०१ दर्भोपधानम्
भास्करोक्त-विनियोगः
अथोभयतो दर्भस्तम्बस्य अष्टावुपदधाति - स्मृतिः प्रत्यक्षमित्याद्याः सर्वा अनुष्टुभः ॥
विश्वास-प्रस्तुतिः
स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्य॑म् ।
अनु॑मानश्चतुष्ट॒यम् ।
ए॒तैरादि॑त्यमण्डलम् ।
सर्वै॑रेव॒ विधा॑स्यते ।
मूलम्
स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्य॑म् ।
अनु॑मानश्चतुष्ट॒यम् ।
ए॒तैरादि॑त्यमण्डलम् ।
सर्वै॑रेव॒ विधा॑स्यते ।
भट्टभास्कर-टीका
तत्र प्रथमा - अत्र स्मृत्यादीन्यनुमानान्तानि विद्यास्थानानि आरोपितदेवताभावानि आदित्यस्तुतिद्वारेण इष्टकात्वेन स्तूयन्ते, तदभिमानिन्यो वा देवताः । स्मृतिः मन्वादिशास्त्रम् अनुमेयश्रुतिमूलम् । प्रत्यक्षं श्रोत्रादीन्द्रियग्राह्योऽकृत्रिमो वेदाख्योऽक्षरराशिः । अक्षमक्षं प्रति प्रत्यक्षम् । यथार्थेऽव्ययीभावः, “कूलतीर” इत्यादिना उत्तरपदाद्युदात्तत्वम् । ताद्धर्म्याद्धर्मिणि वृत्तिः । ऐतिह्यशब्देनेतिहासपुराणं गृह्यते । इति हासत् भूदिति प्रायेणैवंरूपेऽर्थे इतिहासग्रन्थकृतिः । छान्दसो ण्यत् । यद्वा - इतिहेतिनिपातसमुदायेन इतिहासपुराणं लक्ष्यते । तदेवैतिह्यं “अनन्तावसतेतिहभेषजाञ्ञ्यः” इति ञ्यस्य व्यत्ययेनान्तस्वरितत्वम् । अस्याऽपि विद्यास्थानत्वं व्यासादिदर्शनात्, श्रुतिपरिग्रहाच्च । तथा हि - वैश्वसृजेषूपधानमन्त्रेषु “इतिहासपुराणं च” इति इष्टकात्वेन चोद्यते । “तेनाथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि” इति शिरःप्रभृत्यालम्बने वेदत्वमेव श्रूयते । “यद्ब्राह्मणानीतिहासान्पुराणानि” इति ब्रह्मयज्ञस्वाध्यायत्वं श्रूयते । अङ्गन्यायमीमांसास्त्वितिकर्तव्यतारूपत्वाद्वेदग्रहणेनैव गृहीता भवन्ति । अनुमीयते अनेनेति अनुमानः आचारः । यत्र तु ग्रन्थकरणं स्मृत्या सा स्मृतिः, यत्र तु विनैव ग्रन्थमाचार एव स्वमूलमुपस्थापयति सोऽनुमान इति । एतच्चतुष्टयं चतुरवयवं धर्मप्रमितिसाधनम् । “संख्याया अवयवे तयप्” । वाक्यस्यैकश्रुतित्वादन्त्यमुदात्तम् । इत्थं धर्मसाधनत्वेन विभक्तरूपमभिधाय इदानीं सर्वपरिग्रहार्थम् अविभक्तरूपाणि स्मृत्यादीनि बहुवचनेन गृह्यन्ते । एतैस्सर्वैरेव न किञ्चित्परिहाय समस्तैरपि धर्मसाधनैरेतैः विद्यास्थानैः आदित्यमण्डलम् आदिभूतस्य देवस्य सवितुर्मण्डलं विधास्यते प्रमीयते । छान्दसो लृट् । यादृशं मण्डलमिदं भवति, यादृशं च प्रवर्तते, यथा वा मन्वन्तरादिभेदेन भिन्नं कालं प्रवर्तयति, यथा चोदकसृष्ट्यादिना विश्वमुत्पादयति तत्सर्वं स्मृत्यादिप्रसिद्धमिति । यद्वा - एतैस्सर्वैरपि देवताभूतैरभिमानिरूपैस्सह आदित्यस्य सर्वदेवतादिभूतस्य मण्डलं विधास्यते विविधमन्तरिक्षे धार्यते स्थाप्यते । सर्वविद्याभिमानिदेवतासहितं सत् आदित्यमण्डलं दिवि वर्तत इति । न हि स्मृत्याद्युल्लङ्घिनी काचिद्देवता भवति । अपरा च योजना - एतैस्सर्वैरबिष्टकाभूतैः आदित्यस्य देवानां मुख्यत्वेनादिभूतस्य अग्नेरारुणकेतुकस्य सूर्यात्मना स्थितस्य मण्डलं दिविष्ठं भूमिष्ठं वा चितिरूपं विधास्यते विधीयते चीयते । आदित्यमण्डलमिति स्वरान्यत्वेनाद्युदात्तत्वम् ॥१॥
विश्वास-प्रस्तुतिः
सूर्यो॒ मरी॑चि॒माद॑त्ते ।
सर्वस्मा॑द्भुव॑नाद॒धि ।
तस्याः पाकवि॑शेषे॒ण ।
स्मृ॒तङ्का॑लवि॒शेष॑णम् ।
मूलम्
सूर्यो॒ मरी॑चि॒माद॑त्ते ।
सर्वस्मा॑द्भुव॑नाद॒धि ।
तस्याः पाकवि॑शेषे॒ण ।
स्मृ॒तङ्का॑लवि॒शेष॑णम् ।
भट्टभास्कर-टीका
अथ द्वितीया - अतः परं कालकारित्वेन सूर्यस्तुतिः । सूर्यः सुष्ठु प्रेरयिता उदकस्य सविता वा । स एकां सर्वसारभूतां मरीचिं रश्मिं आदत्ते गृह्णाति स्वीकरोति यथा चन्द्रादयो दीप्यन्ते कालकृतः । किमर्थमादत्ते - सर्वस्मात् भुवनादधि सर्वस्य भूतजातस्य उपरि; सर्वं भूतजातं निर्वर्तयिष्यामीति । यथा सर्वं भूतजातं रसवीर्यपाकादिभिरनुगृह्यते । तदेवाह - तस्याः मरीचेः पाकविशेषेण तत्कृतेन भूतानां पाकविशेषेण रसवीर्यादिवैलक्षण्यात्मना स्मृतं अवगतमस्माभिः कालविशेषणंकालो विशेष्यते येन तत् निमेषादिपरार्धपर्यन्तं वैलक्षण्यं कालस्य अनाद्यन्तस्य । कृदुत्तरप्रकृतिस्वरत्वेन ल्युटि लित्स्वरः । केचिदाहुः - कालोऽयमनाद्यन्तो ग्रहैरनुमीयते; क्षेत्रे व्रीह्यादिराशिः प्रस्थादिभिरिव ग्रहैः परिच्छिद्यते काल इति यावत् । संख्यादयः पुनः क्रियैव काल इति वदन्ति ॥ आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥इति॥ सर्वथा आदित्याधीनं कालवैलक्षण्यमिति ॥२॥
विश्वास-प्रस्तुतिः
न॒दीव॒ प्रभ॑वात्का॒चित् ।
अ॒क्षय्या॑त्स्यन्द॒ते य॑था । [4]
तान्नद्योऽभि स॑माय॒न्ति ।
सो॒रुस्सती॑ न नि॒वर्त॑ते ।
मूलम्
न॒दीव॒ प्रभ॑वात्का॒चित् ।
अ॒क्षय्या॑त्स्यन्द॒ते य॑था । [4]
तान्नद्योऽभि स॑माय॒न्ति ।
सो॒रुस्सती॑ न नि॒वर्त॑ते ।
भट्टभास्कर-टीका
अथ तृतीया - नदीवेति ॥ इदानीमुक्तं कालवैलक्षण्यं दृष्टान्तेन समर्थयते - यथा काचित् नदी गङ्गादिः कुतश्चित् अक्षय्यात्क्षेतुमशक्यात् अविनाशात् प्रभवात् उत्पत्तिस्थानात् स्यन्दते । यथा च तां स्यन्दमानां नदीम् अन्याः अल्पा नद्यः अभिसमायन्ति आभिमुख्येन संगच्छन्ते सा ताभिः सहिता प्रभवति । यथा च सा तादृशीभिस्सह प्रवहन्ती अत एव उरुः विस्तीर्णा सती भवन्ती न निवर्तते यावत्समुद्रं गच्छति, मध्ये निवर्तयितुमन्यैर्न शक्यते; उदकार्थिभिरपि तदेकदेशेनैव कार्यं क्रियते । अत्रान्त्ये वाक्ये प्रथमादारभ्य एकान्तरं वर्णान्यत्वं स्वरान्यत्वमन्त्यवर्जम् । एवं दृष्टान्तं प्रदर्श्य अत्र “एवं नानासमुत्थानाः” इत्युत्तरया दार्ष्टान्तिकं योजयति । अपरा योजना - नदीव काचिदयं कालः अक्षय्यात् कुतश्चित्प्रभवात् स्यन्दते । सा तु गगनादिमूलभूता प्रकृतिरिति केचित् । तस्या अपि मूलभूता बिन्दुपरमादिव्योमशब्दवाच्या परमप्रकृतिरित्यन्ये । एवं दृष्टान्तदार्ष्टान्तिकद्वयप्रतिपादनानन्तरं यथा तां नदीम् अन्या नद्योभिसमायन्ति यथा च सोरुः सती न निवर्तत इति पुनर्दृष्टान्तमात्रम् । “एवं नानासमुत्थानाः” इति तत्रैव दार्ष्टान्तिकयोजनेति ॥३॥
विश्वास-प्रस्तुतिः
ए॒वन्ना॒नास॑मुत्था॒नाः ।
का॒लास्सव्ँ॑वत्स॒रँ श्रि॑ताः ।
अणुशश्च म॑हश॒श्च ।
सर्वे॑ समव॒यन्त्रि॑ तम् ।
मूलम्
ए॒वन्ना॒नास॑मुत्था॒नाः ।
का॒लास्सव्ँ॑वत्स॒रँ श्रि॑ताः ।
अणुशश्च म॑हश॒श्च ।
सर्वे॑ समव॒यन्त्रि॑ तम् ।
भट्टभास्कर-टीका
अथ चतुर्थी - एवमिति ॥ यथा नद्यन्तराणि महानदीं समवयन्त्रि एवं नानासमुत्थानाः नानाप्रकारसमुन्मेषाः कालाः कालावयवाः त्रुटिनिमेषादयः संवत्सरं संवत्सरात्मकं कालं श्रिताः प्राप्ताः । संगम्य वसन्त्यस्मिन्नंशा इति संवत्सरः सविशेषः कालः अणुशश्च महशश्च सूक्ष्मा महान्तश्च कालांशाः सर्वे अपि तं कालं समवयन्त्रि अपृथग्भूताः तत्रैव समवेता वर्तन्ते । अत्र समवयन्त्रीति रेफोपजनः छान्दसः, महतोऽन्त्यलोपश्च । “बह्वल्पार्थात्” इति शस् । अत्र चतुर्णामपि पदानाम् अन्त्यानि पदानि व्यत्यस्तस्वराणि । नानासमुत्थाना इति बहुव्रीहौ पूर्वोत्तरपदे त्वन्तोदात्ते । नानाशब्दः आद्युदात्तः, नाञन्तत्वात् । श्रितशब्दः प्रत्ययस्वरेणान्तोदात्तः प्राप्तः सर्वानुदात्तो दृश्यते । तमिति प्रादिपदिकस्वरेण अन्तोदात्तत्वं प्राप्तमनुदात्तं प्रचीयते । छान्दसमाख्यातस्योदात्तत्वम् । “गतिर्गतौ” “तिङि चोदात्तवति” इति गतिद्वयमनुदात्तम् ॥४॥
विश्वास-प्रस्तुतिः
स तै॑स्स॒र्वैस्स॑मावि॒ष्टः ।
ऊ॒रुस्स॑न्न नि॒वर्त॑ते ।
अधि सव्ँवत्स॑रव्ँ वि॒द्यात् ।
तदेव॑ लक्ष॒णे ।
मूलम्
स तै॑स्स॒र्वैस्स॑मावि॒ष्टः ।
ऊ॒रुस्स॑न्न नि॒वर्त॑ते ।
अधि सव्ँवत्स॑रव्ँ वि॒द्यात् ।
तदेव॑ लक्ष॒णे ।
भट्टभास्कर-टीका
अथ पञ्चमी - स तैरिति ॥अत्र तृतीयचतुर्थयोरैकश्रुत्यं प्रथमतृतीययोराद्यं पदं मुक्त्वा शिष्टपदत्रयं व्यत्यस्तस्वरम् । उक्तं “सर्वे समवयन्त्रि तं” इति स कालः तैस्सर्वैः कालांशैः समाविष्टः समवेतः अत एव ऊरुः विस्तीर्णः सविशेषः सन् भवन् न निवर्तते यावत्संवत्सरं भवति । अर्थिभिश्च अस्यैकदेश उपयुज्यते ब्रह्मादिकीटान्तैः । अत्र तैरित्युदात्तं प्राप्तम् अनुदात्तं दृश्यते । “सर्वस्य सुपि” इति सर्वशब्दस्य आद्युदात्तत्वं प्राप्तं न क्रियते । समाविष्टपदं “गतिरनन्तरः” इति स्वरमनादृत्य अन्तोदात्तं भवति । समस्तस्यानुदात्तत्वं स्याय्यं तथा न ञः । आख्यातस्य छान्दसे निघाताभावे “तिङि चोदात्तवति” इति नेर्निघातः । एवं अधिसंवत्सरं संवत्सरात्मनि सविशेषे काले विद्यात् जानीयात् ज्ञातव्यम् । किं तदेव यदुक्तमस्माभिरिदानीं “नदीवप्रभवात्” इत्यादिना । व्यत्ययेन तच्छब्दो निहतः, एवशब्दश्चाद्युदात्तः । किं भूतं विद्यात् - लक्षणे लक्षणम् । विभक्तिव्यत्ययेन सप्तमी । यद्वा - लक्षणे संवत्सरात्मकस्य लक्षणनिरूपणवेलायाम् । तदेव कालस्य लक्षणं जानीयादिति यावत् । अधिसंवत्यरमिति विभक्त्यर्थेऽव्ययीभावः ॥५॥
विश्वास-प्रस्तुतिः
अणुभिश्च म॑हद्भि॒श्च ।
स॒मारू॑ढः प्र॒दृश्य॑ते ।
सव्ँवत्सरः प्र॑त्यक्षे॒ण ।
ना॒धिस॑त्वः प्र॒दृश्य॑ते ।
प॒टरो॑ विक्लि॑धः पि॒ङ्गः ।
मूलम्
अणुभिश्च म॑हद्भि॒श्च ।
स॒मारू॑ढः प्र॒दृश्य॑ते ।
सव्ँवत्सरः प्र॑त्यक्षे॒ण ।
ना॒धिस॑त्वः प्र॒दृश्य॑ते ।
भट्टभास्कर-टीका
अथ षष्ठी - अणुभिरिति ॥ यदुक्तं “कालांशैः समाविष्टः कालो गच्छति” इति, नेदं वचनसाध्यमित्यधुना प्रतिपादयति । अणुभिश्च महद्भिश्च कालांशैः समारूढः सङ्गत्यारूढ एवायम् अत एव संवत्सरात्मना विभक्तात्मा कालः प्रत्यक्षेण प्रदृश्यते प्रकर्षेण दृश्यते न तु अधिसत्वः संवत्सरलक्षणेभ्यः उपरि वर्तमानो निर्विशेषो यः कालात्मा नासौ प्रत्यक्षेण दृश्यते; तस्य विशेषापहृतचित्तानां मनुष्याणामगोचरत्वात् । तस्मादुपपन्नं यथोक्तं वैलक्षण्यमिति । समारूढपदे “गतिरनन्तरः” इति गतेः प्रकृतिस्वरत्वम् । गत्याख्यातयोः स्वरसमासावुक्तौ । व्यत्ययेन यक्स्वराभावः । अधिसत्वपदे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥६॥
विश्वास-प्रस्तुतिः
प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ।मूलम्
प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ।भट्टभास्कर-टीका
अथ सप्तमी - पटर इति ॥ यदुक्तं “नाधिसत्वः प्रदृश्यते” इति तत्र हेतुरयमुच्यते । पटरः पटलः छादनचर्मपुटवान् । मत्वर्थीयो रः । विक्लिधः विविधक्लेदनशीलः । क्लिधेरिगुपदलक्षणके अन्त्यविकारश्छान्दसश्चतुर्थः । द्वितीयमेके वदन्ति । पिङ्गः पिङ्गलवर्णः एतत् वरुणलक्षणं वारकस्य छादनकर्तुः विकारात्मनो लक्षणं रूपम् । वरुणो लक्ष्यते येन तद्रूपं पटरत्वादीत्यर्थः । यत्रैतत् रूपम् उपदृश्यते प्रथमत उपलभ्यते ज्ञानसाधनेन विषयीक्रियते तत्र सहस्रम् अनेकं नीयते प्राप्यते ग्राहकेण । यद्वा - अनेकत्वं नीयते विषयः यथा द्वौ चन्द्रौ बहवः प्रदीपा इति । याथात्म्यं तु वस्तुनश्छाद्यते; एवमत्रापि कालात्मनो यद्वारकं रूपं संवत्सररूपं तदुपलब्ध्यपहृतचित्तानां युक्तमेव यत्संवत्सरात्मैवोपलभ्यते न त्वधिसत्व इति । कः पुनः कालस्य वारकात्मा विकारः ; उच्यते पटरः आदित्यादिगतिवैचित्र्यवान् । विक्लिधः विक्लेदनशीलः वर्षाहेमन्तावयववान् । पिङ्गः सन्ध्यारागादिहेतुत्वात् एवंविधवैचित्र्ययोगात्मा विकारः कालस्य याथात्म्यं निरुणद्धीति । यत्रैतदिति व्यत्यस्तस्वरे । उपदृश्यत इति । गत्याख्यातयोस्स्वरसमासावुक्तौ । तत्रेति व्यत्ययेन सर्वानुदात्तं, नीयत इति निघाताभावश्च । “अचः कर्तृयकि” इत्याद्युदात्तत्वम् ॥७॥
विश्वास-प्रस्तुतिः
एकँ हि शिरो ना॑नामु॒खे ।
कृ॒त्स्नन्त॑दृतु॒लक्ष॑णम् । [6]
उभयतस्सप्ते॑न्द्रिया॒णि ।
ज॒ल्पित॑न्त्वेव॒ दिह्य॑ते ।
मूलम्
एकँ हि शिरो ना॑नामु॒खे ।
कृ॒त्स्नन्त॑दृतु॒लक्ष॑णम् । [6]
उभयतस्सप्ते॑न्द्रिया॒णि ।
ज॒ल्पित॑न्त्वेव॒ दिह्य॑ते ।
भट्टभास्कर-टीका
अथाष्टमी - एकं हीति ॥ अस्य कालात्मनः एकं शिरः संवत्सरलक्षणः शिरस्थानीयो द्वादशमासावयवः कालांशः नाना पृथग्भूते पृथक्स्वभावे वा अस्मिन् शिरसि मुखे द्वे दक्षिणोत्तरायणे षट् षण्मासात्मके मुखस्थानीये । तत् इदं कालवैलक्षण्यप्रतिपादनात्मकं कृत्स्नम् अपि ऋतुलक्षणम्ऋत्वादिभेदवतः कालात्मनो वैलक्षण्यज्ञानोपायभूतम् । तत्कथमित्याह - उभयतः उभयोरपि मुखयोः सप्तेन्द्रियाणि प्रत्येकं सप्तशीर्षण्याः प्राणाः वर्तन्ते । ते च विविधं भूतजातमुत्पादयन्ति । तदानुरूप्येण च प्रतिनमियतपृथग्विधसर्वकालावयवसमुन्मेषात् काल्पनिकं तदपेक्षं कालवैलक्षण्यमिति प्रतिपादितं भवति । यस्मादेवं तस्मात् जल्पितम् एव काल्पनिकशब्दसंजल्प एव कालात्मनि दिह्यते उपचीयते न पारमार्थिका एते भेदा इति । अत्र त्वेवशब्दयोस्स्वरान्यत्वेन सर्वानुदात्तत्वम् । आख्यातस्य स्वरान्यत्वमुक्तम् ॥८॥
०२ काल-ब्राह्मणम्
भास्करोक्त-विनियोगः
अतः परं ब्राह्मणं कालस्य । यदुक्तं मुखे अयने द्वे इति तत्स्वयमेव ब्राह्मणं व्याचष्टे - शुक्लकृष्णे इति ॥
विश्वास-प्रस्तुतिः
शुक्लकृष्णे सव्ँव॑त्सर॒स्य ।
दक्षिणवाम॑योः पा॒र्श्वयोः ।
मूलम्
शुक्लकृष्णे सव्ँव॑त्सर॒स्य ।
दक्षिणवाम॑योः पा॒र्श्वयोः ।
भट्टभास्कर-टीका
ये पूर्वं संवत्सरात्मनः कालस्य दक्षिणवामयोः पार्श्वयोः स्थिते मुखे अयनात्मके अस्माभिरुक्ते ते शुक्लकृष्णे अहोरात्रे षट्षण्मासप्रमाणे विद्यात् देवानामहोरात्रत्वात् तयोः । पित्र्यमानुषयोरप्यहोरात्रयोः पञ्चदशतिथिप्रमाणयोः त्रिंशद्घटिकाप्रमाणयोश्च दक्षिणवामयोः पार्श्वयोः एव वृत्तिर्वेदितव्या ।
विश्वास-प्रस्तुतिः
तस्यै॒षा भव॑ति ।
शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ।
मूलम्
तस्यै॒षा भव॑ति ।
शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ।
भट्टभास्कर-टीका
तस्येति । योऽयमस्माभिरहोरात्रस्वरूपप्रतिपादनायोक्तः तस्य प्रतिपादिका एषा वक्ष्यमाणा ऋक् भवति । तां च स्वयमेव वदति - शुक्रं त इति । त्रिष्टुबेषा “अग्ने यं यज्ञमध्वरम्” इत्यत्र व्याख्याता । हे पूषन् ते तव शुक्रम् एकं यजतं यजनीयम् एकम् । इत्थं विषुरूपे नानारूपे अहनी अहोरात्रे वर्तेते । तयोर्मध्ये द्यौरिव त्वम् असि तयोः प्रवर्तयिता वर्तसे । हे स्वधावः अन्नवन् विश्वा मायाः कालपरिमाणानि अवसि उत्पादयसि तस्य तव या भद्रा रातिः दानं सा इह अस्मासु अस्तु इति ॥९॥
भास्करोक्त-विनियोगः
एवं “सूर्यो मरीचिमादत्ते” इत्यादिना एतदन्तेन प्रकरणेन “तस्याः पाकविशेषेण । स्मृतं कालविशेषणं” इति यत्प्रतिज्ञातं तत्समर्थितम् । इदानीं वैलक्षण्यस्यापारमार्थिकत्वेऽपि तदेव वेद्यं न तु पारमार्थिकं समस्तविकल्पशून्यमिति प्रतिपादयति - नात्रेत्यादिना ॥
विश्वास-प्रस्तुतिः
नात्र॒ भुव॑नम् ।
न पू॒षा ।
न प॒शवः॑ ।
नादित्यस्सव्ँवत्सर एव प्रत्यक्षेण प्रियत॑मव्ँ वि॒द्यात् ।
एतद्वै सव्ँवत्सरस्य प्रियत॑मँ रू॒पम् ।
योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति ।
मूलम्
नात्र॒ भुव॑नम् ।
न पू॒षा ।
न प॒शवः॑ ।
नादित्यस्सव्ँवत्सर एव प्रत्यक्षेण प्रियत॑मव्ँ वि॒द्यात् ।
एतद्वै सव्ँवत्सरस्य प्रियत॑मँ रू॒पम् ।
योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति ।
भट्टभास्कर-टीका
“नादित्यः” इत्यादिषु पञ्चसु वाक्येषु ऐकश्रुत्यम् । आद्ये ऐकश्रुत्यसाम्यात् बहवोपि वाक्यार्था एकवाक्यत्वं भजन्ते । न हि अत्र पारमार्थिके कालस्वरूपे भुवनं भूतजातमस्ति । तस्मात् “सर्वस्मात् भुवनादधि” इत्यादिना यदुक्तं तन्नोपपद्यते । न च पूषा अस्ति । तेन “भद्रा ते पूषन्निह रातिरस्तु” इत्युक्तस्यासम्भवः । न च पशवः रश्मयः सन्ति । तेन “सूर्यो मरीचिमादत्ते” इत्यादिकं न घटते । यद्वा - पशवो द्रष्टारः ते च न सन्ति । तेन “उभयतस्सप्तेन्द्रियाणि” इत्यादिकं न सङ्गच्छते । न च आदित्यः अस्ति । तेन “एतैरादित्यमण्डलं” इत्यादिकमनर्थकं भवेत् । किं तर्हि तदानीं विद्यत इत्याह - संवत्सर एव भुवनादिरहितः लुप्तसमस्तभेदमविशिष्टं कालमात्रमेव तदानीं भवति । भवतु तदेव वेद्यमस्त्वित्याह - प्रत्यक्षेणेति । प्रत्यक्षेण हि लोकः प्रियतमम् एव प्रीणयितृतममेव विद्यात् वेदितुमर्हतीति किमनेन गहनेन निष्प्रयोजनेन । किं तर्ह्यस्य प्रियतमं रूपमित्याह -एतद्वा इत्यादि । एतद्वै प्रजानां प्रियतमं प्रीणयितृतमं संवत्सरस्य रूपम् । किं? यः अस्य जगतः महानर्थः प्रयोजनम् उत्पत्स्यमानो भवति कालविशेषापेक्षया सर्वे हि भावा रूपादयः प्रजादयश्च कालविशेषमपेक्ष्यमाणा एव ह्यात्मानं लभन्ते । सोऽर्थः कालविशेषाधीनत्वात् तस्य रूपमित्युपचर्यते । तस्मात्तदेव रूपं वेद्यं प्रयोजनवत्वादिति । तस्मात्तदेव रूपं “स्मृतिः प्रत्यक्षमैतिह्यम्” इत्यादिना तेन प्रकारेण प्रतिपादितमिति । यद्वा - इतीत्यनन्तरप्रकरणप्रतिपादितं रूपं प्रतिनिर्दिश्यते । तस्य गुणवत्वं प्रतिपादयति । य इति च व्यत्ययेन पञ्चम्यर्थे प्रथमा । इदं च संवत्सरस्य रूपमादित्याधीनमिति तस्यैवेयं स्तुतिः । तद्रूपेण चेष्टकाः स्तूयन्ते इति सर्वमुपपन्नम् ॥१०॥
विश्वास-प्रस्तुतिः
इदं पुण्यङ्कु॑रुष्वे॒ति ।
तमाहर॑णन्द॒द्यात् । [7]
मूलम्
इदं पुण्यङ्कु॑रुष्वे॒ति ।
तमाहर॑णन्द॒द्यात् । [7]
भट्टभास्कर-टीका
इदं पुण्यमित्यादि ॥ अयमनुवाकप्रतिपादितस्यार्थस्य स्तुतिः । यत् इदं कालस्वरूपप्रतिपादनमेतदनुवाकोक्तम् इदं पुण्यं सदा कुरुष्व इति तम् एतमेवार्थम् आहरणम् आहरणीयम् आहरणरूपं वा दद्यात् उपदिशेत् शिष्याय गुरुः । तमिति व्यत्ययेन निहतः ॥११॥ इति आरण्यके प्रथमे द्वितीयोऽनुवाकः ॥२॥