१ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार॑म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १। १॥ स॒त्यं व॑दिष्यामि॒ पञ्च॑ च ॥ १॥
२ ओं शीक्षां व्या॑ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्तः शी॑क्षाध्या॒यः ॥ ०। ७। २। २॥ शीक्षां पञ्च॑ ॥ २॥
३ स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सँहिताया उपनिषदं व्या॑ख्यास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोक मधिज्यौतिष मधिविद्य मधिप्रज॑ मध्या॒त्मम् । ता महासँहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू॑र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः ॥ ०। ७। ३। ३॥
४ वायु॑स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू॑र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू॑र्वरू॒पम् ॥ ०। ७। ३। ४॥
५ अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनँ॑ सन्धा॒नम् । इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू॑र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननँ॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ ०। ७। ३। ५॥
६ अथाध्या॒त्मम् । अधरा हनुः पू॑र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हासँ॒हिताः । य एवमेता महासँहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ०। ७। ३। ६॥ स॒न्धिराचार्यः पू॑र्वरू॒पमित्यधि॒प्रजं लो॑के॒न ॥ ३॥
७ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता॑त्सं ब॒भूव॑ । स मेन्द्रो॑ मे॒धया॑ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॑भ्यां॒ भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ ०। ७। ४। ७॥
८ कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाँ॑ सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा॑ । आ मा॑ यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । वि मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । प्र मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ ॥ ०। ७। ४। ८॥
९ यशो॒ जने॑ऽसानि॒ स्वाहा॑ । श्रेया॒न् वस्य॑सोऽसानि॒ स्वाहा॑ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑ । तस्मि॑न्त्स॒हस्र॑शाखे । नि भ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा॑ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा॑ । प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ ०। ७। ४। ९॥ वि॒त॒न्वा॒ना शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॒ धात॒राय॑न्तु स॒र्वतः॒ स्वाहैकं॑ च ॥ ४॥
१० भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह स्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा॑न्य॒न्या दे॒वताः॑ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ ०। ७। ५। १०॥
११ मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः॑ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीँ॑षि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूँ॑षि ॥ ०। ७। ५। ११॥
१२ मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते । भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्न॑म् । अन्ने॑न॒ वाव सर्वे॑ प्रा॒णा मही॑यन्ते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे॑ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥
०। ७। ५। १२॥ अ॒सौ लो॒को यजूँ॑षि॒ वेद॒ द्वे च॑ ॥ ५॥
१३ स य ए॒षो॑ऽन्तर्हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते । से॑न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ ०। ७। ६। १३॥
१४ सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा॑ज्यम् । आ॒प्नोति॒ मन॑स॒स्पति॑म् । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् । शान्ति॑समृद्धम॒मृत॑म् । इति॑ प्राचीनयो॒ग्योपा॑स्स्व ॥ ०। ७। ६। १४॥
वा॒याव॒मृत॒मेकं॑ च ॥ ६॥
१५ पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ माँ॒सँ स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒ वा इ॒दँ सर्व॑म् । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ ०। ७। ७। १५॥ सर्व॒मेकं॑ च ॥ ७॥
१६ ओमिति॒ ब्रह्म॑ । ओमिती॒दँ सर्व॑म् । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओँ शोमिति॑ श॒स्त्राणि॑ शँसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा॑प्नवा॒नीति॑ । ब्रह्मै॒वोपा॑प्नोति ॥ ०। ७। ८। १६॥ ओं दश॑ ॥ ८॥
१७ ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । तद्धि तप॑स्तद्धि॒ तपः ॥ ०। ७। ९। १७॥ प्रजा च स्वाध्यायप्रव॑चने॒ च षट्च॑ ॥ ९॥
१८ अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑णँ॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ ०। ७। १०। १८॥ अ॒हँ षट् ॥ १०॥
१९ वेदमनूच्याचाऱ्योऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया॑न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ ०। ७। ११। १९॥
२० देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकँ सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ ०। ७। ११। २०॥
२१ नो इ॑तरा॒णि । ये के चास्मच्छ्रेयाँ॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संवि॑दा दे॒यम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ ०। ७। ११। २१॥
२२ ये तत्र ब्राह्मणाः॑ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या॑ख्याते॒षु । ये तत्र ब्राह्मणा॑स्संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ ०। ७। ११। २२॥ स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यं तानि त्वयो॑पास्या॒नि स्यात्तेषु॑ वर्ते॒रन्त्स॒प्त च॑ ॥ ११॥
२३ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी॑द्व॒क्तार॑म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १२। २३॥ स॒त्यम॑वादिषं॒ पञ्च॑ च ॥
१२॥ शं नः॒ शीक्षाँ स॒ह नौ॒ यश्छन्द॑सां॒ भूस्स यः पृ॑थि॒व्योमित्यृतं चा॒हं वेदमनूच्य शं नो॒ द्वाद॑श ॥ १२॥ शं नो॒ मह॒ इत्या॑दि॒त्यो नो इ॑तरा॒णि त्रयो॑विँशतिः ॥ २३॥ शं नः॒ शान्तिः॒ शान्तिः॑ ॥
० शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार॑म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥