08 प्रश्नः-8

तत्राऽऽदौ स्तुत्यर्थमुपाख्यानमाह -
“देवा वै सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तत्सहासदिति । तेषां कुरुक्षेत्रं वेदिरासीत् । तस्यै खाण्डवो दक्षिणार्ध आसीत् । तूर्घ्नमुत्तरार्धः । परीणज्जघनार्धः । मरव उत्करः(१) । तेषां मखं वैष्णवं यश आर्छत् ।” इति । (प्र० ५ । अ० १ । वि० १ )
पुरा कदाचिद्देवा यशस्कामाः सन्त ऋद्धिपरिमितं साधनद्रव्यसमृध्या परितो निर्मितं प्रौढं सत्रमनुष्ठितवन्तः । अनुष्ठातुं प्रवर्तमानास्ते देवाः परस्परं समयरूपमिदं वाक्यमब्रुवन् । प्रथमं यज्ञफलस्योपक्रमे यद्यशः कीर्तिरूपं नोऽस्मानृच्छात्प्राप्नुयात्तद्यशो नोऽस्माकं सर्वेषां सहासत्साधारणमेवास्तु, न त्वेकस्यैव साधारणमिति । एवं परस्परं भाषां कृत्वा प्रवृत्तानां तेषां देवानां यत्कुरुक्षेत्रं पुराणप्रसिद्धं सैव वेदिरासीत् । तस्यै कुरुक्षेत्ररूपायास्तस्या वेदेः खाण्डवतूर्घ्नपरीणच्छब्दवाच्याः पुण्यदेशविशेषा दक्षिणादिदिग्भागा अभवन् । मरवो जलरहिता भूप्रदेशा उत्कररूपा अभवन् । वेदेरुत्तरभागे पांशुतृणादयो यत्र प्रक्षिप्यन्ते सोऽयमुत्करः । तस्यां वेद्यामुपतिष्ठतां तेषां देवानां मध्ये वैष्णवं मखं विष्णुस्वामिकं सत्रं यशः प्राप्नोत् । तस्मिन्सत्रे विष्णुशब्दवाच्यो यज्ञाभिमानी देवो गृहपतित्वेन दीक्षितः, अतो विष्णुः सत्रं कृतवानित्येवं विष्णुनाम्ना यश आसीत् । तस्मिन्मन्त्रे विष्णुनामकस्य पुरुषस्येतरदेवैः सह यशोनिमित्तं कलहं दर्शयति - “तन्न्यकामयत । तेनापाक्रामत् । तं देवा अन्वायन् । यशोऽवरुरुत्समानाः । तस्यान्वागतस्य । सव्याद्धनुरजायत । दक्षिणादिषवः । तस्मादिषुधन्वं पुण्यजन्म । यज्ञजन्मा हि (२) । तमेकँ सन्तम् । बहवो नाभ्यधृष्णुवन् । तस्मादेकमिषुधन्विनम् । बहवोऽनिषुधन्वा नाभिधृष्णुवन्ति ।” इति । (प्र० ५ । अ० १ । वि० २ )
विष्णुः सत्रं कृतवानित्येतादृशं यद्यशस्तस्मिन्सत्र आसीत्, तद्यशो ममैवास्तु नान्येषामित्येवं विष्णुर्नितरामकामयत । कामयित्वा च तेन यशसा सहेतरदेवसकाशात्स्वयमपाक्रामत् । तदानीमन्ये देवास्तद्यशोऽवरोद्धुमिच्छन्तस्तं विष्णुमन्वागच्छन् । तैर्देवैरन्वागतस्य विष्णोः सव्यहस्तादेकं धनुरुत्पन्नम् । दक्षिणहस्ताद्बहवो बाणा उत्पन्नाः । विष्णोः सङ्कल्पमात्रेण तदुत्पत्तिः । यस्मात्कारणाद्यज्ञजन्मा यज्ञाज्जन्मोत्पत्तिर्यस्येषुधन्वसमूहस्य सोऽयं यज्ञजन्मा । यज्ञो वै विष्णुरिति श्रुतेर्यज्ञस्यैव विष्णुरूपत्वाद्विष्णोरुत्पन्नं यज्ञदेवोत्पन्नं भवति । तस्माद्यज्ञधन्वत्वादिषुधन्वस्वरूपं पुण्यजन्मेत्युच्यते यज्ञस्य पुण्यरूपत्वात् । वामहस्ते धनुर्दक्षिणहस्ते बाणान्धृत्वाऽवस्थितं तं यज्ञपुरुषमेकमेव सन्तमितर इषुधन्वरहिता देवा बहवः सन्तोऽपि नाभ्यधृष्णुवन्, अभिभवितुं नाशक्नुवन् । यस्मादेवमत्र तस्माल्लोकेऽपीषुभिर्धनुषा चोपेतमेकं पुरुषं तद्रहिता बहवः पुरुषा अभिभवितुं न शक्नुवन्ति । अथ यज्ञपुरुषस्य गर्वप्रसङ्गेन दीक्षितनियमं विधत्ते -
“सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य सिष्मियाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते श्यामाका अभवन् । स्मयाका वै नामैते(३) । तत्स्मयाकानाँ स्मयाकत्वम् । तस्माद्दीक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्यै ।” इति (प्र० ५ । अ० १ । वि० ३)
स धन्वी यज्ञपुरुषोऽस्मयत स्मयं हास्यं कृतवान् । हास्याभिप्रायश्च तेनैवोच्यते - अहमेक एवैते तु देवाः शतसहस्रसंख्याकास्तथाऽपि मामभिभवितुं न शक्ताः, इत्येवं सिष्मियाणस्य गर्वेण स्मयं कृतवतस्तस्य यज्ञपुरुषस्य सकाशात्तदीयं तेजोऽपाक्रामत्, गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतम् । पुनरपि कथंचित्तत्स्वीकरिष्यतीति मत्वा ते देवास्तत्तेजोऽन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्तुं कासुचिदोषधीषु निमृष्टवन्तः । ते चौषधिविशेषा यज्ञसंबन्धिना तेजसा युक्ताः (श्यामाका अभवन् । ते च ) श्यामाकाभिधा धान्यविशेषाः स्मयाका इत्येतादृशं नामार्हन्ति । यस्मादेतस्य नाम्नो योग्यास्तस्मात्स्मयाकानां स्मयादुत्पन्नानां धान्यानां स्मयाकत्वम् । स्मयाकानामाभिज्ञव्यवहारे प्रसिद्धम् । यस्मादत्र स्मयं कुर्वतो यज्ञपुरुषात्तेजोऽपाक्रान्तं तस्मात्कारणात्तेजसः स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन स्मेतव्यम् । यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इति विधिरस्ति तथाऽपि प्रसङ्गादत्र स एवानूद्यत इत्यवगन्तव्यम् । अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तोष्यमाणहविष्प्रशंसार्थं दर्शयति -
“स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन्वरं वृणामहै । अथ व इमँ रन्धयाम । यत्र क्व च खनाम । तदपोऽभितृणदामेति । तस्मादुपदीका यत्र क्व च खनन्ति । तदपोऽभितृन्दन्ति (४)। वारे वृतँ ह्यासाम् । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ शिर उदवर्तयत् । तद्द्यावापृथिवी अनुप्रावर्तत । यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम् । यद्घ्राँ ३ इत्यपतत् । तद्घर्मस्य घर्मत्वम् । महतो वीर्यमपप्तदिति । तन्महावीरस्य महावीरत्वम्(५) । यदस्याः समभरन् । तत्सम्राज्ञः सम्राट्त्वम् ।” इति । (प्र० ५ । अ० १ । वि० ४)
स यज्ञपुरुषो युयुत्सून्देवानितस्ततः प्रतीक्षमाणो धनुः प्रतिष्कभ्य स्वकीयस्य धनुष ऊर्ध्वकोटिं चिबुकस्याधस्तात्कण्ठसमीपे दृढमवकृष्य तथैव स्थितवान् । तदानीमेतस्य प्रतीकारमन्विष्यतो देवान्प्रति ताः प्रसिद्धाः उपदीकाः पिपीलिकासमानाः क्षुद्रजन्तवो वल्मीकस्य निर्मातार इदमब्रुवन् । हे देवाः प्रथमं तावद्वयमिममेकं वरं प्रार्थयामहे । अथानन्तरं वो युष्मदर्थमिमं यज्ञपुरुषं रन्धयामः साधयामः । कोऽसौ वर इति सोऽभिधीयते - भूमौ यत्र क्वापि वयं मुखेन खनाम तत्रापोऽभिप्राप्य तृणदाम द्रवीकरवामेति । तस्मात्कारणादुपदीका वल्मीकनिष्पादका जीवा यत्र क्वापि खनन्ति तत्क्षेत्रमपोऽभिप्राप्य तृन्दन्ति द्रवीकुर्वन्ति । हि यस्मात्कारणादासामुपदीकानां तद्द्रवीकरणसामर्थ्यं वारे वृतं वरेण सम्पादितं तस्मात्तद्युक्तम् । ततो लब्धवरा उपदीकाः शनैर्भूमौ तत्समीपे समागत्य तस्य धनुषोऽधः क्वापि लग्नां ज्यामपि गुणं चाऽऽदन्भक्षितवत्यः । ततस्तद्धनुर्विप्रवमाणं विस्तारेणोर्ध्वं प्रवर्तमानं धनुस्तस्य यज्ञपुरुषस्य शिर उदवर्तय्, छित्वोर्ध्वं प्रावर्तयत् । तच्च शिर ऊर्ध्वं द्युलोकपर्यन्तं गत्वा ततो भारेण भूमावधः पतितं, तस्मादिदं शिरो द्यावापृथिवी उभे अप्यनुक्रमेण प्रावर्तत । तस्मादनयैव व्युत्पत्या तस्य यज्ञशिरसः प्रवर्ग्यनाम सम्पन्नम् । भूमौ पतनवेलायामुत्पन्नस्य ध्वनेरनुकरणे “घ्राँ” इति शब्दस्तथाविधशब्दोपेतत्वादस्य शिरसो घर्मनाम सम्पन्नम् । महतो यज्ञपुरुषस्य सकाशाद्वीर्यमपतत्सारभूतं शिरः पतितं ततोऽनयैव व्युत्पत्या महावीरनाम सम्पन्नम् । यद्यस्मात्कारणादस्याः पृथिव्याः सकाशात्समभरन्देवास्तच्छिरः समादाय प्रोषितवन्तस्तस्मात्सम्यग्राजमानत्वात्सम्राडिति नाम सम्पन्नम् । एवं यज्ञशिरसो नामचतुष्टयनिर्वचनमुक्त्वाऽवशिष्टस्य यज्ञशरीरस्य फलं प्रत्यप्रयोजन(क)त्वकथनेन तच्छिरः प्रशंसति -
“तँ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातःसवनम् । इन्द्रो माध्यंदिनँ सवनम् । विश्वे देवास्तृतीयसवनम् । तेनापशीर्ष्णा यज्ञेन यजमानाः नाऽऽशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजनयन् ।” इति । (प्र० ५ । अ० १ । वि० ५)
तं स्तृतं शिरोराहित्येन हिंसितं तं यज्ञपुरुषदेहमग्न्यादयो देवास्त्रेधा गृहीतवन्तः । तमग्निः प्रातःसवनं जग्राह । इन्द्रस्तु माध्यन्दिनं सवनं गृहीतवान् । विश्वेदेवास्तु तृतीयसवनं जगृहुः । अपशीर्ष्णा प्रवर्ग्याख्यशिरोरहितेन पूर्वोक्तसवनत्रययुक्तेन तेन यज्ञेन यजमाना अग्न्यादयो देवा आशिषः स्वापेक्षितानि कर्मफलानि नावारुन्धत न प्राप्तवन्तः । स्वर्गलोकमपि नाभ्यजयन् । अथ प्रवर्ग्यसहितस्य यज्ञस्य फलहेतुत्वं दर्शयति -
“ते देवा अश्विनावब्रुवन्(६)। भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् । यत्प्रवर्ग्यः । तेन सशीर्ष्णा यज्ञेन यजमानाः । अवाऽऽशिषोऽरुन्धत । अभि सुवर्गं लोकमजयन् ।” इति । (प्र० ५ । अ० १ । वि० ६)
प्रवर्ग्यरहितेन यज्ञेन फलमलभमानास्ते देवा अश्विनौ प्रत्येतदब्रुवन् । हेऽश्विनौ युवामस्माकं मध्ये चिकित्सकौ स्थः, तस्मादिदं यज्ञस्य शिरः प्रतिधत्तं पनरपि यज्ञशरीरे । प्रवर्त(त्यर्प)यतमिति । तामश्विनौ प्रत्यर्पणार्थं वरमुत्कोचरूपं लाभविशेषं वृणावहै, इत्युक्त्वा कोऽसौ वर इत्याशङ्क्य तं वरमुक्तवन्तौ । अत्रास्मिन्सोमयागे नावपि चिकित्सकयोरावयोरपि युष्मत्साम्येन ग्रह एव गृह्यताम्, न तु यत्किञ्चित्तुच्छं लेपादिकमिति । ततस्ताभ्यामश्विङ्यामेतमाश्विनं ग्रहमगृह्णन्, तौ चाश्विनौ चिकित्सया यज्ञस्य शिरः प्रत्यर्पयता(धत्ता)म् । प्रतिधानं नाम शरीरे पुनः संधानम् । प्रवर्ग्य इ(र्ग्ये)त्येतन्नामकं यत्कर्म तदेव यज्ञशरीरे प्रतिहितं शिरः, तेन तादृशेन (स) शीर्ष्णा प्रवर्ग्याख्यशिरोयुक्तेन यज्ञेन यजमाना देवाः स्वापेक्षितान्यन्यफलानि स्वर्गं च प्राप्नुवन् । देवा वै सत्रमासतेत्यारभ्यैतावता महता प्रबन्धेन प्रवर्ग्याख्यं कर्म प्रसाध्य तदेव कर्म मिधत्ते -
“यत्प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रतिदधाति । तेन सशीर्ष्णा यज्ञेन यजमानः अवाऽऽशिषो रुन्धे । अभि सुवर्गं लोकं जयति । तस्मादेष आश्विनप्रवया इव । यत्प्रवर्ग्यः ।” (७) इति । उत्करो ह्येते तृन्दन्ति महावीरत्वमब्रुवन्नयजन्सप्त च ॥
यदि प्रवर्ग्याख्यं कर्मानुतिष्ठेत् । तत्तर्हि यज्ञस्य शिर एव प्रतिसमाहितवान्भवति । ततः सशीर्ष्णा शिरःसहितेन यज्ञेन यजमानः पुमानाशासनीयान्यन्यफलानि प्राप्नोति स्वर्गं चाभिजयति । यस्मादश्विभ्यां समाधानं कृतं तस्मात्कारणाद्यः प्रवर्ग्याख्यः कर्मविशेषोऽस्ति स एष आश्विनप्रवया इति । आश्विनमन्त्राः प्रवयसः प्रवृद्धा अस्मिन्प्रवर्ग्ये सोऽयमाश्विनप्रवयाः । इवशब्द एवकारार्थः ।एतदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रवर्ग्याख्यं कर्म विधाय द्वितीयानुवाकादौ युञ्जते मन इत्येतन्मन्त्रसाध्यं होमं विधत्ते -
“सावित्रं जुहोति प्रसूत्यै ।” इति (प्र० ५ । अ २ । वि १)
मन्त्रे देवस्य सवितुः परिष्टुतिरित्युक्तत्वादयं मन्त्रः सावित्रः, तद्धोमः प्रसूत्यै प्रसवाय सम्पद्यते । तत्र द्रव्यं विधत्ते -
“चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति ।” इति (प्र०५ । अ० २ । वि २)
स्रुवेण जुह्वां चतुर्वारं गृहीतं यदाज्यं तेन जुहुयात् । चतुःसंख्यासाम्यात्पशुप्राप्तिर्दिक्षु प्रतिष्ठा च । पुनरपि चतुःसंख्यां प्रकारान्तरेण प्रशंसति -
“छन्दाँसि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोनुवाक्यायै याज्यायै(१) । देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाँस्येव तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति ।” इति । (प्र० ५ । अ० २ । वि० ३)
नानाविधच्छन्दोयुक्त पुरोनुवाक्याद्यभिमानिनो देवा हविर्भाग्यो देवेभ्योऽपरक्ताः सन्तोऽन्यत्रागच्छन् । किं ब्रुवन्तो गता इति तदुच्यते - हे देवा भागरहितानि वयं छन्दांसि वो युष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः । तदानीं देवा विचार्य होमकाले यच्चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवतीति तेषां भागमकल्पयन् । तत्र प्रथमग्रहणं पुरोनुवाक्याख्याया गायत्रीदेवतायास्तुष्टिकरम् । द्वितीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरम् । तृतीयग्रहणं देवताख्याया जगतीदेवतायास्तुष्टिकरम् । चतुर्थग्रहणं वषट्काराख्याया अनुष्टुब्देवतायास्तुष्टिकरम् । अतश्चतुर्गृहीतेन होमे सति छन्दोदेवताः प्रीणन्ति । ताश्च प्रीताः सत्यो हव्यं वहन्ति । तत्र द्वौ पक्षौ । सोमयागसंकल्पादिकं सम्पादनीयमित्येकः पक्षः । दीक्षायां समाप्तायां प्रवर्ग्यानुष्ठानकाल एव सम्पादनीयमित्यपरः पक्षः । तत्र प्रथमपक्षे सावित्रहोमो विहितः । द्वितीयपक्षे मीमांसया होमं निवार्य केवलमन्त्रपाठं विधत्ते -
“ब्रह्मवादिनो वदन्ति । होतव्यं दीक्षितस्य गृहा३ इ न होतव्या३ मिति । हविर्वै दीक्षितः । यज्जुहुयात् । हविष्कृतं यजमानमग्नौ प्रदध्यात् । यन्न जुहुयात् (२) ।” इति (प्र० ५ । अ० २ । वि० ४)
तत्र होमपक्षो न युज्यते । दीक्षितो हविःसम्पादकत्वाद्धविरेव । तथा सति यदि हविर्जुहुयात्तदानीं हविःसम्पादकं यजमानमेवाग्नौ प्रक्षिपेत् । अहोमपक्षे तु -
“यज्ञपरुरन्तरियात् । यजुरेव वदेत् । न हविष्कृतं यजमानमग्नौ प्रदधाति । न यज्ञपरुरन्तरेति ।” इति । (प्र० ५ । अ० २ । वि० ५)
यज्ञस्य होमलक्षणमङ्गमन्तरितं भवेत् । ततो दोषद्वयपरिहारायाऽऽहुतिप्रक्षेपं परित्यज्य यजुरेव पठेत् । यद्यपि युञ्जते मन इत्येषर्गेव तथाऽपि यजुर्वेदपठितत्वात्, यज्यतेऽनुष्ठान इति व्युत्पत्या वा यजुरित्युच्यते । अत्र होमाभावाद्यजमानस्य प्रक्षेपो न भवति । मन्त्रस्य पठितत्वाद्यज्ञाङ्गमपि नान्तरितं भवति । तस्या अभ्रेः खादिरत्वं विधत्ते -
“गायत्री छन्दाँस्यत्यमन्यत । तस्यै वषट्कारोऽभ्यय्य शिरोऽच्छिनत् । तस्यै द्वेधा रसः परापतत् । पृथिवीमर्धः प्राविशत् । पशूनर्धः । यः पृथिवीं प्राविशत् (३)। स खदिरोऽभवत् । यः पशून् । सोऽजाम् । यत्खादिर्यभ्रिर्भवति । छन्दसामेव रसेन यज्ञस्य शिरः संभरति ।” इति । (प्र० ५ । अ० २ । वि० ६)
गायत्रीदेवता सोमाहरणगर्वेणेतराणि च्छन्दांसि त्रिष्टुबादीनहमतिलङ्घितवतीत्यमन्यत । तदा वषट्काराभिमानी देवः क्रुद्धः सन्नभ्यय्याऽभिमुख्येन प्राप्य तस्या गायत्र्याः शिरोऽच्छिनत् । तस्माच्छिन्नप्रदेशान्निर्गतो रसो द्वेधा भूत्वा पृथिवीं पशूंश्च प्राविशत् । पृथिव्यां प्रविष्टः स भागः खदिरवृक्षोऽभूत् । पशुषु प्रवेष्टुं गतो भागोऽजां प्राविशत् । अतोऽभ्रिः खादिरी कर्तव्या । तथा सति च्छन्दसां सम्बन्धिन्या रसेन यज्ञस्य शिरः प्रवर्ग्यरूपं सम्पादितं भवति । गायत्र्यां हि त्रिष्टुप्सम्बद्धं जगतीसम्बद्धं चाक्षरद्वयमन्तर्भूतमिति कद्रूश्चेत्यत्र प्रतिपादितम् । ततो गायत्रीरसः सर्वछन्दसां रसो भवति । महावीराख्यं पात्रं निष्पादयितुं मृत्खननार्थोभयतस्तीक्ष्णाव्याममात्री काष्ठकुद्दालरूपाऽभ्रिरित्युच्यते । व्याममात्रत्वादिलक्षणानि पञ्चमकाण्ड उखा सम्भरणप्रस्तावे दर्शितानि । अत एव सूत्रकारेण तल्लक्षणमतिदिश्यते - साग्निक्या व्याख्यातेति । खदिरेण सह विकल्पार्थं पक्षत्रयं विधत्ते -
“यदौदुम्बरी । ऊर्ग्वा उदुम्बरः । ऊर्जैव यज्ञस्य शिरः सम्भरति । यद्वैणवी । तेजो वै वेणुः(७)। तेजसैव यज्ञस्य शिरः सम्भरति । यद्वैकङ्कती । भा एवावरुन्धे ।” इति (प्र० ५ । अ० २ । वि० ७)
औदुम्बरफलस्योपदंशरूपेण भक्ष्यत्वादूर्ग्रूपत्वम् । “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इत्युक्तत्वाद्वेणोस्तेजोरूपत्वम् । “अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत्” इत्युक्तत्वाद्वैकङ्कतत्वेन भा दीप्तिः प्राप्नोति । अभ्र्यादाने मन्त्रं विनियुज्य व्याचष्टे -
“देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै ।” इति । ( प्र० ५ । अ० २ । वि० ८)
अस्मिन्मन्त्रे पूर्वभागस्य तात्पर्यं दर्शयति -
“वज्र इव वा एषा । यदभ्रिः । अभ्रिरसि नारिरसीत्याह शान्त्यै(५) ।” इति । (प्र० ५ । अ० २ । वि० ९)
तीक्ष्णाग्रत्वाद्वज्रसमानत्वम् । न ह्रियसे नृणामुपकर्त्री चेत्युपलालनादुग्रस्य शान्तिः । अथवाऽरिर्न भवसीति नारिरित्युपलालनम् । उत्तरभागस्य तात्पर्यं दर्शयति -
“अध्वरकृद्देवेभ्य इत्याह । यज्ञो वा अध्वरः । यज्ञकृद्देवेभ्य इति वावैतदाह ।” इति । (प्र० ५ । अ० २ । वि० १०)
मन्त्रस्य तात्पर्यं दर्शयति -
“उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रह्मणैव यज्ञस्य शिरोऽच्छैति ।” इति । (प्र० ५ । अ० २ । वि० ११)
ऋत्विजा ब्रह्माख्येनै(णै)व सह यज्ञस्य शिरोरूपं प्रवर्ग्यपात्रमच्छ प्राप्तुमेति गच्छति । प्रथमपादे प्रैतुशब्दस्य तात्पर्यं दर्शयति -
“प्रैतु ब्रह्मणस्पतिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति ।” इति । (प्र० ५ । अ० २ । वि० १२)
प्रेत्यैव प्रथमतो गत्वैव । द्वितीयपादे सूनृताशब्देन प्रियवाक्ययुक्तस्य यज्ञस्य विवक्षां दर्शयति -
“प्र देव्ये तु सूनृतेत्याह । यज्ञो वै सूनृता ।” इति । (प्र० ५ । अ० २ । वि० १३)
तृतीयपादे पङ्क्तिराधसशब्देन धानाकरम्भादिपञ्चहविर्युक्तस्य यज्ञस्य विवक्षां दर्शयति -
“अच्छा वीरं नर्यं पङ्क्तिराधसमित्याह(६)। पाङ्क्तो हि यज्ञः ।” इति । (प्र० ५ । अ० २ । वि० १४)
चतुर्थपादे देवा यज्ञं नयन्तु न इत्यस्य तात्पर्यं दर्शयति -
“देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते ।” इति । (प्र० ५ । अ० २ । वि० १५)
यज्ञनियो यज्ञस्य नेतॄन्प्रवर्तकान् ।
मन्त्रस्य देवयोरभ्यनुज्ञायां तात्पर्यं दर्शयति -
“देवी द्यावापृथिवी अनु मेऽमँसाथामित्याह । आभ्यामेवानुमतो यज्ञस्य शिरः सम्भरति ।” इति । (प्र० ५ । अ० २ । वि० १६)
मन्त्रद्वयं सहैव व्याचष्टे -
“ऋध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखः । ऋध्यासमद्य मखस्य शिर इति वावैतदाह ।” इति । (प्र० ५ । अ० २ । वि० १७)
मन्त्रद्वयं सहैव व्याचष्टे -
“मखाय त्वा मखस्य त्वा शीर्ष्ण इत्याह । निर्दिश्यैवैनद्धरति (७) ।” इति । (प्र० ५ । अ० २ । वि० १८)
निर्दिश्यैव यज्ञार्थमिह हरणनिर्वपणे कथयित्वैवैनन्मृत्स्वरूपं हरति निर्वपति चेति द्रष्टव्यम् । यदुक्तं सूत्रकारेण - “एवं द्वितीयं तृतीयं च हरति तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते” इति । तदिदं विधत्ते -
“त्रिर्हरति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरः सम्भरति । तूष्णीं चतुर्थँ हरति । अपरिमितादेव यज्ञस्य शिरः सम्भरति ।” इति । (प्र० ५ । अ० २ । वि० १९)
वक्ष्यमाणसम्भारेभ्यो मृदः प्राथम्यं विधत्ते -
“मृत्खनादग्रे हरति । तस्मान्मृत्खनः करुण्यतमः ।” इति । (प्र० ५ । अ० २ । वि० २०)
ये च वराहविहतादयः सम्भारास्तेभ्योऽग्रे प्रथममेव, मृदं खात्वा तस्मान्मृत्खनाद्गर्तान्मृदं हरेत् । यस्मादयं मृत्खनः स्वकीयां वेदनामगणयित्वा यजमानोपकारार्थं मृदं प्रयच्छति । तस्मादयमतिशयेन करुण्यः कृपालुः । ततो मृत्खनादेव मृदं हरेत् । न त्वन्यतो यतः कुतश्चिन्मृदानेया ।
कल्पः - “एवमितरान्सम्भारानभिमन्त्रणे विकारः, इयत्यग्र आसीरिति वरादविहतम्” इति । येन प्रकारेण मृदो हरणमुक्तं तेनैव प्रकारेणेतरे सर्वे सम्भाराः सम्पादनीयाः । अभिमन्त्रणे तु तत्र तत्र मन्त्रविशेषोऽस्ति । “देवी द्यावापृथिवी” इति पूर्वत्र मृदोऽभिमन्त्रणम् । इह त्वियत्यग्र आसीरिति मन्त्रः । वराहो दंष्ट्रया यं मृद्विशेषं सम्पादयति तन्मृत्स्वरूपं वराहविहतम्। हे वराहविहतेयत्यग्र एवावति पुरोदेशे त्वामासीः ।
एतेषां वराहविहतसम्भारमन्त्राणां तात्पर्यं दर्शयति -
“इयत्यग्र आसीरित्याह । अस्यामेवाच्छंबट्कारं यज्ञस्य शिरः सम्भरति ।” इति । (प्र० ५ । अ० २ । वि० २१)
यावद्वराहविहतमस्ति, एतावती सर्वा भूमिर्वराहेणोद्धृतत्वात् । एतच्चाऽऽधानब्राह्मणे - “स वराहो रूपं कृत्वा” इत्यादिना विस्पष्टमाम्नातम् । अतो वराहविहतसम्भारेणास्यामेव सर्वस्यामपि पृथिव्यामच्छम्बट्कारमल्पोऽप्यंशो व्यर्थो यथा न भवति तथा कृत्वा यज्ञस्य शिरः सम्पादितं भवति । वल्मीकवपायाः सम्भरणं विधत्ते -
“ऊर्जं वा एतँ रसं पृथिव्या उपदीका उद्दिहन्ति(८)। यद्वल्मीकम् । यद्वल्मीकवपा सम्भारो भवति । ऊर्जमेव रसं पृथिव्या अवरुन्धे । अथो श्रोत्रमेव । श्रोत्रँ ह्येतत्पृथिव्याः । यद्वल्मीकः ।” इति । (प्र० ५ । अ० २ । वि० २२)
वल्मीकं यद्विद्यते तदेतदुपीकाः पूर्वोक्ताः वम्र्यः, पृथिव्याः सकाशादन्नहेतुमेव रसं मृदमुद्धृत्य निष्पादयन्ति । अतो वल्मीकवपायाः सम्भरणेन भूमिसारमूर्जमेव प्राप्नोति । अपि च कर्णशष्कुल्याकारसाम्याद्वल्मीको भूमेः श्रोत्रमेव । तस्माद्वल्मीकवपा प्रशस्ता । श्रोत्रवेदनं प्रशंसति -
“अबधिरो भवति । य एवं वेद ।” इति । (प्र० ५ । अ० २ । वि० २३)
पूतीकसम्भरणं विधत्ते -
“इन्द्रो वृत्राय वज्रमुदयच्छत् । स यत्र यत्र पराक्रमत । तन्नाध्रियत । स पूतीकस्तम्भे पराक्रमत । सोऽध्रियत । सोऽब्रवीत् । ऊतिं वै मे धा इति । तदूतीकानामूतीकत्वम् । यदूतीका भवन्ति । यज्ञायैवोतिं दधति ।” इति । (प्र० ५ । अ० २ । विभा० २४)
पुरा कदाचिदिन्द्रो वृत्रवधार्थं वज्रमुद्यम्य प्रेरितवान् । तदानीं स इन्द्रो यत्र यत्र देशे पराक्रमत वज्रप्रक्षेपलक्षणं पराक्रमं कृतवांस्तत्र सर्वत्र नाध्रियत पलायनपरो वृत्रस्तेन वज्रेण धृतः प्रहृतो नाऽसीत् । ततः स इन्द्रो विचार्य पूतीकस्तंबसमीपे कदाचिदवस्थितं वृत्रं प्रति पराक्रमत वज्रप्रक्षेपलक्षणं पराक्रमं कृतवान् । तदानीं स वृत्रः पूतीकस्तम्बेनावरुद्धमार्गः पलायितुमशक्तस्तेन वज्रेणाध्रियत प्रहृतोऽभूत् । तदानीं परितुष्टः इन्द्रोऽब्रवीत्पूतीकस्तम्बं प्रत्येवमब्रवीत् । हे पूतीकस्म्ब म ऊतिं मदीयपराक्रमरक्षां धा धृतवानसि इत्यूतीधारकत्वात्तेषां पूतीकानामूतीकेति नाम सम्पन्नम् । तेषां सम्भरणे सति यज्ञस्य रक्षां ते सम्पादयन्ति ।
प्रजापते रेत इत्यनेन प्रजापतिसृष्टाया गायत्र्या रसोऽजां प्राविशत्, स एव विवक्षित इत्येतद्दर्शयति -
“अग्निजा असि प्रजापते रेत इत्याह । य एव रसः पशून्प्राविशत्(१०) । तमेवावरुन्धे ।” इति । (प्र० ५ । अ० २ । विभा० २५)
पूर्वोक्तानां मृत्तिकावराहविहतवल्मीकवपापूतीकाजकृष्णाजिनलोमरूपाणां सम्भाराणां पञ्चसंख्यां प्रशंसति -
“पञ्चैते सम्भारा भवन्ति । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः सम्भरति ।” इति । (प्र० ५ । अ० २ । विभा० २६)
धानाकरम्भादिहविष्पञ्चकयोगात्पाङ्क्तो यज्ञो यावानस्ति तस्य सर्वस्य शिरः सम्भारगतया पञ्चसंख्यया सम्पादितं भवति
एतेषां सम्भारद्रव्याणां कृष्णाजिने संभरणं विधत्ते -
“यद्ग्राम्याणां पशूनां चर्मणा सम्भरेत् । ग्राम्यान्पशूञ्शुचाऽर्पयेत् । कृष्णाजिनेन सम्भरति । आरण्यानेव पशूञ्शुचाऽर्पयति । तस्मात्समावत्पशूनां प्रजायमानानाम् (११)। आरण्याः पशवः कनीयाँसः । शुचा ह्यताः ।” इति । (प्र० ५ । अ० २ । वि० २७)
ग्राम्याणां गवादिपशूनां चर्मणा संभरणे सति तान्पशूञ्शुचा शोकेन रोगादिजनितेन योजयेत् । तन्मा भूदिति कृष्णाजिनेनैव सर्वं संभरणीयम्, कृष्णमृगस्यारण्यजत्वादारण्यानेव पशून्महावीरजनितेन संतापेन योजयति । यस्मादरण्येनैव संभरणादरण्याः पशवः शुचा योजिताः, तस्मात्समावत्प्रजायमानानां साम्येनोत्पद्यमानानामपि द्विविधानां पशूनां मध्य आरण्या एव पशवः कनिष्ठाः । न हि जना गवाश्वादिषु यावन्तमादरं तावन्तं कृष्णाजिनमृगेषु कुर्वन्ति । कृष्णाजिनस्य सलोमके भागे संभरणं विधत्ते -
“लोमतः संभरति । अतो ह्यस्य मेध्यम् ।” इति । (प्र० ५ । अ० २ । वि० २८)
लोमतो लोमवति प्रदेशे संभरेत् । अतो लोम(व)तः प्रदेशादस्य कृष्णाजिनस्य मेध्यं यागयोग्यः संभारः संपद्यते ।
तदेतदार्यैर्नयनमार्याणां च बहुत्वं स्थापनदेशविशेषं च क्रमेण विधत्ते -
“परिगृह्यायन्ति । रक्षसामपहत्यै । बहवो हरन्ति । अपचितिमेवास्मिन्दधति । उद्धते सितोपोप्ते परिश्रिते निदधाति शान्त्यै ।” इति । (प्र० ५ । अ० २ । वि० २९)
आयन्त्यागच्छेयुः । आर्याणां परिग्रहणेन रक्षांस्यपहतानि भवन्ति । तेषां बहुत्वेनास्मिन्द्रव्ये पूजा कृता भवति । भूमेरुद्धननेन सिकतावापेन परितस्तिरोधानकरणेन च तस्मिन्देशेऽवस्थापितस्य द्रव्यस्योपद्रवपरिहाररूपा शान्तिर्भवति ।
अनेन मन्त्रेण साध्यं मदन्तीमेलनं विधत्ते -
“मदन्तीभिरुपसृजति(१२)। तेज एवास्मिन्दधाति ।” इति । (प्र० ५ । अ० २ । वि० ३०)
तप्ता आपो मदन्त्यः, तन्मेलनादस्मिन्द्रव्ये तेजः संपादितं भवति । यद्यपि जलमेलनादेव महावीरनिष्पादनसामर्थ्यरूपं तेजः संपद्यते । तथाऽपि मन्त्रेणैव सामर्थ्यातिशयाय मन्त्रपाठ इत्येतद्दर्शयति -
“मधु त्वा मधुला करोत्वित्याह । ब्रह्मणैवास्मिन्तेजो दधाति ।” इति । (प्र० ५ । अ० २ । वि० ३१)
अथास्मिन्द्रव्ये मेलयितव्यं द्रव्यान्तरं विधत्ते -
“यद्ग्राम्याणां पात्राणां कपालैः सँसृजेत् । ग्राम्याणि पात्राणि शुचाऽर्पयेत् । अर्मकपालैः सँसृजति । एतानि वा अनुपजीवनीयानि । तान्येव शुचाऽर्पयति ।” इति । (प्र० ५ । अ० २ । वि० ३२)
गृहेषु पाकाद्यर्थानि भाण्डानि ग्राम्यपात्राणि तदीयकपालैः संसर्गे सति तानि शुचा शोकेन स(भ)ङ्गरूपेण योजितानि भवन्ति । तन्माभूदित्यर्मकपालैर्मिश्रयेत । अर्मशब्देन चिरन्तने जीर्णग्रामदेशेऽवस्थिता भाण्डांशा उच्यन्ते । तानि प्राणिभिरुपजीवितुमयोग्यान्यतस्तेषां शुचा योजनेऽपि न कश्चिद्बाधः । द्रव्यान्तरं विधत्ते -
“शर्कराभिः सँसृजति धृत्यै । अथो शंत्वाय ।” इति । (प्र० ५ । अ० २ । वि० ३३)
शर्कराः क्षुद्रपाषाणाः, तत्संसर्गे सति महावीरस्य धृतिर्दार्ढ्यं भवति । अपि च शं सुखं कुर्वन्तीति शर्करानामनिरुक्तेस्तद्योगः शंत्वाय सुखसिद्धये भवति । एतच्चाधानप्रकरणे समाम्नातम् - “शं वै नोऽभूदिति । तच्छर्कराणाँ शर्करत्वम्” इति । द्रव्यान्तरं विधत्ते -
“अजलोमैः सँसृजति । एषा वा अग्नेः प्रिया तनूः । यदजा । प्रजयैवैनं तनुवा सँसृजति । अथो तेजसा ।” इति । (प्र० ५ । अ० २ । वि० ३४)
अजाग्न्योः प्रजापतिमुखजत्वेन सोदरत्वात्प्रियत्वम् । अपि चाग्नेः स्वेनैव तेजोरूपत्वात्तेजसा द्रव्यं संसृष्टं भवति । द्रव्यान्तरं विधत्ते -
“कृष्णाजिनस्य लोमभिः सँसृजति । यज्ञो वै कृष्णाजिनम् । यज्ञेनैव यज्ञँ सँसृजति ।” इति । (प्र० ५ । अ० २ । वि० ३५)
अवघातप्रस्तावे यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वेत्युक्तत्वात्कृष्णाजिनस्य यज्ञत्वम् । तल्लाभरूपेण यज्ञेनैव महावीरद्रव्यरूपो यज्ञः संसृष्टो भवति ॥ याज्यायै न जुहुयादविशद्वेणुः शान्त्यै पङ्क्तिराधसमित्याह हरति दिहन्ति पराक्रमताविशत्प्रजायमानानाँ सृजति शंत्वायाष्टौ च ॥२॥महावीरनिर्माणाय देशविशेषं ब्राह्मणगततृतीयानुवाके विधत्ते -
“परिश्रिते करोति । ब्रह्मवर्चसस्य परिगृहीत्यै ।” इति । (प्र० ५ । अ० ३ । वि० १)
योऽयं देशः परिश्रितः कटादिभिरावृतस्तस्मिन्परिश्रिते महावीरं करोति । तदेतत्ब्रह्मवर्चसपरिग्रहाय भवति । तत्र नियमं कंचिद्विधत्ते -
“न कुर्वन्नभिप्राण्यात् । यत्कुर्वन्नभिप्राण्यात् । प्राणाञ्शुचाऽर्पयेत् । अपहाय प्राणिति । प्राणानां गोपीथाय ।” इति । (प्र० ५ । अ० ३ । वि० २)
सोऽयं तदानीं नाभिप्राण्यात्तदाभिमुख्येन श्वासं न कुर्यात् । तत्करणे स्वकीयाः प्राणाः दुःखेन योजिता भवन्ति । तस्मान्मुखमपहाय परतो नीत्वा श्वासं कुर्यात् । तच्च प्राणानां रक्षणाय भवति । नियमान्तरं विधत्ते -
“न प्रवर्ग्यं चाऽऽदित्यं चान्तरेयात् । यदन्तरेयात् । दुश्चर्मा स्यात्(१)। तस्मान्नान्तराय्यम् । आत्मनो गोपीथाय ।” इति । (प्र० ५ । अ० ३ । वि० ३)
यत्र प्रवर्ग्यपात्राणि तिष्ठन्ति तत्र सूर्यश्चेत्प्राच्यां वसेत्तदानीं स्वयं प्रतीच्यां तिष्ठेत् । सूर्यस्य प्रतीच्यामवस्थाने स्वयं प्राच्यां तिष्ठेत् । एवं सति प्रवर्ग्यादित्ययोर्मध्येऽन्तरायो न भवेत् । अन्तराये तु कुष्ठरोगी स्यात् । अतः स्वशरीररक्षार्थमन्तरायं न कुर्यात् । मृत्पात्रनिर्माणे साधनं विधत्ते -
“वेणुना करोति । तेजो वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति ।” इति । (प्र० ५ । अ० ३ । वि० ४)
कुम्भनिर्माणार्थं कुम्भकाराः काष्ठेन यं व्यापारं कुर्वन्ति तमत्र वेणुना कुर्यान्नतु दारुणा । “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इति श्रुत्या वेणोस्तेजस्त्वं तप्तघृतधारत्वात्प्रवर्ग्यपात्रमपि तेजः । अतो वेणुरूपेण तेजसा प्रवर्ग्यरूपं तेजः समृद्धं करोति ।
प्रवर्ग्यार्थस्य द्रव्यस्य शिरःस्थानीयत्वं विशदयति -
“मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्प्रवर्ग्यः(२)। तस्मादेवमाह ।” इति । (प्र० ५ । अ० ३। वि० ५)
प्रथमानुवाके धनुष्कोट्योच्छिन्नं यज्ञपुरुषस्य शिरो द्यावापृथिव्योरनुवर्तनात्प्रवर्ग्यनाम संपन्नमित्युक्तम् । तस्मान्मखस्य शिरोऽसीतिमन्त्रोक्तमुपपन्नम् ।
एतयोर्यज्ञपादत्वे शास्त्रप्रसिद्धिं दर्शयति -
“यज्ञस्य पदे स्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै ।” इति । (प्र० ५ । अ० ३ । वि० ६)
समानरूपत्वेन द्वित्वेन च पादसादृश्यादित्थं कर्तव्यम् । अपि च पादद्वयसादृश्येन प्रतिष्ठार्थमेतद्भवति ।
मन्त्रेषु गायत्रादिपदानामुपयोगं दर्शयति -
“गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति ।” इति । (प्र० ५ । अ० ३ । वि० ७)
एतेषां मन्त्राणां पाठेन महावीरस्य च्छन्दोदेवताभिर्निष्पादनं भवति । एकैकमस्मिन्महावीरे कक्ष्यात्रयं विधत्ते -
“त्र्युद्धिं करोति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ८)
भाण्डस्योपरि भाण्डान्तरप्रक्षेपे यादृश आकारो भवति तादृश आकार उद्धिरित्युच्यते । ऊर्ध्वाधोभावेनावस्थितभाण्डत्रयवत्त्रिविधा उद्ध्यो(द्धयो) यस्य महावीरस्य सोऽयं त्र्युद्धिः । तत्र त्रित्वसाम्याल्लोकत्रयप्राप्तिः पूर्वं व्याख्याता । छन्दः प्रतिपादकैर्मन्त्रैस्तन्निष्पादनं विधत्ते -
“छन्दोभिः करोति(३) । वीर्यं वै छन्दाँसि । वीर्येणैवैनं करोति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ९)
वीर्यप्रदत्वाद्गायत्र्यादिछन्दसां वीर्यरूपत्वम् ।
तमेतं मन्त्रं विनियुङ्क्ते -
“यजुषा बिलं करोति व्यावृत्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १०)
लौकिकेषु मृत्पात्रेषु मन्त्रमन्तरेणैव कुम्भकारा बिलं कुर्वन्ति । अत्र तु मन्त्रेणेति व्यावृत्तिः । महावीरस्य प्रादेशपरिमाणं हस्ताभिनयनेन विधत्ते -
“इयन्तं करोति । प्रजापतिना यज्ञमुखेन संमितम् ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ११)
यज्ञपुरुषस्य शिरश्चिबुकयोर्मध्यवर्ति प्रादेशमात्रम् । प्रजापतिश्च वैश्वानरविद्यायां प्रादेशमात्रत्वेनोपास्यः । यस्त्वेतदेवं प्रादेशमात्रमिति च्छन्दोगैराम्नातत्वात् । अतः प्रादेशमात्रो महावीरः प्रजापतिना यज्ञमुखेन च सदृशो भवति । तदेव परिमाणमनूद्य प्रशंसति -
“इयन्तं करोति । यज्ञपुरुषा । संमितम् ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १२)
यज्ञस्य परुरङ्गमैन्द्रवायवादिग्रहपात्रं तेन सादृश्यं प्रादेशमात्रत्वे संपद्यते । पुनरप्यनूद्य प्रशंसति -
“इयन्तं करोति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम्(४) ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १३)
पुरुषशरीरे वीर्यं दर्शनश्रवणादिसामर्थ्यं प्रादेशपरिमितेन मुखे विद्यते । अतो वीर्यसादृश्यमेतस्य भवति । अथ परिमाणाभावरूपं पक्षान्तरं विधत्ते -
“अपरिमितं करोति । अपरिमितस्यावरुध्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १४)
परिमाणनियत्यभावेनापि निमित्तेन बहुलं फलं संपद्यते । यदुक्तं सूत्रकारेण - “उपबिलं ग्रीवां करोति” इति, तदत्र विधत्ते -
“परिग्रीवं करोति धृत्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १५)
ग्रीवायाः परितः परिग्रीवं तत्र वलयाकारो धारणायोपयुज्यते ।
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“सूर्यस्य हरसा श्रोत्रायेत्याह । यथायजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १६)
“अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १७)
शकशब्देन शकृदुच्यते । अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राजापत्यत्वम् । अतोऽश्वसंबन्धिधूपेन सर्वकारणभूतप्रजापतिसंबन्धसिद्धेः सयोनित्वं भवति । मन्त्रोक्तमश्वं शकृच्चाऽऽदित्यरूपेण च्छन्दोरूपेण च प्रशंसति -
“वृष्णो अश्वस्य निष्पदसीत्याह । असौ वा आदित्यो वृषाऽश्वः तस्य च्छन्दाँसि निष्पत्(५)। छन्दोभिरेवैनं धूपयति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १८)
एतैर्मन्त्रैर्यजमानस्य शरीरकान्तिः संपद्यत इति दर्शयति -
“अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन्दधाति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० १९)
मन्त्रयोः फलं दर्शयति -
“वारुणोऽभीद्धः । मैत्रियोपैति शान्त्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २०)
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“सिध्यै त्वेत्याह । यथा यजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २१)
सवितृशब्दस्य तात्पर्यं दर्शयति -
“देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरुद्वपति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २२)
सवित्रा प्रेरितः सन्मन्त्रेण देवताभिश्च सहोद्वपनं कृतवान्भवति ।
दिश आपृणेत्यस्य तात्पर्यं दर्शयति -
“अपद्यमानः पृथिव्यामाशा दिश आपृणेत्याह(६)। तस्मादग्निः सर्वा दिशोऽनुविभाति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २३)
यस्मान्महावीरस्य सर्वदिङ्मू(क्पू)र्तिः प्रार्थ्यते तस्मान्महावीरेणाभिन्नोऽग्निः स्वतेजसा सर्वा दिशः प्रकाशयति -
“उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २४)
सूर्यस्य चक्षुषेत्यस्य तात्पर्यं दर्शयति -
“ईश्वरो वा एषोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषाऽन्वीक्ष इत्याह । चक्षुषो गोपीथाय ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २५)
स्वचक्षुषा प्रवर्ग्यं पश्यन्नन्धो भवितुं समर्थो भवति, अतः स्वचक्षुषो गोपीथाय सूर्यस्य चक्षुषेत्युक्तम् । ऋज्वादिशब्दैः पृथिव्यादयो वक्ष्यन्त इत्येतद्दर्शयति -
“ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्याह । इयं वा ऋजुः । अन्तरिक्षँ साधु । असौ सुक्षितिः(७)। दिशो भूतिः । इमानेवास्मै लोकान्कल्पयति । अथो प्रतिष्ठित्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २६)
मन्त्रपाठेन तदर्थस्तथैव फलतीत्येतद्दर्शयति -
“इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीत्याह । विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २७)
क्षत्रियवैश्ययोर्मन्त्रप्रयोगे विशेषं दर्शयति -
“विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्यूहति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २८)
पशुभिर्ब्रह्मवर्चसेनेत्येतावत्क्षत्त्रियं प्रति परित्यजेत् । वैश्यं प्रति तु विशा ब्रह्मवर्चसेनेत्येतावत्परित्यजेदित्यर्थः ।
एतन्मन्त्रसाध्यं सेचनं विधत्ते -
“असुर्यं पात्रमनाच्छृण्णम्(८)। आच्छृणत्ति । देवत्राऽकः ।” इति । (प्रपा० ५ । अनु० ३ । विभा० २९)
अनाच्छृण्णं क्षीरसेचनरहितं पात्रमसुर्यमुष्णत्वेनात्युग्रत्वादसुरेभ्यो हितं न तु देवेभ्योऽतो देवार्थमासिञ्चेत् । तेन शान्तं शीतलं पात्रं देवेषु करोति । तत्र द्रव्यं विधत्ते -
“अजक्षीरेणाऽऽच्छृणत्ति । परमं वा एतत्पयः । यदजक्षीरम् । परमेणैवैनं पयसाऽऽच्छृणत्ति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ३०)
सर्वव्याधिहरत्वादजक्षीरस्य परमत्वम् । तत्र सेचने देवस्त्वा सवितेत्यादिकं यजुर्विनियुङ्क्ते -
“यजुषा व्यावृत्यै ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ३१)
उष्णशान्त्यर्थे लोकिके सेचने मन्त्रो नास्ति । अत्र तु यजुषा मन्त्रेण सिञ्चेदिति तद्व्यावृत्तिः । मन्त्रगता़श्छन्दोवाचकशब्दान्प्रशंसति -
“छन्दोभिराच्छृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाँस्याच्छृणत्ति ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ३२)
पूर्वं गायत्रेण च्छन्दसा करोमीत्येवं च्छन्दोयुक्तैर्मन्त्रैरेष महावीरः कृतः, अतोऽयमेव च्छन्दांसि । अत्रापि च्छन्दोवाचकशब्दयुक्तैर्मन्त्रैः सेचने सत्यत्रत्यैश्छन्दोभिरिव पूर्वोक्तानि च्छन्दांसि सिक्तानि भवन्ति । वागादिदेवता महावीरं सिञ्चन्तीत्येतद्युक्तं महावीरस्तु वागादीन्सिञ्चतीत्यत्र प्रयोजनं दर्शयति -
“छृन्धि वाचमित्याह । वाचमेवावरुन्धे । छृन्ध्यूर्जमित्याह । ऊर्जमेवावरुन्धे । छृन्धि हविरित्याह । हविरेवाकः ।” इति । (प्रपा० ५ । अनु० ३ । विभा० ३३)
तैरेतैर्मन्त्रैर्वागन्नप्राप्तिर्हविष्ट्वसिद्धिश्च भवति ।
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“देव पुरश्चर सध्यासं त्वेत्याह । यथायजुरेवैतत्(९) ॥” इति । (प्रपा० ५ । अनु० ३ । विभा० ३४) ॥
स्याद्यत्प्रवर्ग्यश्छन्दोभिः करोति वीर्यसंमितं छन्दाँसि निष्पत्पृणेत्याह सुक्षितिरनाच्छृण्णं छन्दाँस्याच्छृणत्यष्टौ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥ब्रह्मन्निति संबोधनस्य तात्पर्यं दर्शयति -
“ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः । यद्ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनोऽनार्त्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १)
एतर्हि कर्मकाले यो ब्रह्माऽस्ति एष एव बृहस्पतिस्थानीयः । तस्मै बृहस्पतये कथयित्वा प्रचारे सति स्वस्याऽऽर्तिवैकल्यनिमित्तापराधो न भवति ।
यममखसूर्यशब्दैः सूचिताभिः प्रवर्ग्यदेवताभिः सर्वाभिः संपादितां प्रवर्ग्यसमृद्धिं दर्शयति -
“यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २)
प्रोक्षणद्रव्यं विधत्ते -
“मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति (१) ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३)
तप्ता आपो मदन्त्यः, ताभिः प्रोक्षणे यजमाने कान्तिः संपद्यते । तत्रानुक्रमं विधत्ते
“अभिपूर्वं प्रोक्षति । अभिपूर्वमेवास्मिन्तेजो दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ४)
पूर्वं प्रथमं महावीरमभिलक्ष्याभिपूर्वं तदादिकमेव प्रोक्षेत्, न तु विपर्ययेण । एवं सति यजमाने पितृपुत्रादिक्रमेणैव तेजः संपद्यते । आवृत्तिं विधत्ते -
“त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ५)
अग्नित्रयसाध्यत्वेन सवनत्रयरूपत्वेन वा यज्ञस्याऽऽवृत्तित्रयोपेतत्वम्, अपि च प्रोक्षणावृत्या सिध्यतीत्या(त्यति)शये सति यज्ञयोग्यता संपद्यते । होतर्घर्ममभिष्टुहीति प्रैषस्योक्तत्वाद्धोतृत्यमनुवचनं विधत्ते -
“होताऽन्वाह । रक्षसामपहत्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ६)
होतुरनुवचनं यज्ञविघातिनां रक्षसां वधाय भवति । अयं चानुवाकप्रकार आश्वलायनेन स्पष्टमभिहितः - “स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यन्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानमृचमृचमनवानमुक्त्वा प्रणुत्यावस्येद्ब्रह्मजज्ञानम्” इत्यादिः । तत्रैकस्या ऋचो मध्ये श्वासराहित्यं विधत्ते -
“अनवानम् । प्राणानाँ संतत्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ७)
अवानः श्वासस्तद्रहितं यथा भवति तथा पठेत् । तच्च यजमानप्राणानामविच्छेदाय भवति । तास्वृक्षु गायत्रीधर्ममतिदिशति -
“त्रिष्टुभः सतीर्गायत्रीरिवान्वाह (२)। गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ८)
यद्यपि ब्रह्मजज्ञानमित्यादयस्त्रिष्टुभस्तथाऽपि गायत्रीवदनुवचनं कुर्यात् । गायत्रीरूपं ध्यात्वा पठेदित्यर्थः । प्राणस्य गायत्रत्वाद्गायत्रीसमानानुवचनेन यजमाने प्राणं स्थैर्येण स्थापयति । गायत्र्या रक्ष्यमाणत्वात्प्राणस्य गायत्रत्वम् । तद्रक्ष्यत्वं च प्राणस्य वाजसनेयिनः समामनन्ति - “प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम” इति । अनुवचनकाले व्यापारान्तरेण व्यवधानं निवारयति -
“संततमन्वाह । प्राणानामन्नाद्यस्य संतत्यै । अथो रक्षसामपहत्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ९)
एकामृचमुक्त्वा प्राणानामवसानं कृत्वाऽपि पुनरप्यन्यामृचमेव ब्रूयात्, न त्वन्यं वाग्व्यापारं कुर्यात् । तदिदं सांतत्यम् । एतेन प्राणा अविच्छिन्ना भवन्ति, अन्नं च न विच्छिद्यते, रक्षांसि चापहन्यन्ते । ऋचां बहुत्वं विधत्ते -
“यत्परिमिता अनुब्रूयात् । परिमितमवरुन्धीत । अपरिमिता अन्वाह । अपरिमितस्यावरुध्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १०)
ऋचामल्पत्वे फलमप्यल्पं स्यात् । अतः फलबाहुल्याय बह्वीरनुब्रूयात् । यदुक्तं सूत्रकारेण - “अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याविच्छिन्नाग्रेण वेदेनोपरिष्टात्संमार्ष्टि” इति । तत्र वेदस्य दर्भमयत्वं वारयितुं मौञ्जत्वं विधत्ते -
“शिरो वा एतद्यज्ञस्य (३) । यत्प्रवर्ग्यः । ऊर्ङ्मुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्धयति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ११)
प्रवर्ग्यस्य सज्ञशिरस्त्वं प्रथमानुवाके प्रपञ्चितम् । मुञ्जास्तृणविशेषाः, तेषां पशुभिर्भक्ष्यत्वादूर्ग्रूपत्वम् । अतो वेदस्य मौञ्जत्वे सत्यूर्ग्रूपेण वेदेन यज्ञस्य शिरः समृद्धं करोति ।
एतैर्मन्त्रैः साध्यान्होमान्विधत्ते -
“प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १२)
तत्र सप्तसंख्यापक्षं विधत्ते -
“सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन्दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १३)
शिरोगतसप्तच्छिद्रवर्तिप्राणानां सप्तत्वात्संख्यया तत्प्राप्तिः ।
मध्वेति प्रयोगाद्यजमानस्य तेजोव्याप्तिं दर्शयति -
“देवस्त्वा सविता मध्वाऽनक्त्वित्याह (४) । तेजसैवैनमनक्ति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १४)
मन्त्रस्य तात्पर्यं दर्शयति -
“पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १५)
अस्याः पृथिव्या इत्यर्थः । रुक्मस्योपरि प्रदीप्तानां मुञ्जानां प्रक्षेपं विधत्ते -
“शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रतिदधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १६)
अग्नेः सर्वदेवतात्वं ते देवा अग्नौ तनूः संन्यदधतेति श्रुतेरवगन्तव्यम् । प्रलवाः प्रकर्षेण लूना मुञ्जामुष्टयः, तानग्नौ सर्वतः प्रदीप्य रुक्मस्योपरि निदध्यात् । एवं सत्यग्निरूपासु देवतास्वेव प्रवर्ग्यरूपं यज्ञशिरःस्थापनं भवति । प्रदीपनप्रकारस्तु सूत्रकारेण स्पष्टमुक्तः - “द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति, तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति, तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति, तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा” इति । प्रदीप्तमुञ्जस्थापने कंचिद्विशेषं विधत्ते -
“अप्रतिशीर्णाग्रं भवति । एतद्बर्हिर्ह्येषः (५) ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १७)
दीप्तमुञ्जानामग्रं प्रतिशीर्णमितस्ततो विप्रसृतं यथा न भवति तथा समुह्यैव स्थापयेत् । यस्मादयं प्रवर्ग्य एतद्बर्हिर्मुञ्जरूपबर्हिर्युक्तः, तस्माद्वेद्यास्तरणबर्हिष इवाप्रतिशीर्णत्वं युक्तम् ।
मन्त्रतात्पर्यं दर्शयति -
“अर्चिरसिशोचिरसीत्याह । तेज एवास्मिन्ब्रह्मवर्चसं दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १८)
शरीरकान्तिः श्रुताध्ययनसंपत्तिश्चेत्युभयविधप्रकाशस्तेन मन्त्रेण यजमाने संपद्यते ।
प्रौढस्य कर्मणो हेतुत्वान्महच्छब्दार्थः प्रसिद्ध इत्येतद्दर्शयति -
“सँसीदस्व महाँ असीत्याह । महान्ह्येषः ।” इति । (प्रपा० ५ । अनु० ४ । विभा० १९)
मन्त्रस्य तात्पर्यं दर्शयितुमादौ ब्रह्मवादिनां प्रश्नोत्तरमाह -
“ब्रह्मवादिनो वदन्ति । एते वाव त ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाऽऽशिषो नाऽऽशास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः (६) ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २०)
दर्शपूर्णमासयोर्ब्रह्मा होताऽध्वर्युरग्नीदित्याम्नाता ऋत्विजो ये सन्ति त ऋत्विजः सर्वेऽप्येत एवात्रापि वर्तन्ते । अथैवं सति तत्र होता यजमानस्याऽऽयुराद्याशिषः प्रार्थितवान्, सूक्तवाकमाशास्तेऽयं यजमानोऽसावित्यादिमन्त्रपाठात् । अत्र तु स एव होता कथा कथमाशिषो नाऽऽशास्त इति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञस्यैतदुत्तरम् । द्विविधो हि यज्ञः पुरस्तादाशीरुपरिष्टादाशीश्चेति । तथा सति यत्र प्रधानकर्मण ऊर्ध्वमाशीराशासनीया तत्रैव होतुस्तत्कर्तव्यता, इह तु पुरस्तादाशीरिति कृत्वा होता नाऽऽशास्ते । अथ मन्त्रतात्पर्यं दर्शयति -
“अनाधृष्या पुरस्तादिति यदेतानि यजूँष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २१)
महावीरस्योपरि प्रादेशधारणेनैतेषु यजुःषु यजमानेन पठितेषु यज्ञशिरोरूपमहावीरसकाशादेव यजमानः सर्वा अप्याशिषः प्राप्नोति । एतेषां च यजुषां प्रधानकर्मणः पुरा पठनीयत्वादयं यज्ञः पुरस्तादाशीः । कास्ता मन्त्रोक्ता आशिष इत्याशङ्क्य दिग्भेदेन व्यवस्थितास्ता दर्शयति -
“आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृतिमुपरिष्टात् । प्राणानेवास्मै समीचो दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २२)
विधृतिशब्देन ब्रह्मक्षत्रादयः सर्वेपि विधेयत्वादुपलक्ष्यन्ते । अनेन मन्त्रपाठेनायं यजमानोऽस्मै स्वदेहार्थं प्राणान्समीचोऽनुकूलानवस्थापयति ।
अनेन मन्त्रेण साध्यं भूमिस्पर्शं विधत्ते -
“ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनुव्यास्थापयन्ति (७) । मनोरश्वासिभूरिपुत्रेतीमामभिमृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रतितिष्ठत्यनुन्मादाय ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २३)
लोके यं पुरुषं मनुष्या दिशो व्यास्थापयन्ति बह्वीर्दिशोऽनुक्रमेण विविधं संचारयन्ति, एष संचारी पुरुषो दिशेऽननुलक्ष्योनमदितोरीश्वर उन्मत्तो भवितुं समर्थो भवति, दिग्भ्रमं प्राप्नोतीत्यर्थः । तस्यानेन मन्त्रेण भूमिस्पर्शे सत्युन्मादो न भवति । मा हिँसीरित्यस्य तात्पर्यं दर्शयति -
“सूपसदा मे भूया मा मा हिँसीरित्याहाहिँसायै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २४)
मन्त्रे पूर्वभागस्य तात्पर्यं दर्शयति -
“चितः स्थ परिचित इत्याह । अपचितिमेवास्मिन्दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २५)
अङ्गारेषु परितः सेवकवत्स्थितेषु मध्ये स्थितस्य महावीरस्य राज्ञ इव पूजा संपद्यते । उत्तरभागे मरुच्छब्देन विवक्षितमर्थं दर्शयति -
“शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः (८) । स्वाहा मरुद्भिः परिश्रयस्वेत्याह । अमुमेवाऽऽदित्यँ रश्मिभिः पर्यूहति । तस्मादसावादित्योऽमुष्मिल्ँ लोके रश्मिभिः पर्यूढः । तस्माद्राजा विशा पर्यूढः । तस्माद्ग्रामणीः सजातैः पर्यूढः ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २६)
यज्ञशिरोरूपः प्रवर्ग्य आदित्यस्थानीयः, देवतात्वेन भाविता अङ्गारा रशमिस्थानीया अतो महावीरस्याङ्गारैः पर्यूहणेनात्राऽऽदित्यमेव रश्मिभिः परितो व्यापयति । यस्मादेवं तस्मात्स्वर्गे लोकेऽप्यादित्यो रशमिभिर्व्याप्तो दृश्यते । तथा भूलोकेऽपि महावीरवन्मुख्यो राजाऽङ्गारवदुपसर्जनभूतया प्रजया व्याप्तो भवति । एकस्मिन्ग्रामे ग्रामणीर्मुख्यः पुरुषः सजातैः सहोत्पन्नैरुपसर्जनैः पुरुषैः परितो व्याप्तो दृश्यते ।
तैर्मन्त्रैः परिधेयानां परिधीनां वृक्षविशेषं विधत्ते -
“अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवावरुन्धे ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २७)
प्रजापतिसृष्टस्य पलायमानस्याग्नेस्तेजो विकङ्कतं वृक्षं प्रति प्राविशत्, अतो वैकङ्कतपरिधिभिस्तत्तेजः प्राप्नोति । परिधीनां संख्यां विधत्ते -
“द्वादश भवन्ति (९) । द्वादश मासाः संवत्सरः । संवत्सरमेवामरुन्धे ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २८)
अधिकमेकं परिधिं विधत्ते -
“अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमवरुन्धे ।” इति । (प्रपा० ५ । अनु० ४ । विभा० २९)
ज्योतिः शास्त्रविदः कदाचित्कदाचित्संक्रान्तिरहितोऽधिकमासस्त्रयोदशोऽस्तीत्येवमाहुः । त्रयोदशेन परिधिना तन्मासप्राप्तिर्भवति । अन्तर्धेरेव तात्पर्यं दर्शयति -
“अन्तरिक्षस्यान्तर्धिरसीत्याह व्यावृत्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३०)
एतावती महावीरस्य सीमा, इत ऊर्ध्वमन्तरिक्षलोक इति विभागो व्यावृत्तिः ।
एतन्मन्त्रसाध्यं रुक्मस्थापनं विधत्ते -
“दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्यमधि निदधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परिगृह्णाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३१)
उपरितनरुक्मव्यवधानेन द्युलोकस्यातिदाहो न भवति । अपि चोर्ध्वाधोगताभ्यां रुक्माभ्यामेनं महावीरमुभयतो दृढं परिगृह्णाति । एतन्माहावीरस्य सायकादिधारणासंभवमाशङ्क्य स्तुतित्वेन परिहरति -
“अर्हन्बिभर्षि सायकानि धन्वेत्याह (१०) । स्तौत्येवैनमेतत् ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३२)
अनेनैव न्यायेन पूर्वोक्तमन्त्रद्वयार्थासंभवमाशङ्काऽपि परिहर्तव्या ।
एतैर्मन्त्रैः साध्यमादानं विधत्ते -
“गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्यादत्ते । छन्दोभिरेवैनान्यादत्ते ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३३)
गायत्रादिशब्दैर्महावीरस्य व्यवहारच्छन्दोदेवताभिरादानसिध्यर्थो द्रष्टव्यः ॥
एतन्मन्त्रसाध्यां क्रियां विधत्ते -
“मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३४)
समीचीनवायुरूपत्वात्प्राणस्य मधुत्वम् । यदुक्तं सूत्रकारेण - “तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमाग्नीध्रायाऽऽग्नीध्रप्रथमास्त्रि प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति” इति । तदिदं विधत्ते -
“त्रिः परियन्ति । त्रिवृद्धि प्राणः ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३५)
प्राणापानव्यानाख्यवृत्तिभेदात्प्राणस्य त्रैगुण्यं प्रदक्षिणत्रयेण सिध्यति । तमेव विधिमनूद्य प्रशंसति -
“त्रिः परियन्ति । त्र्यावृद्धि यज्ञः (११) । अथो रक्षसामपहत्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३६)
सवनत्रयानुष्ठानेन यज्ञस्याऽऽवृत्तित्रयम् । अपि च प्रदक्षिणत्रयेण रक्षांस्यपहन्यन्ते । यदुक्तं सूत्रकारेण - “अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः परियन्ति” इति । तदिदं विधत्ते -
“त्रिः पुनः परियन्ति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुष्वेव प्रतितिष्ठन्ति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३७)
पूर्वोक्ताः प्रदक्षिणावृत्तयस्तिस्र एताश्च विपरीतवृत्तयस्तिस्र इत्येवं षट्संपत्तिः । चतुर्थावृत्तिं निषेधति -
“यो वै घर्मस्य प्रियां तनुवमाक्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियां तनुवमाक्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताँ ह वा अस्योग्रदेवो राजनिराचक्राम (१२) । ततो वै स दुश्चर्माऽभवत् । तस्मात्त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपीथाय ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३८)
घर्मस्य महावीरस्य प्रियशरीराक्रमणे त्वग्दोषः स्यात् । यः पुमानपेक्षितं प्रदक्षिणत्रयं कृत्वा ततश्चतुर्थं प्रदक्षिणमनपेक्षितमपि कुर्यात्, स एव प्रियशरीरमाक्रामतीति त्वग्दोषं प्राप्नुयात् । न चैतद्वार्तामात्रं किंतु कश्चिद्राजनिनामकः पुरुष उग्रदेव उग्राणामृत्विजां शास्त्रार्थमुल्लङ्घयतां स्वामी सन्कदाचिदेतां प्रियतनूमाचक्राम । ततोऽपराधात्कुष्ठरोगवानभूत् । अतः स्वदेहरक्षार्थं चतुर्थावृत्तिं न कुर्यात् । धवित्राणि प्रशंसति -
“प्राणा वै धवित्राणि ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ३९)
यदुक्तं सूत्रकारेण - “तमभिमुखाः पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽव्यतिषङ्गमूर्ध्वं धून्वन्तः” इति । तत्र धवित्रदण्डानां यः परस्परसंश्लेषाभावस्तमिमं विधत्ते -
“अव्यतिषङ्गं धून्वन्ति । प्राणानामव्यतिषङ्गाय क्लृप्त्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ४०)
प्राणादिवृत्तीनां सांकर्यपरिहारेण स्वव्यापारसामर्थ्यार्थो धवित्राणामयमव्यतिषङ्गः ।
“विनिषद्य धून्वन्ति । दिक्ष्वेव प्रतितिष्ठन्ति ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ४१)
पुरस्तादध्वर्युरित्याद्यभिधानाद्दिक्षु प्रतिष्ठा । ऊर्ध्वाभिमुखत्वेन वायूत्पादनं विधत्ते -
“ऊर्ध्वं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै ।” इति । (प्रपा० ५ । अनु० ४ । विभा० ४२)
स्वर्गस्योर्ध्ववर्तित्वादूर्ध्वधूननेन तत्प्राप्तिः । सर्वासु दिक्षु धूननं विधत्ते -
“सर्वतो धून्वन्ति । तस्मादयँ सर्वतः पवते ॥” इति । (प्रपा० ५ । अनु० ४ । विभा० ४३)
॥ दधातीवान्वाह यज्ञस्याऽऽहैष उपरिष्टादाशीरन्यो व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥अस्मिन्मन्त्रे यदग्नेर्दीपकत्वं तन्मुख्यमेव न तूपचरितमित्येवकारेण दर्शयति -
“अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह । अग्निरेवैनं वसुभिः पुरस्ताद्रोचयति गायत्रेण छन्दसा ।” इति । (प्रपा० ५ । अनु० ५ । विभा० १)
रोचयेत्ययं लोट्प्रत्ययो न विध्यर्थः किंत्वाशीरर्थ इत्येतद्दर्शयति -
“स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते ।” इति । (प्रपा० ५ । अनु० ५ । विभा० २)
अथ दक्षिणादिदिग्देवताविषयाणि चत्वारि यजूंष्याह -
पूर्वोक्ताग्निविषययजुरिवेन्द्रादिविषयाणि चत्वारि यजूंषि व्याख्येयानि । एतेषु चतुर्ष्वपि यजुःषूपचारव्यावृत्तिमेवकारेण लोट्लकारस्याऽऽशीरर्थत्वं च पूर्ववद्दर्शयति -
“इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनँ रुद्रैर्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । वरुणस्त्वाऽऽदित्यैः पश्चाद्रोचयतु जागतेन छन्दसेत्याह । वरुण एवैनमादित्यैः पश्चाद्रोचयति जागतेन छन्दसा (१) । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । बृहस्पतित्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन छन्दसेत्याह । बृहस्पतिरेवैनं विश्वैर्देवैरुपरिष्टाद्रोचयति पाङ्क्तेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते ।” (२) इति । (प्रपा० ५ । अनु० ५ । विभा० ३)
अस्मिन्मन्त्रे भागद्वयगतयोरर्थयोः प्रसिद्धिमवश्यंभावित्वं च हिशब्देनैवकारेण (च) दर्शयति -
“रोचितस्त्वं देव घर्म देवेष्वसीत्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु ।” इति । (प्रपा० ५ । अनु० ५ । विभा० ४)
अत्रापि हिशब्दैवकाराभ्यां मन्त्रभागौ पूर्ववद्व्याचष्टे -
“सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसीत्याह । रुचितो ह्येष देवेष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी । रुचितोऽहं मनुष्येष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह । रुचित एवैष मनुष्येष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी भवति ।” इति । (प्रपा० ५ । अनु० ५ । विभा० ५)
धेहीत्यस्य लोट्प्रत्ययस्याऽऽशीरर्थत्वं दर्शयति -
“रुगसि रुचं मयि धेहि मयि रुगित्याह । आशिषमेवैतामाशास्ते ।” इति । (प्रपा० ५ । अनु० ५ । विभा० ६)
यदुक्तं सूत्रकारेणोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति तदिदं कालसहितं विधत्ते -
“तं यदेतैर्यजुर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वर्युः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैर्यजुर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः (३) ॥” इति । (प्रपा० ५ । अनु० ५ । विभा० ७)
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥तत्र प्रथमं प्रवर्ग्यस्य कालं विधत्ते -
“शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । ग्रीवा उपसदः । पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति । ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १)
प्रवर्ग्यस्य यज्ञशिरोरूपत्वादुपसदां च यज्ञग्रीवारूपत्वादुभयोः सामीप्यायोपसदनुष्ठानात्प्रागेव प्रवर्ग्यकर्मानुतिष्ठेत् । तप्ते घृते पयः प्रक्षेपः प्रवृञ्जनं तद्यस्मिन्कर्मविशेषे विद्यते सोऽयं प्रवर्ग्यः, स कर्मविशेषो यथा संपद्यते तथा प्रवृञ्जनं कुर्यादित्यक्षरार्थः । प्रवर्ग्योपसदोः सामीप्ये सति यथा लोके ग्रीवायां शिरः प्रतिहितं भवति तथैतत्संपद्यते । ग्रीवास्विति वचनव्यत्ययः । प्रवर्ग्यस्यावृत्तिं विधत्ते -
“त्रिः प्रवृणक्ति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरोऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २)
उपसदां दिनत्रयेऽनुष्ठेयत्वात्तत्समीपवर्ती प्रवर्ग्योऽपि दिनत्रयेऽनुष्ठेयः । तथा सति लोकत्रयार्थं यज्ञशिरः प्रतिहितं भवति । सायं प्रातश्चेति कालद्वयानुष्ठानं प्रशंसति -
“षट्संपद्यन्ते । षड्वा ऋतवः (१) । ऋतुभ्य एव यज्ञस्य शिरोऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३)
एकैकस्मिन्दिने कालभेदेन द्विरनुष्ठानात्षट्संख्या संपद्यते । तत ऋतुभ्यः सकाशाद्यज्ञशिरः संपादितं भवति । दिनषट्कपक्षं विधत्ते -
“द्वादशकृत्वः प्रवृणक्ति । द्वादशमासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ४)
षट्सु दिनेषु कालद्वयानुष्ठानेन द्वादशत्वम् । द्वादशसु दिनेष्वनुष्ठानविधिमभिप्रेत्य प्रशंसति -
“चतुर्विँशतिः संपद्यन्ते । चतुर्विँशतिरर्धमासाः । अर्धमासेभ्य एव यज्ञस्य शिरोऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ५)
द्वादशस्वपि दिनेषु कालद्वयानुष्ठानेन चतुर्विंशतिसंपत्तिः । अग्निष्टोमे त्रिष्वेव दिनेषूपसदोऽग्निचयने षट्सु दिनेष्वहीने सत्रे च द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्रकारेण सङ्गृहीतम् - “त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विंशतिकृत्वः” इति । विकल्पितं पक्षान्तरं विधत्ते -
“अथो खलु । सकृदेव प्रवृज्यः । एकँ हि शिरः (२) ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ६)
पक्षान्तरोपन्यासायाथोशब्दः शिरस एकत्वात्तत्स्थानीयोऽयं प्रवर्ग्यः सकृदेवानुष्ठेयो न त्वावृत्येति केषांचित्पक्षः । एतच्च सूत्रकारेण विस्पष्टमुदाहृतम् - “सुत्यायां प्रवृञ्जनमेके समामनन्ति । तत्र मीमांसा । यदा पुरस्तादरुणः स्यादथ प्रवृज्य उपकाश उपव्युषं समयाविषित उदितानुदित उदिते वा प्रातः संगवे मध्यन्दिने वा पवमाने स्तुत आग्नीध्रागारे प्रवृज्यः सकृदेव प्रवृज्य इति विज्ञायते” इति । प्रवर्ग्यस्याग्निष्टोमसंबन्धं विधत्ते -
“अग्निष्टोमे प्रवृणक्ति । एतावान्वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ७)
यावन्तः सोमयागाः सन्ति तेषु सर्वेष्वप्यग्निष्टोमः संचार्यतः सर्वयज्ञात्मकः, तत्रानुष्ठिते सति कृत्स्नेऽपि यज्ञे शिरः प्रतिहितं भवति । अनारभ्याधीतस्य प्रवर्ग्यस्य यद्यपि पुरस्तादुपसदामिति वाक्येनैव प्रकृतिभूताग्निष्टोमसंबन्धः प्राप्तः, तथाऽपि शाखान्तरगतं न प्रथमयज्ञे प्रवृञ्ज्यादिति निषेधमपोद्य प्रतिप्रसवार्थं पुनर्विधानम् । निषेधस्त्वतिरात्रेऽपि चरितार्थो भविष्यति, तस्यापि विकल्पितः प्रथमयज्ञत्वात् । तथा चापस्तम्ब आह - “अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्वं समामनन्ति” इति । पुरस्तादुपसदामितिवाक्येनोक्थ्येऽप्युपसद्भावात्पूर्वं प्रवर्ग्यस्यापि प्राप्तौ निषेधयति -
“नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्दहेत् ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ८)
एह्यू षु ब्रवाणीत्यादीनि शस्त्राण्यत्रोक्थशब्देनावि(भि)धीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः, तत्र प्रवृञ्जनेनोक्थशस्त्रसाध्याः प्रजाः पशवश्च दह्येयुः(रन्), तस्मात्तत्र न प्रवृञ्ज्यात् । उक्थ्यविशेषे प्रतिप्रसवं विधत्ते -
“विश्वजिति सर्वपृष्ठे प्रवृणक्ति (३) । पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वाऽवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ९)
रथंतरबृहद्वैरूपवैराजशाक्वररैवतसामसाध्यानि पृष्ठस्तोत्राणि सर्वाण्यपि यस्मिन्विश्वजिद्यागे विद्यन्ते सोऽयं सर्वपृष्ठः । यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः, तथाऽपि शाखान्तरे तत्सद्भावमभिप्रेत्य नोक्थ्ये प्रवृञ्ज्यादिति निषेधं वारयितुं पुनर्विधिः । सर्वत्र पृष्ठस्तोत्राणि अच्युतं न च्युतमपि दोषं च्यावयन्ति विनाशयन्ति । अत्रापि पृष्ठस्तोत्रैरेवाच्युतं निषेधप्रयुक्तं प्रबलमपि दोषं च्यावयित्वा प्रवर्ग्यफलमपि प्राप्नोति । तदेवं बुद्धिस्थं प्रवर्ग्यविधिवविचारं परिसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे पूर्वभागं व्याचशष्टे -
“अपश्यं गोपामित्याह । प्राणो वै गोपाः । प्राणमेव प्रजासु वियातयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १०)
प्राणे हि स्वावस्थानेन शरीराणि गोपायतीति गोपाः । मन्त्रे च प्राणत्वेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः । अतो गोपामपश्यमित्युक्ते सति सर्वासु प्रजासु प्राणमेव प्रसारितवान्भवति । आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे -
“अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ११)
आदित्यो ह्युदयेन प्रकाशं कृत्वा सर्वाः प्रजा गोपायतीति गोपाः, तद्रूपत्वेन स्तुतत्वान्महावीरो गोपाः । एतत्पाठेन यजमानमेव प्रजानां गोप्तारं करोति । प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति -
“अनिपद्यमानमित्याह (४) । न ह्येष निपद्यते ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १२)
द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनं च प्रसिद्धमिति दर्शयति -
“आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १३)
यदाऽयमादित्य उदयं प्राप्तः सर्वाः प्रजा अभितो विशेषेण पश्यति तदानीं स्वेन सह वर्तमाना दूरे विविधं प्रसृताश्च मरीचीर्वस्त्रवद्वसानो वर्तत इत्येतत्प्रसिद्धमित्येतादृशं तृतीयपादाभिप्रायं दर्शयति -
“स सध्रीचीः स विषूचीर्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभिविपश्यति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १४)
चतुर्थपादोक्ता भुवनमध्ये सूर्यस्याऽऽवृत्तिः प्रसिद्धेति दर्शयति -
“आ वरीवर्ति भुवनेष्वन्तरित्याह । आ ह्येष वरीवर्ति भुवनेष्वन्तः ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १५)
मन्त्रस्य वसन्तर्तुपरतां दर्शयति -
“अत्र प्रावीर्मधुमाध्वीभ्यां मधुमाधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १६)
अस्मै यजमानार्थं वसन्तसंबन्धिनावृत्ववयवौ चैत्रवैशाखमासौ स्वोचितभोगप्रदानसमर्थौ करोति ।
अस्य मन्त्रस्य ग्रीष्मर्तुपरतां दर्शयति -
“समग्निरग्निना गतेत्याह (५) । ग्रैष्मावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १७)
वसन्तवाक्यवद्व्याख्येयम् । तस्यैव मन्त्रस्यार्थान्तरं दर्शयति -
“समग्निरग्निना गतेत्याह । अग्निर्ह्येवैषोऽग्निना संगच्छते ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १८)
एष महावीररूपोऽग्निरादित्यरूपेणाग्निना संगच्छत इत्ययमर्थः प्रसिद्धः ।
अस्य मन्त्रस्य पूर्वमन्त्रेण सह समानार्थतां दर्शयति -
“स्वाहा समग्निस्तपसा गतेत्याह । पूर्वमेवोदितम् । उत्तरेणाभिगृणाति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० १९)
ग्रीष्मविषयत्वं पूर्वस्मिन्मन्त्रेऽभिहितमेव ग्रीष्ममुत्त(मेवोत्त)रमन्त्रेणापि श्रुतिर्ब्रूते ।
अस्य मन्त्रस्य वर्षर्तुपरतां दर्शयति -
“धर्ता दिवो विभासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २०)
वसन्तमन्त्रवद्व्याख्येयम् ।
अस्य मन्त्रस्य शारदर्तु(शरदृतु)परतां दर्शयति -
“हृदे त्वा मनसे त्वेत्याह । शारदावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २१)
वसन्तवाक्यवद्व्याख्येयम् । मन्त्रचरमभागेन(ण) सर्वेषां लोकानां होमक्रियाभिसंबन्धं दर्शयति -
“दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवेमाल्ँ लोकान्संदधाति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २२)
अस्य मन्त्रस्य हेमन्तर्तुपरतां दर्शयति -
“विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २३)
वसन्तवाक्यवद्व्याख्येयम् । अस्य मन्त्रस्य शै(शि)शिरर्तुपरतां दर्शयति -
“देवश्रूस्त्वं देव घर्म देवान्पाहीत्याह । शैशिरावेवास्मा ऋतू कल्पयति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २४)
वसन्तवाक्यवद्व्याख्येयम् ।
तपोजामित्यनेन यक्षयोग्या मन्त्ररूपा वाग्विवक्ष्यते तस्यास्तपस्विना पुरुषेण लभ्यमानत्वादित्येतद्दर्शयति -
तपोजां वाचमस्मे नियच्छ देवायुवमित्याह । या वै मेध्या वाक् । सा तपोजाः । तामेवावरुन्धे ।" (७) इति । (प्रपा० ५ । अनु० ६ । विभा० २५)
मन्त्रार्थस्य प्रसिद्धिं दर्शयति -
“गर्भो देवानामित्याह । गर्भो ह्येष देवानाम् ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २६)
मतिशब्देन प्रजाविवक्षां दर्शयति -
“पिता मतीनामित्याह । प्रजा वै मतयः । तासामेष एव पिता । यत्प्रवर्ग्यः । तस्मादेवमाह ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २७)
अस्य वाक्यस्यार्थप्रसिद्धिं दर्शयति -
“पतिः प्रजानामित्याह । पतिर्ह्येष प्रजानाम् ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २८)
अस्मिन्नर्थे प्रसिद्धिं दर्शयति -
“मतिः कवीनामित्याह (८) । मतिर्ह्येष कवीनाम् ।” इति । (प्रपा० ५ । अनु० ६ । विभा० २९)
अत्र देवशब्दद्वयेनाऽऽदित्यमहावीरौ विवक्षिताविति दर्शयति -
“सं देवो देवेन सवित्राऽयतिष्ट सँ सूर्येणारुक्तेत्याह । अमुं चैवाऽऽदित्यं प्रवर्ग्यं च सँ शास्ति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३०)
सम्यक्कथयतीत्यर्थः ।
अस्य वाक्यस्याऽऽयुष्परतां दर्शयति -
“आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असीत्याह । आशिषमेवैतामाशास्ते ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३१)
महावीरे प्रवृत्तस्योत्तरकर्तव्यताया बुध्यमानत्वाद्बोधकत्वमस्यावश्यमस्तीत्येतद्दर्शयति -
“पिता नोऽसि पिता नो बोधेत्याह । बोधयत्येवैनम् ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३२)
अस्मिन्ननुवाके मन्त्रसंख्यां दर्शयति -
“नवैतेऽवकाशा भवन्ति । पत्नियै दशमः । नव वै पुरुषे प्राणाः (९) । नाभिर्दशमी । प्राणानेव यजमाने दधाति । अथो दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३३)
अवकाशयन्तेऽर्थं प्रकाशयन्त इत्यवकाशा मन्त्राः । ते चात्र नवसंख्याका भवन्ति । अपश्यं गोपामित्येको मन्त्रः, अत्र प्रावीरित्याद्या ऋतुविषयाः षण्मन्त्राः, तपोजामित्यादि मा मा हिँसीरित्यन्तं वाक्यजातमेको मन्त्रः, त्वमग्न इत्यादिको रातयः सन्त्वित्यन्त एको मन्त्रः । एवं नवसंख्याकाः । त्वष्टीमतीत्यादिकः पत्न्या दशमो मन्त्रः । पुरुषशरीरेऽपि च्छिद्रगताः प्राणा नवसंख्याकास्तदपेक्षया नाभिर्दशमी, अतो मन्त्रगतसंख्यासाम्याद्यजमाने प्राणानेव सुस्थितान्करोति । अपि च विराड्द्वाराऽन्नमपि प्राप्नोति । एतैर्मन्त्रैः साध्यं महावीरावेक्षणं विधत्ते -
“यज्ञस्य शिरोऽच्छिद्यत । तद्देवा होत्राभिः प्रत्यदधुः । ऋत्विजोऽवेक्षन्ते । एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति (१०) ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३४)
यदा धनुष्कोट्या यज्ञपुरुषस्य शिरश्छिन्नं तदा देवास्तच्छिरो होत्राभिर्यज्ञशरीरे प्रतिहितवन्तः । होमनिष्पादिका ऋत्विजां याः प्रत्यवेक्षणादिक्रिया एता एव होत्रास्तस्मादृत्विजामवेक्षणेन होत्राभिरेव यज्ञस्य शिरः प्रतिहितं भवति । अग्निष्ट्वेत्यादिमन्त्रैरुपस्थानादूर्ध्वकालीनत्वमवेक्षणस्य विधत्ते -
“रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाँ सृष्ट्यै ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३५)
रुचिधात्वर्थप्रतिपादकैरग्निष्ट्वेत्यादिकैर्मन्त्रैरभिमन्त्रितो महावीरो रुचितः, तादृशं पश्चादवेक्षेरन् । पुरा प्रजापतिः प्रवर्ग्यादुचितादेव प्रजाः सृष्टवान्, अतोऽत्रापि सृष्ट्यै तद्भवति । पूर्वोक्तमेवानूद्य पुनः प्रशंसति -
“रुचितमवेक्षन्ते । रुचिताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा एधन्ते ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३६)
पूर्वोक्ताद्रुचितात्प्रवर्ग्यादेव कर्मानुष्ठानद्वाराऽऽदित्यप्राप्त्या मेघो वर्षति, अतोऽत्रापि रुचितावेक्षणे पर्जन्यो वर्षणशीलो भवति, प्रजाश्च सम्यग्वर्धन्ते । पुनरपि प्रकारान्तरेण प्रशंसति -
“रुचितमवेक्षन्ते । रुचितं वै ब्रह्मवर्चसम् । ब्रह्मवर्चसिनो भवन्ति (११) ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३७)
ब्रह्मवर्चसं श्रुताध्ययनसंपत्ती रुचितं विद्वत्सभायां प्रकाशितं भवति । अतो रुचितावेक्षणेन ब्रह्मवर्चसयुक्ता भवन्ति । अवेक्षणे पूर्वोक्तमन्त्रान्विधत्ते -
“अधीयन्तोऽवेक्षन्ते । सर्वमायुर्यन्ति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३८)
अधीयन्तोऽपश्यं गोपामित्यादिमन्त्रान्पठन्त ऋत्विजोऽवेक्षेरन्, ततो मन्त्रसामर्थ्यात्सर्वायुष्प्राप्तिः । पत्न्याः कंचिद्विशेषं विधत्ते -
“न पत्न्यवेक्षेत । यत्पत्न्यवेक्षेत । प्रजायेत । प्रजां त्वस्यै निर्दहेत् । यन्नावेक्षेत । न प्रजायेत । नास्यै प्रजां निर्दहेत् । तिरस्कृत्य यजुर्वाचयति । प्रजायते । नास्यै प्रजां निर्दहति ।” इति । (प्रपा० ५ । अनु० ६ । विभा० ३९)
अत्रायं विचारः, किं पत्न्यवेक्षेत न वेति । अवेक्षणपक्षे प्रजोत्पत्तिलक्षणे गुणे सत्यपि तदीयां प्रजां महावीरो निर्दहेदित्येष महान्दोषः, अतो नावेक्षेतेत्येकः पक्षः । अनवेक्षणपक्षे निर्दाहाभावेऽपि प्रजोत्पत्तिर्न स्यादित्यन्यो दोषः, अतो दोषद्वयनिवृत्तये पत्नीं केनचिद्व्यवधानेन तिरस्कृत्य त्वष्टीमतीति मन्त्रं पठेत्(पाठयेत्) । तस्मिन्मन्त्रे सपेयेत्यस्य तात्पर्यं दर्शयति -
“त्वष्टीमती ते सपेयेत्याह । सपाद्धि प्रजाः प्रजायन्ते (१२) ॥” इति । (प्रपा० ५ । अनु० ६ । विभा० ४०)
॥ ऋतवो हि शिरः सर्वपृष्ठे प्रवृणक्त्यनिपद्यमानमित्याह गतेत्याह शारदावेवास्मा ऋतू कल्पयति रुन्धे कवीनामित्याह प्राणाः प्रतिदधाति भवन्ति वाचयति चत्वारि च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥६॥अनेन मन्त्रेण साध्यमादानं विधत्ते -
ठदेवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै ।" इति । (प्रपा० ५ । अनु० ७ । विभा० १)
मन्त्रतात्पर्यं दर्शयति -
“आददेऽदित्यै रास्नाऽसीत्याह यजुष्कृत्यै ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २)
आदद इत्येष पूर्वमन्त्रशेषः स्पष्टार्थत्वात्पाठ एव तस्य व्याख्यानम् । यजुषा मन्त्रेण कृतिर्निष्पादनं यजुष्कृतिः, तत्सिध्यर्थमनेनाभिमन्त्रणम् ।
मन्त्रतात्पर्यं दर्शयति -
“इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामाह्वयति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३)
वक्ष्यमाणाह्वानेन पुनरुक्तिं वारयितुं देवनामानीति विशेष्यते । इडादीनि देवानां प्रसिद्धानि गोनामानि, मन्त्रपाठे सति तैरेवेयमाहूता भवति ।
पूर्वाह्वानाद्व्यावृत्तिमन्त्रं दर्शयति -
“असावेह्यसावेह्यसावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि (१) । मनुष्यनामैरेवैनामाह्वयति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ४)
द्विविधाह्वानगतां संख्यां प्रशंसति -
“षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनामाह्वयति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ५)
त्रीणि देवनामानि त्रीणि मनुष्यनामानीत्येवं षट्सम्पत्तिः ।
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“अदित्या उष्णीषमसीत्याह । यथा यजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ६)
वायुत्वमुपपादयति -
“वायुरस्येड इत्याह । वायुदेवत्यो वै वत्सः ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ७)
वत्सापाकरणे वायवः स्थेत्याम्नानाद्वायुदेवत्यत्वम् । अत एवान्यत्र ब्राह्मणे वायुर्वत्स इत्युक्तम् ।
मन्त्रस्य पूर्वभागे पूषेत्यस्य तात्पर्यं दर्शयति -
“पूषा त्वोपावसृजत्वित्याह । पौष्णा वै देवतया पशवः (२) । स्वयैवैनं देवतयोपावसृजति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ८)
पोषकत्वादेवायं पशूनां देवः । उत्तरभागेऽश्विशब्दतात्पर्यं दर्शयति -
“अश्विभ्यां प्रदापयेत्याह । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ९)
अस्मै वत्साय क्षीरं भेषजमित्येतत्प्रत्यक्षम् । अश्विभ्यां तु हविष्प्रदानद्वारा भेषजम् ।
स्तनवर्णनेन धेनोरेव स्तुतिः संपद्यत इत्येतद्दर्शयति -
“यस्ते स्तनः शशय इत्याह । स्तौत्येवैनाम् ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १०)
घर्मायेत्येतच्चतुर्थ्यन्तस्य तात्पर्यं दर्शयति -
“उस्र घर्मँ शिँषोस्र घर्मं पाहि घर्माय शिँषेत्याह । यथा ब्रूयादमुष्मै देहीति । तादृगेव तत् ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ११)
लोके हि बालपुत्रार्थं क्षीरं देहीति गृहस्वामिनं बालस्य माता याचते तद्वदिदं द्रष्टव्यम् ।
बृहस्पतिशब्दतात्पर्यं दर्शयति -
“बृहस्पतिस्त्वोपसीदत्वित्याह (३) । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १२)
देवानां मध्ये बृदस्पतेः परब्रह्मरूपत्वात्तेनैवोपसदनं कृतं भवति ।
पानयोग्यत्वकथनेन शुद्धिः सूचितेत्येतद्दर्शयति -
“दानवः स्थ पेरव इत्याह । मेध्यानैवैनान्करोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १३)
विष्वग्वृत इत्यनेन क्षीरस्य रक्ताद्व्यावृत्तिर्विवक्षितेति दर्शयति -
“विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १४)
प्रभूतदातृत्वं धेनोः प्रसिद्धमित्येतद्दर्शयति -
“अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १५)
बृहस्पत्यादिवदिन्द्रस्य संबन्धमात्रेण परितोषो न भवति किन्तु हविर्भागोऽप्यस्तीत्येतद्दर्शयति -
“इन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेत्याह । इन्द्रमेव भागधेयेन समर्धयति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १६)
भागाधिक्येनेन्द्रमन्त्रावृत्तिं दर्शयति -
“द्विरिन्द्रायेत्याह (४) । तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १७)
एतन्मन्त्रसाध्यमादानं विधत्ते -
“गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमानादत्ते । छन्दोभिरेवैनानादत्ते ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १८)
गायत्रादिशब्दप्रयोगेण च्छन्दोभिरादानं सिध्यति ।
एतन्मन्त्रबलेनोर्जो रसस्य भागः संपादितो भवतीति दर्शयति -
“सहोर्जो भागेनोप मेहीत्याह । ऊर्ज एवैनं भागमकः ।” इति । (प्रपा० ५ । अनु० ७ । विभा० १९)
अस्मिन्मन्त्र इन्द्रशब्देन सहाश्विशब्दस्य प्रयोगाभिप्रायं दर्शयति -
“अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूताम् । आवाभ्यामेव पूर्वाभ्यां वषट्क्रियाता इति । इन्द्राश्विना मधुनः सारघस्येत्याह । अश्विभ्यामेव पूर्वाभ्यां वषट्करोति । अथो अश्विनावेव भागधेयेन समर्धयति (५) ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २०)
धनुष ऊर्ध्वकोट्या छिन्नमेतद्यज्ञस्य शिरः पुनस्तद्देहे प्रतिदधतावश्विनौ तस्मिन्काल इदं वचनमब्रूताम् । पूर्वभाविभ्यामावाभ्यामेव वषट्कारेण हविः प्रदातव्यमिति । अतस्ताभ्यां प्रार्थितत्वादश्विनाविति मन्त्र उच्यते । तेनैताभ्यां प्रथमतो हविर्दत्तं भवति । अपि च पूर्वं भागरहितावश्विनाविदानीं भागेन समृद्धं(द्धौ) करोति । शिरःप्रतिधानवेलायामितरदेवान्प्रति पूर्वाभ्यामिति वरस्य वृतत्वाद्देवान्तरापेक्षयाऽश्विनोः पूर्वत्वमतो नान्येभ्यो देवेभ्यो घर्मो दीयते किन्त्विन्द्रसहिताश्विभ्यामेव । मन्त्रस्योत्तरभागे वसुशब्देन वसूनामपि भागसिद्धिं दर्शयति -
“घर्मं पात वससो यजता वडित्याह । वसूनेव भागधेयेन समर्धयति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २१)
अत्र मीमांसया वषट्शब्दं(वट्शब्दं) प्रशंसति-
“यद्वषट्कुर्यात् । यातयामाऽस्य वषट्कारः स्यात् । यन्न वषट्कुर्यात् । रक्षाँसि यज्ञँ हन्युः । वडित्याह । परोक्षमेव वषट्करोति । नास्य यातयामा वषट्कारो भवति । न यज्ञँ रक्षाँसि घ्नन्ति (६) ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २२)
अत्रेदं विचार्यते - वषट्शब्दः प्रयोक्तव्यो न वेति । तत्प्रयोगे सतीदानीमेव गतसारत्वात्सोमयागे भविष्यति वषट्कारो निःसारो भवेत् । तदप्रयोगे वज्रो वै वषट्कार इति श्रुतस्य वज्रस्याभावाद्रक्षांसि यज्ञं विनाशयेयुः । अत उभयदोषपरिहाराय द्वितीयाक्षरं परित्यज्य वडित्येव प्रयोक्तव्यम् । तथा सति संपूर्णत्वाभावात्प्रत्यक्षो वषट्कारो न भवति । ततः संपूर्णवषट्कारो न गतसारः, एकदेशस्यापि विद्यमानत्वाद्वज्रसद्भावेन रक्षांस्यपि यज्ञं न विनाशयन्ति ।
सूर्यायेत्यनुक्त्वा रश्मय इत्युक्तेस्तात्पर्यं दर्शयति -
“स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुण्यो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २३)
सूर्यो न साक्षाद्वृष्टिं प्रयच्छति किं तु पुण्यरश्मिद्वाराऽतः साक्षाद्रश्मय एव वृष्टिप्रदानायाऽऽहुतिर्युक्ता ।
स्वादु कर्तुं मधुशब्दप्रयोग इति दर्शयति -
“मधु हविरसीत्याह । स्वदयत्येवैनम् ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २४)
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“सूर्यस्य तपस्तपेत्याह । यथायजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २५)
मन्त्रबलाद्द्यावापृथिवीपरिग्रहः सिध्यतीति दर्शयति -
“द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्याह । द्यावापृथिवीभ्यामेवैनं परिगृह्णाति (७) ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २६)
मन्त्रबलादन्तरिक्षदेवतासाहाय्यं सिध्यतीति दर्शयति -
“अन्तरिक्षेण त्वोपयच्छामीत्याह । अन्तरिक्षेणैवैनमुपयच्छति । न वा एतं मनुष्यो भर्तुमर्हति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २७)
एतत्पाठेनोभयानुमतिसिद्धिं दर्शयति -
“देवानां त्वा पितृणामनुमतो भर्तुँ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आदत्ते ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २८)
मन्त्रस्य पूर्वभागे तेजोऽनुप्रेहीत्यस्य तात्पर्यं दर्शयति -
“वि वा एनमेतदर्धयन्ति । यत्पश्चात्प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनुप्रेहीत्याह । तेज एवास्मिन्दधाति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० २९)
आहवनीयस्य पश्चिमभागे गार्हपत्यस्योत्तरदेशे प्रवर्ग्यं कृत्वा पुरः पूर्वस्यां दिश्याहवनीये जुह्वतीति यदस्ति एतेनैनं प्रवर्ग्यं (व्यर्धयन्ति) समृद्धिरहितं कुर्वन्ति । प्रवृञ्जनेनैव तेजसो गतत्वात् । अतस्तेजोऽनुप्रेहीत्युक्त्या द्रव्ये तेजः संपादितं भवति । मध्यमभागस्याहिंसापरत्वं दर्शयति -
“दिविस्पृङ्मा मा हिँसीरन्तरिक्षस्पृङ्मा मा हिँसीः पृथिविस्पृङ्मा मा हिँसीरित्याहाहिँसायै (८) ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३०)
तृतीयभागस्याऽऽशीःपरत्वं दर्शयति -
“सुवरसि सुवर्मे यच्छ दिवं यच्च दिवो मा पाहीत्याह । आशिषमेवैतामाशास्ते ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३१)
एतैर्मन्त्रैः साध्यं वातनामकथनं विधत्ते -
“शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्येव यज्ञस्य शिरः प्रतिदधाति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३२)
आहवनीयं प्रति नेतुं प्रवर्ग्यमुद्यत्य वातनामकथनेन वायोरात्मत्वादात्मन्येव यज्ञस्य शिरः प्रतिहितो(तं) भवति । तत्कथनमध्ये श्वासं वारयति -
“अनवानम् । प्राणानाँ संतत्यै ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३३)
अवानं श्वासः स यथा न भवति तथा पठेत् । तच्च प्राणानामविच्छेदाय भवति । मन्त्रसंख्यां विधत्ते -
“पञ्चाऽऽह । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३४)
धानाकरम्भादिहविष्पञ्चकयोगेन यज्ञः पाङ्क्तः । स च यावानस्ति तस्य सर्वस्य शिरो नामपञ्चकेन प्रतिहितं भवति । उत्तरपञ्चकस्य प्रथममन्त्रेऽग्निशब्देनाऽऽदित्यो विवक्षित इति दर्शयति -
“अग्नये त्वा वसुमते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३५)
हविष्प्रक्षेपाभावेऽपि स्वाहाशब्दप्रयोगमात्रेण जुहोतीत्युच्यते । द्वितीयमन्त्रादौ सोमादिशब्दैः प्रसिद्धार्थतामेव विवक्षितां दर्शयति -
“सोमाय त्वा रुद्रवते स्वाहेत्याह । चन्द्रमा वै सोमो रुद्रवान् । तस्मा एवैनं जुहोति । वरुणाय त्वाऽऽदित्यवते स्वाहेत्याह (१०) । अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३६)
अनन्तरमन्त्रे सवितृशब्देन संवत्सरस्य विवक्षां दर्शयति -
“सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संवत्सरो वै सवितर्भुमान्विभुमान्प्रभुमान्वाजवान् । तस्मा एवैनं जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३७)
अनन्तरमन्त्रे यमशब्देन प्राणस्य विवक्षां दर्शयति -
“यमाय त्वाऽङ्गिरसे पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिरस्वान्पितृमान् (११) । तस्मा एवैनं जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३८)
वातानां मन्त्रानुपसंहरति -
“एताभ्य एवैनं देवताभ्यो जुहोति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ३९)
समुद्रादिभ्यो यमान्तेभ्यस्त्रयोदशमन्त्रोक्ताभ्यो देवताभ्यो होमः कृतो भवति । अनुष्ठेयमन्त्रसंख्यां प्रशंसति -
“दश संपद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ४०)
त्रयोदशसु त्रयाणां विकल्पार्थत्वेन पूर्वपञ्चकमुत्तरपञ्चकं चेत्येवमनुष्ठेयमन्त्राणां दशत्वसंपत्तिः, अतो विराजाऽन्नप्राप्तिः । अथ रौहिणपुरोडाशौ विधत्ते -
“रौहिणाभ्यां वै देवाः सुवर्गं लोकमायन् । तद्रौहिणयो रौहिणत्वम् । यद्रौहिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति ।” इति । (प्रपा० ५ । अनु० ७ । विभा० ४१)
स्वर्ग(र्गे) रोहत्याभ्यां पुरोडाशाभ्यामिति रौहिणौ ताभ्यां स्वर्गप्राप्तिः । रौहिणपुरोडाशयोर्दक्षिणोत्तरयोरपि होममन्त्रावुत्तरानुवाक आम्नास्यमानावपि पुरोडाशविधिप्रसङ्गादिहैवोपहृत्य व्याख्यास्ये(ये)ते -
“अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा रात्रिर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिर्जुषताँ स्वाहेत्याह । आदित्यमेव तदमुष्मिंल्लोकेऽह्ना परस्ताद्दधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिंल्लोकेऽहोरात्राभ्यां धृतः ॥” इति । (प्रपा० ५ । अनु० ७ । विभा० ४२)
॥ मनुष्यनामानि पशवः सीदत्वित्याहेन्द्रायेत्याहार्धयति घ्नन्ति गृह्णात्याहिँसायै पञ्चाऽऽहाऽऽदित्यवते स्वाहेत्याह पितृमानेति चत्वारि च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥७॥उक्तार्थपरत्वं मन्त्रस्य दर्शयति -
“विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान्प्रीणाति । अथो दुरिष्ट्या एवैनं पाति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १)
अनेन मन्त्रेण देवप्रीतिर्भवति । यागे संभावितदोषाच्च यजमानं पालयति ।
अयाट्शब्देन सर्वदेवानां भागसमृद्धिं दर्शयति -
“विश्वान्देवानयाडिहेत्याह । विश्वानेव देवान्भागधेयेन समर्धयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २)
मन्त्रस्य पूर्वभागेणाश्विनोर्भागसमृद्धिं दर्शयति -
“स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्याह । अश्विनावेव भागधेयेन समर्धयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ३)
उत्तरभागे स्वाहेत्युच्चारेण प्रवर्ग्येऽभिघारणं हविष्ट्वं च संपद्यत इति दर्शयति -
“स्वाहाऽग्नये यज्ञियाय शं यजुर्भिरित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः (१) ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ४)
अश्विना घर्मं पातमित्युक्त्या तयोर्भागसमृद्धिं दर्शयति -
“अश्विना घर्मं पातँ हार्दिवानमहर्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्धयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ५)
अनुमँसातामिति पदेन द्यावापृथिव्योरनुज्ञा प्रार्थ्यत इति दर्शयति -
“अनु वां द्यावापृथिवी मँसातामित्याहानुमत्यै ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ६)
चतुर्थ्यन्तस्येन्द्रशब्दस्य प्रथमतः प्रयोगे कारणं दर्शयति -
“स्वाहेन्द्राय स्वाहेन्द्रा वडित्याह । इन्द्राय हि पुरो हूयते ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ७)
यस्मात्प्रधानदेवतारूपायेन्द्राय प्रथमत आहुतिः पश्चात्स्विष्टकृद्देवताया आहुतिर्युक्ता, तस्मादिन्द्रायेति मुख्यदेवताविवक्षया प्रथमप्रयोगः । अत्रानुष्ठनक्रमं विधत्ते -
“आश्राव्याऽऽह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनुयजति स्वगाकृत्यै ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ८)
प्रथममाश्रावणं कृत्वा ततो घर्मस्य यजेति ब्रूयात् । हे होतर्घर्मस्य प्रवर्ग्यस्यानुष्ठानार्थं यज याज्यां पठ । एवं प्रैषमुक्त्वा ततो होत्रा याज्यापाठेन वषट्कृते सत्यश्विना घर्ममित्यनेन मन्त्रेण जुहुयात् । एतच्च रक्षसामपघाताय भवति । ततोऽनुवषट्कारे होत्रा प्रयुक्ते सति स्वाहेन्द्रा वडिति मन्त्रेण यजेत् । तच्च स्वगाकृत्यै स्वाधीनकरणायोपयुज्यते ।
होममन्त्रेण सहोपस्थानमन्त्रस्य समानार्थतां दर्शयति -
“घर्ममपातमश्विनेत्याह (२) । पूर्वमेवोदितम् । उत्तरेणाभिगृणाति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ९)
अमँसातामित्यस्यातीतार्थवाचिशब्दस्य सिद्धानुज्ञापरत्वं दर्शयति -
“अनु वां द्यावापृथिवी अमँसातामित्याहानुमत्यै ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १०)
अनन्तरमन्त्रभागस्य स्पष्टार्थतां दर्शयति -
“तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ८ । विभा० ११)
हविषः स्वर्गप्राप्तिपरत्वमनन्तरभागस्य दर्शयति -
“तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत् ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १२)
दिवं गच्छेति प्रार्थनाया हविषो लोकत्रयप्रतिष्ठापनार्थतां दर्शयति -
“दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रतिष्ठापयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १३)
अथोत्तरवाक्याणां सर्वदिक्षु देवेषु पितृषु च हविषः प्रतिष्ठापनार्थतां दर्शयति -
“पञ्च प्रदिशो गच्छेत्याह (3) । दिक्ष्वेवैनं प्रतिष्ठापयति । देवान्घर्मपान्गच्छ । पितॄन्घर्मपान्गच्छेत्याह । उभयेष्वेवैनं प्रतिष्ठापयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १४)
एतस्याभिवृद्धेर्मन्त्रोक्ताया वृष्टिहेतुत्वं दर्शयति -
“यत्पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात्पिन्वमानः पुण्यः ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १५)
पिन्वते वर्धते पात्रस्योपर्युद्गच्छतीत्यर्थः । हविष उद्गमनं दिग्विशेषेण प्रशंसति -
“यत्प्राङ्पिन्वते । तद्देवानाम् । यद्दक्षिणा । तत्पितृणाम् (४) । यत्प्रत्यक् । तन्मनुष्याणाम् । यदुदङ्ङ् । तद्रुद्राणाम् ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १६)
इत्थमभिवृद्धिं प्रशस्य प्रागुदग्दिशोः संधौ क्षरणं विधत्ते -
“प्राञ्चमुदञ्चं पिन्वयति । देवत्राऽकः ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १७)
प्रागुदङ्मध्यवर्तिनमेतं प्रवर्ग्यमिष्टं पिन्वयति, अभिवृद्धं कुर्यात् । महावीरमध्ये तस्मिन्प्रदेशे दधिप्रक्षेपेणाभिवर्धयेत् । तेन देवत्रा देवेष्वकरेतं प्रवर्ग्यं करोति । पक्षान्तरं विधत्ते -
“अथो खलु । सर्वा अनुदिशः पिन्वयति । सर्वा दिशः समेधन्ते ।” इति (प्रपा० ५ । अनु० ८ । विभा० १८)
पात्रमध्ये सर्वा दिशोऽनुलक्ष्य दधिप्रक्षेपेण तद्धविरुद्गमयेत् । तेन सर्वा अपि दिशः सम्यग्वर्धन्ते । पात्रादुद्गतस्य हविषः परिधिभ्यो बहिर्देशे पतनं वारयितुं विधत्ते -
“अन्तःपरिधि पिन्वयति (५) । तेजसोऽस्कन्दाय ।” इति । (प्रपा० ५ । अनु० ८ । विभा० १९)
परिधीनामन्तरेव यथा पतति तथाऽभिवर्धयेत् । तथा सत्यविनाशितं तेजो भवति । मन्त्रेषु चतुर्थीविभक्तेस्तात्पर्यं दर्शयति -
“इषे पीपिह्यूर्जे पीपिहीत्याह । इषमेवोर्जं यजमाने दधाति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २०)
उत्तरमन्त्रेष्वप्येतदनुसंधेयम् । सर्वेषां यजमानार्थत्वे समाने सति पुनर्यजमानायेत्युक्तेस्तात्पर्यमाह -
“यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमाशास्ते ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २१)
यजमानस्य फलान्तरानुशासनायेयमुक्तिरित्यर्थः । अध्वर्योः स्वार्थं मह्यमित्युक्तिरिति दर्शयति -
“मह्यं ज्यैष्ठ्याय पीपिहीत्याह । आत्मन एवैतामाशिषमाशास्ते ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २२)
मन्त्रस्य स्पष्टार्थतां दर्शयति -
“त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्यै त्वेत्याह । यथा यजुरेवै तत् ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २३)
मन्त्रपाठेन ब्राह्मणजात्युचिते कर्मणि यजमानस्य स्थापनं दर्शयति -
“धर्माऽसि सुधर्मा मे न्यस्मे ब्रह्माणि धारयेत्याह (६) । ब्रह्मन्नेवैनं प्रतिष्ठापयति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २४)
मन्त्रशेषस्य निगदव्याख्यातत्वमभिप्रेत्य तत्स्वरूपमात्रमुपदर्शयति -
“नेत्त्वा वातः स्कन्दयादिति ।” इति । (प्रपा० ५ । अनु० ८ । विभा० २५) ब्राह्मणादिविषयेषु मन्त्रत्रयेष्वनुषङ्गद्योतनाय पृथगुपदर्शनम् । अनेन मन्त्रेणाभिचारप्रयोगं विधत्ते -
“यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनँ सह निरर्थं गमयति ।” इति ।
यं शत्रुं यजमानो द्विष्यात्, शत्रुश्च यमेव यजमानं द्वेष्टि, ऐनं द्वेष्यं द्वेष्टारं चेत्युभयविधं शत्रुं स यजमानस्तेन महावीरेण सह निरर्थं पुरुषार्थाभावं प्रापयति ।
प्रथममन्त्रे पूषञ्श(श)ब्देन बहुदेवताविवक्षां दर्शयति -
“पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति ।” इति ।
द्विविधा हि देवता हुतभागा अहुतभागाश्चेति । तथा चान्यत्राऽऽम्नातम् - “हुतादो वा अन्ये देवा अहुतादोऽन्ये” इति । तासु हुतभागाः सर्वा अप्यत्रोपलक्षितास्ताभ्यः सर्वाभ्य एनमुक्तं शकलं जुहोति । ग्रावशब्देन तज्जन्यध्वनिविवक्षां दर्शयति -
“ग्रावभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः (७) । ताभ्य एवैनं जुहोति ।” इति । प्रतिरशब्देन प्राणविवक्षां दर्शयति -
“प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति ।” इति ।
द्यावापृथिवीशब्देन मुख्यार्थविवक्षां दर्शयति -
“द्यावापृथिवीभ्याँ स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति ।” इति ।
घर्मपेभ्य इति विशेष्येण(षणेन) सोमयागं कृत्वा पितृलोकगतानां पितॄणां विवक्षां दर्शयति -
“पितृभ्यो घर्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मपाः । तेभ्य एवैनं जुहोति ।” इति ।
यज्वनां स्वकीययागकाले प्रवर्ग्यपानमस्तीति ते घर्मपाः ।
अनेन मुख्यरुद्रस्य भागसमृद्धिं दर्शयति -
रुद्राय रुद्रहोत्रे स्वाहेत्याह । रुद्रमेव भागधेयेन समर्धयति ।" इति । अस्य शकलस्याऽऽज्यपयःपिष्टलेपेषु सर्वेष्वञ्जनं विधत्ते -
“सर्वतः समनक्ति । सर्वत एव रुद्रं निरवदयते ।” इति ।
सर्वाञ्जनेन क्रूरदेवस्य रुद्रस्य सर्वतोऽपसारणं कृतं भवति । शकलपरित्यागस्य दिग्विशेषं विधत्ते -
“उदञ्चं निरस्यति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते ।” इति ।
ऐशान्याः समीपे वर्तत इत्युदीच्यपि रुद्रस्य दिग्भवति । हस्तेन जलस्पर्शनं विधत्ते -
“अप उपस्पृशति मेध्यत्वाय ।” इति ।
रुद्रार्थशकलस्पर्शेन यज्ञयोग्यत्वं विनष्टं पुनर्जलस्पर्शनेन तद्योग्यता संपद्यते । शकलपरित्यागकाले तद्दर्शनं निषेधति -
“नान्वीक्षेत । यदन्वीक्षेत (९) । चक्षुरस्य प्रमायुकँ स्यात् । तस्मान्नान्वीक्ष्यः ।” इति ।
प्रमायुकं विनश्वरम् ।
मन्त्रद्वयेऽपि यजमानस्याऽऽयुर्वर्चःप्राप्तिं दर्शयति -
“अपीपरो माऽह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वाऽऽयुर्मे दा वर्चसा माऽऽञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अपीपरो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समित्तया समिध्यस्वाऽऽयुर्मे दा वर्चसा माऽऽञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति ।” इति ।
स्पष्टार्थतां दर्शयति -
“अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्याह । यथायजुरेवैतत् ।” इति ।
अत्र मीमांसया भूः स्वाहेति मन्त्रं प्रथमप्रवर्ग्यकालीनाग्निहोत्रविषयत्वेन व्यवस्थापयति -
“ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्राँ३ न होतव्या३मिति (१०) । यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः पराभवेत् । भूः स्वाहेत्येव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः पराभवति ।” इति ।
अत्र प्रथमप्रवर्ग्ये प्रातःकालीने तदीयद्रव्येणाग्निहोत्रं जुहुयान्न वेति विचारः । होमपक्षे प्रथमाम्नातेनाग्निर्ज्योतिरिति मन्त्रेण होतव्यम् । स च मन्त्रो नित्याग्निहोत्रे सायंकालीनः, अतो यथापूर्वमनुष्ठानं न स्यात् । अहोमपक्षे त्वाहुत्यभावादग्निः क्षुधया पराभूतो भवेत् । अतो दोषद्वयपरिहाराय भूः स्वाहेति मन्त्रेण प्रथमप्रवर्ग्यकाले जुहुयात् । ततः सायमग्निर्ज्योतिरिति मन्त्रः । परेद्युः प्रातः सूर्यो ज्योतिरिति मन्त्रः । एवं सति यथापूर्वं नित्याग्निहोत्रवदेवेमा आहुतीर्जुहोति । अग्निश्चाहुतिसद्भावान्न पराभवति ।
मधुशब्देन स्वादुत्वं विवक्षितमिति दर्शयति -
“हुतँ हविर्मधु हविरित्याह । स्वदयत्येवैनम् ।” इति ।
अग्निशब्देन प्राणविवक्षां दर्शयति -
“इन्द्रतमेऽग्नावित्याह (११) । प्राणो वा इन्द्रतमोऽग्निः । प्राण एवैनमिन्द्रतमेऽग्नौ जुहोति ।” इति ।
मा मा हिँसीरिति प्रार्थनायाः क्षरणादिहिंसापरिहारार्थत्वं दर्शयति -
“पिता नोऽसि मा मा हिँसीरित्याहाहिँसायै ।” इति ।
अश्यामेत्यस्य लिङ्प्रत्ययस्याऽऽशीरर्थविवक्षां दर्शयति -
“अश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामाशास्ते ।” इति ।
मा मा हिंसीरित्यनेन देवताशरीरभक्षणप्रयुक्तहिंसानिवारणविवक्षां दर्शयति -
“स्वधाविनोऽशीमहि त्वा मा मा हिँसीरित्याहाहिँसायै ।” इति ।
उक्तमन्त्रसाध्यं भक्षणं विधत्ते -
“तेजसा वा एते व्यृध्यन्ते । ये प्रवर्ग्येण चरन्ति । प्राश्नन्ति । तेज एवाऽऽत्मन्दधते (१२) ।” इति ।
प्रवर्ग्यप्रचरणप्रयासेन क्षीणा शक्तिर्हविर्भक्षणेन समाहिता भवति । नियमान्विधत्ते -
“संवत्सरं न माँ समश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्सँश्यति ।” इति ।
प्रवर्ग्यानुष्ठायी संवत्सरमात्रं मांसं न भक्षयेत् । स्त्रियं नोपेयात् । मृन्मयेन कारकादिना जलं न पिबेत् । अस्य यजमानस्योच्छिष्टं रामो रमणीयः पुत्रो न पिबेत् । तत्तेन नियमेन स्वकीयं तेज एव सम्यक्तीक्ष्णीकरोति । यथोक्तं संवत्सरमांसवर्जनादिव्रतं प्रशंसति -
“देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सन्यदधत । यत्किञ्च दिवाकीर्त्यम् । तदेतेनैव व्रतेनागोपायत् । तस्मादेतद्व्रतं चार्यम् । तेजसो गोपीथाय । तस्मादेतानि यजूँषि विभ्राजः सौर्यस्येत्याहुः ।” इति ।
देवाश्चासुराश्च यदा परस्परं योद्धुं संनद्धा आसंस्तदानीं ते देवा विजयं प्राप्तुमिच्छन्तः सूर्यस्य पुत्रे विभ्राण्नामके देवे ब्रह्म वेदजातं सम्यङ्निहितवन्तः । स च विभ्राड्देवो वेदे यत्किञ्चिद्दिवाकीर्त्यमहन्येव पठनीयमनुवाकजातमस्ति, तत्सर्वमेतेन पूर्वोक्तनिरूपणेनैव व्रतेन युक्तो रक्षितवान्, तस्मात्कारणाद्दिवाकीर्त्येन प्रवर्ग्याध्यायेनानुष्ठानं कुर्वता पुरुषेण पूर्वोक्तमेतद्व्रतं चरणीयम् । यस्माद्विभ्राण्नामको देवो दिवाकीर्त्यानि नमो वाचे या चोदितेत्यादीनि यजूंषि रक्षितवान्, तस्मादेतानि यजूंषि सूर्यपुत्रस्य विभ्राड्देवस्य संबन्धीनीत्येवमभिज्ञाः कथयन्ति । तदीयानुष्ठाने तेजोरक्षणार्थं व्रतचरणम् ।
एतन्मन्त्रद्वयसाध्यं घर्मपात्रसाधनं विधत्ते -
“स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सँसादयति । स्वाहा त्वा नक्षत्रेभ्य इति सायम् । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति ॥” (१३) इति ।
॥ अकरश्विनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिधि पिन्वयति धारयेत्याह वाचो घर्मपास्तेभ्य एवैनं जुहोत्यन्वीक्षेत होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥८॥एतन्मन्त्रसाध्यं होमं विधत्ते -
“घर्म या ते दिवि शुगिति तिस्र आहुतीर्जुहोति । छन्दोभिरेवास्यैभ्यो लोकेभ्यः शुचमवजयते ।” इति ।
अस्य घर्मस्य संबन्धिनीं शुचं छन्दोदेवताभिरेव सहायभूताभिर्लोकत्रयादपनयति । प्रदीप्यमानस्य शलाकामुष्टेर्धारणे क्रमेण मुखनाभिजानुप्रमाणानि हस्तेनाभिनीय विधत्ते -
“इयत्यग्रे जुहोति । अथेयत्यथेयति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यः शुचमवजयते ।” इति ।
अग्रे प्रथममियत्यास्यदघ्ने देशे(धारयित्वा) जुहोति । अथानन्तरमियति नाभिदघ्ने देशे धारयित्वा जुहोति । अथानन्तरमियति जानुदघ्ने देशे धारयित्वा जुहोति । एते च त्रयो देशा लोकत्रयरूपाः, अतो लोकेभ्यः शुचं निराकरोति । कल्पः - “आहवनीय एवैनमनुप्रहरत्यनु नोऽद्यानुमतिरिति परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयत्यन्विदनुमते त्वम्” इति । अनु नो द्यानुमतिरित्येकस्या ऋचः प्रतीकम् । अन्विदनुमते त्वमित्यपरस्या ऋचः प्रतीकम् । एते ऋचाविदं वामास्ये हविरित्यनुवाके व्याख्याते । अनयोर्देवतानुरूपतां दर्शयति -
“अनु नोऽद्यानुमतिरित्याहानुमत्यै ।” इति ।
अस्य मन्त्रस्य लोकत्रयधारणे तात्पर्यं दर्शयति -
“दिवस्त्वा परस्पाया इत्याह । दिव एवेमाल्ँ लोकान्दधार ।” इति । दिवो द्युलोकदेवताया रक्षणेन लोकत्रयं धृतं भवतीत्यर्थः । लोकविषयमन्त्रानन्तरं ब्राह्मणादिजातिविषयमन्त्रेण लोकेषु प्रजानां धारणं सिध्यतीति दर्शयति -
“ब्रह्मणस्त्वा परस्पाया इत्याह (१) । एष्वेव लोकेषु प्रजा दधार ।” इति ।
ब्रह्मक्षत्त्रादिप्रजाविषया(य)(मन्त्रा)नन्तरं प्राणचक्षुरादिविषयमन्त्रेण प्रजासु प्राणधारणसिद्धिं दर्शयति -
“प्राणस्य त्वा परस्पाया इत्याह । प्रजास्वेव प्राणान्दधार ।” इति ।
प्रवर्ग्यस्य पूर्वदिश्युद्वासनं विधत्ते -
“शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत् । जिह्मं यज्ञस्य शिरो हरेत् । प्राञ्चमुद्वासयति । पुरस्तादेव यज्ञस्य शिरः प्रतिदधाति (२) । प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति ।” इति ।
प्रवर्ग्यस्य यज्ञशिरोरूपस्य दक्षिणादिषु तिसृषु दिक्षूद्वासने सति शिरो जिह्मं कुटिलं यथा भवति तथा हृतं स्यात् । अतः पुरस्तादेवाऽऽर्जवेन यज्ञशिरःप्रतिधानाय प्रवर्ग्यं प्राङ्मुखमेवोद्वासयेत् । किंच प्रवर्ग्यस्याऽऽदित्यरूपत्वादादित्यस्य च पुरस्तादेवोदयात्प्रागुद्वासनं युक्तम् । शफादीनां तत्र नयनं विधत्ते -
“शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनँ सतनुं करोति ।” इति ।
तप्तस्य महावीरस्य हस्तेन स्प्रष्टुमशक्यत्वात्तद्धारणार्थौ काष्ठविशेषौ शफौ । उपयमः पात्रविशेषः । धृष्टी अङ्गारनिर्हरणाद्यर्थौ साधनविशेषौ । साधनान्तराणामप्युपदर्शनार्थ इति शब्दः । एतानि सर्वाण्यपि महावीरमनुप्रवर्ग्योद्वासनदेशे हरेयुः । तेनैनं प्रवर्ग्यमात्मसहितं शरीरसहितं करोति । एतद्वेदनं प्रशंसति -
“सात्माऽमुष्मिल्ँ लोके भवति । य एवं वेद ।” इति ।
साधनानां कारणं वृक्षविशेषं विधत्ते -
“औदुम्बराणि भवन्ति । ऊर्ग्वा उदुम्बरः । ऊर्जमेवावरुन्धे ।” इति ।
उदुम्बरफलस्य भक्ष्यत्वेनोर्ग्रूपत्वात्तद्वृक्षेणोर्क्प्राप्तिः । गमनकाले साधनीभूतं सामगानं विधत्ते -
“वर्त्मना वा अन्वित्य (३) । यज्ञँ रक्षाँसि जिघाँसन्ति । साम्ना प्रस्तोताऽन्ववैति । साम वै रक्षोहा । रक्षसामपहत्यै ।” इति ।
गमनवेलायां प्रस्तोतुं सामगानेन सहितः प्रस्तोता तान्सर्वाननुगच्छेत् । साम्नो रक्षोघ्नत्वात्तद्गानं रक्षोपघाताय भवति । यदुक्तं सूत्रकारेण - “सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्त्यर्धाध्वे द्वितीयं प्राप्यापरेणोत्तरवेदिं तृतीयम्” इति । तदिदं विधास्यन्नादौ प्रस्तोतुर्निधनावृत्तिं विधत्ते -
“त्रिर्निधनमुपैति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति ।” इति ।
पञ्चभागयुक्तस्य साम्नश्चरमो भागो निधनं तत्त्रिवारं पठेत् । तेन लोकत्रयाद्रक्षसामपहतिर्भवति । पत्नीसहितानां सर्वेषां प्रस्तोतृनिधनभागोच्चारणं विधत्ते -
“पुरुषः पुरुषो निधनमुपैति । पुरुषः पुरषो हि रक्षस्वी । रक्षसामपहत्यै (४) ।” इति ।
सर्वेष्वपि पुरुषेषु बाधकानि रक्षांस्यनुगच्छन्ति, अतः सर्वोऽपि पुरुषो रक्षस्वी । निधनपाठेन तानि रक्षांस्यपहन्यन्ते । उद्वासनदेशे हिरण्यस्थापनं विधत्ते -
“यत्पृथिव्यामुद्वासयेत् । पृथिवीँ शुचाऽर्पयेत् । यदप्सु । अपः शुचाऽर्पयेत् । यदोषधीषु । ओषधीः शुचाऽर्पयेत् । यद्वनस्पतिषु । वनस्पतीञ्छुचाऽर्पयेत् । हिरण्यं निधायोद्वासयति । अमृतं वै हिरण्यम् (५) । अमृत एवैनं प्रतिष्ठापयति ।” इति ।
प्रवर्ग्यस्य दाहकत्वात्पृथिव्यादीनां दाहो मा भूदिति हिरण्ये तदुद्वासनम् । अग्निसंयोगेऽपि विनाशाभावाद्धिरण्यममृतम् । अतस्तत्रैव प्रवर्ग्यं प्रतिष्ठापयति ।
एतन्मन्त्रसाध्यं परिषेचनं विधत्ते -
“वल्गुरसि शंयुधाया इति त्रिः परिषिञ्चन्पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचँ शमयति ।” इति ।
आहवनीयादिरूपेणाग्नेस्त्रिगुणत्वात्त्रिवारपरिषेचनेन सर्वस्याग्नेः शोकः शाम्यति ।
एतन्मन्त्रसाध्यां प्रदक्षिणावृत्तिं विधत्ते -
“त्रिः पुनः पर्येति । षट्सम्पद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवास्य शुचँ शमयति ।” इति । त्रीणि प्रदक्षिणानि त्रीण्यप्रदक्षिणानीति षट्सम्पत्तिः ।
मन्त्रस्य भूमिनाभिपरत्वं दर्शयति -
“चतुःस्रक्तिर्नाभिर्ऋतस्येत्याह (६) । इयं वा ऋतम् । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह ।” इति ।
प्रवर्ग्यहोमाधारत्वादुत्तरवेदिः प्रवर्ग्य इत्युच्यते ।
सदःशब्देन भूमिविवक्षां दर्शयति -
“सदो विश्वायुरित्याह । सदो हीयम् ।” इति ।
अनेन मन्त्रेण शत्रुनिराकरणं दर्शयति -
“अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै ।” इति ।
एतन्मन्त्रसाध्यं पूरणं विधत्ते -
“घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति (७) ।” इति ।
ऊर्क्शब्देन स्वादुत्वमुच्यते । अन्नाद्यशब्देनोदरपूर्तिहेतुत्वम् । वेदनं प्रशंसति -
“अनशनायुको भवति । य एवं वेद ।” इति ।
अनशनेच्छाशीलोऽशनायुको दरिद्रः । अनशनायुकस्तृप्तः ।
मन्त्राक्षरैः प्रवर्ग्यमहिम्नः स्पष्टप्रतिभानं दर्शयति -
“रन्तिर्नामासि दिव्यो गन्धर्व इत्याह । रूपमेवास्यै तन्महिमानँ रन्ति बन्धुतां व्याचष्टे ।” इति ।
रन्तिर्बन्धुत्वं रमणहेतुत्वात् । मन्त्रस्य यत्स्वरूपमस्ति रन्त्यादिशब्दोपेतमेतदेव प्रवर्ग्यस्य बन्धुत्वलक्षणं महिमानं प्रकाशयति ।
मन्त्रस्याऽऽशीरर्थतां दर्शयति -
“समहमायुषा सं प्राणेनेत्याह । आशिषमेवैतामाशास्ते ।” इति ।
मन्त्रस्य परविनाशपरत्वेनाभिचाररूपतां दर्शयति -
“व्यसौ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः ।” इति ।
अस्य शत्रोरेष मन्त्रपाठो यजमानेन कृतोऽभिचारः । तेनासौ विनश्यतीत्यर्थः ।
प्रथमपादे विशेषणयोः प्रसिद्धिं दर्शयति -
“अचिक्रदद्वृषा हरिरित्याह । वृषा ह्येषः (८) । वृषा हरिः ।” इति ।
यथा वृषत्वं प्रसिद्धं तथा हरित्वमपीति वक्तुं वृषेति पुनरुक्तिः । द्वितीयपादस्य स्तुतिपरतां दर्शयति -
“महान्मित्रो न दर्शत इत्याह । स्तौत्येवैनमेतत् ।” इति ।
समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति -
“चिदसि समुद्रयोनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति ।
समुद्रादिकं जगत्कर्मरूपां स्वकीयां योनिं प्रापयति । यद्वा समुद्रो योनिर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः । समुद्रसदृशः परमात्मा तस्य कारणम्, ततो मन्त्रपाठेन स्वकीययोनिप्राप्तिः । वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति -
“नमस्ते अस्तु मा मा हिँसीरित्याहाहिँसायै ।” इति ।
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्शयति -
“विश्वावसुँ सोमगन्धर्वमित्याह । यदेवास्य क्रियमाणस्यान्तर्यन्ति । तदेवास्यै तेनाऽऽप्याययति ।” इति ।
अनुष्ठीयमानस्य प्रवर्ग्यस्य यदङ्गमृत्विजोऽन्तर्हितं कुर्वन्ति, तदङ्गमेतेन वृत्तान्तस्मरणेन समृद्धं करोति । गन्धर्वेणाऽऽपादितस्य वैकल्यस्याद्भिरिन्द्रेण च समाहितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तम् ।
पूर्वमन्त्रे यथाऽङ्गवैकल्यसमाधानहेतुत्वं तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति -
“विश्वावसुरभि तन्नो गृणत्वित्याह (९) । पूर्वमेवोदितम् । उत्तरेणाभिगृणाति ।” इति ।
चतुर्थपादे धीरक्षणेनर्तुसमृद्धिर्विवक्षितेति दर्शयति -
“धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति ।” इति ।
ऋतवो यदा स्व स्वकार्यकरास्तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीरक्षणमृतुषु प्रवाहरूपेण प्रवर्तते ।
अत्र जलवाचिनाऽमृतशब्देन मरणरहितानां प्राणानामपि सूचनं दर्शयति -
“प्राऽऽसां गन्धर्वो अमृतानि वोचदित्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति ।” इति ।
अमृतशब्दपाठेन यजमानस्य प्राणान्सुस्थितान्करोति ।
अत्र प्रवर्ग्यस्य देवत्वं सर्वदेवप्रमाणं च प्रसिद्धमित्येतद्दर्शयति -
“एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन्देवानुपैति ।” इति ।
यजमानस्य मनुष्यत्वं मनुष्यप्राप्तिश्च प्रसिद्धेत्येतद्दर्शयति -
“इदमहं मनुष्यो मनुष्यानित्याह (१०) । मनुष्यो हि । एष सन्मनुष्यानुपैति ।” इति ।
सोमपानप्रार्थनायां कारणं दर्शयति -
“ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्सोमपीथमनृद्वासः सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्सोमपीथमात्मन्धत्ते ।” इति ।
यः प्रवर्ग्यमुद्वासयति, असौ तदानीं तं प्रवर्ग्यमनु स्वकीयां प्रजां पुत्रादिकां पशून्गवादीन्सोमपीथं करिष्यमाणं सोमपानं चोद्वास ईश्वर उद्वासयितुं समर्थो भवति । प्रवर्ग्योद्वासनमनु सर्वमिदं नश्यतीत्यर्थः । अतः सोमपीथेत्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि संपादयति । प्रथमपादस्याऽऽशीःपरतां दर्शयति -
“सुमित्रा न आप ओषधयः सन्त्वित्याह । आशिषमेवैतामाशास्ते ।” इति ।
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति -
“दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः ।” इति ।
एतन्मन्त्रसाध्यं होमं विधत्ते -
“प्र वा एषोऽस्माल्लोकाच्यवन्ते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरीभ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आदित्यः सुवर्गो लोकः । यत्सौरी भवतः । तेनैव सुवर्गाल्लोकान्नैति ॥” (११) इति ।
प्रवर्ग्यस्योद्वासनेन स्वयमेवास्माल्लोकाद्भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूपत्वेन तत्र होमे सति स्वयमस्मिल्ँ लोके प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात्सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।
॥ ब्रह्मणस्त्वा परस्पाया इत्याह दधात्यन्वित्य रक्षस्वी रक्षसामपहत्यै वै हिरण्यमाहार्धयति ह्येष गृणात्वित्याह मनुष्यानित्याहास्यैषोऽष्टौ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके नवमोऽनुवाकः ॥९॥शाखान्तरे यानि प्रवर्ग्यसामानि तेषामाधारभूता ये मन्त्रास्तान्विधत्ते -
“प्रजापतिं वै देवा शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरन् । तानि शुक्रयजूँष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः(१)। तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसाऽन्नाद्येन समर्धयन्ति ।” इति ।
पुरा कदाचिद्देवाः सर्वे प्रजापतिं कामधेनुं कृत्वा शुक्रं पयः प्रवर्ग्यरूपं क्षीरं दुग्धवन्तः । तदेकमेव भूत्वा देवेभ्यो न व्यभवत्, बहूनां देवानामर्थे विविधं नाभूत् । अतः सर्वेषां भोगाय न पर्याप्तम् । तदानीमग्निस्तदेकं पयो विविधमकरोत् । तानि विविधानि पयांसि शुक्रियाणि प्रवर्ग्यसंबन्धीनि सामान्यभवन् । तेषां च पयोरूपाणां साम्नां यो रसोऽत्यक्षरत्तेभ्योऽस्रवत्, तानि सामभ्यः स्रुतानि साराणि शुक्रयजूंषि प्रवर्ग्यसंबन्धिनो मन्त्रा आसन् । शुक्रियाणां प्रवर्ग्यसंबन्धिनां साम्नां संबन्धीनि प्रवर्ग्ययोग्याण्येतानि यजूंषि । इत्थं प्रवर्ग्याङ्गमन्त्रोत्पत्तिरुक्ता, अथ द्रव्यमुच्यते - एतयोर्वक्ष्यमाणयोर्द्वयोः पयसोर्मध्येऽन्यदेकं सामपयसं साम्नां प्रियं क्षीरम् । अन्यद्देवानां प्रियम् । तदुभयं विभज्य प्रदर्श्यते - तत्र गव्यं सामदेवतायाः प्रियम् । अजाक्षीरं देवानां प्रियम् । यस्मादेवं मन्त्रोत्पत्तिः क्षीरद्वयं चैतादृशं तस्माद्यत्र कर्मण्येतैर्यजुर्भिः प्रवर्ग्यमन्त्रैश्चरन्त्यनुतिष्ठन्ति, तत्तत्र कर्मणि द्विविधेन पयसा चरन्ति । शुक्रियमन्त्रैः क्षीरद्वयं जुहुयादिति मन्त्रद्रव्यविशिष्टकर्मविधिरयं द्रष्टव्यः । तेन कर्मणा प्रजापतिं देवांश्चान्नसमृद्धान्कुर्वन्ति । तद्वेदनं प्रशंसति -
“एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते ।” इति ।
एवं विदुषः प्रवर्ग्यमाहात्म्यविदो यस्य प्रवर्ग्यम(र्ग्योऽ)नुष्ठीयते स एष साक्षान्मुख्यं प्रवर्ग्यफलमनुभवति । तस्य प्रवर्ग्यस्य काम्यमुद्वासनदेशं विधत्ते -
“उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः(२)। तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति ।” इति । उत्तरवेदेरग्न्याधारत्वाप्रवर्ग्यहविषश्च तत्स्वरूपत्वादुभयोस्तेजस्त्वम् । तमेव देशं फलान्तराय विधत्ते -
“उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखँ संदधात्यन्नाद्याय । अन्नाद एष भवति ।” इति ।
प्रवर्ग्यस्य शिरोरूपत्वादुत्तरवेदेर्मुखत्वात्तत्रास्योद्वासने सत्यन्नं भोक्तुं शिरसा मुखस्य साधनं कृतं भवति । ततोऽयमन्नादो भवत्येव । उत्तरवेद्यामुद्वासनं प्रशंसति -
“यत्र खलु वा एतमुद्वसितं वयाँसि पर्यासते । परि वै ताँ समां प्रजा वयाँस्यासते(३)। तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय ।” इति ।
यत्र यस्मिन्संवत्सरे क्वचिद्देशविशेष उद्वासितमेतं प्रवर्ग्यं वयांसि पक्षिणः पर्यासते परित आगत्योपविशन्ति, तां समां तं संवत्सरं सर्वमपि पक्षिणः प्रजाः पुत्रादीन्पर्यासते पुत्रादिशवदेहेषु प्रविशन्ति, प्रजा म्रियन्त इत्यर्थः । अतस्तेजोऽन्नकामराहित्येऽपि प्रजारक्षणार्थमुत्तरवेद्यामेवोद्वासयेत् । तत्रापि देशविशेषं विकल्पितं विधत्ते -
“पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज्ज्योतिरुदेति । तत्पश्चान्निम्रोचति । स्वामेवैनं योनिमनूद्वासयति ।” इति ।
उत्तरवेदेः पूर्वभागे पश्चिमभागे वा प्रवर्ग्यमुद्वासयेत् । प्रवर्ग्यस्वरूपमिदमादित्यज्योतिः पुरस्तादुदेति पश्चादस्तमेति । ततस्तयोरुभयोरपि तदीयस्थानत्वात्स्वकीयमेव स्थानमनुसृत्योद्वासयति । अन्यं देशविशेषं विधत्ते -
“अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज्ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रतिष्ठापयति(४) ।” इति ।
एतदौर्वविद्युत्स्वरूपं ज्योतिरपां मध्यादजायत । प्रवर्ग्यश्च ज्योतिःस्वरूपः । तस्मादेनं प्रवर्ग्यं स्वकीय एव स्थाने प्रतिष्ठापयति । देशान्तरं विधत्ते -
“यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभिप्रवर्तयति ।” इति ।
यजमानो यं पुरुषं द्विष्यात्स द्वेष्यो यस्यां दिशि तिष्ठति तस्यां दिशि प्रवर्ग्यमुद्वासयेत् । प्रवर्ग्यस्य वैश्वानराग्निरूपत्वादेनं द्वेष्यमभिलक्ष्य वैश्वानराग्निनैव प्रवर्तयति । तेनाग्निना तमभितो दहतीत्यर्थः । तत्रैव कंचिद्विशेषं विधत्ते -
“औदुम्बर्याँ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्धर्मः(५)। इदमहममुष्याऽऽमुष्यायणस्य शुचा प्राणमपिदहामीत्याह । शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्च्छति ।” इति ।
उदुम्बरवृक्षस्य योयं शाखा तस्यां प्रवर्ग्यमुद्वासयेत् । उदुम्बरस्यान्नरूपत्वात्, अन्नस्य प्राणस्थितिहेतुत्वात्, घर्मस्य च संतापरूपत्वात्, तदनुसारेणोद्वासनकाल इदमित्यादिमन्त्रं पठेत् । अमुष्यायणस्य देवदत्तपुत्रस्यामुष्य यज्ञदत्तस्य प्राणमिदं प्रत्यक्षं यथा भवति तथा शुचा संतापेनातिदहामि सर्वतो दग्धं करोमि । एतन्मन्त्रपाठेनास्य द्वेष्यस्य प्राणं संतापेन दहत्येव । तदानीमेवासावार्तिं प्राप्नोति । देशान्तरं विधत्ते -
“यत्र दर्भा उपदीकसंतताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्झावर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नियच्छति । ता आपो नियता धन्वना यन्ति(६) ॥” इति ।
गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके दशमोऽनुवाकः ॥१०॥अथ नमो वाच इत्यारभ्य शं नो वातः पवतामित्यन्तैरनुवाकैः संपाद्यं प्रवर्ग्यं स्तोतुं तस्य प्रवर्ग्यस्य नामानि दर्शयति - प्रजापतिः संभ्रियमाणः । सम्राट्संभूतः । घर्मः प्रवृक्तः । महावीर उद्वासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत, इति । अस्य प्रवर्ग्यस्य तत्तदवस्थाभेदेन प्रजापत्यादीनि नामानि संपद्यन्ते । यदा मृद्वराहविहतवल्मीकवपादिसंभारैः संभ्रियमाणत्वदशापन्नो भवति तदा प्रजापतिरित्येतस्य नाम । सर्वात्मना संभृतत्वदशापन्नस्य सम्राडिति नाम । प्रवृञ्जनदशापन्नस्य घर्म इति नाम । उद्वासनदशापन्नस्य महावीर इति नाम । एताभिर्दशाभिरवस्थावद्यत्स्वरूपं तेन रूपेणाऽऽदित्य इति नाम । स प्रवर्ग्य एवमेतानि नामान्यकुरुत संपादितवान् । नामवेदनं प्रशंसति - य एवं वेद । विदुरेनं नाम्ना, इति । देवदत्तोपाध्याय इत्येवं तदीयं नाम सर्वैर्ज्ञातं भवति । अथ नामविशेषव्यवहारप्रदर्शनेन प्रशंसति - ब्रह्मवादिनो वदन्ति(१) । यो वै वसीयाँसं यथानाममुपचरति । पुण्यार्तिं वै स तस्मै कामयते । पुण्यार्तिमस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् । घर्म इति दिवाऽऽचक्षीत । सम्राडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा(२)। प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः, इति । यो वै यः कोऽपि पुमान्भृत्यो वसीयाँसमतिशयेन वसुमन्तं धनिकं राजानममात्यादिकं वा यथानामं तदीयं नामानतिक्रम्य नामकरणकाले संपादितेनैव नाम्नोपचरति, अधिपते स्वामिन्नित्यादिशब्दैर्विना भो देवदत्तेत्यादिकेनैव मुख्येन नाम्ना तमाह्वयति । स भृत्यस्तस्मै धनिकाय पुण्यार्तिं वै भाग्यहानिमेव कामयते । उत्तमोपचारयोग्ये नीचव्यवहारात् । अथवा स धनिको राजादिस्तस्मै स्वाभाविकनाम्ना व्यवहरते भृत्याय पुण्यार्तिं धनादिहानिं कामयते दण्डयितुमिच्छति । न केवलं राजादिरेव किंतु यो मूढ एवं वेद स्वाभाविकनाम्नैव व्यवहारं निश्चिनोति, अस्मै मूढाय राजादिप्रभुपरिसरवर्तिनः सर्वेऽपि पुरुषाः पुण्यार्तिं ताडनधनहान्यादिकं कामयन्ते । एवं ब्रह्मवादिन आहुः । यस्मादेवं तस्मादेवं विद्वान्नामान्तरेणैव प्रभुर्व्यवहरणीय इत्येवं जानन्पुरुषः प्रवर्ग्यं प्रत्यहनि घर्म इति नाम्ना व्यवहरेत् । रात्रौ तु सम्राडिति नाम्ना । तत्र घर्मशब्देनोच्यमाना दीप्यमाना या तनूः सम्राट्शब्देनोच्यमाना सम्यग्राजमाना या तनूरेते उभे अप्येतस्य प्रवर्ग्यस्य प्रिये शरीरे । एते घर्मसम्राट्शब्दरूपे अस्य प्रवर्ग्यस्य प्रिये नामनी । तस्मादेताभ्यां शब्दाभ्यां व्यवहरन्पुरुषः प्रिययैव तनुवा देवादिरूपेण प्रियेण च नाम्ना तच्छरीररोचितेनैव प्रवर्ग्यं समृद्धं करोति । तथा सति जनतामायतो जनसमूहं सभां प्रत्यागच्छतोऽस्य घर्मादिनामभिर्व्यवहारिणः पुरुषस्य कीर्तिः पूर्वाऽस्मादपि पुरुषात्पूर्वभाविनी गच्छति । अस्य पुरुषस्याऽऽगमनात्प्रागेव सर्वेऽपि सभानिष्ठा यतचित्ता(त्तो)भिज्ञोऽयं महात्मेत्यवमेनं प्रशंसति । घर्मादिनामविशेषद्वारा प्रवर्ग्यस्य प्रशंसां कृत्वा गायत्रीछन्दोगतसंख्यासाम्येनापि प्रशंसति - गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानुव्यभवन् । प्रवर्ग्येणाऽऽप्नुवन् । यच्चतुर्विँशतिकृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु विभवति । गायत्रीमाप्नोति । पूर्वस्य जनं यतः कीर्तिर्गच्छति, इति । पुरा कदाचिदपरक्ता सती गायत्री देवी देवेभ्यः सकाशादपाक्रामत् । तदा देवाः प्रवर्ग्यमनुष्ठाय तेनैव प्रवर्ग्येण तां गायत्रीमनुव्यभवन्, अन्वेष्टुं विभवः समर्था अभवन् । अन्विष्य च तेन प्रवर्ग्येण तां गायत्रीं प्राप्नुवन् । अतो यदि द्वादशसु दिनेष्वेकैकस्मिन्दिने द्विर्द्विरित्येवं चतुर्विंशतिकृत्वः प्रवर्ग्यमनुतिष्ठेत्, तत्तदा गायत्रीमेवानुगन्तुं समर्थो भवति । चतुर्विंशतिसंख्याया गायत्र्यक्षरनिष्ठत्वात् । अतः संख्यासामान्याद्गायत्रीं प्राप्नोति । जनं यतः सभां गच्छतोऽस्य चतुर्विंशतिवारं प्रवर्ग्यानुष्ठायिनः पुरुषस्य कीर्तिस्तस्मादपि पूर्वभाविनी सती सभां प्राप्नोति । पुनरपि प्रकारान्तरेणावस्थाविशेषगतैर्नामभिः प्रशंसति - वैश्वदेवः सँसन्नः(३)। वसवः प्रवृक्तः । सोमोऽभिकीर्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः क्वथन् । पौष्ण उदन्तः । सारस्वतो विष्यन्दमानः । मैत्रः शरो गृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्घुतः(४)। असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत, इति । संसन्नः सम्यगासादनदशां प्राप्तो यः प्रवर्ग्यस्तस्य वैश्वदेव इति नाम, तेन हि विश्वेदेवास्तुष्यन्ति । प्रवृञ्जनदशापन्नस्य वसव इति नाम, वसूनां प्रीतिहेतुत्वात् । प्रवृञ्जने सति पात्रस्यान्तर इतस्ततश्चलनमभिकीर्यमाणत्वं तद्दशापन्नस्य सोम इति नाम, तत्प्रीतिहेतुत्वात् । आनीयमानक्षीत्वदशापन्नस्याऽऽश्विन इति नाम, तेन ह्यश्विनौ तृप्यतः । पयसा सह क्वथनदशापन्नस्य मारुत इति नाम । पात्रस्यान्तपर्यन्तमुद्गमनमुदन्तः, तदवस्थापन्नस्य पौष्ण इति नाम । पात्रादप्युन्नतत्वं विष्यन्दनं तद्दशापन्नस्य सारस्वत इति नाम । पचनबाहुल्येन घनीभावात्प्रतीयमानः शरः शराकारग्रहणदशापन्नस्य मैत्र इति नाम । शफाभ्यां खरादुद्यमनदशापन्नस्य तेज इति नाम । आहवनीयं प्रति ह्रियमाणत्वदशापन्नस्य वायुरिति नाम । आहवनीये हूयमानत्वदशापन्नस्य प्रजापतिरिति नाम । हुतत्वदशापन्नस्य वागिति नाम । इत्येताभिर्दशाभिरवस्थावान्यः प्रवर्ग्यस्तस्याऽऽदित्य इति नाम । स प्रवर्ग्य एवं तत्तद्देवताप्रीतिहेतुत्वात्स्वस्यैतानि नामान्यकुरुत संपादितवान् । नामवेदनं प्रशंसति - य एवं वेद । विदुरेनं नाम्ना, इति । अथ प्रश्नोत्तराभ्यां मृन्मयस्य महावीरस्य होमसाधनत्मुपपादयति - ब्रह्मवादिनो वदन्ति । यन्मृन्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाच्येव वाचं दधाति(५)। तस्मादश्नुते, इति । दारुमयस्य होमसाधनत्वं सर्वत्र दृष्टं न तु क्वचिदपि मृन्मयस्य । अत एव साकंप्रस्थानीयप्रकरणे समाम्नायते - “दारुपात्रेण जुहोति न हि मृन्मयमाहुतिमानशे” इति । एवं सत्यत्र कस्मात्कारणादेव महावीर आहुतिसाधनत्वं प्राप्नोतीति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञः पुरुषो वागेष इत्युत्तरं ब्रूयात् । एष महावीरो मन्त्रैर्निष्पादितत्वाद्वागात्मकः । अतोऽनेन होमे सति वाचि मन्त्रनिष्पन्ने महावीर एव वाचं मन्त्रनिष्पादितामाहुतिं संपादयति । तस्मात्कारणान्मृन्मयोऽप्ययं महावीर आहुतिमर्हति । प्रकारान्तरेण द्वादशधा विभागमुपजीव्य प्रशंसति - प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृजत । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः(६), इति । वदन्ति तनुवा सँसन्नो हूयमानो वाग्घुतो दधात्येषः ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठक एकादशोऽनुवाकः ॥११॥योऽयं प्रवर्ग्यः स एष द्वादशधा विभक्तः प्रजापतिरेव । तत्कथमिति तदुच्यते । अवकाशमन्त्रेभ्यः प्राचीनो यो भागस्तेन भागेन प्रजापतिः प्रजाः सृष्टवान् । अपश्यं गोपामित्यनुवाके समाम्नाता दश मन्त्रा अवकाशनामकाः । एतच्च तद्ब्राह्मणे समाम्नातम् - “नवैतेऽवकाशा भवन्ति पत्नियै दशमः” इति । नमो युञ्जत इत्यादिभिः षड्भिरनुवाकैरुक्तो मन्त्रसमूहोऽवकाशेभ्यः प्राचीनो भागस्तेन प्रजासृष्टिः । अवकाशाख्यैस्तु दशभिर्मन्त्रैर्देवासुरानसृजत देवस्य त्वा सवितुः प्रसव इत्यादिकोऽवकाशेभ्य ऊर्ध्वो मन्त्रभागः, तेन प्रजापतिरन्नमसृजत । एवं पूर्वोक्तभागौ द्वौ, मध्ये दशावकाशा इति द्वादशप्रकारो मन्त्रसंग्रहः प्रजापतिस्वरूपः । अन्नं च प्रजापतिसृष्टत्वात्प्रजापतिस्वरूपम् । तादृशः प्रजापतिरेवैष प्रवर्ग्यरूपः । एवमस्य प्रशस्तत्वं द्रष्टव्यम् । अथ दिनविशेषेषु फलविशेषकथनेन प्रवर्ग्यं प्रशंसति - सविता भूत्वा प्रथमेऽहन्प्रवृज्यते । तेन कामाँ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पञ्चमेऽहन्प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति(१)। यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्टमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाँ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति(२)। यदेकादशेहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति, इति । प्रथमे दिवसे प्रवृजत इति यत्तेनानुष्ठानेनायं सवितृदेवो भूत्वा कामान्प्राप्नोति । एवमुत्तरेष्वपि वाक्येषु योजनीयम् । द्वादशदिनानुष्ठानं प्रशस्योपसद्भ्यः प्राचीनप्रतीचीनकालानुष्ठाने प्रशंसति - यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङमूल्लोकाँस्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङिमाल्ँ लोकाँस्तपन्नेति, इति । प्रवर्ग्य आदित्यस्वरूपः । उपसदो लोकस्वरूपाः । तथा सति प्रतिदिनं प्रवर्ग्यानुष्ठानात्पश्चादुपसदोऽनुष्ठानादादित्योऽधोभागवर्ती पराङूर्ध्वाभिमुखः सन्नितोऽप्युपरितनानमून्स्वर्गादिलोकांस्तपन्नेति प्रकाशयन्सञ्चरति । तथा पूर्वपूर्वदिनगतेभ्य उपसद्भ उत्तरोत्तरदिनगतः प्रवर्ग्य उपरिष्टाद्वर्तते । तस्मादसावादित्य ऊर्ध्वलोकवर्ती सन्नमुतोऽर्वाङ्स्वर्गलोकादधोमुखो भूत्वेमान्भूरादील्ँ लोकान्प्रकाशयन्सञ्चरति । वेदनं प्रशंसति - य एवं वेद । ऐव तपति(३), इति । नक्षत्राण्येति विराजमेति तपति । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥१२॥ देवा वै सत्रँस खदिरः परिश्रितेऽभिपूर्वमथो रक्षसां ग्रैष्मावेव ब्रह्म वै देवानामश्विना घर्मं प्राणो वा इन्द्रतमोऽग्निर्वृषा हरिर्यो वै वसीयाँसं यथानाममष्टोत्तरशतम्(१०८)। शं नः० तन्नो माहासीत् । ॐशान्तिः शान्तिः शान्तिः । इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः । हरिः ॐ