वलोकस्य । किञ्च रुरुदक्षः रुरुभिः मृगैः समृद्ध इवदृश्यते । मृगपूगानां तद्वधकारिणामसंचारात् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । अतिदुर्बला मृगा अपि तस्मिन्काले सुखं वर्तन्त इति ॥१०॥

विश्वास-प्रस्तुतिः

ह्लादयते॑ ज्वल॑तश्चै॒व ।
शा॒म्यत॑श्चास्य॒ चक्षु॑षी ।

मूलम्

ह्लादयते॑ ज्वल॑तश्चै॒व ।
शा॒म्यत॑श्चास्य॒ चक्षु॑षी ।

भट्टभास्कर-टीका

अथैकादशी - ह्लादयते इति ॥ प्रथमस्यैकश्रुत्यम् । ह्लादयते लोकमयमृतुः वृष्टिसमृद्ध्या । तत्र हि “अहो सुवृष्टो देवः संपत्स्यन्ते नस्सस्यानि” इति सर्वो लोको ह्लादं भजते । अस्य एवंविधस्य वर्षर्तोः चक्षुषी ज्वलतश्च शाम्यतश्च । अन्तर्भावितण्यर्थौ ज्वलतिशाम्यती । पदार्थान् ज्वलयतः शमयतश्चेति । अनेन हि ऋतुना दृष्टाः पदार्थाः शक्तिविशेषलाभेन औज्ज्वल्यं भजन्ते, शान्ता निवृत्तोपद्रवाश्च भवन्तीति । यद्वा - पदार्थानाम् औज्ज्वल्यशमने चक्षुषोरुपचर्येते - यत्र यत्रास्य दृष्टिः तत्सर्वं ज्वलति शाम्यति च । तस्माद्विश्वमप्याह्लादयत इति । शाम्यत इति श्यन उदात्तत्वं स्वरान्यत्वम् ॥११॥

०२ ब्राह्मणम्

विश्वास-प्रस्तुतिः या वै प्रजा भ्रँ॑श्य॒न्ते । सव्ँवत्सरात्ता भ्रँ॑श्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति । सव्ँवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य॑ इत्य॒र्थः ॥ [11]
मूलम् या वै प्रजा भ्रँ॑श्य॒न्ते । सव्ँवत्सरात्ता भ्रँ॑श्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति । सव्ँवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य॑ इत्य॒र्थः ॥ [11]
भट्टभास्कर-टीका

उत्तरं ब्राह्मणम् - या वै प्रजा इति॥ चत्वारि वाक्यान्येकश्रुतीनि; तृतीये प्रसक्ताद्युदात्तत्वमेव । केचिदैकश्रुत्यमाहुः । यदुक्तं “संवत्सरीणं कर्मफलं वर्षाभिः नीयते” इति तत्स्वयमेव ब्राह्मणं व्याचष्टे - याः प्रजा भ्रंश्यन्ते ऋतुविपर्यासजन्मना अवग्रहादिना सस्यादिहेतुभूतसम्यग्वृष्ट्यभावेन वर्षर्तौ गलितर्तुसंपदो भवन्ति ताः संवत्सरात् एव भ्रंश्यन्ते । आगामिनि सर्वस्मिन्नपि संवत्सरे गलितर्तुसंपदस्ताः प्रजा भवन्ति । याः पुनः प्रजाः प्रतितिष्ठन्ति अनेनर्तुनाऽनुगृहीताः तृप्ता भवन्ति ताः सर्वस्मिन्नपि संवत्सरे प्रतितिष्ठन्ति
ननु नात्र वर्षर्तुग्रहणं, तत् कुतो भ्रंशः, कुत्र वा प्रतिष्ठेत्यत आह - वर्षाभ्य इत्यर्थः इति। या वर्षाभ्यो भ्रंश्यन्ते या वर्षासु प्रतितिष्ठन्तीत्ययमर्थोऽत्र विवक्षित इत्यर्थः, वर्षाणां प्रकृतत्वात् । वर्षाभ्य इति प्रदर्शनम्, वर्षास्वित्यर्थः इत्यपि वेदितव्यम् । केचिदाहुः - हेतौ पञ्चमी, सप्तमी च निमित्ते । वर्षाभ्य इति च संवत्सरस्यैव विशेषणम् । वर्षर्तुरूपेणावस्थितो यः संवत्सरः तद्धेतुकः सर्वप्रजानां प्रभ्रंशः तन्निमित्तैव च प्रतिष्ठेति ॥१२॥ इति आरण्यके प्रथमे तृतीयोऽनुवाकः ॥३॥