भट्टभास्कर-टीका
एवं व्याख्याता इष्टिपशुसोमाग्नीनां तद्विकृतीनां च मन्त्राः, ब्राह्मणभागाश्च ।
इदानीं तच्छेषभूतम् आरण्येऽनुवाक्यं तन्त्रं व्याख्यास्यामः ।
अत्राहुः -
होतॄन् प्रवर्ग्य-काण्डे च
याश्चोपनिषदो विदुः ।
अरुणाम्नाय-विधी चैव
काठके परिकीर्तिताः ॥रुद्रा नारायणश्चैव
मेधो यश्चैव पित्रियः ।
एतदारण्यकं सर्वं
नाव्रती श्रोतुमर्हति ॥
इति ।
किञ्च -
कल्पे पितृविधिश्चैव
प्रवर्ग्यविधिरेव च ।
अरुणाम्नाय-विधी चैव
शतरुद्र-विधिस्तथा ॥
कल्पेषु तु य आम्नाता
मन्त्रास्तानप्यतन्द्रितः ।
यथाक्रमम् उपाकृत्य
त्वधीयीतेति चोच्यते ॥
अत्र सन्त्य् अष्टौ काठके काण्डानि
कठमुनिना दृष्टानि
सावित्र-नाचिकेत-चातुर्होत्र-वैश्वसृजारुण-केतुकाख्यानि पञ्चाग्निचित्यानि
दिवश्येनयोऽपामाश्चेष्टयः स्वाध्यायब्राह्मणम् अष्टमम् इति ।