० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । तँ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। १। १॥ ॥ १॥
२ अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। २। २॥ ॥ २॥
३ प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ३। ३॥ ॥ ३॥
४ मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ४। ४॥ ॥ ४॥
५ वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ५। ५॥ ॥ ५॥
६ आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । सैषा भा॑र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ६। ६॥ ॥ ६॥
७ अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्न॑म् । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ७। ७॥ ॥ ७॥
८ अन्नं॒ न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्न॑म् । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ८। ८॥ ॥ ८॥
९ अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्न॑म् । आ॒का॒शो॑ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ९। ९॥ ॥ ९॥
१० न कंचन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो॑ऽन्नँ रा॒द्धम् । मुखतोऽस्मा अ॑न्नँ रा॒ध्यते । एतद्वै मध्यतो॑ऽन्नँ रा॒द्धम् । मध्यतोऽस्मा अ॑न्नँ रा॒ध्यते । एतद्वा अन्ततो॑ऽन्नँ रा॒द्धम् । अन्ततोऽस्मा अ॑न्नँ रा॒ध्यते । य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषीः॑ समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति । यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति । तन्नम इत्यु॑पासी॒त । नम्यन्ते॑ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये॑ऽप्रिया॑ भ्रातृ॒व्याः । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑संक्र॒म्य । एतं प्राणमयमात्मानमुप॑संक्र॒म्य । एतं मनोमयमात्मानमुप॑संक्र॒म्य । एतं विज्ञानमयमात्मानमुप॑संक्र॒म्य । एतमानन्दमयमात्मानमुप॑संक्र॒म्य । इमां ल्लोकन्कामान्नी कामरूप्य॑नुसं॒चरन् । एतत्साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ । अ॒हमन्नम॒हमन्नम॒हमन्नम् । अ॒हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दः । अ॒हँ श्लोक॒कृद॒हँ श्लोक॒कृद॒हँ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता ३ स्य॒ । पूर्वं देवेभ्यो अमृतस्य ना ३ भा॒यि॒ । यो मा ददाति स इदेव मा ३ वाः॒ । अ॒हमन्न॒मन्न॑म॒दन्त॒मा ३ द्मि॒ । अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः॑ । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ०। ९। १०। १०॥
रा॒द्ध्यते वि॒द्युति मान॑वान्भ॒वत्येको॒ हा३वु॒ य ए॒वं वेदैक॑ञ्च ॥ १०॥
भृगु॒स्तस्मै॒ यतो॑ विशन्ति॒ तद्विजि॑ज्ञासस्व॒ तत्त्रयो॑द॒शान्नं॑ प्रा॒णो मनो॑ वि॒ज्ञान॒मिति॑ वि॒ज्ञाय॒ तन्तप॑सा॒ द्वाद॑श द्वादशान॒न्द इति॒ सैषा दशान्नं॒ न नि॑न्द्यात्प्रा॒णः शरी॑रं॒ अन्नं॒ न परि॑चक्षी॒तापो॒ ज्योति॒रन्नं॑ ब॒हु कु॑र्वीत पृथि॒व्या॑का॒श एका॑द॒शैका॑दश॒ न कञ्चनैक॑षष्टि॒र्दश॑ ॥ १०॥
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥