Source: TW
सायण-टीका
वागीशाद्याः सुमनसः
सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्
तं नमामि गजाननम् ॥ १ ॥
यस्य निश्वसितं वेदा
यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे
विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्-कटाक्षेण तद्रूपं
दधद् बुक्क-महीपतिः ।
आदिशन् माधवाचार्यं
वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे
ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो
वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्याता सुखबोधार्थं
तैत्तिरीयकसंहिता ।
तद्ब्राह्मणं च व्याख्यातं
शिष्टमारण्यकं ततः ॥ ५ ॥
विश्वास-टिप्पनी
तैत्तिरीयब्राह्मणे 2/8/6/04_rudraH_-_imA_rudrAya इत्यत्र “अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के ।” इति प्रतीकं विवृण्वन् सायणः -
21अथ पुरोडाशस्य याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘अर्हन्बिभर्षि सायकानि धन्वा’ इत्येषा पुरोनुवाक्या । सा च प्रवर्ग्यमन्त्रकाण्डे व्याख्यास्यते ।
तेन +अत्रोक्तः क्रमो मिथ्येति ज्ञायते।
अरण्याध्ययनाद् एतद्
आरण्यकम् इतीर्यते ।
अरण्ये तद् अधीयीतेत्य्
एवं वाक्यं प्रवक्ष्यते ॥ ६ ॥
काण्डम् आरण्यकं सर्वं
व्याख्यातव्यं प्रयत्नतः ।
आरण्यकविशेषास्तु
पर्वाचार्यैर् उदीरितः ॥ ७ ॥
होतॄन् प्रवर्ग्य-काण्डं च
याश्चोपनिषदो विदुः ।
आरुणीयविधिश् चैव
काठके परिकीर्तितः ॥ ८ ॥ .
रुद्रो नारायणश्चैव
मेधो यश्चैव पित्रियः ।
एतद् आरण्यकं सर्वं
नाव्रती श्रोतुमर्हति ॥ ९ ॥