०१ अरुण-केतुक-चयनादि

० भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

१ ओं भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आप॑मापाम॒पः सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ॥ ०। १। १। १॥

२ अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह सं॑चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ । दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ ०। १। १। २॥

३ अ॒पाश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णिम॒पारघम्॑ । अपा॑घ्रा॒मप॑ चा॒वर्ति॑म् । अप॑दे॒वीरि॒तो हि॑त । वज्रं॑ दे॒वीरजी॑ताग्श्च । भुव॑नं देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। १। ३॥ अ॒मुतः॑ सु॒तौष॑धयो॒ द्वे च॑ ॥ १॥

४ स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्य॑म् । अनु॑मानश्चतुष्ट॒यम् । ए॒तैरादि॑त्यमण्डलम् । सर्वै॑रेव॒ विधा॑स्यते । सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा॑द्भुव॑नाद॒धि । तस्याः पाकवि॑शेषे॒ण । स्मृ॒तं का॑लवि॒शेष॑णम् । न॒दीव॒ प्रभ॑वात्का॒चित् । अ॒क्षय्या॑त्स्यन्द॒ते य॑था ॥ ०। १। २। ४॥

५ तान्नद्योऽभिस॑माय॒न्ति । सो॒रुस्सती॑ न नि॒वर्त॑ते । ए॒वन्ना॒नास॑मुत्था॒नाः । का॒लास्सं॑वत्स॒रँ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑तम् । सतै॑स्स॒र्वैः स॑मावि॒ष्टः । ऊ॒रुस्स॑न्न नि॒वर्त॑ते । अधिसंवत्स॑रं वि॒द्यात् । तदेव॑ लक्ष॒णे ॥ ०। १। २। ५॥

६ अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । संवत्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑त्त्वः प्र॒दृश्य॑ते । प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते । एकँहि शिरो ना॑ना मु॒खे । कृ॒त्स्नं त॑दृतु॒लक्ष॑णम् ॥ ०। १। २। ६॥

७ उभयतस्सप्ते॑न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते । शुक्लकृष्णे संव॑त्सर॒स्य । दक्षिणवाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । नात्र॒ भुव॑नम् । न पू॒षा । न प॒शवः॑ । नादित्यस्संवत्सर एव प्रत्यक्षेण प्रियत॑मं वि॒द्यात् । एतद्वै संवत्सरस्य प्रियत॑मँ रू॒पम् । योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति । इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ ०। १। २। ७॥ य॒था॒ ल॒क्ष॒ण ऋ॑तु॒लक्ष॑णं॒ भुव॑नँ स॒प्त च॑ ॥ २॥

८ सा॒कं॒जानाँ॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः । को नु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते । यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑यम् । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीँ॑ श‍ृ॒णोत्य॒लकँ॑ श‍ृणोति ॥ ०। १। ३। ८॥

९ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ । ऋ॒तुरृ॑तुना नु॒द्यमा॑नः । विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिँश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ । सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिस्स॒ह । सं॒व॒त्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॑तः । अ॒मूना॒दय॑तेत्य॒न्यान् ॥ ०। १। ३। ९॥

१० अ॒मूग्श्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रैत॑दुप॒दृश्य॑ते । ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒पर्य॑ये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः । ऋ॒तूनां॑ तन्नि॒बोध॑त । शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह । नि॒जह॑न्पृथि॑वीँ स॒र्वाम् ॥ ०। १। ३। १०॥

११ ज्यो॒तिषा॑ऽप्रति॒ख्येन॑ सः । वि॒श्व॒रू॒पाणि॑ वासाँ॒सि । आ॒दि॒त्यानां॑ नि॒बोध॑त । संवत्सरीणं॑ कर्म॒फलम् । वर्षाभिर्द॑दताँ॒ सह । अदुःखो॑ दुःखच॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना॑व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते । ह्लादयते॑ ज्वल॑तश्चै॒व । शा॒म्यत॑श्चास्य॒ चक्षु॑षी । या वै प्रजा भ्रँ॑श्य॒न्ते । संवत्सरात्ता भ्रँ॑श्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति । संवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य॑ इत्य॒र्थः ॥

०। १। ३। ११॥ श‍ृ॒णो॒त्य॒न्यान्स॒र्वामे॒व षट्च॑ ॥ ३॥

१२ अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑णं ना॒स्ति । ऋ॒भूणां॑ तन्नि॒बोध॑त । क॒न॒का॒भानि॑ वासाँ॒सि । अ॒हता॑नि नि॒बोध॑त । अन्नमश्नीत॑ मृज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒दृश्य॑ते ॥ ०। १। ४। १२॥

१३ अभिधून्वन्तोऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः । अमुतो जेतुमिषुमु॑खमि॒व । सन्नद्धास्सह द॑दृशे॒ ह । अपध्वस्तैर्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः । अक्रुद्धस्य योत्स्य॑मान॒स्य । क्रु॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः॑, क्षिप॒णोरि॑व ॥ ०। १। ४। १३॥

१४ दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः । ता अ॒ग्निः पव॑माना॒ अन्वै॑क्षत । इ॒ह जी॑वि॒कामप॑रिपश्यन् । तस्यै॒षा भव॑ति । इ॒हेह व॑स्स्वत॒पसः । मरु॑त॒स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ ०। १। ४। १४॥ दृश्य॑त इ॒वाऽऽवृ॑णे ॥ ४॥

१५ अति॑ता॒म्राणि॑ वासाँ॒सि । अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च । विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त । नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्निर्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्चन॒ विद्य॑ते । दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ ०। १। ५। १५॥

१६ तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑मछि॒नत्स्व॑यम् । तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शंयोर्बार्ह॑स्पत्य॒स्य । ए॒तद्रु॑द्रस्य॒ धनुः । रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ऽभवत् । तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनँ॑ रु॒द्र आरु॑को भवति । य ए॒वं वेद॑ ॥ ०। १। ५। १६॥ श्रि॒ता यज॑ते॒ त्रीणि॑ च ॥ ५॥

१७ अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूपं न॑ वासाँ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते । अ॒न्योन्यं॒ तु न॑ हिँस्रा॒तः । स॒तस्त॑द्देव॒लक्ष॑णम् । लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒नं प्र॑ति । त्वं करोषि॑न्यञ्ज॒लिकाम् । त्वं॒ करो॑षि नि॒जानु॑काम् ॥ ०। १। ६। १७॥

१८ निजानुका मे॑न्यञ्ज॒लिका । अमी वाचमुपास॑तामि॒ति । तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादाकरत्वात्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द । स खलु संवत्सर एतैस्सेनानी॑भिस्स॒ह । इन्द्राय सर्वान्कामान॑भिव॒हति । स द्र॒प्सः । तस्यै॒षा भव॑ति ॥ ०। १। ६। १८॥

१९ अव॑द्र॒प्सो अँ॑शु॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ । आव॒र्तमिन्द्रः॒ शच्या॒ धम॑न्तम् । उपस्नुहि तं नृमणामथ॑द्रामि॒ति । एतयैवेन्द्रः सलावृ॑क्या स॒ह । असुरान्प॑रिवृ॒श्चति । पृथि॑व्यँ॒शुम॑ती । ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ । नैवं विदुषाऽऽचार्या॑न्तेवा॒सिनौ । अन्योन्यस्मै॑ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गाल्लो॒कात् । इत्यृतुम॑ण्डला॒नि । सूर्यमण्डला॑न्याख्या॒यिकाः । अत ऊर्ध्वँ स॑निर्व॒चनाः ॥ ०। १। ६। १९॥ नि॒ जानु॑कां॒ भव॑ति द्रुह्या॒तां पञ्च॑ च ॥ ६॥

२० आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमा॑न् विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । कश्य॑पोऽष्ट॒मः । स महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति । यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥

०। १। ७। २०॥

२१ तस्मिन्राजानमधिविश्रये॑ममि॒ति । ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते । तान्त्सोमः कश्यपादधि॑ निर्ध॒मति । भ्रस्ताकर्मकृ॑दिवै॒वम् । प्राणो जीवानीन्द्रिय॑जीवा॒नि । सप्त शीर्ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः । अपश्यमहमेतान्त्सप्त सू॑र्यानि॒ति । पञ्चकर्णो॑ वात्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ ०। १। ७। २१॥

See the note below about placing th before sapta

२२ आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते । न हि शेकुमिव महामे॑रुं ग॒न्तुम् । अपश्यमहमेतत्सूर्यमण्डलं परिव॑र्तमा॒नम् । गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एकं॑ चाज॒हतम् । भ्राजपटरपत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ ०। १। ७। २२॥

२३ अ॒मुत्रे॒तरे । तस्मा॑दि॒हातप्त्रि॑तपाः । तेषा॑मेषा॒ भव॑ति । स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावा॑न् । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः । तेषा॑मेषा॒ भव॑ति । स॒प्त दिशो॒ नाना॑सूर्याः ॥ ०। १। ७। २३॥

२४ स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त । तेभिः सोमाभीरक्ष॑ण इ॒ति । तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू॑न् करो॒ति । एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शंपा॒यनः । तस्यै॒षा भव॑ति । यद्द्याव॑ इन्द्र ते श॒तँश॒तं भूमीः॑ । उ॒त स्युः । नत्वा॑ वज्रिन्त्स॒हस्रँ॒ सूर्याः॑ ॥ ०। १। ७। २४॥

२५ अनुनजातमष्ट रोद॑सी इ॒ति । नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् । अष्टौ तु व्यवसि॑ता इ॒ति । सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् । तेषा॑मेषा॒ भव॑ति । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ ०। १। ७। २५॥

सा॒कं प्ला॒क्षिस्तप्त्रि॑तपा॒ नाना॑सूर्याः॒ सूर्या॒ नव॑ च ॥ ७॥

२६ क्वेदमभ्र॑न्निवि॒शते । क्वायँ॑ संवत्स॒रो मि॑थः । क्वाहः क्वेयन्दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः । अर्धमासा॑ मुहू॒र्ताः । निमेषास्त्रु॑टिभि॒स्सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ संप्र॑ति । काला अप्सु नि॑विश॒न्ते । आ॒पस्सूर्ये॑ स॒माहि॑ताः ॥ ०। १। ८। २६॥

२७ अभ्रा॑ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युत्सूर्ये॑ स॒माहि॑ता । अनवर्णे इ॑मे भू॒मी । इ॒यं चा॑सौ च॒ रोद॑सी । किँस्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे । वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑त्सस्य॒ वेद॑ना । इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये॑ ॥ ०। १। ८। २७॥

२८ व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ । किन्तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् । एको॑ य॒द्धार॑यद्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षरा॑द्दीप्ति॒रुच्य॑ते । त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥ ०। १। ८। २८॥

२९ अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् । पृच्छामि त्वा प॑रं मृ॒त्युम् । अ॒वमं॑ मध्य॒मञ्च॑तुम् । लो॒कञ्च॒ पुण्य॑पापा॒नाम् । ए॒तत्पृ॑च्छामि॒ संप्र॑ति । अ॒मुमा॑हुः प॑रं मृ॒त्युम् । प॒वमा॑नं तु॒ मध्य॑मम् । अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा॑श्चतु॒रुच्य॑ते ॥ ०। १। ८। २९॥

३० अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् । पा॒पास्सं॑यन्ति॒ सर्व॑दा । आभोगास्त्वेव॑ संय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः । ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुम॑ग्निं च॒ संप्र॑ति । पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः । त्वं नस्तद्ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे॑त्थास॒तो गृ॑हान् ॥ ०। १। ८। ३०॥

३१ क॒श्यपा॑दुदि॑तास्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा । रोदस्योरन्त॑र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः । तेऽशरीराः प्र॑पद्य॒न्ते । य॒थाऽपु॑ण्यस्य॒ कर्म॑णः । अपा॑ण्य॒पाद॑केशा॒सः । त॒त्र ते॑ऽयोनि॒जा ज॑नाः । मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते । अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ०। १। ८। ३१॥

३२ आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः । अपै॑तं मृ॒त्युं ज॑यति । य ए॒वं वेद॑ । स खल्वैवं॑ विद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः । तस्यै॒षा भव॑ति । आ यस्मि॑न्त्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ ०। १। ८। ३२॥

३३ ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति । कश्यपः पश्य॑को भ॒वति । यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् । अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं वि॑धेमे॒ति ॥ ०। १। ८। ३३॥ स॒माहि॑ता दश॒स्ये॑ उत्त॑म॒मुच्य॑ते गृहान्त्स्व॒कर्म॑भिः पू॒र्व्या॑ रुह॑ इ॒ति ॥ ८॥

३४ अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् । एतेऽष्टौ वसवः, क्षि॑ता इ॒ति । यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः । नीलार्चिश्च पीतका॑र्चिश्चे॒ति । अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमाना व्य॑वदा॒ताः ॥ ०। १। ९। ३४॥

३५ याश्च वासु॑किवै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः । ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश । नैनं वैद्युतो॑ हिन॒स्ति । य ए॑वं वे॒द । स होवाच व्यासः पा॑राश॒र्यः । विद्युद्वधमेवाहं मृत्युमै॑च्छमि॒ति । न त्वका॑मँ ह॒न्ति ॥ ०। १। ९। ३५॥

३६ य ए॑वं वे॒द । अथ ग॑न्धर्व॒गणाः । स्वान॒भ्राट् । अङ्घा॑रि॒र्बम्भा॑रिः । हस्त॒स्सुह॑स्तः । कृशा॑नुर्वि॒श्वाव॑सुः । मूर्धन्वान्त्सू॑र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः । देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥ ०। १। ९। ३६॥

३७ नैनं गरो॑ हिन॒स्ति । य ए॑वं वे॒द । गौ॒रीमि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ । सहस्राक्षरा परमे व्यो॑मन्नि॒ति । वाचो॑ विशे॒षणम् । अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः । व॒राहव॑स्स्वत॒पसः ॥ ०। १। ९। ३७॥

३८ वि॒द्युन्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा॑श्चेत्ये॒ते । ये॒ चेमेऽशि॑मिवि॒द्विषः । पर्जन्यास्सप्त पृथिवीमभिव॑र्ष॒न्ति । वृष्टि॑भिरि॒ति । एतयैव विभक्तिवि॑परी॒ताः । स॒प्तभि॒र्वातै॑रुदी॒रिताः । अमून् लोकानभिव॑र्ष॒न्ति । तेषा॑मेषा॒ भव॑ति । स॒मा॒नमे॒तदुद॑कम् ॥ ०। १। ९। ३८॥

३९ उ॒च्चैत्य॑व॒चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्त्यग्न॑य इ॒ति । यदक्ष॑रं भू॒तकृ॑तम् । विश्वे॑ देवा उ॒पास॑ते । म॒हर्षि॑मस्य गो॒प्तार॑म् । ज॒मद॑ग्नि॒मकु॑र्वत । ज॒मद॑ग्नि॒राप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ॥ ०। १। ९। ३९॥

४० ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ । तच्छं॒योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॑स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे॑ । शं चतु॑ष्पदे । सोमपा३ असोमपा३ इति निगद॑व्याख्या॒ताः ॥ ०। १। ९। ४०॥ व्य॒व॒दा॒ता ह॒न्ति ग॑र॒गिरस्त॒पस उद॑कं तृ॒प्तास॒श्चतु॑ष्पद॒ एकं॑ च ॥ ९॥

४१ स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं व्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती । जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् । शु॒क्रं वा॑म॒न्यद्य॑ज॒तं वा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ०। १। १०। ४१॥

४२ विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ । भ॒द्रा वां॑ पूषणावि॒ह रा॒तिर॑स्तु । वासा॑त्यौ चि॒त्रौ जग॑तो नि॒धानौ॑ । द्यावा॑भूमी च॒रथः॑ सँ॒ सखा॑यौ । ताव॒श्विना॑ रा॒सभा॑श्वा॒ हवं॑ मे । शु॒भ॒स्प॒ती॒ आ॒गतँ॑ सू॒र्यया॑ स॒ह । त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे । र॒यिन्न कश्चि॑न्ममृ॒वां २ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ०। १। १०। ४२॥

४३ ति॒स्रः, क्षप॒स्त्रिरहा॑ऽति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भीरथैः॑ श॒तप॑द्भिः॒ षड॑श्वैः । स॒वि॒तारं॒ वित॑न्वन्तम् । अनु॑बध्नाति शाम्ब॒रः । आपपूरुषम्ब॑रश्चै॒व । स॒विता॑ऽरेप॒सो॑ भवत् । त्यँ सुतृप्तं वि॑दित्वै॒व । ब॒हुसो॑म गि॒रं व॑शी ॥ ०। १। १०। ४३॥

४४ अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्त्सोम॑तृप्सु॒षु । स संग्रामस्तमो॑द्योऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् । स तद्गोभिस्स्तवा॑ऽत्येत्य॒न्ये । र॒क्षसा॑ऽनन्वि॒ताश्च॑ ये । अ॒न्वेति॒ परि॑वृत्या॒स्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑पृथि॒व्योः । अह॑रह॒र्गर्भ॑न्दधाथे ॥ ०। १। १०। ४४॥

४५ तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ । अ॒ग्निश्चा॑दि॒त्यश्च॑ । रा॒त्रेर्व॒त्सः । श्वे॒त आ॑दि॒त्यः । अह्नो॒ऽग्निः ॥ ०। १। १०। ४५॥

४६ ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ॥ ०। १। १०। ४६॥

४७ उ॒ष्मा च॑ नीहा॒रश्च॑ । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ तावे॒व प्रति॑पद्येते । सेयँ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति । तस्या॒ वा ए॒तदु॒ल्बण॑म् । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण॑म् । ए॒वमे॒तस्या॑ उ॒ल्बण॑म् । प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति । य ए॑वं वे॒द । एतमुद्यन्तमपिय॑न्तं चे॒ति । आदित्यः पुण्य॑स्य व॒त्सः । अथ पवि॑त्रांगि॒रसः ॥ ०। १। १०। ४७॥ स्थोऽपो॑दकाभिर्वशी दधाथे अ॒ग्निस्तयो॑रे॒तौ व॒त्सौ भ॒वति च॒त्वारि॑ च ॥ १०॥

४८ प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां॑ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ॑म् । प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते॑ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते । श‍ृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत । ब्र॒ह्मा दे॒वाना॑म् । अस॑तस्स॒द्ये तत॑क्षुः ॥ ०। १। ११। ४८॥

४९ ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च । नक्ष॑त्रैः॒ शंकृ॑तोऽवसन् । अथ॑ सवितुः॒ श्यावाश्व॒स्यावर्ति॑कामस्य । अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति । तत्स॑वि॒तुर्वरे॑ण्यम् । भर्गो॑ दे॒वस्य॑ धीमहि ॥ ०। १। ११। ४९॥

५० धियो॒ यो नः॑ प्रचो॒दया॑त् । तत्स॑वि॒तुर्वृ॑णीमहे । व॒यन्दे॒वस्य॒ भोज॑नम् । श्रेष्ठँ॑सर्व॒धात॑मम् । तुरं॒ भग॑स्य धीमहि । अपा॑गूहत सविता॒ तृभी॑न् । सर्वा॑न्दि॒वो अन्ध॑सः । नक्त॒न्तान्य॑भवन्दृ॒शे । अस्थ्य॒स्थ्ना संभ॑विष्यामः । नाम॒ नामै॒व ना॒म मे॑ ॥ ०। १। ११। ५०॥

५१ नपुँस॑कं॒ पुमा॒ग्स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः । य॒जेऽयक्षि॒ यष्टा॒हे च॑ । मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्योऽस्म्य॑हं वि॒भुः । स्त्रिय॑स्स॒तीः । ता उ॑ मे पुँ॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः । क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत ॥ ०। १। ११। ५१॥

५२ यस्ता वि॑जा॒नात्स॑वि॒तुः पि॒ता स॑त् । अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्वा अ॒सश्च॑त । ऊर्ध्वमूलम॑वाक्छा॒खम् । वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः । हसितँ रुदि॑तंगी॒तम् ॥ ०। १। ११। ५२॥

५३ वीणा॑पणव॒लासि॑तम् । मृ॒तंजी॒वं च॑ यत्किं॒चित् । अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् । अतृ॑ष्यँ॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चर॑न् । पुत्रो निरृत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः । स॒ तं मणिम॑विन्दत् । सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ०। १। ११। ५३॥

५४ सोऽजि॑ह्वो अ॒सश्च॑त । नैतमृषिं विदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तत्सम्भव॑स्य व्र॒तम् । आ॒तम॑ग्ने र॒थन्ति॑ष्ठ । एका॑श्वमेक॒योज॑नम् । एकचक्र॑मेक॒धुरम् । वा॒तध्रा॑जिग॒तिं वि॑भो । न॒ रि॒ष्यति॑ न व्य॒थते ॥ ०। १। ११। ५४॥

५५ ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता॑न्रोहि॑ताग्श्चा॒ग्नेः । र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति । एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्यामिष्टये विँ॑शत्या॒ च । तिसृभिश्च वहसे त्रिँ॑शता॒ च । नियुद्भिर्वायविहिता॑ विमु॒ञ्च ॥ ०। १। ११। ५५॥ तत॑क्षुर्धीमहि ना॒म मे॑ चिकेत गी॒तं प्रत्य॑मुञ्चद्व्य॒थते स॒प्त च॑ ॥ ११॥

५६ आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाऽऽध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒माधे॑हि॒ यः पुमा॑न् । इ॒तस्सि॒क्तँ सूर्य॑गतम् । च॒न्द्रम॑से॒ रस॑ङ्कृधि । वारादञ्जन॑याग्रे॒ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते । अ॒सं॒ख्या॒तास्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ०। १। १२। ५६॥

५७ ए॒वमे॒तन्नि॑बोधत । आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒हि म॒यूर॑रोमभिः । मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि । मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्नियेमुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒ तां २ इ॑मि । अणुभिश्च म॑हद्भि॒श्च ॥ ०। १। १२। ५७॥

५८ नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒त्स॒रो वि॑षू॒वर्णैः॑ । नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योँ सुब्रह्मण्योँ सु॑ब्रह्म॒ण्योम् । इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ ०। १। १२। ५८॥

५९ गौरावस्कन्दिन्नहल्या॑यै जा॒र । कौशिकब्राह्मण गौतम॑ब्रुवा॒ण । अ॒रु॒णाश्वा॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒क्षितः॑ । अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नयः॑ । अग्निश्च जातवेदा॑श्चेत्ये॒ते । ताम्राश्वा॑स्ताम्र॒रथाः । ताम्रवर्णा॑स्तथा॒ऽसिताः । दण्डहस्ताः॑ खाद॒ग्दतः । इतो रुद्राः॑ परा॒ङ्गताः ॥ ०। १। १२। ५९॥

६० उक्तँ स्थानं प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पैरि॒हाग॑ताम् । रथे॑नोदक॒वर्त्म॑ना । अ॒प्सुषा॑ इति॒ तद्द्व॑योः । उक्तो वेषो॑ वासाँ॒सि च । कालावयवानामितः॑ प्रती॒च्या । वासात्या॑ इत्य॒श्विनोः । कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठो रौहिणो मीमाँ॑साञ्च॒क्रे । तस्यै॒षा भव॑ति । वा॒श्रेव॑ वि॒द्युदिति॑ । ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ०। १। १२। ६०॥ दृश्य॑ते॒ च मे॒ने प॑रा॒ङ्गताश्च॒क्रे षट् च॑ ॥ १२॥

( अप॑क्रामत गर्भि॒ण्यः॑ )

६१ अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां मही॑म् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो॑न्य॒ष्टपु॑त्रम् । अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मून्दिव॑म् ॥ ०। १। १३। ६१॥

६२ अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽऽह॑रत् । सु॒त्रामा॑णं म॒हीमू॒षु । अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् । अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः॑ । अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् । अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒तास्त॒न्वः॑ परि॑ । दे॒वां २ उप॑प्रैत्स॒प्तभिः॑ ॥

०। १। १३। ६२॥

६३ प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् । स॒प्तभिः॑ पु॒त्रैरदि॑तिः । उप॒प्रैत्पू॒र्व्यं॑ युग॑म् । प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ । ताननुक्र॑मिष्या॒मः । मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा॑र्य॒मा च॑ । अँश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाग्॑श्चेत्ये॒ते । हि॒र॒ण्य॒ग॒र्भो हँ॒सः शु॑चि॒षत् । ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑ । ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑षः स॒प्तपुरु॑षः ॥ ०। १। १३। ६३॥ अ॒मून्दिवँ॑ स॒प्तभि॑रे॒ते च॒त्वारि॑ च ॥ १३॥

( य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ )

६४ योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दायो॒देति॑ । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः । अ॒सौ यो॑ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः । अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां॑ प्रा॒णैरा॒पूर्य॑ति ॥ ०। १। १४। ६४॥

६५ मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः । अ॒सौ यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑क्षीयति । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑क्षेष्ठाः । अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ॥ ०। १। १४। ६५॥

६६ इ॒मे मासा॑श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत । अ॒यँ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च ॥ ०। १। १४। ६६॥

६७ मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । इ॒दमहः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । इ॒यँरात्रिः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । ओं भूर्भुव॒स्स्वः॑ । एतद्वो मिथुनं मानो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १४। ६७॥

प्रा॒णैरा॒पूर्य॑ति॒ मोत्सृ॑पत॒ चोत्स॑र्पति च॒ मोत्सृ॑प॒ द्वे च॑ ॥ १४॥

६८ अथादित्यस्याष्टपु॑रुष॒स्य । वसूनामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । रुद्राणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । आदित्यानामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । सताँ॑सत्या॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । अभिधून्वता॑मभि॒घ्नताम् । वातव॑तां म॒रुताम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । ऋभूणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । विश्वेषा॑न्देवा॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । संवत्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भूर्भुव॒स्स्वः॑ । रश्मयो वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १५। ६८॥ ऋभूणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि षट् च॑ ॥ १५॥

६९ आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि । स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि । विभासस्य स्थाने स्वतेज॑सा भा॒नि । कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । ओं भूर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १६। ६९॥ आरोगस्य दश॑ ॥ १६॥

७० अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमानानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । व्यवदातानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । रजतानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । परुषाणाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । कपिलानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ ०। १। १७। ७०॥

७१ अवपतन्तानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । प्रभ्राजमानीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । व्यवदातीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । रजतानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । परुषाणाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । कपिलानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अवपतन्तीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । ओं भूर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १७। ७१॥

ऊर्ध्वानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒न्यतिलोहितीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि पञ्च॑ च ॥ १७॥

७२ अथाग्ने॑रष्टपु॑रुष॒स्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भूर्भुव॒स्स्वः॑ । दिशो वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १८। ७२॥

स्व॑रेक॑ञ्च ॥ १८॥ एतद्रश्मय आपो रूपाणि दिशः पञ्च॑ ॥

७३ दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । दक्षिणाऽपरस्यान्दिश्यविस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरापरस्यान्दिश्यविषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । आयस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ०। १। १९। ७३॥ दक्षिणपूर्वस्यां नव॑ ॥ १९॥

७४ इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् । मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् । प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् । वि॒श्वक॑र्मा व आदि॒त्यैरु॑त्तर॒त उप॑दधताम् । त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् । संज्ञानं वः प॑श्चादि॒ति । आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही॑न्द्र । ए॒वा हि पू॑षन् । ए॒वा हि दे॑वाः ॥ ०। १। २०। ७४॥ दि॒क्षु स॒प्त च॑ ॥ २०॥

७५ आप॑मापाम॒पः सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥ ०। १। २१। ७५॥

७६ दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत । अ॒पाऽश्न्यु॑ष्णिम॒पारक्षः॑ । अ॒पाऽश्न्यु॑ष्णिम॒पारघम्॑ । अपा॑घ्रा॒मप॑चा॒ऽवर्ति॑म् । अप॑दे॒वीरि॒तो हि॑त । वज्र॑न्दे॒वीरजी॑ताग्श्च । भुव॑नन्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिन्दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ॥ ०। १। २१। ७६॥

७७ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाँ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। २१। ७७॥

स्व॑रु॒दीष॑त॒ वात॑रश॒ना षट्च॑ ॥ २१॥

७८ यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्प॑म् । पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो॑ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ७८॥

७९ आ॒यत॑नवान्भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥ ०। १। २२। ७९॥

८० आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ०। १। २२। ८०॥

८१ आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान्भवति ॥ ०। १। २२। ८१॥

८२ य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥ ०। १। २२। ८२॥

८३ यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यः प॒र्जन्य॑स्या॒ऽऽयत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ८३॥

८४ आ॒यत॑नवान्भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै सं॑वत्स॒रस्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ०। १। २२। ८४॥

८५ इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू॑क्ता । अ॒पाँ रस॒मुद॑यँ सन् । सूर्ये॑ शु॒क्रँ स॒माभृ॑तम् । अ॒पाँ रस॑स्य॒ यो रसः॑ । तं वो॑ गृह्णाम्युत्त॒ममिति॑ । इ॒मे वै लो॒का अ॒पाँ रसः॑ । ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः । जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ०। १। २२। ८५॥

८६ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सँस्ती॒र्य । तस्मि॑न्विहा॒यसे । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा॑त्प्रणी॒तेऽयम॒ग्निश्ची॒यते॑ । साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते॑ । अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ०। १। २२। ८६॥

८७ अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः । कम॒ग्निंचि॑नुते । स॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । सं॒व॒त्स॒रं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । सा॒वि॒त्रम॒ग्निंचि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते ॥ ०। १। २२। ८७॥

८८ ना॒चि॒के॒तम॒ग्निंचि॑न्वा॒नः । प्रा॒णान्प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । वै॒श्व॒सृ॒जम॒ग्निंचि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नः ॥ ०। १। २२। ८८॥

८९ इ॒मान् लो॒कान्प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निंचि॑न्वा॒न इति॑ । य ए॒वासौ । इ॒तश्चा॒मुत॑श्चाऽव्यतीपा॒ती । तमिति॑ । यो॑ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान्भ॑वति । य ए॒वं वेद॑ ॥ ०। १। २२। ८९॥ वेद॑ भवत्या॒यत॑नमा॒यत॑नवान्भवति॒ वेद॒ य ए॒वं वेद॒ वेद॑ तिष्ठति गुल्फद॒घ्नं चा॑तुर्मा॒स्येष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निंचि॑नुत उपानुवा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नो मि॑थू॒या मि॑थुन॒वान्भ॑व॒त्येक॑ञ्च ॥ २२॥ पुष्प॑म॒ग्निर्वा॒युर॒सौ वै तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्य॑स्संवत्त्स॒रस्ति॑ष्ठति सत्रि॒यँ सं॑वत्स॒रँ सा॑वि॒त्रम॒मुन्ना॑चिके॒तं प्रा॒णाग्श्चा॑तुर्होत्रि॒यं ब्रह्म॑ वैश्वसृ॒जँ शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् लो॒कानि॒ममा॑रुनकेतुकं॒ य ए॒वासौ ॥

९० आपो॒ वा इ॒दमा॑सन्त्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्त॒र्मन॑सि कामः॒ सम॑वर्तत । इ॒दँ सृ॑जेय॒मिति॑ । तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति । तदे॒षाऽभ्यनू॑क्ता । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ॥ ०। १। २३। ९०॥

९१ स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ । उपै॑न॒न्तदुप॑नमति । यत्का॑मो॒ भव॑ति । य ए॒वं वेद॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन्माँ॒समासी॑त् । ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ ०। १। २३। ९१॥

९२ ये नखाः॑ । ते वै॑खान॒साः । ये वालाः॑ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑ऽपाम् । अ॒न्त॒र॒तः कू॒र्मं भू॒तँ सर्प॑न्तम् । तम॑ब्रवीत् । मम॒ वैत्वङ्माँ॒सा । सम॑भूत् ॥ ०। १। २३। ९२॥

९३ नेत्य॑ब्रवीत् । पूर्व॑मे॒वाहमि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वम् । स स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं वै पूर्वँ॑ सम॑भूः । त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ । स इ॒त आ॒दायापः॑ ॥ ०। १। २३। ९३॥

९४ अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् । ए॒वाह्ये॒वेति॑ । तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् । अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वाह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् । ए॒वाहि वायो॒ इति॑ ॥ ०। १। २३। ९४॥

९५ ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् । अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् । ए॒वाहीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् । अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् । ए॒वाहि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ ०। १। २३। ९५॥

९६ अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् । ए॒वाहि देवा॒ इति॑ । ततो॑ देवमनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् । सोर्ध्वा दिक् । या वि॒प्रुषो॑ वि॒परा॑पतन् । ताभ्योऽसु॑रा॒ रक्षाँ॑सि पिशा॒चाश्चोद॑तिष्ठन् । तस्मा॒त्ते परा॑भवन् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् । तदे॒षाऽभ्यनू॑क्ता ॥ ०। १। २३। ९६॥

९७ आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भ॒माय॑न् । दक्ष॒न्दधा॑ना ज॒नय॑न्तीः स्वयं॒भुम् । तत॑ इ॒मेऽद्ध्यसृ॑ज्यन्त॒ सर्गाः॑ । अद्भ्यो॒ वा इ॒दँ सम॑भूत् । तस्मा॑दि॒दँ सर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ । तस्मा॑दि॒दँ सर्वँ॒ शिथि॑लमि॒वाद्ध्रुव॑मिवाभवत् । प्र॒जाप॑ति॒र्वाव तत् । आ॒त्मना॒त्मानं॑ वि॒धाय॑ । तदे॒वानु॒प्रावि॑शत् । तदे॒षाऽभ्यनू॑क्ता ॥ ०। १। २३। ९७॥

९८ वि॒धाय॑ लो॒कान्, वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑ । सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुद्ध्य॑ । तदे॒वानु॒प्रवि॑शति । य ए॒वं वेद॑ ॥ ०। १। २३। ९८॥ आसी॑दतिष्ठन्नभू॒दपो॒ वायो॒ इति॒ सेयन्दिग॒भ्यनू॑क्ता॒ऽ भ्यनू॑क्ता॒ऽष्टौ च॑ ॥ २३॥

९९ चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाँ रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्वृ॒ष्टिः । तान्ये॒वाव॑रुन्धे । आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । तस्मा॑न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ०। १। २४। ९९॥

१०० कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः । स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः । प॒श्चादे॒व प्रति॑तिष्ठति । वह॑न्तीर्गृह्णाति ॥ ०। १। २४। १००॥

१०१ ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः । सं॒भा॒र्या गृ॑ह्णाति । ता मध्य॒ उप॑दधाति । इ॒यं वै सं॑भा॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति । प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ ०। १। २४। १०१॥

१०२ अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति । दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे । तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑योऽचिन्वन् । तस्मा॑दारुणके॒तुकः॑ ॥ ०। १। २४। १०२॥

१०३ तदे॒षाऽभ्यनू॑क्ता । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाँ श॒तधा॑हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ । श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ०। १। २४। १०३॥ ब्र॒ह्म॒व॒र्च॒सित॑रो॒ वह॑न्तीर्गृह्णाति॒ ता उ॒परि॑ष्टादु॒पाद॑धात्यारुणके॒तुको॒ऽष्टौ च॑ ॥ २४॥

१०४ जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । अ॒पाँ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णँ रु॒क्मं पुरु॑ष॒मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यँ रु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वावा॑स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ ०। १। २५। १०४॥

१०५ तदव॑रुन्धे । कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो॑ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आप॑मापाम॒पस्सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । वा॒य्वश्वा॑ रश्मि॒पत॑यः । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ ०। १। २५। १०५॥

१०६ यास्ति॒स्रः प॑रम॒जाः । इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ । पञ्च॒चित॑य॒ उप॑दधाति । पाङ्क्तो॒ऽग्निः । यावा॑ने॒वाग्निः । तंचि॑नुते । लो॒कंपृ॑णया द्वि॒तीया॒मुप॑दधाति । पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ । वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ०। १। २५। १०६॥ अस्ति॑ पृणा॒न्तरि॑क्षं॒ पादः॒ षट्च॑ ॥ २५॥

१०७ अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । अथ॑ हस्माहारु॒णः स्वा॑यं॒भुवः॑ । सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे । नाना॒ वा ए॒तेषां॑ वी॒र्या॑णि । कम॒ग्निंचि॑नुते ॥ ०। १। २६। १०७॥

१०८ स॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । सा॒वि॒त्रम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । ना॒चि॒के॒तम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । वै॒श्व॒सृ॒जम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते ॥ ०। १। २६। १०८॥

१०९ उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निंचि॑न्वा॒न इति॑ । वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ सँस्फा॑लयेत् । ह॒न्येता॑स्य य॒ज्ञः । तस्मा॒न्नानु॒षज्यः॑ । सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याग् ह्य॑ग्निश्ची॒यते॑ । प्र॒जाका॑मश्चिन्वीत ॥

०। १। २६। १०९॥

११० प्रा॒जा॒प॒त्यो वा ए॒षो॑ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा॑न्भवति । य ए॒वं वेद॑ । प॒शुका॑मश्चिन्वीत । सं॒ज्ञानं॒ वा ए॒तत्प॑शू॒नाम् । यदापः॑ । प॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निंचि॑नुते । प॒शु॒मान्भ॑वति । य ए॒वं वेद॑ ॥ ०। १। २६। ११०॥

१११ वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्षु॑को भवति । य ए॒वं वेद॑ । आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् । भे॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति । अ॒भि॒चरग्ग्॑श्चिन्वीत । वज्रो॒ वा आपः॑ ॥ ०। १। २६। १११॥

११२ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति । स्तृ॒णु॒त ए॑नम् । तेज॑स्कामो॒ यश॑स्कामः । ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत । ए॒ताव॒द्वा वा॑स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे । तस्यै॒तद्व्र॒तम् । वर्ष॑ति॒ न धा॑वेत् ॥ ०। १। २६। ११२॥

११३ अ॒मृतं॒ वा आपः॑ । अ॒मृत॒स्यान॑न्तरित्यै । नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् । न निष्ठी॑वेत् । न वि॒वस॑नस्स्नायात् । गुह्यो॒ वा ए॒षो॑ऽग्निः । ए॒तस्या॒ग्नेरन॑तिदाहाय । न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे॑त् । ए॒तस्या॒ग्नेरन॑भ्यारोहाय । न कूर्म॒स्याश्नी॑यात् । नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ०। १। २६। ११३॥ चि॒नु॒ते॒ चि॒नु॒ते॒ प्र॒जाका॑मश्चिन्वीत॒ य ए॒वं वेदापो॑ धावे॒दश्नी॑याच्च॒त्वारि॑ च ॥ २६॥

११४ इ॒मानु॑कं॒ भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु । आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् । आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ॥ ०। १। २७। ११४॥

११५ मरी॑चयः स्वायंभु॒वाः । ये श॑री॒राण्य॑कल्पयन् । ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्या स्म॑ तीरिषत् । उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒ भार॑ताः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः । युवा॑ सु॒वासाः॑ । अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ०। १। २७। ११५॥

११६ दे॒वानां॒ पूर॑यो॒ध्या । तस्याँ॑ हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः । यो वै तां॑ ब्रह्म॑णो वे॒द । अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै॑ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑मानाँ॒ हरि॑णीम् । य॒शसा॑ संप॒रीवृ॑ताम् । पुरँ॑ हिरण्म॑यीं ब्र॒ह्मा ॥ ०। १। २७। ११६॥

११७ वि॒वेशा॑ऽप॒राजि॑ता । पराङेत्य॑ज्याम॒यी । पराङेत्य॑नाश॒की । इ॒ह चा॑मुत्र॑ चान्वे॒ति । वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् । यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षद्यत्प॑ति॒व्रता॑ । अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते॑ । अ॒ग्निस्तदनु॑वेधति । अ॒श‍ृता॑सः श‍ृ॑तास॒श्च ॥ ०। १। २७। ११७॥

११८ य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे॑क्षन्ते । इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः । सिक॑ता इव सं॒यन्ति॑ । र॒श्मिभि॑स्समु॒दीरि॑ताः । अ॒स्माल्लो॒काद॑मुष्मा॒च्च । ऋ॒षिभि॑रदात्पृ॒श्निभिः॑ । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् ॥ ०। १। २७। ११८॥

११९ य॒मो द॑दात्वव॒सान॑मस्मै । नृ मु॑णन्तु नृ पा॒त्वर्यः॑ । अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः । रेतः॑पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया॑न्पुत्र॑पौत्र॒कान् । यु॒वे॒ऽहं य॒मराज॑गान् । श॒तमिन्नु श॒रदः॑ । अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च । वरु॑ण॒स्याश्वि॑नोर॒ग्नेः । म॒रुता॑ञ्च वि॒हाय॑साम् । का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ ०। १। २७। ११९॥

पु॒रन्नव॑द्वारा ब्र॒ह्मा च व्य॑क्तँ श॒रदो॒ऽष्टौ च॑ ॥ २७॥

१२० विशी॑र्ष्णीं॒ गृध्र॑शीर्ष्णीञ्च । अपेतो॑ निरृ॒तिँ ह॑थः । परिबाधँ श्वे॑तकु॒क्षम् । नि॒जङ्घँ॑ शब॒लोद॑रम् । स॒ तान्, वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य सं॒दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्युं कृ॒त्याञ्च॑ दीधिरे । रथे॑न किँशु॒काव॑ता । अग्ने॒ नाश॑य सं॒दृशः॑ ॥ ०। १। २८। १२०॥

१२१ प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ । स नो॑ य॒वस॑मिच्छतु । इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ । हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः । यो गर्भ॒मोष॑धीनाम् । गवा॑ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा॑म् ॥ ०। १। २९। १२१॥ विशी॑र्ष्णीं प॒र्जन्या॑य॒ दश॑दश ॥ २९॥

१२२ पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र्ब्राह्म॑णमैतु मा । पुन॒र्द्रवि॑णमैतु मा । यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्का॑न् । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । इ॒दन्तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्त्वाय॒ वर्च॑से । यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ । तेन॑ माम॒मृत॑ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ ०। १। ३०। १२२॥ पुन॒र्द्वे च॑ ॥ ३०॥

१२३ अ॒द्भ्यस्तिरो॒धाऽजा॑यत । तव॑ वैश्रव॒णस्स॑दा । तिरो॑धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न । त्वा॒ष्ट्रीं मा॒यां वै॑श्रव॒णः । रथँ॑ सहस्र॒वन्धु॑रम् । पु॒रु॒श्च॒क्रँ सह॑स्राश्वम् । आस्था॒याया॑हि नो ब॒लिम् । यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वा॑न् ॥ ०। १। ३१। १२३॥

१२४ असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज॑म् । सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ । स॒तद्वा॒ट्टार॑गम॒न्ता । सँ॒हार्य॒न्नग॑रं॒ तव॑ । इति मन्त्राः॑ । कल्पो॑ऽत ऊ॒र्ध्वम् । यदि॒ बलिँ॒ हरे॑त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ॥ ०। १। ३१। १२४॥

१२५ सर्वभूताधिपतये न॑म इ॒ति । अथ बलिँ हृत्वोप॑तिष्ठे॒त । क्ष॒त्त्रं क्ष॒त्त्रं वै॑श्रव॒णः । ब्राह्मणा॑ वयँ॒स्मः । नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । अस्मात्प्रविश्यान्न॑मद्धी॒ति । अथ तमग्निमा॑दधी॒त । यस्मिन्नेतत्कर्म प्र॑युंजी॒त । ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ ०। १। ३१। १२५॥

१२६ ति॒रोधा॒स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ । सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति । अथ तमग्नि॑मिन्धी॒त । यस्मिन्नेतत्कर्म प्र॑युंजी॒त । ति॒रोधा॒ भूस्स्वाहा॑ । ति॒रोधा॒ भुव॒स्स्वाहा॑ । ति॒रोधा॒ स्व॑स्स्वाहा॑ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा॑ । यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः ॥ ०। १। ३१। १२६॥

१२७ अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युंजी॒त । परः॑ सु॒प्तज॑नाद्वे॒पि । मास्म प्रमाद्यन्त॑माध्या॒पयेत् । सर्वार्थाः॑ सिद्ध्य॒न्ते । य ए॑वं वे॒द । क्षुध्यन्निद॑मजा॒नताम् । सर्वार्था न॑ सिद्ध्य॒न्ते । यस्ते॑ वि॒घातु॑को भ्रा॒ता । ममान्तर्हृ॑दये॒ श्रितः ॥ ०। १। ३१। १२७॥

१२८ तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि । समे॑ऽर्था॒न्मा विव॑धीत् । मयि॒ स्वाहा॑ । रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ । नमो॑ व॒यं वै॑श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य॑म् । का॒मे॒श्व॒रो वै॑श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाँ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। ३१। १२८॥ अश्वा॑न्बलि॒र्भुवो॑ भवे॒युः श्रितश्च॑ स॒प्त च॑ ॥ ३१॥

१२९ संवत्सरमेत॑द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ । नियमस्स॑मासे॒न । तस्मिन्नियम॑विशे॒षाः । त्रिषवणमुदको॑पस्प॒र्शी । चतुर्थकालपान॑भक्त॒स्स्यात् । अहरहर्वा भैक्ष॑मश्नी॒यात् । औदुम्बरीभिः समिद्भिरग्निं॑ परि॒चरेत् । पुनर्मा मैत्त्विन्द्रियमित्येतेनाऽनु॑वाके॒न । उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त ॥ ०। १। ३२। १२९॥

१३० अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्यस्संव॑त्सरा॒य । वरुणायारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का॑ण्डर्॒षयः । अरण्ये॑ऽधीयी॒रन् । भद्रं कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ ०। १। ३२। १३०॥

१३१ महानाम्नीभिरुदकँ सँ॑स्प॒र्श्य । तमाचा॑ऱ्यो द॒द्यात् । शिवा नः शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा । कँसं वास॑श्च क्षौ॒मम् । अन्य॑द्वाशु॒क्लम् । य॑थाश॒क्ति वा । एवँ स्वाध्याय॑ धर्मे॒ण । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ ०। १। ३२। १३१॥ कु॒र्वी॒त ज॑पि॒त्वा स्वाध्याय॑धर्मे॒ण द्वे च॑ ॥ ३२॥ भ॒द्रँ स्मृति॑स्साक॒ञ्जाना॒मक्ष्यति॑ ता॒म्राण्य॑त्यूर्ध्वा॒क्ष आरोगः क्वेदमग्निश्च स॑हस्र॒वृत्प॒वित्र॑वन्त॒ आत॑नुष्वा॒ष्टयो॑नीं॒ योऽसा॒वथादित्यस्यारोगस्याथ वायोरथाग्ने॒र्दक्षिणा पूर्वस्यामि॑न्द्रघो॒षा व॒ आप॑मापां॒ यो॑ऽपामापो॒ वै चतु॑ष्टय्यो जानुद॒घ्नीम॒ग्निं प्र॒णीये॒मा नु॑कं॒ विशी॑र्ष्णीं प॒र्जन्या॑य॒ पुन॑र॒द्भ्यः संवत्सरं द्वात्रिँ॑ शत् ॥

३२॥ भ॒द्रं ज्यो॒तिषा॒ तस्मिन्राजानङ्क॒श्यपा॑त्सहस्र॒वृदि॑य॒न्नपुँ स॑कम॒ष्टयो॑नी॒मवपतन्तानामा॒यत॑नवान्भवति स॒तो बन्धुं॒ ता उ॑त्तर॒तो वज्र॑मे॒व पुन॑र्मामैतु त्रिँ॒शदु॑त्तरश॒तम् ॥ १३०॥ भ॒द्रं तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥

० भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥