० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् । वै॒व॒स्व॒तँ सं॒गम॑नं॒ जना॑नां य॒मँ राजा॑नँ ह॒विषा॑ दुवस्यत । इ॒दं त्वा॒ वस्त्रं॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टा॒पू॒र्तमनु॒संप॑श्य॒ दक्षि॑णां॒ यथा॑ ते द॒त्तं ब॑हु॒धा वि ब॑न्धुषु । इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ । याभ्यां॑ य॒मस्य॒ साद॑नँ सु॒कृतां॒ चापि॑ गच्छतात् । पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे॑भ्यः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स्सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् ॥ ०। ६। १। १॥
२ आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । भुव॑नस्य पत इ॒दँ ह॒विः । अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ । पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे । यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति । पुरु॑षस्य सयावरि॒ वि ते॑ प्रा॒णम॑सिस्रसम् । शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह । मैवं॑ मा॒ग्स्ता प्रि॑ये॒ऽहं दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व ॥ ०। ६। १। २॥
३ इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् । विश्वं॑ पुरा॒णमनु॑पा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि । उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि संब॑भूव । सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँसु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । धनु॒र्हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । मणिँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ ०। ६। १। ३॥
४ इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् । अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ संप्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च । नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै । मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् । य॒दा शृ॒तं क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ । शृ॒तं य॒दाऽक॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति । सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अ॒जोऽभा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मँ सु॒कृतां॒ यत्र॑ लो॒काः । अ॒यं वै त्वम॒स्मादधि॒ त्वमे॒तद॒यं वै तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृतां॒ यत्र॑ लो॒काः ॥ ०। ६। १। ४॥ वि॒द्वान॒भ्याव॑वृत्स्वा॒भिमा॑तीर्जयेम॒ शरी॑रैश्च॒त्वारि॑ च ॥ १॥
५ य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो॑ऽभिर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ । यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वात॒ तप॑ते त्वा॒या । दिवो॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्यः । अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ ०। ६। २। ५॥ य ए॒तस्य॒ त्वत्पञ्च॑ ॥ २॥
६ प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध । इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तँ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति । यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा । ताभ्याँ॑ राज॒न्परि॑देह्येनँ स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥ ०। ६। ३। ६॥
७ उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ऽवशाँ॒अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒वसु॑म॒द्येह भ॒द्रम् । सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताग्श्चि॑दे॒वापि॑ गच्छतात् । ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताग्श्चि॑दे॒वापि॑ गच्छतात् । तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः । तपो॒ ये च॑क्रि॒रे म॒हत्ताग्श्चि॑दे॒वापि॑ गच्छतात् । अश्म॑न्वती रेवतीः॒ सँर॑भध्व॒मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्, व॒यम॒भि वाजा॒नुत्त॑रेम ॥ ०। ६। ३। ७॥
८ यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रँ॑ स॒हस्र॑धारं॒ वित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हं माँस॒र्वत॑नुं पुनामि । या रा॒ष्ट्रात्प॒न्नादप॒यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा॒ सँसृ॑जाथ । उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् । धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥ ०। ६। ३। ८॥ धे॒ह्युत्त॑रेमा॒ष्टौ च॑ ॥ ३॥
९ यं ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे । इ॒मं तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च । यं त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ । क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वाव्य॑ल्कशा । शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति । म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ । शं ते॑ धन्व॒न्या आपः॒ शमु॑ ते सन्त्वनू॒क्याः॑ । शं ते॑ समु॒द्रिया॒ आपः॒ शमु॑ ते सन्तु॒ वर्ष्याः॑ । शं ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ । शं ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ॥ ०। ६। ४। ९॥
१० अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑यातु॒ शेषँ॒ संग॑च्छतां त॒नुवा॑ जातवेदः । संग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्विश्वा॑दनृ॒णं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ । उत्ति॒ष्ठात॑स्त॒नुवँ॒ सम्भ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ । उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् । य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑रोहे॒मम् । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु । अ॒स्मात्त्वमधि॑जा॒तो॑ऽस्य॒यं त्वदधि॑जायताम् । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥ ०। ६। ४। १०॥ अव॑शीयताँ स॒धस्थे॒ पञ्च॑ च ॥ ४॥
११ आया॑तु दे॒वस्सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑ वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताँ सुप्र॒यते॑ ह ब॒र्हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै॑ । य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्तः॑ । आसी॑दतँ॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः । य॒माय॒ सोमँ॑सुनुत य॒माय॑ जुहुता ह॒विः । य॒मँह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः । य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒ प्रजी॒वसे॑ । य॒माय॒ मधु॑मत्तमँ॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥ ०। ६। ५। ११॥
१२ योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी । य॒मं भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑ऽनप॒रोध्यः॑ । य॒मं गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑ऽनप॒रोध्यः॑ । येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा । हि॒र॒ण्य॒क॒क्ष्यान्त्सु॒धुरा॑न् हिरण्या॒क्षान॑यश्श॒फान् । अश्वा॑न॒नश्य॑तो दा॒नं॒ य॒मो रा॑जाऽभि॒तिष्ठ॑ति । य॒मो दा॑धार पृथि॒वीं य॒मो विश्व॑मि॒दं जग॑त् । य॒माय॒ सर्व॒मित्र॑स्थे॒ यत्प्रा॒णद्वा॒युर॑क्षि॒तम् । यथा॒ पञ्च॒ यथा॒ षड्य॒था पञ्च॑द॒र्ष॑यः । य॒मं यो वि॑द्या॒त्स ब्रू॑याद्य॒थैक ऋषि॑र्विजान॒ते ॥ ०। ६। ५। १२॥
१३ त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वीरेक॒मिद्बृ॒हत् । गा॒य॒त्री त्रि॒ष्टुप्छन्दाँ॑सि॒ सर्वा॒ ता य॒म आहि॑ता । अह॑रह॒र्नय॑मानो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः । वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः । ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॒ चानृ॑तवादि॒नः । ते रा॑जन्नि॒ह विवि॑च्यन्ते॒ऽथा य॑न्ति त्वा॒मुप॑ । दे॒वाग्श्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाग्श्चाप॒चित्य॑ति । यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति ॥ ०। ६। ५। १३॥ प॒थि॒कृद्भ्यो॑ विजान॒तेऽनु॑वेनति ॥ ५॥
१४ वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि साह॒स्रमुत्सँ॑ श॒तधा॑रमे॒तम् । तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ । इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये॑ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्वव॒सान॑मस्मै । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑र्युज्यन्तामघ्नि॒याः ॥ ०। ६। ६। १४॥
१५ शु॒नं वा॒हाः शु॒नं ना॒राः शु॒नं कृ॑षतु॒ लाङ्ग॑लम् । शु॒नं व॑र॒त्रा ब॑ध्यन्ताँ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् । शुना॑सीरावि॒मां वाचं॒ यद्दि॒वि च॑क्र॒थुः पयः॑ । तेने॒मामुप॑सिञ्चतम् । सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव । यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला स॑सि । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒ शम्भ॑व । विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य । ज्योति॑रापाम॒ सुव॑रगन्म ॥ ०। ६। ६। १५॥
१६ प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीँ रेत॒साऽव॑ति । यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः । ए॒वं व॑पामि हा॒र्म्यं यथाऽसा॑म जीवलो॒के भूर॑यः । चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या । आप्या॑यस्व॒ सं ते॑ ॥ ०। ६। ६। १६॥ अ॒घ्नि॒या अ॑गन्म स॒प्त च॑ ॥ ६॥
१७ उत्ते॑ तभ्नोमि पृथि॒वीं त्वत्परी॒मं लो॒कं नि॒दध॒न्मो अ॒हँरि॑षम् । ए॒ताग् स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑नात्ते मिनोतु । उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीँ सु॒शेवा॑म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निरृ॑त्या उ॒पस्थे॑ । उच्छ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रं यथा॑ सि॒चाऽभ्ये॑नं भूमि वृणु । उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा॑ऽस्मै शर॒णास्स॒न्त्वत्र॑ । एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ । तिल॑वत्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः ॥ ०। ६। ७। १७॥
१८ ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे । अक्षि॑ति॒र्नाम॑ ते असौ । इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम । तत्त्व॑मारो॒हासो॒ मेध्यो॒ भवं॑ य॒मेन॒ त्वं य॒म्या॑ संविदा॒नः । मा त्वा॑ वृ॒क्षौ संबा॑धिष्टां॒ मा मा॒ता पृ॑थिवि॒ त्वम् । पि॒तॄन् ह्यत्र॒ गच्छा॒स्येधा॑सं यम॒राज्ये॑ । मा त्वा॑ वृ॒क्षौ संबा॑धेथां॒ मा मा॒ता पृ॑थि॒वी म॒ही । वै॒व॒स्व॒तँ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि । न॒ळं प्ल॒वमारो॑है॒तं न॒ळेन॑ प॒थोऽन्वि॑हि । स त्वं॑ न॒ळप्ल॑वो भू॒त्वा॒ संत॑र॒ प्रत॒रोत्त॑र ॥ ०। ६। ७। १८॥
१९ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभ्यः॑ पृथिवि॒ शम्भ॑व । षड्ढो॑ता॒ सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् । शं वातः॒ शँहि ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां मे॒ दिशः॑ श॒ग्माः । पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शां त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६। ७। १९॥ अन॑पस्फुरन्ती॒रुत्त॑र दे॒वत॑या॒ द्वे च॑ ॥ ७॥
२० अ॒पू॒पवा॑न्घृ॒तवाग्॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानां॑ घृ॒तभा॑गा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । दशा॑क्षरा॒ ताँ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒पू॒पवा॑ञ्छृ॒तवा॑न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानाँ॑ शृ॒तभा॑गाः, क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒ऽयुता॑क्ष॒राऽच्यु॑ताक्षरा॒ ताँ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒माद॑भन्पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६। ८। २०॥ अ॒पू॒पवा॑न॒सौ दश॑ ॥ ८॥
२१ ए॒तास्ते॑ स्व॒धा अ॒मृताः॑ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ । तास्ते॑ य॒मः पि॒तृभि॑स्संविदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः॑ करोतु । त्वामर्जु॒नौष॑धीनां॒ पयो॑ ब्र॒ह्माण॒ इद्वि॑दुः । तासां॑ त्वा॒ मध्या॒दाद॑दे च॒रुभ्यो॒ अपि॑धातवे । दू॒र्वाणाग्॑ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठाऽनु॒ विरो॑हतु । काशा॑नाग् स्त॒म्बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै । य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ ते नाभ॑वा॒न्पुनः॑ । द॒र्भाणाग्॑ स्त॒म्बमाह॑र पितृ॒णामोष॑धीं प्रि॒याम् । अन्वस्यै॒ मूलं॑ जीवा॒दनु॒ काण्ड॒मथो॒ फल॑म् ॥ ०। ६। ९। २१॥
२२ लो॒कं पृ॑ण॒ ता अ॑स्य॒ सूद॑दोहसः । शं वातः॒ शँ हि॑ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां ते॒ दिश॒स्सर्वाः॑ । इ॒दमे॒व मेतोऽप॑रा॒मार्ति॑माराम॒ कांच॒न । तथा॒ तद॒श्विभ्यां॑ कृ॒तं मि॒त्रेण॒ वरु॑णेन च । व॒र॒णो वा॑रयादि॒दं दे॒वो वन॒स्पतिः॑ । आर्त्यै॒ निरृ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पतिः॑ । विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाँ॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाँ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाँ॑सि । पृ॒थि॒वीं ग॑च्छा॒न्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिवं॑ गच्छा॒न्तरि॑क्षं गच्छ पृथि॒वीं ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु ॥ ०। ६। ९। २२॥ फलं॑ पुनातु ॥ ९॥
२३ आरो॑ह॒ताऽऽयु॑र्ज॒रसं॑ गृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः । यथाऽहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूँ॑षि कल्पयैषाम् । न हि॑ ते अग्ने त॒नुवै॑ क्रू॒रं च॒कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॑र्ज॒रायु॒ गौरि॑व । अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा॑ । अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव ॥ ०। ६। १०। २३॥
२४ इ॒मे जी॒वा वि॑ मृ॒तैराव॑वर्ति॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिं नो अ॒द्य । प्राञ्जो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः । मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑द्महे॒ पर्व॑तेन । इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम् । अ॒न॒श्रवो॑ अनमी॒वास्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ । यदाञ्ज॑नं त्रैककु॒दं जा॒तँ हि॒मव॑त॒स्परि॑ । तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जम्भयामसि । यथा॒ त्वमु॑द्भि॒नत्स्यो॑षधे पृथि॒व्या अधि॑ । ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒जो॑ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषाँ॑सि ॥ ०। ६। १०। २४॥ भ॒व॒ ज॒म्भ॒या॒म॒सि॒ त्रीणि॑ च ॥ १०॥
२५ अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् । सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् । प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् । प्र यद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् । प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
०। ६। ११। २५॥
२६ त्वँ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम् । द्विषो॑ नो विश्वतो मु॒खाऽति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् । स न॒स्सिन्धु॑मिव ना॒वयाऽति॑पर्षा स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम् । आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मत्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् । उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् । आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागा॒ग् स्वान्गृ॒हान् । अप॑ नः॒ शोशु॑चद॒घम् । न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कमप॑ नः॒ शोशु॑चद॒घम् ॥ ०। ६। ११। २६॥ अ॒घम॒घं च॒त्वारि॑ च ॥ ११॥
२७ अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै । मयै॒तां मा॒ग्स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि । रयि॑ष्ठाम॒ग्निं मधु॑मन्तमू॒र्मिण॒मूर्ज॑स्सन्तं त्वा॒ पय॒सोप॒सँस॑देम । सँ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये॑ । ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः॑ । तेभ्यो॑ घृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती । मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑ना॒ग् स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्र णु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा॑न्यत्तु । ओमुत्सृ॒जत ॥ ०। ६। १२। २७॥ व॒धि॒ष्ट॒ द्वे च॑ ॥ १२॥
प॒रे॒यु॒वाँसं॒ प्रवि॒द्वान्भुव॑नस्या॒भ्याव॑वृत्स्वा॒जो भा॒गो॑ऽयं वै चतु॑श्चत्वारिँश॒द्य ए॒तस्य॒ त्वत्पञ्च॒ प्र के॒तुने॒दं ते॒ नाके॑ सुप॒र्णं यौ ते॒ ये युध्य॑न्ते॒ तप॒साऽश्म॑न्वती रेवती॒स्सँ र॑भध्वम॒ष्टाविँ॑शति॒र्यं ते॒ यत्त॒ उत्ति॑ष्ठे॒दं त॒ उत्ति॑ष्ठ॒ प्रेह्यश्म॒न् यद्वा उद्व॒यम॒यं पञ्च॑विँशति॒राया॑तु त्रिँ॒शद्वै॑श्वान॒रे तस्मि॑न्द्र॒प्स इ॒ममपे॒ताहो॑भिर्युज्यन्तामघ्नि॒या अ॑दिते पा॒रं व॒ आप्या॑यस्व स॒प्तविँ॑शति॒रुत्ते॑ तभ्नो॒म्यक्षि॑ति॒स्तेभ्यः॑ पृथिवि॒ षड्ढो॑ता॒ परं॑ मे श॒ग्माः पृ॑थि॒व्या अ॒न्तरि॑क्षस्य॒ द्वात्रिँ॑शदपू॒पवा॑न॒सौ दश॑ श॒त द॑शै॒तास्ते॑ ते॒ दिश॒स्सर्वा॑ इ॒दमश्म॑न्विँश॒तिरारो॑हत त॒नुवै॑ क्रू॒रं च॒कार॒ पुन॑र्मृ॒त्यवे॒ मा नोऽनु॑ गाद्दद्मह इ॒मा नारीः॒ परि॒ त्रयो॑विँशति॒रप॑ नस्सुक्षेत्रि॒या प्र यद्भन्दि॑ष्ठः॒ प्रयद॒ग्नेः प्र यत्ते॑ अग्ने॒ त्वँहि द्विष॒स्सन॒स्सिन्धु॒मापः॑ प्रव॒णादु॑द्व॒नादा॑न॒न्दाय॒ न वै तत्र॒ यत्रे॒दं चतु॑र्विँशति॒रप॑श्या॒माऽऽवृ॑णीहि॒ द्वाद॑श द्वादश ॥ १२॥
प॒रे॒ यु॒वाँ स॒माया॑त्वे॒तास्ते॑ स॒प्तविँ॑शतिः ॥ २७॥
प॒रे॒यु॒वाँस॒मोमुत्सृ॒जत ॥
० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माँ स॑मेत॒ पश्य॑त । सौभा॑ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति तैत्तिरीय-आरण्यकम् १॥