०१ अब्-इष्टकाद्य्-उपधानम्

०१ महानाम्न्यः

भास्करोक्त-विनियोगः

उत्तरा महानाम्न्यः पञ्चानुष्टुभः ।
ताभिस् सर्वाभिर् अध्ययन-काले उदकं संस्पृश्य
अन्तेवासिने दद्याद् आचार्यो व्रताय ।
उपधानकाले तु आद्याभिः तिसृभिः पृथगुपधाय
ततो द्वाभ्याम् उपदध्यात् ।

सायणोक्त-विनियोगः

अत्र बौधायने कल्पे तत्प्रकारोऽभिहितः- “एतेनाऽऽरुणकेतुको व्याख्यातो यावन्मन्त्रबीष्टकाः । लोकंपृणाश्च स्वयमातृणाश्चाऽऽप एव” इति । पूर्वत्र सावित्रादिचयनानामभिहितत्वादेतेनेति तत्परामर्शः । अब्रूपा इष्टका अबीष्टकाः । नात्रेष्टका मृदादिना निष्पादनीयाः । किं त्वाप एवेष्टकाबुद्ध्योपधेया इत्यर्थः । उपधानेऽस्मिन्कल्प एवमभिहितः- “उत्तरवेद्यावपनकाले तूष्णीं जानुदघ्नं खात्वाऽन्यत्र मृदं निवपति विदेरग्निरित्यादिर्लुप्यते । ध्रुवाऽसीति प्रतिपद्यते । हस्तग्राभमबीष्टका उपदध्यात् । भद्रं कर्णेभिरिति द्वाभ्यां शान्तिं कृत्वा ताभ्यामुपदधाति” इति । (हस्तग्राभं) हस्तग्राहं हस्तेन गृहीत्वा जलमित्यर्थः । तत्र शान्त्यर्थां प्रथमामृचमाह - हे देवा इन्द्रादयो भद्रं कल्याणं श्रुतिस्मृतिवाक्यरूपं कर्णेभिराचार्यान्तेवासिरूपाणामृत्विग्यजमानरूपाणां वाऽस्माकं बहूनां कर्णैः युष्मत्प्रसादात्सर्वदा श्रोतुं समर्थाः स्याम । श्रुत्वा च यजत्रा यागक्षमा वयं भद्रं कल्याणं यज्ञादिकं कर्माक्षभिश्चक्षुरिन्द्रियैः साक्षात्पश्येम । स्थिरैरविकलैरङ्गैश्चक्षुरादिभिर्हस्तादिभिश्चावयवैस्तनूभिस्तथाविधशरीरैर्युक्ता वयं तुष्टुवांसो युष्मदीयां स्तुतिं कुर्वाणा यद्यस्मात्कारणाद्देवहितं देवेन प्रजापतिना समर्पितं सर्वमप्यायुर्व्यशेम विशेषेण प्राप्नवाम । तस्मादपमृत्योरभावाच्चिरं भद्रं शृणुयामेति पूर्वत्रान्वयः ।

अथ द्वितीयमाह- वृद्धैर्महात्मभिः सदा पुराणादिषु श्रूयत इति वृद्धश्रवाः । तादृश इन्द्रो नोऽस्माकं स्वस्ति दधात्वध्ययनश्रवणानुष्ठानार्थं क्षेमं सम्पादयतु । विश्वं वेत्ति जानातीति विश्ववेदाः । तादृशः पूषाऽपि नः स्नस्ति दधातु । अरिष्टमहिंसा तस्य नेमिस्थानीयः । यथा लोहमयी नेमिः काष्ठमयस्य चक्रस्य भङ्गाभावाय पालयत्येवमयंतार्क्ष्यो गरुडोऽपि सर्पादिकृतां हिंसां निवार्य तत्पालकत्वादरिष्टनेमिः । तादृशस्तार्क्ष्यो नः स्वस्ति दधातु ।

एतन्मन्त्रद्वयं शान्त्यर्थमादौ पठित्वा तन्मन्त्रद्वयेनाबीष्टकाद्वयमुपदध्यात् ।
कल्पः- “आपमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदकम्” इति । उपदधातीत्यनुवर्तते ।

विश्वास-प्रस्तुतिः

आप॑मापाम॒पस्सर्वाः॑ ।
अ॒स्माद॒स्मादि॒तोऽमुतः॑ । [1] अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒हस॑ञ्चस्क॒रर्धि॑या ।

मूलम्

आप॑मापाम॒पस्सर्वाः॑ ।
अ॒स्माद॒स्मादि॒तोऽमुतः॑ । [1] अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चस्क॒रर्धि॑या ।

भट्टभास्कर-टीका

तत्र प्रथमा - आपमापामिति ॥ आप्नोतेः छान्दसे लुङि लृदित्वादङ् । नित्यतायां च द्विर्वचनं, “अनुदात्तं च” इति द्वितीयस्य निघातः । वर्णव्यत्ययेन दीर्घत्वम् । आपमापामिति आपमापं पुनः पुनः प्राप्नुवानीति । “ऊडिदम्” इति अद्भ्यो विभक्तिरुदात्ता । भूत एव वा इति लुङ् - सर्वा अपः भृशं प्राप्तवानस्मीति ।

कास्सर्वा इत्याह - आपमापामिति स्थानात् यस्माद्यस्मात् आपः प्रस्रवन्ति । वीप्सायां द्विर्वचने व्यत्ययेन द्वितीयस्य निघाताभावः । उक्तं स्थानविशेषाभिप्रायेण । इदानीं सामान्याभिप्रायेणाप्याह - इतः पृथिव्याः अमुतः च दिवः रश्मिवाय्वादिभिरानीयन्ते विसृज्यन्ते च त्रयाणां “ऊडिदम्” इति विभक्तेरुदात्तत्वम् । ता एता अपः अग्निः वायुश्च सूर्यश्च सहभूताः सञ्चस्कर एते यूयं संस्कुरुत । छान्दसे लिटि मध्यमपुरुषे बहुवचने “ऋतश्च संयोगादेः” इति गुणः । अग्निर्हि पर्जन्यात्मा अप उत्पादयति, सूर्योऽनुजानाति, वायुः प्रेरयति, तस्माद्यूयमप्येताः संस्कुरुत ये उत्पादयितारः । सहस्रगणमवैमत्याय । यद्वा - छान्दसे लिटि झेः व्यत्ययेन उत्तमपुरुषैकवचनम् । “सम्पर्युपेभ्यः” इति सुट्, “णलुत्तमो वा” इति णित्वाभावः । ऋद्धिया ऋद्धिविशिष्टा यथा भवन्ति तथा संस्कुरुत । छान्दस इकारोपजनः । तत्र ऋकारेण सह आकारस्य य एकादेशः तस्योदात्तत्वात् तिङन्तस्य सांहितिकमुदात्तत्वमाश्रित्य “तिङि चोदात्तवति” इति गतेरनुदात्तत्वम्, “उदात्तवता तिङा” इति गतेस्समासश्च । उभयं व्यत्ययेनैव वा । यद्वा एते अग्न्यादयः एभिस्सहाहं संचस्कर संस्करोमि । यद्वा - अपस्सर्वा अहं प्रापं, अग्न्यादयश्च पूर्वमेताः प्राप्तवन्तः, सामर्थ्यात् प्रथमपुरुषोऽन्वेति, इदानीम् अहम् एभिस्सहितः संस्करोमीति । केचित्तु - धियेति पदं छिन्दन्ति, पूर्वस्य च लोडन्तस्य अन्त्यवर्णविकारमाहुः । व्यत्ययेन श्लुः । तेषां धियेत्यस्य “सा वे काचः” इत्यन्तोदात्तत्वप्राप्तेः सर्वानुदात्तत्वं दुर्लभम् । आख्यातस्य च निघातप्राप्तेः अन्तोदात्तत्वं दुर्लभम् । तत्र स्वरयोः विनिमय इति परिहर्तव्यं भवेत् । तस्मात् ऋद्ध्येत्येव पदच्छेदो ज्यायान् । ऋद्धिशब्दो हि नित्स्वरेणाद्युदात्तः ॥३॥

सायण-टीका

तत्र प्रथममाह - अहं सर्वा अपः सर्वदेशवर्तीनि जला न्यापमापां पुनः पुनः प्राप्तवानस्मि । आपमित्यस्य वीप्सया पौनःपुन्यं लभ्यते । दीर्घस्य छान्दसत्वाद्द्वितीयोऽप्यापमित्येव शब्दः । जललाभाय स्थानविशेषा निर्दिश्यन्तेऽस्मादस्मादि(ति)दंशब्देन वीप्सायुक्तेन सर्वनाम्ना । जलस्थानानि गङ्गासरस्वतीयमुनागोदावरीकावेर्यादीनि विद्यन्ते तस्मात्सर्वस्माज्जलस्थानात्प्राप्तवानस्मीति पूर्वत्रान्वयः । इतोऽमुत इत्याभ्यां शब्दाभ्यां भूलोकस्वर्गलोकावभिधीयेते । तस्मादप्युभयस्माज्जलं प्राप्तवानित्यन्वयः । तामेतां सर्वजलप्राप्तिमग्निवायुसूर्याः संपादयन्त्विति शेषः । अहं तैर्देवैः सह ऋद्धिया समृद्धिनिमित्तं सञ्चस्कर ता अपः संस्करोमि ।

विश्वास-प्रस्तुतिः

वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
मरी॑च्यात्मानो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।

मूलम्

वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
मरी॑च्यात्मानो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।

भट्टभास्कर-टीका

अथ द्वितीया - आपमापामितिइति ॥ हे आपः ! या यूयं वाय्वश्वाः वायव एव अश्वस्थानीयाः वोढारो यासां रश्मिपतयः रश्मय एव पतयः पातारो यासाम् । उभयत्रापि “परादिश्छन्दसि” इत्युत्तरपदाद्युदात्तत्वम् । मरीच्यात्मानः मरीचय एव आत्मा शरीरमाधारभूतं यासां अद्रुहः कस्यचिदपि द्रोहमकुर्वाणाः अत एव देवीः देवनशीलाः भुवनसूवरीः भुवनस्य भूतजतस्य सवित्र्यः । क्वनिपि “वनोरचः” इति ङीब्रेफौ, उभयत्रापि “वा छन्दसि” इति पूर्वसवर्णदीर्घत्वम् । तादृश्यो यूयं पुत्रवत्वाय सम्यगध्ययनादिनिर्वृत्या यथा पुत्रवान् स्यां तदनुरूपं मे मां सुत अनुजानीत । मम वा पुत्रवत्वमनुजानीत । उभयत्रापि कर्मणस्सम्प्रदानत्वम् । षु प्रसवैश्वर्ययोः, आदादिकः ॥४॥

सायण-टीका

अथ द्वितीयामाह - वायव एवाश्वस्थानीया वोढारो यासामपां ता वाय्वश्वाः । आदित्यरश्मय एव पातारो यासामपां ता रश्मिपतयः । मरीचय एवाऽऽत्मा शरीरमाधारभूतं यासामपां ता मरीच्यात्मानः । अद्रुहः कस्यचिदपि द्रोहमकुर्वाणाः । देवीः स्वच्छत्वेन द्योतमानाः । भुवनसूवरीर्भूतजातस्य सवित्र्यः । ईदृश्य आपो याः सन्ति तथाविधा हे आपो यूयं मे मम पुत्रवत्वाय बहुपुत्रयुक्तत्वाय सुत अनुजानीत ।

विश्वास-प्रस्तुतिः

महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्वः॑ ।
दे॒वीः प॑र्जन्य॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
[2]

मूलम्

महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्वः॑ ।
दे॒वीः प॑र्जन्य॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
[2]

भट्टभास्कर-टीका

अथ तृतीया - महानाम्नीरिति ॥ अत्र केषुचित् वाक्येषु ऐकश्रुत्यं दृश्यते केषु चित् त्रैस्वर्यमेव । केचिदाहुः - उदात्तनिहतस्वार्यप्रचयेभ्यो विलक्षणा । एकश्रुतिस्ससूत्रेषु पञ्चप्रश्नेषु दृस्यते ॥इति॥ तत्र “विभाषा छन्दसि” इत्यस्य व्यवस्थितविषयत्वादेवं भवतीति द्रष्टव्यम् । यदा चैकश्रुत्यं तदा वाक्यस्य अन्त्यमक्षरमेकमुदात्तं, क्वचित्तु द्वे । ततः पूर्वस्य सन्नतरः । ततः पूर्वेषां त्रैस्वर्यम् ऐकश्रुत्येन बाध्यते । तत्राद्यमक्षरं लघु चेति प्रायेण निहन्यते । शेषमेकश्रुतिर्भवति । तत्र केनेदमुदात्तत्वमिति चिन्त्यम् । केचित्त्वाहुः - “कृत्तद्धितसमासाश्च” इति समासग्रहणस्य व्यत्ययेन नियमार्थत्वमाश्रित्य वाक्यस्यापि प्रातिपदिकत्वात् “फिषः” इत्यन्तोदात्तत्वं प्रवर्तत इति । द्व्युदात्तत्वे हेत्वन्तरं मृग्यमिति यत्किञ्चिदेतत् । तस्मात् “व्यत्ययो बहुलम्” इति प्राप्तस्य स्वरान्यत्वस्य अयं प्रकारविशेषः । आहुश्च - वर्णान्यो वा स्वरान्यो वा पञ्चप्रश्नेषु दृश्यते । इति ।अत्र तु द्वयोर्वाक्ययोरैकश्रुत्यं, द्वयोस्त्रैस्वर्यम् । महानाम्नीः महानाम्न्यः महाफलं नाम यासाम् । “अन उपधालोपिनः” इति ङीप् । महामानाः महाफलाः पूजा यासां ताः महसः महस्वत्यः महोऽन्नं तेजश्च । “लुगकारैकाररेफाश्च” इति मत्वर्थीयो लुप्यते । महसः च स्वः सवित्र्यः । सूतेः क्विपि उवङादेशं बाधित्वा यणादेशः । यद्वा - वीप्सायां द्विर्वचनं, सर्वस्य च महसः सवित्र्य इति । देवीरित्यादि । गतम् । पर्जन्यसूवरीरिति विशेषः । एष महानाम्नीशब्दः सर्वासां नामनिमित्तं हविष्पान्तीयवच्छत्रिवच्च ॥५॥

विश्वास-प्रस्तुतिः

अ॒पाश्न्यु॑ष्णिम॒पारक्षः॑ ।
अ॒पाश्न्यु॑ष्णिम॒पारघ॑म् ।
अपा॑घ्रा॒मप॑ चा॒वर्ति॑म् ।
अप॑ दे॒वीरि॒तोहि॑त ।

मूलम्

अ॒पाश्न्यु॑ष्णिम॒पारक्षः॑ ।
अ॒पाश्न्यु॑ष्णिम॒पारघ॑म् ।
अपा॑घ्रा॒मप॑ चा॒वर्ति॑म् ।
अप॑ दे॒वीरि॒तोहि॑त ।

भट्टभास्कर-टीका

अथ चतुर्थी - अपाश्न्युष्णिमिति ॥ अशेरुषेश्च औणादिके निन्प्रत्यये अश्निरुष्णिर्यस्मिन्निति बहुव्रीहौ व्यश्नुवानदाहोऽग्निरुच्यते । योऽध्ययनादिविघ्नकारी ग्रामादिव्यापी महाविषयोऽग्निः तं इतः अस्मात् अध्ययनादिस्थानात् अपहित । हितेति वक्ष्यमाणेन अपेतिपदं प्रत्येकम् अभिसम्बध्यते । हन्तेर्लोटि वर्णव्यत्ययेन इकारः । यद्वा - हिनोतेर्लोटि छान्दसो विकरणस्य लुक् । अपहिनुत अस्मत्पार्श्वात् अपनयत । “निपातस्य च” इत्युपसर्गस्य दीर्घत्वम् । द्वितीयेन अश्न्युष्णिशब्देन सर्वाङ्गव्यापी दाहोऽध्ययनादिविघ्नकारी ज्वरादिरुच्यते । तं चापनयत । रघतिश्शोषणकर्मा । अघशब्दस्य वा रेफोपजनः । यदध्ययनादिविघ्नहेतुरात्मनि श्लिष्टं मलं तच्चापनयत । अत्रापि पूर्ववत् उपसर्गस्य दीर्घत्वम् । एवमेतेषु वाक्येषु व्यत्ययेनापशब्दस्य अन्तोदात्तत्वम् । प्रतिसंबन्धिनां तु अश्न्युष्ण्यादीनां यथा प्राप्तस्वरता । यत्र तु प्रतिसंबन्धिनां स्वरव्यत्ययः तत्रापशब्दस्वरमेवाद्युदात्तत्वं प्रतिपद्यते अपाघ्रामित्यादिषु । इदं च पञ्चप्रश्नानुज्ञातस्य स्वरान्यत्वस्य प्रकारवैचित्र्यमिति द्रष्टव्यम् । अघ्रां अघ्रातव्यं दुर्गन्धं घ्राणशक्तिहानिं वा अस्मत्तः अपनयत । सर्वानुदात्तमेवेदं पदम् । अवर्तिं दारिद्र्यं, वृत्यभावरूपमालस्यं वा अपनयत । अत्राव्ययपूर्वपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेनोत्तरपदाद्युदात्तत्वम् । पुनश्च अपशब्दग्रहणात् यदन्यदप्यध्ययनादिविरोधि तत्सर्वमपनयतेति । देवीरित्यादि । व्याख्यातम् ॥६॥

विश्वास-प्रस्तुतिः

वज्र॑न्दे॒वीरजी॑ताँश्च ।
भुव॑नन्देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिन्दे॒वीम् ।
योनि॑नोर्ध्वमु॒दीष॑त ।

मूलम्

वज्र॑न्दे॒वीरजी॑ताँश्च ।
भुव॑नन्देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिन्दे॒वीम् ।
योनि॑नोर्ध्वमु॒दीष॑त ।

भट्टभास्कर-टीका

अथ पञ्चमी - वज्रमिति ॥ पूर्वत्र अश्न्युष्ण्यादीनाम् अपनयनं प्रार्थितं; इदानीं तु वज्रादीनाम् उन्नयनं प्रार्थ्ययते । त्रैलोक्यरक्षाहेतुरिन्द्रायुधं वज्रं तदूर्ध्वं उदीषत उच्छ्रिततरमुन्नयत । अस्मदध्ययनाद्यविघ्नसिध्यर्थम् उद्भूतसामर्थ्यं कुरुत । ईष गत्यादिषु । यद्वा - ई गतौ, लेटि “सिब्बहुलं लेटि” इति सिप् । देवीरिति । गतम् । अजीताः अजिताः प्राणाः तांश्च उन्नयत । यद्वा - उक्तैरश्न्युष्णादिभिः अजितानस्मान् । वर्णव्यत्ययेन दीर्घः । भुवनं भूतजातं गवादिकं चोन्नयत । देवसूवरीः देवानामपि सवित्र्यः यूयम् । “वा छन्दसि” इति दीर्घत्वम् । पूर्ववत् क्वनिपि ङीब्रेपौ । आदित्यान् अदितेः पुत्रान् देवांश्चोन्नयत । अदितिं च देवीं पृथिवीमुन्नयत । योनिना योनित्वेन कारणभावेन भूत्वा । विश्वस्य हि यूयं कारणमिति भावः । यदाहुः - “अप एव ससर्जादौ” इति ॥७॥

०२ शिष्टम्

भास्करोक्त-विनियोगः

ओषधिरुदकं चोपस्पृश्य दद्यात् ।
अध्वर्युः तत्सहोपदध्यात् उपधानकाले -
शिवा न इति द्विपदया गायत्र्या

विश्वास-प्रस्तुतिः

शि॒वान॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।

मूलम्

शि॒वान॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।

भट्टभास्कर-टीका

नः अस्माकं दिव्याः आपः शिवाः शान्ता भवन्तुओषधयःशन्तमाः सुखतमाः शान्ततमा भवन्तु । दिवमर्हन्तीति दिव्याः । “छन्दसि च” इति यः ॥८॥

भास्करोक्त-विनियोगः

भूमिमुपस्पृशेत्, भूमिवतीं चोपदध्यात् उपधानकाले - सुमृडीकेति द्विपदया गायत्र्या ॥

विश्वास-प्रस्तुतिः

सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ । [3]

मूलम्

सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ । [3]

भट्टभास्कर-टीका

सुमृडीका सुष्ठु सुखयित्री । यद्वा - शोभना मृडीकाः सुखयितारोऽवयवा यस्याः । “मृडीकादयश्च” इत्युणादिषु निपात्यते । “नञ्सुभ्याम्” इत्युत्तरपदान्तोदात्तत्वम् । सरस्वति सर इत्युदकनाम तद्वति, उदकाधारत्वात् अबिष्टकावत्त्वाद्वा । तादृशी त्वमसि । सर इत्यस्य व्यत्ययेन अन्त्यस्य वर्णान्यत्वम् । आमन्त्रितत्वे हि निघातप्रसङ्गः । स्वरान्यत्वं वा - हे सरस्वति ! सुमृडीका त्वमसि । अबिष्टका भूमित्वेन स्तूयते - ते तव तादृश्या व्योम छिद्रं मा सन्दृशि ओषधिवनस्पतिभिः छन्नत्वात् केवलावकाशो मा दर्शि । एतद्धि पृथिव्याः प्रियतरं “साऽकामयतौषधीभिर्वनस्पतिभिः प्र जायेय” इति दर्शनात् । दृशेर्लुङि चिणि वृद्ध्यभावश्छान्दसः, आद्युदात्तत्वं च । तत्र “तिङि चोदात्तवति” इति गतेरनुदात्तत्वं, समासश्च । यद्वा - तव व्योमाहं मा संदृसि मा समीक्षिषि । लिङि व्यत्ययेन आत्मनेपदोत्तमपुरुषैकवचनम् । “दृशेश्चेति वक्तव्यम्” इत्यकर्मकस्य विधानात् सिचश्च इटश्च व्यत्ययेनैव लुक् ॥९॥ इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये आरण्यके आरुणकेतुके प्रथमोऽनुवाकः ॥१॥