० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म् । तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ । यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन् । सो॑ऽश्नुते॒ सर्वा॒न्कामा॑न्त्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ । तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्संभू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योऽन्न॑म् । अन्ना॒त्पुरु॑षः । स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा॑ । इदं पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। १। १॥ ॥ १॥
२ अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्नँ॒ हि भू॒तानां॒ ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धमु॑च्यते । सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । अन्नँ॒ हि भू॒तानां॒ ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धमु॑च्यते । अन्ना॑द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा॑ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। २। २॥ ॥ २॥
३ प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः॑ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा॑त्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्मात्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा॑त्प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ३। ३॥ ॥ ३॥
४ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा॑न्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ४। ४॥ ॥ ४॥
५ वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञानं॑ दे॒वास्सर्वे॑ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्त्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥
०। ८। ५। ५॥ ॥ ५॥
६ अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती ३। आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता ३ उ॒ । सो॑ऽकामयत । ब॒हु स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दँ सर्व॑मसृजत । यदि॒दं किंच॑ । तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् । यदि॑दं किं॒च । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ६। ६॥ ॥ ६॥
७ अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानँ स्वय॑मकु॒रुत । तस्मात्तत्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तत्सु॒कृतम् । र॑सो वै॒ सः । रसँ ह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्या॑त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवाऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते । अथ तस्य भ॑यं भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ७। ७॥ ॥ ७॥
८ भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमाँ॑सा भ॒वति । युवा स्यात्साधुयु॑वाऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः । स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः । स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजानां देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजानां देवाना॑मान॒न्दाः । स एकः कर्मदेवानां देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑संक्रा॒मति । एतं प्राणमयमात्मानमुप॑संक्रा॒मति । एतं मनोमयमात्मानमुप॑संक्रा॒मति । एतं विज्ञानमयमात्मानमुप॑संक्रा॒मति । एतमानन्दमयमात्मानमुप॑संक्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ८। ८॥
९ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतँ ह वाव॑ न त॒पति । किमहँ साधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति । स य एवं विद्वानेते आत्मा॑नँ स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑नँ स्पृ॒णुते । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ०। ८। ९। ९॥ ॥ ९॥ ब्र॒ह्म॒विदिदमयमिदमेक॑विँशति॒रन्ना॒दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छँ॒ षड्विँ॑शतिः प्रा॒णं यजु॒र्ऋक्सामादे॒शोऽथर्वाङ्गिरसः पुच्छं॒ द्वाविँ॑शति॒र्यत॑श्श्र॒द्धर्तँ सत्यं यो॑गो॒ महो॑ऽष्टाद॑श वि॒ज्ञानं॒ प्रियं॒ मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छं॒ द्वाविँ॑शति॒रस॑न्ने॒वाष्टाविँ॑शति॒रस॒त्षोड॑श भी॒षाऽस्मा॒न्मानुषो॒ मनुष्यगन्धर्वाणां॒ देवगन्धर्वाणां॒ पितृणां चिरलोकलोकाना॒माजानजानां कर्मदेवानां॒ ये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र्ब्रह्मण॒स्स यश्च॑ संक्रा॒मत्येक॑पञ्चा॒शद्युतः॒ कुत॑श्च॒ नैका॑दश॒ नव॑ ॥ ९॥
ब्र॒ह्म॒विन्नव॑ ॥ ९॥
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥