07 प्रश्नः-7

तत्र चतुर्थस्य प्रथमेऽनुवाके शान्तिपाठार्थो मन्त्रोऽभिधीयते, यस्य च प्रवर्ग्यकर्मादौ महावीरनिष्पत्तेः पूर्वं पाठं बौधायन आह - “अ(आ)मावास्येन वा हविषेष्ट्वा नक्षत्रे वा पूर्वां शान्तिमुपयन्ति नमो वाचे” इति । आपस्तम्बस्तु प्रवर्ग्यप्रचारादौ महावीरनिष्पत्तेरूर्ध्वं शान्तिपाठमाह - “प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि परिश्रयन्ति पत्न्याः पश्चाद्धोतोपविशति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा यजमानः प्रस्तोता चोत्तरतः प्रतिप्रस्थाताऽऽग्नीध्रश्च मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा” इति । तस्यानुवाकस्य प्रथमभागे स्वाभीष्टानां देवतानामृषीणां च नमस्कारमाह -
अनुष्ठेयस्य कर्मणो मन्त्राधीनत्वान्मन्त्राणां च वाग्देवताशरीरस्वरूपत्वात्तस्यै देवतायै प्रथमं नमस्कारः क्रियते । वाक्च द्विविधा, काचित्पूर्वमुदिता व्यवहृता काचिदनुदिता व्यवहरिष्यमाणा । तयोर्मध्ये या च वागुदिता तस्या अपि नमोऽस्तु । या च पूर्वमनुदिता तस्यै वाचेऽपि नमोऽस्तु । विभज्य नमस्कृत्य पुनः समुदायाकारेण नमस्क्रियते । वाचे भागद्वयेऽप्यनुगदितायै वाग्देवतायै नमोऽस्तु । सेयं वाग्देवता येन बृहस्पतिरूपेण पाल्यते तस्मै वाचस्पतये नमोऽस्तु । यथा देवतानमस्कारस्तद्वदृषिभ्योऽपि नमस्कारोऽस्तु । कीदृशेभ्यः - मन्त्रकृद्भ्यः, मन्त्रं कुर्वन्तीति मन्त्रकृतः, यद्यप्यपौरुषेये वेदे कर्तारो न सन्ति तथाऽपि कल्पादावीश्वरानुग्रहेण मन्त्राणां लब्धारो मन्त्रकृत इत्युच्यन्ते । तल्लाभश्च स्मर्यते -
“युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताःस्वयम्भुवा ॥” इति ।
त एव महर्षयः सम्प्रदायप्रवृत्या मन्त्राणां पालनान्मन्त्रपतय इत्युच्यन्ते । तथाविधा महर्षयो मां यजमानं मा परादुः परादानमवज्ञां मा कुर्वन्तु, किन्त्वनुगृह्णन्तु । अहमपि तान्महर्षीन्मा परादामवज्ञां न करोमि, किन्त्वादरेण भजामि । द्वितीयभागेन नमस्कारप्रयोजनं दर्शयति -
अहं वाचमुद्यासं तत्वरूपया वाचा वदिता भूयासम् । कीदृशीं वाचम् । वैश्वदेवीं सर्वदेवविषयाम् । शिवां स्तुतिरूपेण देवेभ्यः सुखप्रदाम् । अदस्तामनुपक्षीणां सम्पूर्णाम्, देवेभ्यो जुष्टां देवानां प्रियाम् । तृतीयभागे देवतानुग्रहप्रार्थनारूपामृचं दर्शयति -
द्यौर्लो(द्यौर्द्योलो)कात्मको देवो मे मम शर्म सुखरूपो भवतु । अनुष्ठेये कर्मणि विघ्नपरिहारेणानुगृह्णात्वित्यर्थः । एवं पृथिव्यादिषु योज्यम् । ब्रह्म जगत्कारणं वस्तु । प्रजापतिश्चतुर्मुखः । यदुक्तं पूर्वत्र वैश्वदेवीं वाचमुद्यासमिति तस्या वाचो विषयभूतानर्थानस्य चतुर्थभागेन दर्शयति -
भूतमाकाशादिपञ्चमहाभूतरूपम् । भुवनं पृथिव्यादिलोकस्वरूपम् । तेजः शरीरकान्तिः । यशः कीर्तिः । तपो व्रतादिनियमविशेषः । ब्रह्म स्वाध्यायः । सत्यं यथार्थकथनम् । एतत्सर्वं वदिष्ये ममानुकूलं भवत्वित्येतत्प्रार्थयिष्ये । यथोक्तमन्त्राभिवदनसिध्यर्थं तदाधारभूतं कर्म पञ्चमभागेन प्रार्थयते -
तस्मै पूर्वोक्तभूतादिवदनसिध्यर्थमहमिदं प्रवर्ग्याख्यं कर्मोपस्तरणं मदाधारभूतमुपस्तृणे सम्पादयामि । मे मदीयानां प्रजानां पशूनां चोपस्तरणमाधारभूतं वस्तु भूयात् । अन्याधारासंभवेऽप्यहमेव प्रजानां पशूनां चोपस्तरणमाधारो भूयासम् । यथोक्तकर्मसिध्यर्थं विघ्नरूपान्मृत्योः परिपालनं षष्ठभागेन प्रार्थ्यते -
हे प्राणापानावुभौ वायू मृत्योः सकाशान्मां पालयतम् । तस्मिन्पालनेऽयमुपायः । हे प्राणापानौ मां यजमानं मा हासिष्टं मा परित्यजतम् । अपमृत्युपरिहारे सति प्रयोजनं सप्तमभागेन दर्शयति -
अपमृत्युपरिहारेण लब्धायुरहं मधु मधुरं समीचीनफलसाधनं प्रवर्ग्याख्यं कर्म मनिष्ये मनसि सङ्कल्पयिष्ये । सङ्कल्पादूर्ध्वं मधु तन्मधुरं कर्म जनिष्ये प्रादुर्भावयिष्ये, अनुष्ठातुं प्रारप्स्ये । प्रारम्भादूर्ध्वं तन्मधु मधुरं कर्म वक्ष्यामि, वहनं करिष्यामि, समाप्तिपर्यन्तं निर्वहिष्यामि । तत्सिध्यर्थं मधु मधुरं मन्त्रजातं वदिष्यामि कथयिष्यामि । न केवलं मन्त्रपाठं किंतु वाचमप्युद्देशत्यागरूपामुद्यासं वाचो वदिता भूयासम् । कीदृशीं वाचम् । देवेभ्यो मधुमतीं देवानामतिप्रियाम्, मनुष्येभ्यः शुश्रूषेण्यां मनुष्योपलक्षितानां पितॄणां श्रोतुमत्यन्तमधुराम् । तमेतादृशं मां यजमानं शोभायै शोभनफलप्राप्त्यर्थं देवाः सर्वोऽवन्तु रक्षन्तु । पितरोऽप्यनुमदन्तु, अनुजानन्तु । अथाष्टमभागेन स्वाभीष्टसिद्धिहेतुं परमात्मानं प्रणवेनानुस्मृत्य विघ्नत्रयपरिहारार्थं त्रिः शान्तिः पठति -
आध्यात्मिकानां विघ्नानां ज्वरादिरूपाणां शान्तिरस्तु । आधिभौतिकानां रोगोपद्रवादीनां शान्तिरस्तु । आधिदैविकानां यक्षराक्षसोपद्रवादीनां शान्तिरस्तु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥१॥अथ चतुर्थप्रपाठके द्वितीयोऽनुवाकः
प्रथमानुवाके शान्त्यर्थं मन्त्रमुक्त्वा द्वितीयानुवाके महावीरनिर्माणार्था मन्त्रा उच्यन्ते । कल्पः - “प्रवर्ग्यँ सम्भरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोत्यथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्याद्यजुरेव वदेदित्येके” इति । पाठस्तु -
विप्रस्य ब्राह्मणस्य यजमानस्य सम्बन्धिनो विप्रा ऋत्विजो मनो युञ्जते, प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वन्ति । उतापि च धियः प्रवर्ग्यविषयाणि ज्ञानानि युञ्जते सम्पादयन्ति । कीदृशस्य विप्रस्य - बृहतः प्रभूताग्निचयनोद्योगेन प्रवृद्धप्रवर्ग्योद्योगेनाभिवृद्धस्य । विपश्चितो विदुषः प्रयोगाभिज्ञस्य । कीदृशा विप्राः । होत्रा होमशीलाः, कर्मण्यालस्यरहिता इत्यर्थः । एक इदेक एव सविता विदधे सर्वमिदं निर्मितवान् । कीदृशः - वयुनावित्, ऋत्विग्यजमानाभिप्रायाभिज्ञः । कथमेक एव सर्वमिदं निर्मितवानिति न विस्मेतव्यम् । त(य)तः सवितुर्देवस्य परिष्टुतिर्मही परितः सर्वेषु देवेषु श्रूयमाणा स्तुतिर्महती । अथ ब्राह्मणप्रपाठकस्य द्वितीयानुवाके सोऽयं मन्त्रो विनियुज्यते । तस्योपोद्घातत्वेन प्रथमानुवाके प्रवर्ग्यनिष्पत्तिर्निरूप्यते । तत्राऽऽदौ स्तुत्यर्थमुपाख्यानमाह -
देवा वै सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तत्सहासदिति । तेषां कुरुक्षेत्रं वेदिरासीत् । तस्यै काण्डवो दक्षिणार्ध आसीत् । तूर्घ्नमुत्तरार्धः । परीणज्जघनार्धः । मरव उत्करः(१) । तेषां मखं वैष्णवं यश आर्छत्, इति । (प्र० ५ । अ० १ । वि० १ )
पुरा कदाचिद्देवा यशस्कामाः सन्त ऋद्धिपरिमितं साधनद्रव्यसमृध्या परितो निर्मितं प्रौढं सत्रमनुष्ठितवन्तः । अनुष्ठातुं प्रवर्तमानास्ते देवाः परस्परं समयरूपमिदं वाक्यमब्रुवन् । प्रथमं यज्ञफलस्योपक्रमे यद्यशः कीर्तिरूपं नोऽस्मानृच्छात्प्राप्नुयात्तद्यशो नोऽस्माकं सर्वेषां सहासत्साधारणमेवास्तु, न त्वेकस्यैव साधारणमिति । एवं परस्परं भाषां कृत्वा प्रवृत्तानां तेषां देवानां यत्कुरुक्षेत्रं पुराणप्रसिद्धं सैव वेदिरासीत् । तस्यै कुरुक्षेत्ररूपायास्तस्या वेदेः खाण्डवतूर्घ्नपरीणच्छब्दवाच्याः पुण्यदेशविशेषा दक्षिणादिदिग्भागा अभवन् । मरवो जलरहिता भूप्रदेशा उत्कररूपा अभवन् । वेदेरुत्तरभागे पांशुतृणादयो यत्र प्रक्षिप्यन्ते सोऽयमुत्करः । तस्यां वेद्यामुपतिष्ठतां तेषां देवानां मध्ये वैष्णवं मखं विष्णुस्वामिकं सत्रं यशः प्राप्नोत् । तस्मिन्सत्रे विष्णुशब्दवाच्यो यज्ञाभिमानी देवो गृहपतित्वेन दीक्षितः, अतो विष्णुः सत्रं कृतवानित्येवं विष्णुनाम्ना यश आसीत् । तस्मिन्मन्त्रे विष्णुनामकस्य पुरुषस्येतरदेवैः सह यशोनिमित्तं कलहं दर्शयति -
तान्यकामयत । तेनापाक्रामत् । तं देवा अन्वायन् । यशोऽवरुरुत्समानाः । तस्यान्वागतस्य । सव्याद्धनुरजायत । दक्षिणादिषवः । तस्मादिषुधन्वं पुण्यजन्म । यज्ञजन्मा हि (२) । तमेकँ सन्तम् । बहवो नाभ्यधृष्णुवन् । तस्मादेकमिषुधन्विनम् । बहवोऽनिषुधन्वा नाभिधृष्णुवन्ति, इति । (प्र० ५ । अ० १ । वि० २ )
विष्णुः सत्रं कृतवानित्येतादृशं यद्यशस्तस्मिन्सत्र आसीत्, तद्यशो ममैवास्तु नान्येषामित्येवं विष्णुर्नितरामकामयत । कामयित्वा च तेन यशसा सहेतरदेवसकाशात्स्वयमपाक्रामत् । तदानीमन्ये देवास्तद्यशोऽवरोद्धुमिच्छन्तस्तं विष्णुमन्वागच्छन् । तैर्देवैरन्वागतस्य विष्णोः सव्यहस्तादेकं धनुरुत्पन्नम् । दक्षिणहस्ताद्बहवो बाणा उत्पन्नाः । विष्णोः सङ्कल्पमात्रेण तदुत्पत्तिः । यस्मात्कारणाद्यज्ञजन्मा यज्ञाज्जन्मोत्पत्तिर्यस्येषुधन्वसमूहस्य सोऽयं यज्ञजन्मा । यज्ञो वै विष्णुरिति श्रुतेर्यज्ञस्यैव विष्णुरूपत्वाद्विष्णोरुत्पन्नं यज्ञदेवोत्पन्नं भवति । तस्माद्यज्ञधन्वत्वादिषुधन्वस्वरूपं पुण्यजन्मेत्युच्यते यज्ञस्य पुण्यरूपत्वात् । वामहस्ते धनुर्दक्षिणहस्ते बाणान्धृत्वाऽवस्थितं तं यज्ञपुरुषमेकमेव सन्तमितर इषुधन्वरहिता देवा बहवः सन्तोऽपि नाभ्यधृष्णुवन्, अभिभवितुं नाशक्नुवन् । यस्मादेवमत्र तस्माल्लोकेऽपीषुभिर्धनुषा चोपेतमेकं पुरुषं तद्रहिता बहवः पुरुषा अभिभवितुं न शक्नुवन्ति । अथ यज्ञपुरुषस्य गर्वप्रसङ्गेन दीक्षितनियमं विधत्ते -
सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य सिष्मियाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते श्यामाका अभवन् । स्मयाका वै नामैते(३) । तत्स्मयाकानाँ स्मयाकत्वम् । तस्माद्दीक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्यै, इति (प्र० ५ । अ० १ । वि० ३)
स धन्वी यज्ञपुरुषोऽस्मयत स्मयं हास्यं कृतवान् । हास्याभिप्रायश्च तेनैवोच्यते - अहमेक एवैते तु देवाः शतसहस्रसंख्याकास्तथाऽपि मामभिभवितुं न शक्ताः, इत्येवं सिष्मियाणस्य गर्वेण स्मयं कृतवतस्तस्य यज्ञपुरुषस्य सकाशात्तदीयं तेजोऽपाक्रामत्, गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतम् । पुनरपि कथंचित्तत्स्वीकरिष्यतीति मत्वा ते देवास्तत्तेजोऽन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्तुं कासुचिदोषधीषु निमृष्टवन्तः । ते चौषधिविशेषा यज्ञसंबन्धिना तेजसा युक्ताः (श्यामाका अभवन् । ते च ) श्यामाकाभिधा धान्यविशेषाः स्मयाका इत्येतादृशं नामार्हन्ति । यस्मादेतस्य नाम्नो योग्यास्तस्मात्स्मयाकानां स्मयादुत्पन्नानां धान्यानां स्मयाकत्वम् । स्मयाकानामाभिज्ञव्यवहारे प्रसिद्धम् । यस्मादत्र स्मयं कुर्वतो यज्ञपुरुषात्तेजोऽपाक्रान्तं तस्मात्कारणात्तेजसः स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन स्मेतव्यम् । यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इति विधिरस्ति तथाऽपि प्रसङ्गादत्र स एवानूद्यत इत्यवगन्तव्यम् । अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तोष्यमाणहविष्प्रशंसार्थं दर्शयति -
स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन्वरं वृणामहै । अथ व इमँ रन्धयाम । यत्र क्व च खनाम । तदपोऽभितृणदामेति । तस्मादुपदीका यत्र क्व च खनन्ति । तदपोऽभितृन्दन्ति (४)। वारे वृतँ ह्यासाम् । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ शिर उदवर्तयत् । तद्द्यावापृथिवी अनुप्रावर्तत । यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम् । यद्घ्राँ ३ इत्यपतत् । तद्घर्मस्य घर्मत्वम् । महतो वीर्यमपप्तदिति । तन्महावीरस्य महावीरत्वम्(५) । यदस्याः समभरन् । तत्सम्राज्ञः सम्राट्त्वम्, इति । (प्र० ५ । अ० १ । वि० ४)
स यज्ञपुरुषो युयुत्सून्देवानितस्ततः प्रतीक्षमाणो धनुः प्रतिष्कभ्य स्वकीयस्य धनुष ऊर्ध्वकोटिं चिबुकस्याधस्तात्कण्ठसमीपे दृढमवकृष्य तथैव स्थितवान् । तदानीमेतस्य प्रतीकारमन्विष्यतो देवान्प्रति ताः प्रसिद्धाः उपदीकाः पिपीलिकासमानाः क्षुद्रजन्तवो वल्मीकस्य निर्मातार इदमब्रुवन् । हे देवाः प्रथमं तावद्वयमिममेकं वरं प्रार्थयामहे । अथानन्तरं वो युष्मदर्थमिमं यज्ञपुरुषं रन्धयामः साधयामः । कोऽसौ वर इति सोऽभिधीयते - भूमौ यत्र क्वापि वयं मुखेन खनाम तत्रापोऽभिप्राप्य तृणदाम द्रवीकरवामेति । तस्मात्कारणादुपदीका वल्मीकनिष्पादका जीवा यत्र क्वापि खनन्ति तत्क्षेत्रमपोऽभिप्राप्य तृन्दन्ति द्रवीकुर्वन्ति । हि यस्मात्कारणादासामुपदीकानां तद्द्रवीकरणसामर्थ्यं वारे वृतं वरेण सम्पादितं तस्मात्तद्युक्तम् । ततो लब्धवरा उपदीकाः शनैर्भूमौ तत्समीपे समागत्य तस्य धनुषोऽधः क्वापि लग्नां ज्यामपि गुणं चाऽऽदन्भक्षितवत्यः । ततस्तद्धनुर्विप्रवमाणं विस्तारेणोर्ध्वं प्रवर्तमानं धनुस्तस्य यज्ञपुरुषस्य शिर उदवर्तय्, छित्वोर्ध्वं प्रावर्तयत् । तच्च शिर ऊर्ध्वं द्युलोकपर्यन्तं गत्वा ततो भारेण भूमावधः पतितं, तस्मादिदं शिरो द्यावापृथिवी उभे अप्यनुक्रमेण प्रावर्तत । तस्मादनयैव व्युत्पत्या तस्य यज्ञशिरसः प्रवर्ग्यनाम सम्पन्नम् । भूमौ पतनवेलायामुत्पन्नस्य ध्वनेरनुकरणे “घ्राँ” इति शब्दस्तथाविधशब्दोपेतत्वादस्य शिरसो घर्मनाम सम्पन्नम् । महतो यज्ञपुरुषस्य सकाशाद्वीर्यमपतत्सारभूतं शिरः पतितं ततोऽनयैव व्युत्पत्या महावीरनाम सम्पन्नम् । यद्यस्मात्कारणादस्याः पृथिव्याः सकाशात्समभरन्देवास्तच्छिरः समादाय प्रोषितवन्तस्तस्मात्सम्यग्राजमानत्वात्सम्राडिति नाम सम्पन्नम् । एवं यज्ञशिरसो नामचतुष्टयनिर्वचनमुक्त्वाऽवशिष्टस्य यज्ञशरीरस्य फलं प्रत्यप्रयोजन(क)त्वकथनेन तच्छिरः प्रशंसति -
तँ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातः सवनम् । इन्द्रो माध्यंदिनँ सवनम् । विश्वे देवास्तृतीयसवनम् । तेनापशीर्ष्णा यज्ञेन यजमानाः नाऽऽशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजनयन्, इति । (प्र० ५ । अ० १ । वि० ५)
तं स्तृतं शिरोराहित्येन हिंसितं तं यज्ञपुरुषदेहमग्न्यादयो देवास्त्रेधा गृहीतवन्तः । तमग्निः प्रातःसवनं जग्राह । इन्द्रस्तु माध्यन्दिनं सवनं गृहीतवान् । विश्वेदेवास्तु तृतीयसवनं जगृहुः । अपशीर्ष्णा प्रवर्ग्याख्यशिरोरहितेन पूर्वोक्तसवनत्रययुक्तेन तेन यज्ञेन यजमाना अग्न्यादयो देवा आशिषः स्वापेक्षितानि कर्मफलानि नावारुन्धत न प्राप्तवन्तः । स्वर्गलोकमपि नाभ्यजयन् । अथ प्रवर्ग्यसहितस्य यज्ञस्य फलहेतुत्वं दर्शयति -
ते देवा अश्विनावब्रुवन्(६)। भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् । यत्प्रवर्ग्यः । तेन सशीर्ष्णा यज्ञेन यजमानाः । अवाऽऽशिषोऽरुन्धत । अभि सुवर्गं लोकमजयन्, इति । (प्र० ५ । अ० १ । वि० ६)
प्रवर्ग्यरहितेन यज्ञेन फलमलभमानास्ते देवा अश्विनौ प्रत्येतदब्रुवन् । हेऽश्विनौ युवामस्माकं मध्ये चिकित्सकौ स्थः, तस्मादिदं यज्ञस्य शिरः प्रतिधत्तं पनरपि यज्ञशरीरे । प्रवर्त(त्यर्प)यतमिति । तामश्विनौ प्रत्यर्पणार्थं वरमुत्कोचरूपं लाभविशेषं वृणावहै, इत्युक्त्वा कोऽसौ वर इत्याशङ्क्य तं वरमुक्तवन्तौ । अत्रास्मिन्सोमयागे नावपि चिकित्सकयोरावयोरपि युष्मत्साम्येन ग्रह एव गृह्यताम्, न तु यत्किञ्चित्तुच्छं लेपादिकमिति । ततस्ताभ्यामश्विङ्यामेतमाश्विनं ग्रहमगृह्णन्, तौ चाश्विनौ चिकित्सया यज्ञस्य शिरः प्रत्यर्पयता(धत्ता)म् । प्रतिधानं नाम शरीरे पुनः संधानम् । प्रवर्ग्य इ(र्ग्ये)त्येतन्नामकं यत्कर्म तदेव यज्ञशरीरे प्रतिहितं शिरः, तेन तादृशेन (स) शीर्ष्णा प्रवर्ग्याख्यशिरोयुक्तेन यज्ञेन यजमाना देवाः स्वापेक्षितान्यन्यफलानि स्वर्गं च प्राप्नुवन् । देवा वै सत्रमासतेत्यारभ्यैतावता महता प्रबन्धेन प्रवर्ग्याख्यं कर्म प्रसाध्य तदेव कर्म मिधत्ते -
यत्प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रतिदधाति । तेन सशीर्ष्णा यज्ञेन यजमानः अवाऽऽशिषो रुन्धे । अभि सुवर्गं लोकं जयति । तस्मादेष आश्विनप्रवया इव । यत्प्रवर्ग्यः, (७) इति । उत्करो ह्येते तृन्दन्ति महावीरत्वमब्रुवन्नयजन्सप्त च ॥
यदि प्रवर्ग्याख्यं कर्मानुतिष्ठेत् । तत्तर्हि यज्ञस्य शिर एव प्रतिसमाहितवान्भवति । ततः सशीर्ष्णा शिरःसहितेन यज्ञेन यजमानः पुमानाशासनीयान्यन्यफलानि प्राप्नोति स्वर्गं चाभिजयति । यस्मादश्विभ्यां समाधानं कृतं तस्मात्कारणाद्यः प्रवर्ग्याख्यः कर्मविशेषोऽस्ति स एष आश्विनप्रवया इति । आश्विनमन्त्राः प्रवयसः प्रवृद्धा अस्मिन्प्रवर्ग्ये सोऽयमाश्विनप्रवयाः । इवशब्द एवकारार्थः । एतदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रवर्ग्याख्यं कर्म विधाय द्वितीयानुवाकादौ युञ्जते मन इत्येतन्मन्त्रसाध्यं होमं विधत्ते -
सावित्रं जुहोति प्रसूत्यै, इति (प्र० ५ । अ २ । वि १)
मन्त्रे देवस्य सवितुः परिष्टुतिरित्युक्तत्वादयं मन्त्रः सावित्रः, तद्धोमः प्रसूत्यै प्रसवाय सम्पद्यते । तत्र द्रव्यं विधत्ते -
चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति, इति (प्र०५ । अ० २ । वि २)
स्रुवेण जुह्वां चतुर्वारं गृहीतं यदाज्यं तेन जुहुयात् । चतुःसंख्यासाम्यात्पशुप्राप्तिर्दिक्षु प्रतिष्ठा च । पुनरपि चतुःसंख्यां प्रकारान्तरेण प्रशंसति -
छन्दाँसि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोनुवाक्यायै याज्यायै(१) । देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाँस्येव तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति । (प्र० ५ । अ० २ । वि० ३)
नानाविधच्छन्दोयुक्त पुरोनुवाक्याद्यभिमानिनो देवा हविर्भाग्यो देवेभ्योऽपरक्ताः सन्तोऽन्यत्रागच्छन् । किं ब्रुवन्तो गता इति तदुच्यते - हे देवा भागरहितानि वयं छन्दांसि वो युष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः । तदानीं देवा विचार्य होमकाले यच्चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवतीति तेषां भागमकल्पयन् । तत्र प्रथमग्रहणं पुरोनुवाक्याख्याया गायत्रीदेवतायास्तुष्टिकरम् । द्वितीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरम् । तृतीयग्रहणं देवताख्याया जगतीदेवतायास्तुष्टिकरम् । चतुर्थग्रहणं वषट्काराख्याया अनुष्टुब्देवतायास्तुष्टिकरम् । अतश्चतुर्गृहीतेन होमे सति छन्दोदेवताः प्रीणन्ति । ताश्च प्रीताः सत्यो हव्यं वहन्ति । तत्र द्वौ पक्षौ । सोमयागसंकल्पादिकं सम्पादनीयमित्येकः पक्षः । दीक्षायां समाप्तायां प्रवर्ग्यानुष्ठानकाल एव सम्पादनीयमित्यपरः पक्षः । तत्र प्रथमपक्षे सावित्रहोमो विहितः । द्वितीयपक्षे मीमांसया होमं निवार्य केवलमन्त्रपाठं विधत्ते -
ब्रह्मवादिनो वदन्ति । होतव्यं दीक्षितस्य गृहा३ इ न होतव्या३ मिति । हविर्वै दीक्षितः । यज्जुहुयात् । हविष्कृतं यजमानमग्नौ प्रदध्यात् । यन्न जुहुयात् (२)। इति (प्र० ५ । अ० २ । वि० ४)
तत्र होमपक्षो न युज्यते । दीक्षितो हविःसम्पादकत्वाद्धविरेव । तथा सति यदि हविर्जुहुयात्तदानीं हविःसम्पादकं यजमानमेवाग्नौ प्रक्षिपेत् । अहोमपक्षे तु -
यज्ञपरुरन्तरियात् यजुरेव वदेत् । न हविष्कृतं यजमानमग्नौ प्रदधाति । न यज्ञपरुरन्तरेति, इति । (प्र० ५ । अ० २ । वि० ५)
यज्ञस्य होमलक्षणमङ्गमन्तरितं भवेत् । ततो दोषद्वयपरिहारायाऽऽहुतिप्रक्षेपं परित्यज्य यजुरेव पठेत् । यद्यपि युञ्जते मन इत्येषर्गेव तथाऽपि यजुर्वेदपठितत्वात्, यज्यतेऽनुष्ठान इति व्युत्पत्या वा यजुरित्युच्यते । अत्र होमाभावाद्यजमानस्य प्रक्षेपो न भवति । मन्त्रस्य पठितत्वाद्यज्ञाङ्गमपि नान्तरितं भवति । कल्पः - “देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते” इति । पाठस्तु -
हेऽभ्रे प्रेरकस्यान्तर्यामिणो देवस्य प्रेरणे सत्यश्विनोः सम्बन्धिभ्यां बाहुदण्डाभ्यां पूष्णः सम्बन्धिभ्यां हस्ताभ्यां च त्वामाददे स्वीकरोमि । तस्या अभ्रेः खादिरत्वं विधत्ते -
गायत्री छन्दाँस्यत्यमन्यत । तस्यै वषट्कारोऽभ्यय्य शिरोऽच्छिनत् । तस्यै द्वेधा रसः परापतत् । पृथिवीमर्धः प्राविशत् । पशूनर्धः । यः पृथिवीं प्राविशत् (३)। स खदिरोऽभवत् । यः पशून् । सोऽजाम् । यत्खादिर्यभ्रिर्भवति । छन्दसामेव रसेन यज्ञस्य शिरः संभरति, इति । (प्र० ५ । अ० २ । वि० ६)
गायत्रीदेवता सोमाहरणगर्वेणेतराणि च्छन्दांसि त्रिष्टुबादीनहमतिलङ्घितवतीत्यमन्यत । तदा वषट्काराभिमानी देवः क्रुद्धः सन्नभ्यय्याऽभिमुख्येन प्राप्य तस्या गायत्र्याः शिरोऽच्छिनत् । तस्माच्छिन्नप्रदेशान्निर्गतो रसो द्वेधा भूत्वा पृथिवीं पशूंश्च प्राविशत् । पृथिव्यां प्रविष्टः स भागः खदिरवृक्षोऽभूत् । पशुषु प्रवेष्टुं गतो भागोऽजां प्राविशत् । अतोऽभ्रिः खादिरी कर्तव्या । तथा सति च्छन्दसां सम्बन्धिन्या रसेन यज्ञस्य शिरः प्रवर्ग्यरूपं सम्पादितं भवति । गायत्र्यां हि त्रिष्टुप्सम्बद्धं जगतीसम्बद्धं चाक्षरद्वयमन्तर्भूतमिति कद्रूश्चेत्यत्र प्रतिपादितम् । ततो गायत्रीरसः सर्वछन्दसां रसो भवति । महावीराख्यं पात्रं निष्पादयितुं मृत्खननार्थोभयतस्तीक्ष्णाव्याममात्री काष्ठकुद्दालरूपाऽभ्रिरित्युच्यते । व्याममात्रत्वादिलक्षणानि पञ्चमकाण्ड उखा सम्भरणप्रस्तावे दर्शितानि । अत एव सूत्रकारेण तल्लक्षणमतिदिश्यते - साग्निक्या व्याख्यातेति । खदिरेण सह विकल्पार्थं पक्षत्रयं विधत्ते -
यदौदुम्बरी । ऊर्ग्वा उदुम्बरः । ऊर्जैव यज्ञस्य शिरः सम्भरति । यद्वैणवी । तेजो वै वेणुः(७)। तेजसैव यज्ञस्य शिरः सम्भरति । यद्वैकङ्कती । भा एवावरुन्धे, इति (प्र० ५ । अ० २ । वि० ७)
औदुम्बरफलस्योपदंशरूपेण भक्ष्यत्वादूर्ग्रूपत्वम् । “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इत्युक्तत्वाद्वेणोस्तेजोरूपत्वम् । “अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत्” इत्युक्तत्वाद्वैकङ्कतत्वेन भा दीप्तिः प्राप्नोति । अभ्र्यादाने मन्त्रं विनियुज्य व्याचष्टे -
देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह पत्यै, इति । ( प्र० ५ । अ० २ । वि० ८)
कल्पः - “अभ्रिरसि नारिरसीत्यभ्रिं मन्त्रयते” इति । अध्वरकृद्देवेभ्य इत्येतावान्मन्त्रशेषः । हे खननहेतो त्वं केनापि न ह्रियसे न भज्यस इत्यभ्रिः, असि । नृणां महावीरार्थिनामुपकार(रि)त्वान्नारिरसि । देवेभ्यो देवार्थेऽध्वरकृद्यागनिष्पादिकाऽसि । अस्मिन्मन्त्रे पूर्वभागस्य तात्पर्यं दर्शयति -
वज्र इव वा एषा । यदभ्रिः । अभ्रिरसि नारिरसीत्याह शान्त्यै(५) । इति । (प्र० ५ । अ० २ । वि० ९)
तीक्ष्णाग्रत्वाद्वज्रसमानत्वम् । न ह्रियसे नृणामुपकर्त्री चेत्युपलालनादुग्रस्य शान्तिः । अथवाऽरिर्न भवसीति नारिरित्युपलालनम् । उत्तरभागस्य तात्पर्यं दर्शयति -
अध्वरकृद्देवेभ्य इत्याह । यज्ञो वा अध्वरः । यज्ञकृद्देवेभ्य इति वावैतदाह, इति । (प्र० ५ । अ० २ । वि० १०)
कल्पः - “उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमामन्त्रयत उपोत्तिष्ठति ब्रह्मोभावुत्तरमर्धर्चं जपतः” इति । तस्या ऋचः पाठस्तु -
हे ब्रह्मणस्पते मन्त्रस्य पालक मृत्खननदेशं प्रति गन्तुमस्मात्स्थानादुत्तिष्ठ । देवयन्तो देवानिच्छन्तो वयं त्वां ब्रह्माणमीमहे प्रार्थयामहे । सुदानवः शोभनस्य फलस्य दातारो मरुतो देवा उपप्रयन्तु समीपे प्रकर्षेण गच्छन्तु । हे इन्द्र सचाऽस्माभिः प्राशूः प्रकर्षेण शीघ्रगामी भव । मन्त्रस्य तात्पर्यं दर्शयति -
उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रह्मणैव यज्ञस्य शिरोऽच्छैति, इति ।(प्र० ५ । अ० २ । वि० ११)
ऋत्विजा ब्रह्माख्येनै(णै)व सह यज्ञस्य शिरोरूपं प्रवर्ग्यपात्रमच्छ प्राप्तुमेति गच्छति । कल्पः - “आददते कृष्णाजिनमनुनयन्त्यजां पुच्छगलामश्वं वृषाणमिति प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः” इति । पाठस्तु -
ब्रह्मणस्पतिर्मन्त्रस्य पालक ऋत्विग्ब्रह्मा प्रैतु प्रथमतो गच्छतु । किमर्थमिति तदुच्यते - नर्यं नृभ्यो यजमानेभ्यो हितं पङ्क्तिराधसं पाङ्क्तस्य यज्ञस्य साधकं वीरं महावीराख्यं पात्रमच्छ प्राप्तुं देवाः सर्वे नोऽस्मदीयं यज्ञं नयन्तु । प्रथमपादे प्रैतुशब्दस्य तात्पर्यं दर्शयति -
प्रैतु ब्रह्मणस्पतिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति, इति ।(प्र० ५ । अ० २ । वि० १२)
प्रेत्यैव प्रथमतो गत्वैव । द्वितीयपादे सूनृताशब्देन प्रियवाक्ययुक्तस्य यज्ञस्य विवक्षां दर्शयति -
प्र देव्ये तु सूनृतेत्याह । यज्ञो वै सूनृता, इति ।(प्र० ५ । अ० २ । वि० १३)
तृतीयपादे पङ्क्तिराधसशब्देन धानाकरम्भादिपञ्चहविर्युक्तस्य यज्ञस्य विवक्षां दर्शयति -
अच्छा वीरं नर्यं पङ्क्तिराधसमित्याह(६)। पाङ्क्तो हि यज्ञः, इति ।(प्र० ५ । अ० २ । वि० १४)
चतुर्थपादे देवा यज्ञं नयन्तु न इत्यस्य तात्पर्यं दर्शयति -
देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते, इति ।(प्र० ५ । अ० २ । वि० १५)
यज्ञनियो यज्ञस्य नेतॄन्प्रवर्तकान् ।
कल्पः - “उत्तरेण मृत्खननं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य देवी द्यावापृथिवी इति मृत्खननमभिमन्त्रयते” इति । अनु मेऽमँसाथामिति मन्त्रशेषः । हे द्यावापृथिव्यौ मे मदीयं व्यापारमन्वमँसाथां युवयोरनुमतं कुरुतम् । मन्त्रस्य देवयोरभ्यनुज्ञायां तात्पर्यं दर्शयति -
देवी द्यावापृथिवी अनु मेऽमँसाथामित्याह । आभ्यामेवानुमतो यज्ञस्य शिरः सम्भरति, इति ।(प्र० ५ । अ० २ । वि० १६)
कल्पः - “ऋध्यासमद्येति मृत्खननेऽभ्रिया प्रहृत्य मखस्य शिर इत्युपादाय” इति । अद्यास्मिन्यज्ञ ऋध्यासं कर्मणा समृद्धो भूयासम् । इदं मृद्रूपं मखस् शिरो यज्ञस्य शिरःस्थानीयं प्रवर्ग्यपात्ररूपम् । मन्त्रद्वयं सहैव व्याचष्टे -
ऋध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखः । ऋध्यासमद्य मखस्य शिर इति वावैतदाह, इति ।(प्र० ५ । अ० २ । वि० १७)
कल्पः - “मखाय त्वेति हरति मखस्य त्वा शीर्ष्ण इति कृष्णाजिने निवपति” इति । मृत्तिके त्वां मखाय यज्ञार्थं हरामीति शेषः । तथा त्वां मखस्य यज्ञस्य शीर्ष्णे शिरोरूपप्रवर्ग्यार्थं निर्वपामीति शेषः । मन्त्रद्वयं सहैव व्याचष्टे -
मखाय त्वा मखस्य त्वा शार्ष्ण इत्याह । निर्दिश्यैवैनद्धरति (७) इति ।(प्र० ५ । अ० २ । वि० १८)
निर्दिश्यैव यज्ञार्थमिह हरणनिर्वपणे कथयित्वैवैनन्मृत्स्वरूपं हरति निर्वपति चेति द्रष्टव्यम् । यदुक्तं सूत्रकारेण - “एवं द्वितीयं तृतीयं च हरति तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते” इति । तदिदं विधत्ते -
त्रिर्हरति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरः सम्भरति । तूष्णीं चतुर्थँ हरति । अपरिमितादेव यज्ञस्य शिरः सम्भरति, इति ।(प्र० ५ । अ० २ । वि० १९)
वक्ष्यमाणसम्भारेभ्यो मृदः प्राथम्यं विधत्ते -
मृत्खनादग्रे हरति । तस्मान्मृत्खनः करुण्यतमः । इति ।(प्र० ५ । अ० २ । वि० २०)
ये च वराहविहतादयः सम्भारास्तेभ्योऽग्रे प्रथममेव, मृदं खात्वा तस्मान्मृत्खनाद्गर्तान्मृदं हरेत् । यस्मादयं मृत्खनः स्वकीयां वेदनामगणयित्वा यजमानोपकारार्थं मृदं प्रयच्छति । तस्मादयमतिशयेन करुण्यः कृपालुः । ततो मृत्खनादेव मृदं हरेत् । न त्वन्यतो यतः कुतश्चिन्मृदानेया ।
कल्पः - “एवमितरान्सम्भारानभिमन्त्रणे विकारः, इयत्यग्र आसीरिति वरादविहतम्” इति । येन प्रकारेण मृदो हरणमुक्तं तेनैव प्रकारेणेतरे सर्वे सम्भाराः सम्पादनीयाः । अभिमन्त्रणे तु तत्र तत्र मन्त्रविशेषोऽस्ति । “देवी द्यावापृथिवी” इति पूर्वत्र मृदोऽभिमन्त्रणम् । इह त्वियत्यग्र आसीरिति मन्त्रः । वराहो दंष्ट्रया यं मृद्विशेषं सम्पादयति तन्मृत्स्वरूपं वराहविहतम्। हे वराहविहतेयत्यग्र एवावति पुरोदेशे त्वामासीः । अभिमन्त्रितस्य वराहविहतस्याऽऽहरणे मन्त्रान्दर्शयति -
एते मन्त्राः पूर्ववद्व्याख्येयाः । एतेषां वराहविहतसम्भारमन्त्राणां तात्पर्यं दर्शयति -
इयत्यग्र आसीरित्याह । अस्यामेवाच्छंबट्कारं यज्ञस्य शिरः सम्भरति, इति ।(प्र० ५ । अ० २ । वि० २१)
यावद्वराहविहतमस्ति, एतावती सर्वा भूमिर्वराहेणोद्धृतत्वात् । एतच्चाऽऽधानब्राह्मणे - “स वराहो रूपं कृत्वा” इत्यादिना विस्पष्टमाम्नातम् । अतो वराहविहतसम्भारेणास्यामेव सर्वस्यामपि पृथिव्यामच्छम्बट्कारमल्पोऽप्यंशो व्यर्थो यथा न भवति तथा कृत्वा यज्ञस्य शिरः सम्पादितं भवति । कल्पः - “देवीर्वम्रीरिति वल्मीकवपाम्” इति । अभिमन्त्रयत इति शेषः । पाठस्तु -
वल्मीकस्य निष्पादिकाः क्षुद्रजन्तुस्वरूपा वम्र्यः । हे वम्र्यो देव्यो यूयमस्य भूतस्य प्राणिजातस्य प्रथमजाः प्रथमत उत्पन्नाः । ऋतावरीर्यज्ञवत्यः सम्भाररूपेण यज्ञनिष्पादकत्वात्तादृश्यो भवथेति शेषः । अनेन मन्त्रेणाभिमन्त्रिताया वल्मीकवपायाः सम्भरणमन्त्रानाह -
पूर्ववद्व्याख्येयम् । वल्मीकवपायाः सम्भरणं विधत्ते -
ऊर्जं वा एतँरसं पृथिव्या उपदीका उद्दिहन्ति(८)। यद्वल्मीकम् । यद्वल्मीकवपा सम्भारो भवति । ऊर्जमेव रसं पृथिव्या अवरुन्धे । अथो श्रोत्रमेव । श्रोत्रँ ह्येतत्पृथिव्याः । यद्वल्मीकः, इति ।(प्र० ५ । अ० २ । वि० २२)
वल्मीकं यद्विद्यते तदेतदुपीकाः पूर्वोक्ताः वम्र्यः, पृथिव्याः सकाशादन्नहेतुमेव रसं मृदमुद्धृत्य निष्पादयन्ति । अतो वल्मीकवपायाः सम्भरणेन भूमिसारमूर्जमेव प्राप्नोति । अपि च कर्णशष्कुल्याकारसाम्याद्वल्मीको भूमेः श्रोत्रमेव । तस्माद्वल्मीकवपा प्रशस्ता । श्रोत्रवेदनं प्रशंसति -
अबधिरो भवति । य एवं वेद, इति ।(प्र० ५ । अ० २ । वि० २३)
कल्पः - “इन्द्रस्यौजोऽसीति पूतीकान्” इति । हे पूतीकसमूहेन्द्रस्यौजो बलमसि । अनेन मन्त्रेणाभिमन्त्रितानां पूतीकानां सम्भरणमन्त्रानाह -
पूर्ववद्व्याख्येयम् । पूतीकसम्भरणं विधत्ते -
इन्द्रो वृत्राय वज्रमुदयच्छत् । स यत्र यत्र पराक्रमत । तन्नाध्रियत । स पूतीकस्तम्भे पराक्रमत । सोऽध्रियत । सोऽब्रवीत् । ऊतिं वै मे धा इति । तदूतीकानामूतीकत्वम् । यदूतीका भवन्ति । यज्ञायैवोतिं दधति, इति ।(प्र० ५ । अ० २ । विभा० २४)
पुरा कदाचिदिन्द्रो वृत्रवधार्थं वज्रमुद्यम्य प्रेरितवान् । तदानीं स इन्द्रो यत्र यत्र देशे पराक्रमत वज्रप्रक्षेपलक्षणं पराक्रमं कृतवांस्तत्र सर्वत्र नाध्रियत पलायनपरो वृत्रस्तेन वज्रेण धृतः प्रहृतो नाऽसीत् । ततः स इन्द्रो विचार्य पूतीकस्तंबसमीपे कदाचिदवस्थितं वृत्रं प्रति पराक्रमत वज्रप्रक्षेपलक्षणं पराक्रमं कृतवान् । तदानीं स वृत्रः पूतीकस्तम्बेनावरुद्धमार्गः पलायितुमशक्तस्तेन वज्रेणाध्रियत प्रहृतोऽभूत् । तदानीं परितुष्टः इन्द्रोऽब्रवीत्पूतीकस्तम्बं प्रत्येवमब्रवीत् । हे पूतीकस्म्ब म ऊतिं मदीयपराक्रमरक्षां धा धृतवानसि इत्यूतीधारकत्वात्तेषां पूतीकानामूतीकेति नाम सम्पन्नम् । तेषां सम्भरणे सति यज्ञस्य रक्षां ते सम्पादयन्ति ।
कल्पः - “अजलोमानि कृष्णाजिनलोमानि च संसृज्याग्निजा असि प्रजापते रेतः” इति । हे द्विविध लोमसङ्घ त्वमग्निजा असि । आग्नेयी वा एषा यदजेत्यजाया आग्नेयत्वश्रवणात्, अग्निर्देवेभ्यो निलायत कृष्णो रूपं कृत्वेति श्रवणाच्चोभयस्याग्नित्वमभिप्रेत्य तल्लोम्नामग्निजत्वमुक्तम् । महावीरदार्ढ्यहेतुत्वात्प्राजापत्ये(त्य)सृष्टौ लोम्नां सारत्वम् । अनेनाभिमन्त्रितस्य द्विविधलोमसंघस्य सम्भरणमन्त्रानाह -
पूर्ववद्व्याख्येयम् । प्रजापते रेत इत्यनेन प्रजापतिसृष्टाया गायत्र्या रसोऽजां प्राविशत्, स एव विवक्षित इत्येतद्दर्शयति -
अग्निजा असि प्रजापते रेत इत्याह । य एव रसः पशून्प्राविशत्(१०) । तमेवावरुन्धे, इति ।(प्र० ५ । अ० २ । विभा० २५)
पूर्वोक्तानां मृत्तिकावराहविहतवल्मीकवपापूतीकाजकृष्णाजिनलोमरूपाणां सम्भाराणां पञ्चसंख्यां प्रशंसति -
पञ्चैते सम्भारा भवन्ति । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः सम्भरति, इति ।(प्र० ५ । अ० २ । विभा० २६)
धानाकरम्भादिहविष्पञ्चकयोगात्पाङ्क्तो यज्ञो यावानस्ति तस्य सर्वस्य शिरः सम्भारगतया पञ्चसंख्यया सम्पादितं भवति
एतेषां सम्भारद्रव्याणां कृष्णाजिने संभरणं विधत्ते -
यद्ग्राम्याणां पशूनां चर्मणा सम्भरेत् । ग्राम्यान्पशूञ्शुचाऽर्पयेत् । कृष्णाजिनेन सम्भरति । आरण्यानेव पशूञ्शुचाऽर्पयति । तस्मात्समावत्पशूनां प्रजायमानानाम् (११)। आरण्याः पशवः कनीयाँसः । शुचा ह्यताः, इति ।(प्र० ५ । अ० २ । वि० २७)
ग्राम्याणां गवादिपशूनां चर्मणा संभरणे सति तान्पशूञ्शुचा शोकेन रोगादिजनितेन योजयेत् । तन्मा भूदिति कृष्णाजिनेनैव सर्वं संभरणीयम्, कृष्णमृगस्यारण्यजत्वादारण्यानेव पशून्महावीरजनितेन संतापेन योजयति । यस्मादरण्येनैव संभरणादरण्याः पशवः शुचा योजिताः, तस्मात्समावत्प्रजायमानानां साम्येनोत्पद्यमानानामपि द्विविधानां पशूनां मध्य आरण्या एव पशवः कनिष्ठाः । न हि जना गवाश्वादिषु यावन्तमादरं तावन्तं कृष्णाजिनमृगेषु कुर्वन्ति । कृष्णाजिनस्य सलोमके भागे संभरणं विधत्ते -
लोमतः संभरति । अतो ह्यस्य मेध्यम्, इति ।(प्र० ५ । अ० २ । वि० २८)
लोमतो लोमवति प्रदेशे संभरेत् । अतो लोम(व)तः प्रदेशादस्य कृष्णाजिनस्य मेध्यं यागयोग्यः संभारः संपद्यते । कल्पः - “आयुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्य” इति । पाठस्तु -
हे, अश्व मृदमाघ्राय यजमानस्यऽऽयुरादीन्संपादय । मां यजमानं धेगि पोषय । अपेक्षितं धनादिकं मयि यजमाने धेहि स्थापय । यदुक्तं सूत्रकारेण - “बहव आर्याः परिगृह्य हरन्त्युत्तरेण विहारमुद्धते चोक्षिते सिकतोपोप्ते परिश्रिते निदधाति” इति । तदेतदार्यैर्नयनमार्याणां च बहुत्वं स्थापनदेशविशेषं च क्रमेण विधत्ते -
परिगृह्यायन्ति । रक्षसामपहत्यै । बहवो हरन्ति । अपचितिमेवास्मिन्दधति । उद्धते सितोपोप्ते परिश्रिते निदधाति शान्त्यैः, इति ।(प्र० ५ । अ० २ । वि० २९)
आयन्त्यागच्छेयुः । आर्याणां परिग्रहणेन रक्षांस्यपहतानि भवन्ति । तेषां बहुत्वेनास्मिन्द्रव्ये पूजा कृता भवति । भूमेरुद्धननेन सिकतावापेन परितस्तिरोधानकरणेन च तस्मिन्देशेऽवस्थापितस्य द्रव्यस्योपद्रवपरिहाररूपा शान्तिर्भवति ।
कल्पः - “मधु त्वा मधुला करोत्वितिमदन्तीभिरुपसृजति” इति । हे संभारसमूहरूप द्रव्य मधु त्वा पूर्वमपि मधुरं महावीरनिष्पादनयोग्यं मृदुरूपं त्वामयं मदन्तीसंसर्गः पुनरपि मधुला माधुर्ययुक्तं सौकार्य(कुमार्य)युक्तं करोतु । अनेन मन्त्रेण साध्यं मदन्तीमेलनं विधत्ते -
मदन्तीभिरुपसृजति(१२)। तेज एवास्मिन्दधाति, इति ।(प्र० ५ । अ० २ । वि० ३०)
तप्ता आपो मदन्त्यः, तन्मेलनादस्मिन्द्रव्ये तेजः संपादितं भवति । यद्यपि जलमेलनादेव महावीरनिष्पादनसामर्थ्यरूपं तेजः संपद्यते । तथाऽपि मन्त्रेणैव सामर्थ्यातिशयाय मन्त्रपाठ इत्येतद्दर्शयति -
मधु त्वा मधुला करोत्वित्याह । ब्रह्मणैवास्मिन्तेजो दधाति, इति ।(प्र० ५ । अ० २ । वि० ३१)
अथास्मिन्द्रव्ये मेलयितव्यं द्रव्यान्तरं विधत्ते -
यद्ग्राम्याणां पात्राणां कपालैः सँसृजेत् । ग्राम्याणि पात्राणि शुचाऽर्पयेत् । अर्मकपालैः सँसृजति । एतानि वा अनुपजीवनीयानि । तान्येव शुचाऽर्पयति, इति ।(प्र० ५ । अ० २ । वि० ३२)
गृहेषु पाकाद्यर्थानि भाण्डानि ग्राम्यपात्राणि तदीयकपालैः संसर्गे सति तानि शुचा शोकेन स(भ)ङ्गरूपेण योजितानि भवन्ति । तन्माभूदित्यर्मकपालैर्मिश्रयेत । अर्मशब्देन चिरन्तने जीर्णग्रामदेशेऽवस्थिता भाण्डांशा उच्यन्ते । तानि प्राणिभिरुपजीवितुमयोग्यान्यतस्तेषां शुचा योजनेऽपि न कश्चिद्बाधः । द्रव्यान्तरं विधत्ते -
शर्कराभिः सँसृजति धृत्यै । अथो शंत्वाय, इति ।(प्र० ५ । अ० २ । वि० ३३)
शर्कराः क्षुद्रपाषाणाः, तत्संसर्गे सति महावीरस्य धृतिर्दार्ढ्यं भवति । अपि च शं सुखं कुर्वन्तीति शर्करानामनिरुक्तेस्तद्योगः शंत्वाय सुखसिद्धये भवति । एतच्चाधानप्रकरणे समाम्नातम् - “शं वै नोऽभूदिति । तच्छर्कराणाँ शर्करत्वम्” इति । द्रव्यान्तरं विधत्ते -
अजलोमैः सँसृजति । एषा वा अग्नेः प्रिया तनूः । यदजा । प्रययैवैनं तनुवा सँसृजति । अथो तेजसा, इति ।(प्र० ५ । अ० २ । वि० ३४)
अजाग्न्योः प्रजापतिमुखजत्वेन सोदरत्वात्प्रियत्वम् । अपि चाग्नेः स्वेनैव तेजोरूपत्वात्तेजसा द्रव्यं संसृष्टं भवति । द्रव्यान्तरं विधत्ते -
कृष्णाजिनस्य लोमभिः सँसृजति । यज्ञो वै कृष्णाजिनम् । यज्ञेनैव यज्ञँसँसृजति, इति ।(प्र० ५ । अ० २ । वि० ३५)
अवघातप्रस्तावे यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वेत्युक्तत्वात्कृष्णाजिनस्य यज्ञत्वम् । तल्लाभरूपेण यज्ञेनैव महावीरद्रव्यरूपो यज्ञः संसृष्टो भवति । याज्यायै न जुहुयादविशद्वेणुः शान्त्यै पङ्क्तिराधसमित्याह हरति दिहन्ति पराक्रमताविशत्प्रजायमानानाँसृजति शंत्वायाष्टौ च ॥२॥
महावीरनिर्माणाय देशविशेषं ब्राह्मणगततृतीयानुवाके विधत्ते -
परिश्रिते करोति । ब्रह्मवर्चसस्य परिगृहीत्यै, इति ।(प्र० ५ । अ० ३ । वि० १)
योऽयं देशः परिश्रितः कटादिभिरावृतस्तस्मिन्परिश्रिते महावीरं करोति । तदेतत्ब्रह्मवर्चसपरिग्रहाय भवति । तत्र नियमं कंचिद्विधत्ते -
न कुर्वन्नभिप्राण्यात् । यत्कुर्वन्नभिप्राण्यात् । प्राणाञ्शुचाऽर्पयेत् । अपहाय प्राणिति । प्राणानां गोपीथाय, इति ।(प्र० ५ । अ० ३ । वि० २)
सोऽयं तदानीं नाभिप्राण्यात्तदाभिमुख्येन श्वासं न कुर्यात् । तत्करणे स्वकीयाः प्राणाः दुःखेन योजिता भवन्ति । तस्मान्मुखमपहाय परतो नीत्वा श्वासं कुर्यात् । तच्च प्राणानां रक्षणाय भवति । नियमान्तरं विधत्ते -
न प्रवर्ग्यं चाऽऽदित्यं चान्तरेयात् । यदन्तरेयात् । दुश्चर्मा स्यात्(१)। तस्मान्नान्तराय्यम् । आत्मनो गोपीथाय, इति ।(प्र० ५ । अ० ३ । वि० ३)
यत्र प्रवर्ग्यपात्राणि तिष्ठन्ति तत्र सूर्यश्चेत्प्राच्यां वसेत्तदानीं स्वयं प्रतीच्यां तिष्ठेत् । सूर्यस्य प्रतीच्यामवस्थाने स्वयं प्राच्यां तिष्ठेत् । एवं सति प्रवर्ग्यादित्ययोर्मध्येऽन्तरायो न भवेत् । अन्तराये तु कुष्ठरोगी स्यात् । अतः स्वशरीररक्षार्थमन्तरायं न कुर्यात् । मृत्पात्रनिर्माणे साधनं विधत्ते -
वेणुना करोति । तेजो वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति, इति ।(प्र० ५ । अ० ३ । वि० ४)
कुम्भनिर्माणार्थं कुम्भकाराः काष्ठेन यं व्यापारं कुर्वन्ति तमत्र वेणुना कुर्यान्नतु दारुणा । “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इति श्रुत्या वेणोस्तेजस्त्वं तप्तघृतधारत्वात्प्रवर्ग्यपात्रमपि तेजः । अतो वेणुरूपेण तेजसा प्रवर्ग्यरूपं तेजः समृद्धं करोति ।
कल्पः - “संपिष्ट्य मृदं मखस्य शिरोऽसीति पिण्डं कृत्वा” इति । हे मृत्पिण्ड त्वं यज्ञस्य शिरःस्थानीयोऽसि । प्रवर्ग्यार्थस्य द्रव्यस्य शिरःस्थानीयत्वं विशदयति -
मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यै तच्छिरः । यत्प्रवर्ग्यः(२)। तस्मादेवमाह, इति ।(प्र० ५ । अ० ३। वि० ५)
प्रथमानुवाके धनुष्कोट्योच्छिन्नं यज्ञपुरुषस्य शिरो द्यावापृथिव्योरनुवर्तनात्प्रवर्ग्यनाम संपन्नमित्युक्तम् । तस्मान्मखस्य शिरोऽसीतिमन्त्रोक्तमुपपन्नम् ।
कल्पः - “यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां निगृह्य” इति । आर्द्रस्य पिण्डस्योपर्यङ्गुष्ठद्वयग्रहेण निष्पन्नबिन्दुद्वयाकारे हे लाञ्छने युवां यज्ञस्य पादौ भवथः । एतयोर्यज्ञपादत्वे शास्त्रप्रसिद्धिं दर्शयति -
यज्ञस्य पदेस्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै, इति ।(प्र० ५ । अ० ३ । वि० ६)
समानरूपत्वेन द्वित्वेन च पादसादृश्यादित्थं कर्तव्यम् । अपि च पादद्वयसादृश्येन प्रतिष्ठार्थमेतद्भवति । कल्पः - “महावीरं करोति त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा प्रादेशमात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये संनतं वायव्यप्रकारं गायत्रेण त्वा छन्दसा करोमीति प्रथमं त्रैष्टुभेनेति द्वितीयं जागतेनेति तृतीयमपि वा सर्वैरेकैकम्” इति । पाठस्तु -
हे प्रथम महावीर त्वां गायत्रछन्दोदेवतासामर्थ्येन निष्पादयामि । एवं द्वितीयतृतीययोर्महावीरयोस्त्रैष्टुभजागतमन्त्रौ व्याख्यातौ । मन्त्रेषु गायत्रादिपदानामुपयोगं दर्शयति -
गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति, इति ।(प्र० ५ । अ० ३ । वि० ७)
एतेषां मन्त्राणां पाठेन महावीरस्य च्छन्दोदेवताभिर्निष्पादनं भवति । एकैकमस्मिन्महावीरे कक्ष्यात्रयं विधत्ते -
त्र्युद्धिं करोति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै, इति ।(प्रपा० ५ । अनु० ३ । विभा० ८)
भाण्डस्योपरि भाण्डान्तरप्रक्षेपे यादृश आकारो भवति तादृश आकार उद्धिरित्युच्यते । ऊर्ध्वाधोभावेनावस्थितभाण्डत्रयवत्त्रिविधा उद्ध्यो(द्धयो) यस्य महावीरस्य सोऽयं त्र्युद्धिः । तत्र त्रित्वसाम्याल्लोकत्रयप्राप्तिः पूर्वं व्याख्याता । छन्दः प्रतिपादकैर्मन्त्रैस्तन्निष्पादनं विधत्ते -
छन्दोभिः करोति(३) । वीर्यं वै छन्दाँसि । वीर्येणैवैनं करोति, इति । (प्रपा० ५ । अनु० ३ । विभा० ९)
वीर्यप्रदत्वाद्गायत्र्यादिछन्दसां वीर्यरूपत्वम् ।
कल्पः - “मखस्य रास्नासीत्युपबिलं रास्नां करोति” इति । बिलस्य समीपे वर्तमान हे वलयाकार त्वं यज्ञस्य रास्ना रशनाऽसि । यथा काञ्चीदाम कण्ठाभरणं वा तद्वत् ।
कल्पः - “अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति” इति । पाङ्क्तेन च्छन्दसेति मन्त्रशेषः । हे महावीर पङ्क्तिच्छन्दोदेवतया सहादितिर्भूमिदेवी ते तव बिलं गह्णातु स्वीकरोतु । तमेतं मन्त्रं विनियुङ्क्ते -
यजुषा बिलं करोति व्यावृत्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० १०)
लौकिकेषु मृत्पात्रेषु मन्त्रमन्तरेणैव कुम्भकारा बिलं कुर्वन्ति । अत्र तु मन्त्रेणेति व्यावृत्तिः । महावीरस्य प्रादेशपरिमाणं हस्ताभिनयनेन विधत्ते -
इयन्तं करोति । प्रजापतिना यज्ञमुखेन संमितम्, इति । (प्रपा० ५ । अनु० ३ । विभा० ११)
यज्ञपुरुषस्य शिरश्चिबुकयोर्मध्यवर्ति प्रादेशमात्रम् । प्रजापतिश्च वैश्वानरविद्यायां प्रादेशमात्रत्वेनोपास्यः । यस्त्वेतदेवं प्रादेशमात्रमिति च्छन्दोगैराम्नातत्वात् । अतः प्रादेशमात्रो महावीरः प्रजापतिना यज्ञमुखेन च सदृशो भवति । तदेव परिमाणमनूद्य प्रशंसति -
इयन्तं करोति । यज्ञपुरुषा । संमितम्, इति । (प्रपा० ५ । अनु० ३ । विभा० १२)
यज्ञस्य परुरङ्गमैन्द्रवायवादिग्रहपात्रं तेन सादृश्यं प्रादेशमात्रत्वे संपद्यते । पुनरप्यनूद्य प्रशंसति -
इयन्तं करोति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम्(४), इति । (प्रपा० ५ । अनु० ३ । विभा० १३)
पुरुषशरीरे वीर्यं दर्शनश्रवणादिसामर्थ्यं प्रादेशपरिमितेन मुखे विद्यते । अतो वीर्यसादृश्यमेतस्य भवति । अथ परिमाणाभावरूपं पक्षान्तरं विधत्ते -
अपरिमितं करोति । अपरिमितस्यावरुध्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० १४)
परिमाणनियत्यभावेनापि निमित्तेन बहुलं फलं संपद्यते । यदुक्तं सूत्रकारेण - “उपबिलं ग्रीवां करोति” इति, तदत्र विधत्ते -
परिग्रीवं करोति धृत्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० १५)
ग्रीवायाः परितः परिग्रीवं तत्र वलयाकारो धारणायोपयुज्यते ।
कल्पः - “सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य” इति । हे महावीर सूर्यस्य हरसा तेजसाऽऽतपेन श्राय पक्वः शुष्को भव । मन्त्रस्य स्पष्टार्थतां दर्शयति -
सूर्यस्य हरसा श्रोत्रायेत्याह । यथा यजुरेवैतत्, इति । (प्रपा० ५ । अनु० ३ । विभा० १६)
कल्पः - “मखोऽसीत्यनुवर्तते” इति । हे महावीर त्वं यज्ञसाधनत्वान्मखो यज्ञस्वरूपोऽसि ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥२॥अथ चतुर्थप्रपाठके तृतीयोऽनुवाकः
द्वितीये महावीरनिर्माणयुक्तं तृतीये तत्संस्कारा उच्यन्ते । कल्पः - “वृष्णो अश्वस्येति सकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि” इति । पाठस्तु -
हे महावीर त्वं वृष्णः सेचनसमर्थस्याश्वस्य संबन्धि निष्पन्निःसृतं यच्छकृत्तद्योगेन तद्रूपोऽसि । तादृशं त्वां धृतव्रतः स्वीकृतनियमो वरुणो देव आधूपयतु सर्वतो धूपितं करोतु । मित्रावरुणयोः संबन्धी ध्रुवो धर्मास्थितः पुण्यविशेषस्तद्रूपेण द्रव्येण धूपयत्वित्यन्वयः । अनेन मन्त्रेण साध्यं धूपनं विधत्ते -
अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय, इति । (प्रपा० ५ । अनु० ३ । विभा० १७)
शकशब्देन शकृदुच्यते । अश्वस्य प्रजापत्यक्षिजन्यत्वात्प्राजापत्यत्वम् । अतोऽश्वसंबन्धिधूपेन सर्वकारणभूतप्रजापतिसंबन्धसिद्धेः सयोनित्वं भवति । मन्त्रोक्तमश्वं शकृच्चाऽऽदित्यरूपेण च्छन्दोरूपेण च प्रशंसति -
वृष्णो अश्वस्य निष्पदसीत्याह । असौ वा आदित्यो वृषाऽश्वः तस्य च्छन्दाँसि निष्पत्(५)। छन्दोभिरेवैनं धूपयति, इति । (प्रपा० ५ । अनु० ३ । विभा० १८)
कल्पः - “अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तेषु महावीरानुपावहरति, लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जानादीप्योपोषत्यर्चिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशमपि वा सर्वैः सर्वतः” इति । पाठस्तु -
अर्चिरादयः शब्दा ज्वालाविशेषवाचिनः । हे महावीर त्वामर्चिरादिभ्यः समर्पयामि । एतैर्मन्त्रैर्यजमानस्य शरीरकान्तिः संपद्यत इति दर्शयति -
अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन्दधाति, इति । (प्रपा० ५ । अनु० ३ । विभा० १९)
कल्पः - “पच्यमानान्मैत्र्योपचरत्यभीमं महिना दिवमित्युत्तरया वा” इति । तयोरुभयोर्ऋचोः पाठस्तु -
दिवं दीप्यमानमिमं महावीरमभिलक्ष्य मित्रो देवः सप्रथा विस्तारसहितो बभूव । स्वकीयां मैत्रीं विस्तृतवान् । उतापि च पृथिवीमभिलक्ष्य श्रवसा कीर्त्या सप्रथा बभूव । अस्यां सर्वस्यां पृथिव्यां महावीरस्य कीर्तिं विस्तृतवानित्यर्थः । दिवं दिवि द्युलोक इति वा व्याख्येयम् । चर्षणीधृतो मनुष्यान्मैत्र्या धारयतो मित्रस्य देवस्य सानसिं दानशीलं श्रवः श्रवणं कीर्तिरूपं सर्वे वदन्तीति शेषः । द्युम्नं मित्रेण दत्तं धनं चित्रश्रवस्तममतिशयेन विचित्रकीर्तियुक्तं वर्तते । मन्त्रयोः फलं दर्शयति -
वारुणोऽभीद्धः । मैत्रियोपैति शान्त्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० २०)
कल्पः - “पक्वेषु सिध्यै त्वेति धृष्टीमादाय भस्मापोह्य” इति । हे महावीर त्वां सिध्यै समीचीनस्वरूपसिध्यै महावीरगतभस्मापोहनसिध्यर्थं त्वां स्वीकरोमीति शेषः । मन्त्रस्य स्पष्टार्थतां दर्शयति -
सिध्यै त्वेत्याह । यथा यजुरेवैतत्, इति । (प्रपा० ५ । अनु० ३ । विभा० २१)
कल्पः - “प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति देवस्त्वा सवितोद्वपतु” इति । पाठस्तु -
हे महावीर त्वां सविता देवः स्वशक्त्योद्वपतु । इतोऽवटादूर्ध्वं नयतु । कीदृशः सविता सुपाणिः शोभनाभ्यामुद्यमनकुशलाभ्यां पाणिभ्यां युक्तः । स्वङ्गुरिः शोभनाभिवृद्वपनक्षमाभिरङ्गुलीभिर्युक्तः । उतापि च सुबाहुः शोभनाभ्यां बाहुभ्यां युक्तः । पाणिशब्देन मणिबन्धादूर्ध्वमङ्गुल्याधारभाग उच्यते । बाहुशब्देन मणिबन्धादर्वाचीनभागः । सवितृशब्दस्य तात्पर्यं दर्शयति -
देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरुद्वपति, इति । (प्रपा० ५ । अनु० ३ । विभा० २२)
सवित्रा प्रेरितः सन्मन्त्रेण देवताभिश्च सहोद्वपनं कृतवान्भवति । कल्पः - “उद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य” इति । पाठस्तु -
हे महावीर त्वं पृथिव्यां भूमावपद्यमानोऽसि । भङ्गमप्राप्नुवन्नाशा दिशः प्राच्याद्या मुख्यदिश आग्नेय्याद्या अमुख्यदिशश्चाऽऽपृण सर्वतः पूरय, सर्वत्र प्रसिद्धो भव । उत्तिष्ठोत्सहस्व । बृहन्भव स्वव्यापारेण प्रख्यातो भव । इह सिकतासूर्ध्वमुखः स्थिरस्त्वं तिष्ठ । दिश आपृणेत्यस्य तात्पर्यं दर्शयति -
अपद्यमानः पृथिव्यामाशा दिश आपृणेत्याह(६)। तस्मादग्निः सर्वा दिशोऽनुविभाति, इति । (प्रपा० ५ । अनु० ३ । विभा० २३)
यस्मान्महावीरस्य सर्वदिङ्मू(क्पू)र्तिः प्रार्थ्यते तस्मान्महावीरेणाभिन्नोऽग्निः स्वतेजसा सर्वा दिशः प्रकाशयति -
उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० २४)
कल्पः - “सूर्यस्य त्वा चक्षुषाऽन्वीक्ष इत्यनुवीक्षते” इति । पाठस्तु -
हे महावीर त्वां सूर्यस्य चक्षुषाऽहमनुक्रमेण वीक्षे । ऋजव आर्जवयुक्तायै भूम्यै त्वामीक्षे । साधवे समीचीनायान्तरिक्षाय त्वामीक्षे । सुक्षित्यै शोभननिवासाय द्युलोकाय त्वामीक्षे । भूत्या ऐश्वर्ययुक्ताभ्यो दिग्भ्यस्त्वामीक्षे । त्वद्वीक्षणेन सर्वे लोकाः स्वस्वकार्यक्षमा भवन्तीत्यर्थः । सूर्यस्य चक्षुषेत्यस्य तात्पर्यं दर्शयति -
ईश्वरो वा एषोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषाऽन्वीक्ष इत्याह । चक्षुषो गोपीथाय, इति । (प्रपा० ५ । अनु० ३ । विभा० २५)
स्वचक्षुषा प्रवर्ग्यं पश्यन्नन्धो भवितुं समर्थो भवति, अतः स्वचक्षुषो गोपीथाय सूर्यस्य चक्षुषेत्युक्तम् । ऋज्वादिशब्दैः पृथिव्यादयो वक्ष्यन्त इत्येतद्दर्शयति -
ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्याह । इयं वा ऋजुः । अन्तरिक्षँ साधु । असौ सुक्षितिः(७)। दिशो भूतिः । इमानेवास्मै लोकान्कल्पयति । अथो प्रतिष्ठित्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० २६)
कल्पः - “अथैनान्प्रदक्षिणं सिकताभिः पर्यूहति । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति । विशेति राजन्यस्य पशुभिरिति वैश्यस्य” इति । अहमध्वर्युः, आमुष्यायणममुष्यस्य देवदत्तस्य पुत्रम् । अमुं यज्ञदत्तनामानं महावीररूपेणावस्थितम् । विशा प्रजया पशुभिर्ब्रह्मवर्चसेन चैतत्त्रितयरूपाभिः सिकताभिरिदं प्रत्यक्षं यथा भवति तथा पर्यूहामि परितः स्थिरं करोमि । मन्त्रपाठेन तदर्थस्तथैव फलतीत्येतद्दर्शयति -
इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीत्याह । विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति, इति । (प्रपा० ५ । अनु० ३ । विभा० २७)
क्षत्रियवैश्ययोर्मन्त्रप्रयोगे विशेषं दर्शयति -
विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्यूहति, इति । (प्रपा० ५ । अनु० ३ । विभा० २८)
पशुभिर्ब्रह्मवर्चसेनेत्येतावत्क्षत्त्रियं प्रति परित्यजेत् । वैश्यं प्रति तु विशा ब्रह्मवर्चसेनेत्येतावत्परित्यजेदित्यर्थः । कल्पः - “अथैतान्प्रसूतेनाजापयसाऽऽच्छृणत्ति गायत्रेण त्वा छन्दसाऽऽच्छृणद्मीत्येतैस्त्रिभिस्त्रिभिरेकैकमपि वा सर्वैरेकैकम्” इति । पाठस्तु -
हे महावीर त्वां गायत्रच्छन्दोदेवतारूपेणाजक्षीरेणाऽच्छृणद्मि सर्वतः सिञ्चामि । एवं त्रैष्टुभजागतमन्त्रयोरपि योज्यम् । तथा वागन्नहविरभिमानिन्यो देवतास्त्वां सिञ्चन्तु त्वमपि वागादीन्सिञ्च । एतन्मन्त्रसाध्यं सेचनं विधत्ते -
असुर्यं पात्रमनाच्छृण्णम्(८)। आच्छृणत्ति । देवत्राऽकः, इति । (प्रपा० ५ । अनु० ३ । विभा० २९)
अनाच्छृण्णं क्षीरसेचनरहितं पात्रमसुर्यमुष्णत्वेनात्युग्रत्वादसुरेभ्यो हितं न तु देवेभ्योऽतो देवार्थमासिञ्चेत् । तेन शान्तं शीतलं पात्रं देवेषु करोति । तत्र द्रव्यं विधत्ते -
अजक्षीरेणाऽऽच्छृणत्ति । परमं वा एतत्पयः । यदजक्षीरम् । परमेणैवैनं पयसाऽऽच्छृणत्ति, इति । (प्रपा० ५ । अनु० ३ । विभा० ३०)
सर्वव्याधिहरत्वादजक्षीरस्य परमत्वम् । तत्र सेचने देवस्त्वा सवितेत्यादिकं यजुर्विनियुङ्क्ते -
यजुषा व्यावृत्यै, इति । (प्रपा० ५ । अनु० ३ । विभा० ३१)
उष्णशान्त्यर्थे लोकिके सेचने मन्त्रो नास्ति । अत्र तु यजुषा मन्त्रेण सिञ्चेदिति तद्व्यावृत्तिः । मन्त्रगता़श्छन्दोवाचकशब्दान्प्रशंसति -
छन्दोभिराच्छृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाँस्याच्छृणत्ति, इति । (प्रपा० ५ । अनु० ३ । विभा० ३२)
पूर्वं गायत्रेण च्छन्दसा करोमीत्येवं च्छन्दोयुक्तैर्मन्त्रैरेष महावीरः कृतः, अतोऽयमेव च्छन्दांसि । अत्रापि च्छन्दोवाचकशब्दयुक्तैर्मन्त्रैः सेचने सत्यत्रत्यैश्छन्दोभिरिव पूर्वोक्तानि च्छन्दांसि सिक्तानि भवन्ति । वागादिदेवता महावीरं सिञ्चन्तीत्येतद्युक्तं महावीरस्तु वागादीन्सिञ्चतीत्यत्र प्रयोजनं दर्शयति -
छृन्धि वाचमित्याह । वाचमेवावरुन्धे । छृन्ध्यूर्जमित्याह । ऊर्जमेवावरुन्धे । छृन्धि हविरित्याह । हविरेवाकः, इति । (प्रपा० ५ । अनु० ३ । विभा० ३३)
तैरेतैर्मन्त्रैर्वागन्नप्राप्तिर्हविष्ट्वसिद्धिश्च भवति ।
कल्पः - “अथैनान्कृष्णाजिन उपानह्याऽऽसजति देव पुरश्चर सध्यासं त्वा” इति । पुरश्चर पुरतोवर्तमान हे महावीर देव द्योतनात्मक त्वां सध्यासं कृष्णाजिने बध्वा क्वचिदूर्ध्वदेशे सक्तं कुर्यात् । मन्त्रस्य स्पष्टार्थतां दर्शयति -
देव पुरश्चर सध्यासं त्वेत्याह । यथा यजुरेवैतत्(९), इति । (प्रपा० ५ । अनु० ३ । विभा० ३४)
स्याद्यत्प्रवर्ग्यश्छन्दोभिः करोति वीर्यसंमितं छन्दाँसि निष्पत्पृणेत्याह सुक्षितिरनाच्छृण्णं छन्दाँस्याच्छृणत्यष्टौ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥३॥अथ चतुर्थप्रपाठके चतुर्थोऽनुवाकः
तृतीये महावीरसंस्कारा उक्ताः । चतुर्थे प्रैषा उच्यन्ते । कल्पः - “प्रोक्षणीनामावृत्या प्रोक्षणीः सँस्कृत्य ब्रह्माणमामन्त्रयते ब्रह्मन्प्रवर्ग्येण” इति । पाठस्तु -
हे ब्रह्मन्वयं सर्वे प्रवर्ग्याख्येण कर्मणा प्रचरिष्यामोऽनुष्ठानं संपादयिष्यामः । हे होतस्त्वं घर्मं प्रवर्ग्यं ब्रह्मजज्ञानमित्यादिभिर्मन्त्रैरभिष्टुतं कुरु । आग्नीध्र रौहिणाख्यो पुरोडाशावधिश्रय श्रपणार्थं कपालस्योपरि स्थापय । हे प्रतिप्रस्थातर्विहरणं कुरु । तच्च विहरणं बौधायनेन दर्शितम् - “अथ प्रतिप्रस्थाता प्रवर्ग्यं विहरत्याहवनीये कार्ष्म(श्म)र्यमयान्परिधीन्परिदधाति” इतियादि । हे प्रस्तोतः प्रवर्ग्यार्थानि सामानि गाय । कल्पः - “यजुर्युक्तँ सामभिराक्तखं त्वेत्युपांशूक्त्वोमिन्द्रवन्तः प्रचरतेत्युच्चैरनुजानाति” इति । पाठस्तु -
हे प्रवर्ग्य त्वां स्तुभः सामसु प्रयुज्यमानाः स्तोभा वहन्तु विघ्नपरिहारेण समाप्तिपर्यन्तं निर्वहन्तु । कीदृशं त्वाम् । यजुर्युक्तं यजुरुपलक्षितैर्मन्त्रैः संबद्धम् । सामभिराक्तखमाक्तान्याप्यायितानि खानीन्द्रियाण्यवयवा यस्य प्रवर्ग्यस्य सोऽयमाक्तखस्तादृशम् । सामगानेन हि प्रवर्ग्य आप्यायितो भवति । तथा विश्वैर्देवैर्मरुद्भिरनुमतमङ्गीकृतम् । प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददातीत्यादिभिर्दक्षिणाभिः प्रततं विस्तीर्णम् । पारयिष्णुं निर्विघ्नेन समाप्तिं गन्तुं शक्तम् । सुमनस्यमानं यजमाने स्नेहातिशयेन सौमनस्ययुक्तम् । हे प्रवर्ग्य स त्वमहृणीयमानः केनाप्यहिंस्यमानो नोऽस्मदर्थं रुचं धेहि महतीं ज्वालां धारय । भूरादयस्त्रयो लोका अनुगृह्णन्तु । प्रणवशब्दवाच्यः परमात्माऽप्यनुगृह्णातु । हे, ऋत्विजो यूयमिन्द्रवन्त इन्द्रदेवतास्वामिकाः सन्तः प्रचरत प्रवर्ग्यमनुतिष्ठत । अयमनुवाकः स्पष्टार्थबुध्या ब्राह्मणेनोपेक्षितः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥४॥अथ चतुर्थप्रपाठके पञ्चमोऽनुवाकः
चतुर्थे प्रैषा उक्ताः । पञ्चमे तु खरगतेष्वङ्गारेषु महावीरस्थापनमुच्यते । तत्राऽऽदौ पूर्वोक्तप्रैषमन्त्रे पाठान्तरं दर्शयति -
पूर्वमाम्नाते मन्त्रे प्रवर्ग्येणेति शब्दोऽस्ति । अस्मिंस्त्वसौ नास्तीत्येतावान्पाठविशेषः । ब्रह्मन्निति संबोधनस्य तात्पर्यं दर्शयति -
ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः । यद्ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनोऽनार्त्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० १)
एतर्हि कर्मकाले यो ब्रह्माऽस्ति एष एव बृहस्पतिस्थानीयः । तस्मै बृहस्पतये कथयित्वा प्रचारे सति स्वस्याऽऽर्तिवैकल्यनिमित्तापराधो न भवति । कल्पः - “यमाय त्वा मखाय त्वेति सर्वं परिघर्म्यमभिपूर्वं त्रिः प्रोक्षति” इति । पाठस्तु -
हे घर्म पात्रसमूह यमाय नियमार्थं त्वां प्रोक्षामीति शेषः । तथा मखाय यज्ञार्थं त्वां प्रोक्षामि । सूर्यस्य हरसे सूर्यसंबन्धितेजोर्थं सूर्यमण्डलपर्यन्तं ज्वालोद्गमार्थं त्वां प्रोक्षामि । यममखसूर्यशब्दैः सूचिताभिः प्रवर्ग्यदेवताभिः सर्वाभिः संपादितां प्रवर्ग्यसमृद्धिं दर्शयति -
यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति, इति । (प्रपा० ५ । अनु० ४ । विभा० २)
प्रोक्षणद्रव्यं विधत्ते -
मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति(१), इति । (प्रपा० ५ । अनु० ४ । विभा० ३)
तप्ता आपो मदन्त्यः, ताभिः प्रोक्षणे यजमाने कान्तिः संपद्यते । तत्रानुक्रमं विधत्ते
अभिपूर्वं प्रोक्षति । अभिपूर्वमेवास्मिन्तेजो दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० ४)
पूर्वं प्रथमं महावीरमभिलक्ष्याभिपूर्वं तदादिकमेव प्रोक्षेत्, न तु विपर्ययेण । एवं सति यजमाने पितृपुत्रादिक्रमेणैव तेजः संपद्यते । आवृत्तिं विधत्ते -
त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय, इति । (प्रपा० ५ । अनु० ४ । विभा० ५)
अग्नित्रयसाध्यत्वेन सवनत्रयरूपत्वेन वा यज्ञस्याऽऽवृत्तित्रयोपेतत्वम्, अपि च प्रोक्षणावृत्या सिध्यतीत्या(त्यति)शये सति यज्ञयोग्यता संपद्यते । होतर्घर्ममभिष्टुहीति प्रैषस्योक्तत्वाद्धोतृत्यमनुवचनं विधत्ते -
होताऽन्वाह । रक्षसामपहत्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ६)
होतुरनुवचनं यज्ञविघातिनां रक्षसां वधाय भवति । अयं चानुवाकप्रकार आश्वलायनेन स्पष्टमभिहितः - “स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यन्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानमृचमृचमनवानमुक्त्वा प्रणुत्यावस्येद्ब्रह्मजज्ञानम्” इत्यादिः । तत्रैकस्या ऋचो मध्ये श्वासराहित्यं विधत्ते -
अनवानम् । प्राणानाँ संतत्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ७)
अवानः श्वासस्तद्रहितं यथा भवति तथा पठेत् । तच्च यजमानप्राणानामविच्छेदाय भवति । तास्वृक्षु गायत्रीधर्ममतिदिशति -
त्रिष्टुभः सतीर्गायत्रीरिवान्वाह(२)। गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० ८)
यद्यपि ब्रह्मजज्ञानमित्यादयस्त्रिष्टुभस्तथाऽपि गायत्रीवदनुवचनं कुर्यात् । गायत्रीरूपं ध्यात्वा पठेदित्यर्थः । प्राणस्य गायत्रत्वाद्गायत्रीसमानानुवचनेन यजमाने प्राणं स्थैर्येण स्थापयति । गायत्र्या रक्ष्यमाणत्वात्प्राणस्य गायत्रत्वम् । तद्रक्ष्यत्वं च प्राणस्य वाजसनेयिनः समामनन्ति - “प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम” इति । अनुवचनकाले व्यापारान्तरेण व्यवधानं निवारयति -
संततमन्वाह । प्राणानामन्नाद्यस्य संतत्यै । अथो रक्षसामपहत्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ९)
एकामृचमुक्त्वा प्राणानामवसानं कृत्वाऽपि पुनरप्यन्यामृचमेव ब्रूयात्, न त्वन्यं वाग्व्यापारं कुर्यात् । तदिदं सांतत्यम् । एतेन प्राणा अविच्छिन्ना भवन्ति, अन्नं च न विच्छिद्यते, रक्षांसि चापहन्यन्ते । ऋचां बहुत्वं विधत्ते -
यत्परिमिता अनुब्रूयात् । परिमितमवरुन्धीत । अपरिमिता अन्वाह । अपरिमितस्यावरुध्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० १०)
ऋचामल्पत्वे फलमप्यल्पं स्यात् । अतः फलबाहुल्याय बह्वीरनुब्रूयात् । यदुक्तं सूत्रकारेण - “अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याविच्छिन्नाग्रेण वेदेनोपरिष्टात्संमार्ष्टि” इति । तत्र वेदस्य दर्भमयत्वं वारयितुं मौञ्जत्वं विधत्ते -
शिरो वा एतद्यज्ञस्य(3) । यत्प्रवर्ग्यः ऊर्ङ्मुञ्जाः। यन्मुञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्धयति, इति । (प्रपा० ५ । अनु० ४ । विभा० ११)
प्रवर्ग्यस्य सज्ञशिरस्त्वं प्रथमानुवाके प्रपञ्चितम् । मुञ्जास्तृणविशेषाः, तेषां पशुभिर्भक्ष्यत्वादूर्ग्रूपत्वम् । अतो वेदस्य मौञ्जत्वे सत्यूर्ग्रूपेण वेदेन यज्ञस्य शिरः समृद्धं करोति । कल्पः - “प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाऽऽहवनीये सप्तैकादश वा प्राणाहुतीर्हुत्वा” इति । पाठस्तु -
प्राणादिदेवेभ्यः स्वाहुतमिदमस्तु । वाच इत्यनेन सरस्वती विशेष्यते, शब्दात्मिकाया वाग्देवताया इत्यर्थः । दक्ष उत्साहः । क्रतुः संकल्पः । ओजोऽष्टमो धातुः । तत्कार्यं बलम् । एतैर्मन्त्रैः साध्यान्होमान्विधत्ते -
प्राणाहुतीर्जुहोति । प्रणानेव यजमाने दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० १२)
तत्र सप्तसंख्यापक्षं विधत्ते -
सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन्दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० १३)
शिरोगतसप्तच्छिद्रवर्तिप्राणानां सप्तत्वात्संख्यया तत्प्राप्तिः ।
कल्पः - “देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेणोपर्याहवनीये महावीरमङ्क्त्वा” इति । हे महावीर त्वां सविता देवो मध्वा मधुरेण घृतेनानक्तु अक्तं करोतु । मध्वेति प्रयोगाद्यजमानस्य तेजोव्याप्तिं दर्शयति -
देवस्त्वा सविता मध्वाऽनक्त्वित्याह(४) । तेजसैवैनमनक्ति, इति । (प्रपा० ५ । अनु० ४ । विभा० १४)
कल्पः - “पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतं रुक्मं निधाय” इति । हे रुक्म पृथिवीमेतां तपसस्त्रायस्व, अग्निसंतापाद्रक्ष । मन्त्रस्य तात्पर्यं दर्शयति -
पृथिवीं तपसस्त्रायस्वेति । हिरण्यमुपास्यति । अस्या अनतिदाहाय, इति । (प्रपा० ५ । अनु० ४ । विभा० १५)
अस्याः पृथिव्या इत्यर्थः । रुक्मस्योपरि प्रदीप्तानां मुञ्जानां प्रक्षेपं विधत्ते -
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रतिदधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० १६)
अग्नेः सर्वदेवतात्वं ते देवा अग्नौ तनूः संन्यदधतेति श्रुतेरवगन्तव्यम् । प्रलवाः प्रकर्षेण लूना मुञ्जामुष्टयः, तानग्नौ सर्वतः प्रदीप्यरुक्मस्योपरि निदध्यात् । एवं सत्यग्निरूपासु देवतास्वेव प्रवर्ग्यरूपं यज्ञशिरःस्थापनं भवति । प्रदीपनप्रकारस्तु सूत्रकारेण स्पष्टमुक्तः - “द्वयान्मुञ्जप्रवलानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयत्यर्चिषे त्वेति, तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वेति, तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वेति, तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा” इति । प्रदीप्तमुञ्जस्थापने कंचिद्विशेषं विधत्ते -
अप्रतिशीर्णाग्रं भवति । एतद्बर्हिर्ह्येषः(५), इति । (प्रपा० ५ । अनु० ४ । विभा० १७)
दीप्तमुञ्जानामग्रं प्रतिशीर्णमितस्ततो विप्रसृतं यथा न भवति तथा समुह्यैव स्थापयेत् । यस्मादयं प्रवर्ग्य एतद्बर्हिर्मुञ्जरूपबर्हिर्युक्तः, तस्माद्वेद्यास्तरणबर्हिष इवाप्रतिशीर्णत्वं युक्तम् ।
कल्पः - “तान्व्यत्यस्तानुपरि रुक्मे निदधाति, अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि” इति । हे दक्षिणमुञ्जाग्रभाग त्वमर्चिर्ज्वालारूपोऽसि । हे उत्तरमुञ्जमूलभाग त्वं शोचिः शुचिरूपोऽसि । हे दक्षिणमुञ्जमूलभाग त्वं ज्योतिः प्रकाशरूपोसि । हे, उत्तरमुञ्जमूलभाग त्वं तपः संतापरूपोऽसि । मन्त्रतात्पर्यं दर्शयति -
अर्चिरसिशोचिरसीत्याह । तेज एवास्मिन्ब्रह्मवर्चसं दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० १८)
शरीरकान्तिः श्रुताध्ययनसंपत्तिश्चेत्युभयविधप्रकाशस्तेन मन्त्रेण यजमाने संपद्यते । कल्पः - “सँसीदस्व महाँ असीति तेषु महावीरं प्रतिष्ठाप्य” इति । पाठस्तु -
हे महावीर सँसीदस्व त्वमेतेषु प्रदीप्तमुञ्जेषु सम्यगुपविश । महाँ असि त्वं गुणैरधिकोऽसि, अतो देववीतमोऽतिशयेन देवैः काम्यो भूत्वा शोचस्व दीप्यस्व । हे मियेध्य मेधार्ह, प्रशस्तोत्कृष्टाग्ने, अरुषमरोषणमनुग्रं दर्शतं द्रष्टुं शक्यं धूमं विशेषेण सृज । प्रौढस्य कर्मणो हेतुत्वान्महच्छब्दार्थः प्रसिद्ध इत्येतद्दर्शयति -
सँसीदस्व महाँ असीत्याह । महान्ह्येषः, इति । (प्रपा० ५ । अनु० ४ । विभा० १९)
कल्पः - “अञ्जन्ति यं प्रथयन्ति इति स्रुवेण महावीरमनक्त्यभिपूरयति च” इति । पाठस्तु -
विप्रा ब्राह्मणा ऋत्विजो वपावन्तं मध्ये रन्ध्रयुक्तं यं महावीरं प्रथयन्तो न प्रख्यापयन्त इवाञ्जन्ति घृतेनाक्तं कुर्वन्ति । कीदृशा विप्राः । अग्निना न तपन्तः प्रज्वालयाऽत्यन्तं दाहमकुर्वन्तः । अञ्जनाभावे ह्यतितापेन महावीरस्य भङ्गोऽपि प्रसज्येत । स घर्मो विप्रैरक्तो महावीर ऋतयन्नृतं यज्ञं निष्पादयन्नग्निमेतमसादीदासन्नवान्प्राप्तवान् । तत्र दृष्टान्तः - पितुरुपसि, उपान्तिके, प्रेष्ठः पुत्रो न प्रियतमः पुत्र इव । कल्पः - “अध्यधि महावीरमसंस्पृशन्यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्गम्” इति । पाठस्तु -
पुरस्तात्पूर्वस्यां दिशि वर्तमाने हे देवतेऽनाधृष्या केनाप्यतिरस्कार्या त्वमग्नेराधिपत्ये वर्तमाना सती, आयुर्मे दा मे देहि । एवं दिगन्तरेषु योज्यम् । पुत्रवती पुत्रयुक्ता देवता । सुषदा सुखेनोपविष्टा । आश्रुतिः सर्वत्र प्रख्याता । विधृतिः सर्वस्य विधारयित्री । ब्रह्म मन्त्रजातं, क्षत्त्रं बलं तत्सर्वशो देहि । तेजः शरीरकान्तिः, वर्चो दीप्तिः, यशः ख्यातिः, तपो नियमविशेषः, मनश्चित्तदार्ढ्यम् । एतत्सर्वं धाः संपादय । मन्त्रस्य तात्पर्यं दर्शयितुमादौ ब्रह्मवादिनां प्रश्नोत्तरमाह -
ब्रह्मवादिनो वदन्ति । एते वाव त ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाऽऽशिषो नाऽऽशास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादशीरन्यः(३), इति । (प्रपा० ५ । अनु० ४ । विभा० २०)
दर्शपूर्णमासयोर्ब्रह्मा होताऽध्वर्युरग्नीदित्याम्नाता ऋत्विजो ये सन्ति त ऋत्विजः सर्वेऽप्येत एवात्रापि वर्तन्ते । अथैवं सति तत्र होता यजमानस्याऽऽयुराद्याशिषः प्रार्थितवान्, सूक्तवाकमाशास्तेऽयं यजमानोऽसावित्यादिमन्त्रपाठात् । अत्र तु स एव होता कथा कथमाशिषो नाऽऽशास्त इति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञस्यैतदुत्तरम् । द्विविधो हि यज्ञः पुरस्तादाशीरुपरिष्टादाशीश्चेति । तथा सति यत्र प्रधानकर्मण ऊर्ध्वमाशीराशासनीया तत्रैव होतुस्तत्कर्तव्यता, इह तु पुरस्तादाशीरिति कृत्वा होता नाऽऽशास्ते । अथ मन्त्रतात्पर्यं दर्शयति -
अनाधृष्या पुरस्तादिति यदेतानि यजूँष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽवरुन्धे, इति । (प्रपा० ५ । अनु० ४ । विभा० २१)
महावीरस्योपरि प्रादेशधारणेनैतेषु यजुःषु यजमानेन पठितेषु यज्ञशिरोरूपमहावीरसकाशादेव यजमानः सर्वा अप्याशिषः प्राप्नोति । एतेषां च यजुषां प्रधानकर्मणः पुरा पठनीयत्वादयं यज्ञः पुरस्तादाशीः । कास्ता मन्त्रोक्ता आशिष इत्याशङ्क्य दिग्भेदेन व्यवस्थितास्ता दर्शयति -
आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृतिमुपरिष्टात् । प्राणानेवास्मै समीचो दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० २२)
विधृतिशब्देन ब्रह्मक्षत्रादयः सर्वेपि विधेयत्वादुपलक्ष्यन्ते । अनेन मन्त्रपाठेनायं यजमानोऽस्मै स्वदेहार्थं प्राणान्समीचोऽनुकूलानवस्थापयति । कल्पः - “मनोरश्वाऽसि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति” इति । पाठस्तु -
हे भूमे त्वं मनोरश्वा मनुष्यजातेर्व्यापिका सती, भूरिपुत्रा बहुभिः पुत्रैर्युक्ताऽसि । ये प्राणिनो भूमेरुत्पन्नास्ते सर्वेऽपि भूमेः पुत्राः । तादृशी त्वं विश्वाभ्यो नाष्ट्राभ्यो विनाशकारणेभ्यः सर्वेभ्यो मां पाहि, मे मम सूपसदा सुखेन सेवितुं योग्या भूयाः, मां मा हिँसीः, हिंसितं मा कुरु । अनेन मन्त्रेण साध्यं भूमिस्पर्शं विधत्ते -
ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनुव्यास्थापयन्ति( )। मनोरश्वासिभूरिपुत्रेतीमामभिमृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रतितिष्ठत्यनुन्मादाय, इति । (प्रपा० ५ । अनु० ४ । विभा० २३)
लोके यं पुरुषं मनुष्या दिशो व्यास्थापयन्ति बह्वीर्दिशोऽनुक्रमेण विविधं संचारयन्ति, एष संचारी पुरुषो दिशेऽननुलक्ष्योनमदितोरीश्वर उन्मत्तो भवितुं समर्थो भवति, दिग्भ्रमं प्राप्नोतीत्यर्थः । तस्यानेन मन्त्रेण भूमिस्पर्शे सत्युन्मादो न भवति । मा हिँसीरित्यस्य तात्पर्यं दर्शयति -
सूपसदा मे भूया मा मा हिँसीरित्याहाहिँसायै, इति । (प्रपा० ५ । अनु० ४ । विभा० २४)
कल्पः - “तपो ष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य” इति । पाठस्तु -
हे ग्नेऽन्तरान्देवयजनमध्ये गूढत्वेन वर्तमानानमित्रान्रक्षोरूपाञ्शत्रून्सुतपः(पो) सुष्ठु तपस्तप्तान्कुरु(र्वेव) । अररुषः, अररुर्वै नामासुर आसीदिति श्रुतस्यारुरुनामकस्य परस्य शत्रोः शँसं संस्तवं तप विनाशय । हे वसो वासहेतो वह्ने चिकितानोऽभिज्ञस्त्वमचित्तानस्मासु चित्तरहितान्विरोधिनस्तप । ते सर्वेऽप्यमित्रा वितिष्ठन्तां परस्परमेलनं परित्यज्य विविधं यथा भवति तथा तिष्ठन्तु । ततो वयमजरा वयोहानिरहिताः, अयास आयासरहिताश्च भूयास्मेति शेषः ।
कल्पः - “चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यू(र्यु)ह्य” इति । स्वाहा मरुद्भिः परिश्रयस्वेति मन्त्रशेषः । हेऽङ्गारा यूयं गार्हपत्यात्पृथक्कृताः सन्तश्चितो महावीरसमीपे संचिताः परिचितः स्थ परितः समूहरूपा भवथ । हे महावीर मरुद्भिरङ्गाररूपैर्देवैः स्वाहा परिश्रयस्व सुष्ठु परितो व्याप्तो भव । स्वाहाशब्दो निपातत्वादनेकार्थवाची । मन्त्रे पूर्वभागस्य तात्पर्यं दर्शयति -
चितः स्थ परि चित इत्याह । अपचितिमेवास्मिन्दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० २५)
अङ्गारेषु परितः सेवकवत्स्थितेषु मध्ये स्थितस्य महावीरस्य राज्ञ इव पूजा संपद्यते । उत्तरभागे मरुच्छब्देन विवक्षितमर्थं दर्शयति -
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः(८) । स्वाहा मरुद्भिः परिश्रयस्वेत्याह । अमुमेवाऽऽदित्यँ रश्मिभिः पर्यूहति । तस्मादसावादित्योऽमुष्मिल्ँ लोके रश्मिभिः पर्यूढः । तस्माद्राजा विशा पर्यूढः । तस्माद्ग्रामणीः सजातैः पर्यूढः, इति । (प्रपा० ५ । अनु० ४ । विभा० २६)
यज्ञशिरोरूपः प्रवर्ग्य आदित्यस्थानीयः, देवतात्वेन भाविता अङ्गारा रशमिस्थानीया अतो महावीरस्याङ्गारैः पर्यूहणेनात्राऽऽदित्यमेव रश्मिभिः परितो व्यापयति । यस्मादेवं तस्मात्स्वर्गे लोकेऽप्यादित्यो रशमिभिर्व्याप्तो दृश्यते । तथा भूलोकेऽपि महावीरवन्मुख्यो राजाऽङ्गारवदुपसर्जनभूतया प्रजया व्याप्तो भवति । एकस्मिन्ग्रामे ग्रामणीर्मुख्यः पुरुषः सजातैः सहोत्पन्नैरुपसर्जनैः पुरुषैः परितो व्याप्तो दृश्यते । कल्पः - “वैकङ्कतैः परिधिभिः परिधत्तो मा असीति प्राञ्चावध्वर्युर्निदधाति प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता । एवमवशिष्टानां पूर्वेण पूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाताऽध्वर्युरेव दक्षिणतस्त्रयोदशं निदधात्यन्तरिक्षस्यान्तर्धिरसि” इति । पाठस्तु -
हे परिधे प्रागग्रत्वेन दक्षिणदिग्वर्ती, उत्तरदिग्वर्ती वा त्वं मा असि महावीरस्थानं मातुमियत्तया परिच्छेत्तुं समर्थोऽसि । तथा हे परिधे, उदगग्रत्वेन प्राग्दिग्वर्ती पश्चिमदिग्वर्ती वा त्वं प्रमा असि प्रकर्षेण मातुं समर्थोऽसि । तृतीयपञ्चममन्त्रौ प्रथममन्त्रवद्व्याख्येयौ । चतुर्थषष्ठमन्त्रौ द्वितीयमन्त्रवद्व्याख्येयौ । एवं त्रिभिर्मन्त्रैर्विषममन्त्रोपेतैरध्वर्युर्दिग्द्वये प्रागग्रान्षट्परिधीन्परिदधाति । हे त्रयोदशपरिधे त्वमन्तरिक्षस्य लोकस्यान्तर्धिरसि महावीराद्व्यवधानकरोऽसि । अनेन मन्त्रेणोर्ध्वलोकदिग्व्यवधानबुध्या दक्षिणभागेऽध्वर्युरेकं परिधिं परिदध्यात् । तैर्मन्त्रैः परिधेयानां परिधीनां वृक्षविशेषं विधत्ते -
अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवावरुन्धे, इति । (प्रपा० ५ । अनु० ४ । विभा० २७)
प्रजापतिसृष्टस्य पलायमानस्याग्नेस्तेजो विकङ्कतं वृक्षं प्रति प्राविशत्, अतो वैकङ्कतपरिधिभिस्तत्तेजः प्राप्नोति । परिधीनां संख्यां विधत्ते -
द्वादश भवन्ति(९)। द्वादश मासाः संवत्सरः । संवत्सरमेवामरुन्धे, इति । (प्रपा० ५ । अनु० ४ । विभा० २८)
अधिकमेकं परिधिं विधत्ते -
अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमवरुन्धे, इति । (प्रपा० ५ । अनु० ४ । विभा० २९)
ज्योतिः शास्त्रविदः कदाचित्कदाचित्संक्रान्तिरहितोऽधिकमासस्त्रयोदशोऽस्तीत्येवमाहुः । त्रयोदशेन परिधिना तन्मासप्राप्तिर्भवति । अन्तर्धेरेव तात्पर्यं दर्शयति -
अन्तरिक्षस्यान्तर्धिरसीत्याह व्यावृत्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ३०)
एतावती महावीरस्य सीमा, इत ऊर्ध्वमन्तरिक्षलोक इति विभागो व्यावृत्तिः ।
कल्पः - “दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेणापिधाय” इति । महावीरस्योपरि पिधानत्वेन स्थाप्यमान हे रुक्म दिवं द्युलोकं तपसो वह्नितापात्त्रायस्व पालय । एतन्मात्रसाध्यं रुक्मस्थापनं विधत्ते -
दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्यमधि निदधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परिगृह्णाति, इति । (प्रपा० ५ । अनु० ४ । विभा० ३१)
उपरितनरुक्मव्यवधानेन द्युलोकस्यातिदाहो न भवति । अपि चोर्ध्वाधोगताभ्यां रुक्माभ्यामेनं महावीरमुभयतो दृढं परिगृह्णाति । कल्पः - “आभिर्गीर्भिरिति तिसृभिरभिमन्त्र्य” इति । तत्र प्रथमामाह -
हे हरिवोऽश्वयुक्तेनेन्द्रत्वेन स्तूयमान महावीराऽऽभिर्गार्भिरस्मदीयस्तुतिभिर्वर्धमानस्त्वमतोऽस्मात्कर्मण ऊनं यदङ्गं नोऽ(तन्नोऽ)स्मदर्थमाप्याययाभिवर्धय । यदा यस्मिन्काले स्तोतृभ्यः स्तोत्रनुग्रहार्थं महिगोत्रा महतो मेघान्रुजासि भग्नान्करोषि, अध तदा वयं ते तवानुग्रहाद्भूयिष्ठभाजः स्यम प्रभूतधनानां लब्धारो भूयास्म । अथ द्वितीयामाह -
हे पूषन्पोषक महावीराऽऽदित्यत्वेन स्तूयमान ते तव शुक्रं शुद्धं स्वरूपमन्यदनेकप्रकारम् । उदयकाले रक्तवर्णं रूपमन्यत्, मध्याह्नकाले श्वेतवर्णं रूपमन्यत्, इत्येवमनेकप्रकारत्वम् । तथा ते तव यजतं पूजनमप्यन्यत् । प्रातःकाले मित्रस्य चर्षणी धृत इत्यादिभिर्मन्त्रैः पूज्यसे, मध्याह्न आसत्येनेत्यादिभिः । तथाविधया निष्पादिते अहनी अपि विषुरूपे नानारूपे । अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति । अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं विचित्रकार्यकृदपि त्वं द्यौरिवासि, आकाशं यथैकरूपं तद्वत्त्वमपि सर्वत्र पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते प्रमीयन्ते पदार्था आभिश्चित्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कव्यदानवाचिना स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावोऽन्नवन्विश्वा हि मायाः सर्वा अप्यस्मदीयचित्तवृत्तीरवसि रक्षसि । हे पूषंस्ते तव रातिर्भद्राऽस्तु फलप्रदानं समीचीनं भवतु । अथ तृतीयामाह -
हे रुद्र महावीर रुद्रत्वेन स्तूयमान, अर्हन्योग्यः सन्सायकानि बाणान्धन्व धनुश्च बिभर्षि हस्तयोर्धारयसि । तथैवार्हन्योग्यः सन्यजतं पूजासाधनं विश्वरूपं नानाविधं निष्कमाभरणं बिभर्षि कर्णकण्ठहस्तादौ धारयसि । तथैवार्हन्योग्यः सन्नब्भुवमबादिभ्यः पञ्चभूतेभ्य उत्पन्नमिदं जगद्दयसे पालयसि । अतो हे रुद्र त्वदोजीयस्त्वत्तो बलवद्वस्तु किमपि नैवास्ति । एतन्माहावीरस्य सायकादिधारणासंभवमाशङ्क्य स्तुतित्वेन परिहरति -
अर्हन्बिभर्षि सायकानि धन्वेत्याह(१०)। स्तौत्येवैनमेतत्, इति । (प्रपा० ५ । अनु० ४ । विभा० ३२)
अनेनैव न्यायेन पूर्वोक्तमन्त्रद्वयार्थासंभवमाशङ्काऽपि परिहर्तव्या ।
कल्पः - “धवित्राण्यादत्ते गायत्रमसीति प्रथमं त्रैष्टुभमसीति द्वितीयं जागतमसीति तृतीयम्” इति । वायुना ज्वालोत्पादकं व्यजनं धवित्रम् । हे प्रथमधवित्र त्वं गायत्रमसि गायत्रीच्छन्दोदेवतारूपमसि । एवमुत्तरयोरपि योज्यम् । एतैर्मन्त्रैः साध्यमादानं विधत्ते -
गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्यादत्ते । छन्दोभिरेवैनान्यादत्ते, इति । (प्रपा० ५ । अनु० ४ । विभा० ३३)
गायत्रादिशब्दैर्महावीरस्य व्यवहारच्छन्दोदेवताभिरादानसिध्यर्थो द्रष्टव्यः॥
कल्पः - “तैरेनं त्रिरूर्ध्वमुपवीजयतीति मधु मधु” इति । तृतीयो मधुशब्दो मन्त्रशेषः । हे धवित्रत्रय मधु समीचीनं ज्वालोत्पादनं यथा भवति तथा वायुं कुर्विति शेषः । एतन्मन्त्रसाध्यां क्रियां विधत्ते -
मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति, इति । (प्रपा० ५ । अनु० ४ । विभा० ३४)
समीचीनवायुरूपत्वात्प्राणस्य मधुत्वम् । यदुक्तं सूत्रकारेण - “तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमाग्नीध्रायाऽऽग्नीध्रप्रथमास्त्रि प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति” इति । तदिदं विधत्ते -
त्रिः परियन्ति । त्र्यावृद्धि प्राणः, इति । (प्रपा० ५ । अनु० ४ । विभा० ३५)
प्राणापानव्यानाख्यवृत्तिभेदात्प्राणस्य त्रैगुण्यं प्रदक्षिणत्रयेण सिध्यति । तमेव विधिमनूद्य प्रशंसति -
त्रिः परियन्ति । त्र्यावृद्धि यज्ञः(११)। अथो रक्षसामपहत्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ३६)
सवनत्रयानुष्ठानेन यज्ञस्याऽऽवृत्तित्रयम् । अपि च प्रदक्षिणत्रयेण रक्षांस्यपहन्यन्ते । यदुक्तं सूत्रकारेण - “अध्वर्युप्रथमा अनभिधून्वन्तस्त्रिः परियन्ति” इति । तदिदं विधत्ते -
त्रिः पुनः परियन्ति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुष्वेव प्रतितिष्ठन्ति, इति । (प्रपा० ५ । अनु० ४ । विभा० ३७)
पूर्वोक्ताः प्रदक्षिणावृत्तयस्तिस्र एताश्च विपरीतवृत्तयस्तिस्र इत्येवं षट्संपत्तिः । चतुर्थावृत्तिं निषेधति -
यो वै घर्मस्य प्रियां तनुवमाक्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियां तनुवमाक्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताँ ह वा अस्योग्रदेवो राजनिराचक्राम(१२)। ततो वै स दुश्चर्माऽभवत् । तस्मात्त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपीथाय, इति । (प्रपा० ५ । अनु० ४ । विभा० ३८)
घर्मस्य महावीरस्य प्रियशरीराक्रमणे त्वग्दोषः स्यात् । यः पुमानपेक्षितं प्रदक्षिणत्रयं कृत्वा ततश्चतुर्थं प्रदक्षिणमनपेक्षितमपि कुर्यात्, स एव प्रियशरीरमाक्रामतीति त्वग्दोषं प्राप्नुयात् । न चैतद्वार्तामात्रं किंतु कश्चिद्राजनिनामकः पुरुष उग्रदेव उग्राणामृत्विजां शास्त्रार्थमुल्लङ्घयतां स्वामी सन्कदाचिदेतां प्रियतनूमाचक्राम । ततोऽपराधात्कुष्ठरोगवानभूत् । अतः स्वदेहरक्षार्थं चतुर्थावृत्तिं न कुर्यात् । धवित्राणि प्रशंसति -
प्राणा वै धवित्राणि, इति । (प्रपा० ५ । अनु० ४ । विभा० ३९)
यदुक्तं सूत्रकारेण - “तमभिमुखाः पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽव्यतिषङ्गमूर्ध्वं धून्वन्तः” इति । तत्र धवित्रदण्डानां यः परस्परसंश्लेषाभावस्तमिमं विधत्ते -
अव्यतिषङ्गं धून्वन्ति । प्राणानामव्यतिषङ्गाय क्लृप्त्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ४०)
प्राणादिवृत्तीनां सांकर्यपरिहारेण स्वव्यापारसामर्थ्यार्थो धवित्राणामयमव्यतिषङ्गः ।
विनिषद्य धून्वन्ति । दिक्ष्वेव प्रतितिष्ठन्ति, इति । (प्रपा० ५ । अनु० ४ । विभा० ४१)
पुरस्तादध्वर्युरित्याद्यभिधानाद्दिक्षु प्रतिष्ठा । ऊर्ध्वाभिमुखत्वेन वायूत्पादनं विधत्ते -
ऊर्ध्वं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै, इति । (प्रपा० ५ । अनु० ४ । विभा० ४२)
स्वर्गस्योर्ध्ववर्तित्वादूर्ध्वधूननेन तत्प्राप्तिः । सर्वासु दिक्षु धूननं विधत्ते -
सर्वतो धून्वन्ति । तस्मादयँ सर्वतः पवते, इति । (प्रपा० ५ । अनु० ४ । विभा० ४३)
दधातीवान्वाह यज्ञस्याऽऽहैष उपरिष्टादाशीरन्यो व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥
यस्मान्महावीरस्य सर्वासु दिक्षु वायुमुत्पादयन्ति तस्माल्लोकेऽप्ययं वायुः सर्वासु दिक्षु संचरति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥५॥अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः
पञ्चमे महावीरस्तापनमुक्तम् । षष्ठे तस्याभिमन्त्रणमुच्यते । कल्पः - “अध्वर्युर्महावीरमभिमन्त्रयते दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेन” इति । तत्राऽऽदावेकामृचमाह -
हे महावीर प्राचीः प्राग्दिग्वर्तिन्यो ज्वाला दशसंख्याका यथा भवन्ति तथा भासि त्वं दीप्यसे । एवं दक्षिणादिषु योज्यम् । ताभिरेताभिः सर्वाभिर्ज्वालाभिः सौमनस्यं प्राप्तं(प्तः), स त्वमहृणीयमानः केनाप्यहिंस्यमानः सन्नोऽस्मदर्थं रुचं धेहि तेजो धारय । अथ दिग्भेदेन देवताविशेषप्रतिपादकानि पञ्च यजूंषि तत्र प्रथमं यजुराह -
हे महावीर त्वां पूर्वस्यां दिशि वसुभिर्देवैर्गायत्रीच्छन्दोदेवतया च सहाग्निर्देवो रोचयतु दीपयतु । पुरतो रुचितो दीपितः स त्वं मां रोचय प्रकाशय । अस्मिन्मन्त्रे यदग्नेर्दीपकत्वं तन्मुख्यमेव न तूपचरितमित्येवकारेण दर्शयति -
अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह । अग्निरेवैनं वसुभिः पुरस्ताद्रोचयति गायत्रेण छन्दसा, इति । (प्रपा० ५ । अनु० ५ । विभा० १)
रोचयेत्ययं लोट्प्रत्ययो न विध्यर्थः किंत्वाशीरर्थ इत्येतद्दर्शयति -
स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते, इति । (प्रपा० ५ । अनु० ५ । विभा० २)
अथ दक्षिणादिदिग्देवताविषयाणि चत्वारि यजूंष्याह -
पूर्वोक्ताग्निविषययजुरिवेन्द्रादिविषयाणि चत्वारि यजूंषि व्याख्येयानि । एतेषु चतुर्ष्वपि यजुःषूपचारव्यावृत्तिमेवकारेण लोट्लकारस्याऽऽशीरर्थत्वं च पूर्ववद्दर्शयति -
इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनँ रुद्रैर्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । वरुणस्त्वाऽऽदित्यैः पश्चाद्रोचयतु जागतेन छन्दसेत्याह । वरुण एवैनमादित्यैः पश्चाद्रोचयति जागतेन छन्दसा(१) । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । बृहस्पतित्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन छन्दसेत्याह । बृहस्पतिरेवैनं विश्वैर्देवैरुपरिष्टाद्रोचयति पाङ्क्तेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते,(२) इति । (प्रपा० ५ । अनु० ५ । विभा० ३)
अथ यजुरन्तरमाह -
हे देव द्योतमान घर्म महावीर त्वं देवेषु मध्ये रोचितः प्रकाशितोऽसि । अतस्त्वत्प्रसादादहमपि मनुष्येषु मध्ये रोचिषीय प्रकाशितो भूयासम् । अस्मिन्मन्त्रे भागद्वयगतयोरर्थयोः प्रसिद्धिमवश्यंभावित्वं च हिशब्देनैवकारेण (च) दर्शयति -
रोचितस्त्वं देव घर्म देवेष्वसीत्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु, इति । (प्रपा० ५ । अनु० ५ । विभा० ४) अथ यजुरन्तरमाह -
हे घर्म महावीर त्वं देवेषु मध्ये बहुगुणयुक्तोऽसि । के ते गुणा इति त उच्यन्ते । सम्राट्साम्राज्ययुक्तः, रुचितः प्रकाशितः, आयुष्मान्दीर्घेणाऽऽयुषा युक्तः, तेजस्वी महत्या कान्त्या युक्तः, ब्रह्मवर्चसी श्रुताध्ययनसंपन्नः । त्वत्प्रसादादहमपि मनुष्येषु मध्ये रुचितत्वादिगुणयुक्तो भूयासम् । अत्रापि हिशब्दैवकाराभ्यां मन्त्रभागौ पूर्ववद्व्याचष्टे -
सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसीत्याह । रुचितो ह्येष देवेष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी । रुचितोऽहं मनुष्येष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह । रुचित एवैष मनुष्येष्वायुष्माँस्तेजस्वी ब्रह्मवर्चसी भवति, इति । (प्रपा० ५ । अनु० ५ । विभा० ५)
अथ यजुरन्तरमाह -
हे महावीर रुगसि त्वमेव दीप्तिरूपोऽसि । अतो मयि रुचं दीप्तिं धेहि संपादय त्वदनुग्रहाद्रुग्दीप्तिर्मयि तिष्ठत्विति शेषः । धेहीत्यस्य लोट्प्रत्ययस्याऽऽशीरर्थत्वं दर्शयति -
रुगसि रुचं मयि धेहि मयि रुगित्याह । आशिषमेवैतामाशास्ते, इति । (प्रपा० ५ । अनु० ५ । विभा० ६)
अथ यजुरन्तरमाह -
अनुवाकादौ दश प्राचीरिति योऽर्थ उक्तः सोऽत्रोपसंह्रियते । हे महावीर पुरस्तात्पूर्वस्यां दिशि दश दीप्तयो यथा भवन्ति तथा त्वं रोचसे दीप्यसे । एवं दक्षिणादिषु दिक्षु द्रष्टव्यम् । अतः सुमनस्यमानः सौमनस्यं प्राप्तः सम्राट्साम्राज्यं प्राप्तः स त्वं नोऽस्माकमिषमूर्जं च धेहि संपादय । वाजी समृद्धान्नस्त्वं वाजिने समृद्धान्नाय मह्यं पवस्व सर्वं भोग्यं शोधय । एवमनेन प्रकारेण घर्मो महावीरो रोचितोऽस्माभिः प्रकाशितः, अतस्त्वत्प्रसादादहमपि रुचीय प्रकाशवान्भूयासम् । यदुक्तं सूत्रकारेणोत्तिष्ठन्नध्वर्युराह रुचितो घर्म इति तदिदं कालसहितं विधत्ते -
तं यदेतैर्यजुर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वर्युः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैर्यजुर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः(३), इति । (प्रपा० ५ । अनु० ५ । विभा० ७)
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥
तं महावीरं यदेतैरनुवाकोक्तैर्यजुर्भिर्मन्त्रैररोचयित्वा प्रकाशितमकृत्वा प्रथमत एव घर्मो महावीरो रुचितः प्रकाशित इति प्रब्रूयात्तदाऽध्वर्युयजमानौ दीप्तिरहितौ स्याताम् । यजुष्पाठादूर्ध्वं तु नायं दोषः, तस्मादुत्तरकाल एव रुचितो घर्म इति मन्त्रमध्वर्युर्ब्रूयात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥६॥अथ चतुर्थप्रपाठके सप्तमोऽनुवाकः
षष्ठे महावीराभिमन्त्रणमुक्तम् । अथ सप्तमे महावीरावेक्षणमुच्यते । कल्पः - “यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते, अपश्यं गोपाम्” इति । तस्यानुवाकस्याऽऽदावेकामृचमाह -
अहं महावीरमपश्यं दृष्टवानस्मि । कीदृशम् । गोपां कर्मनिष्पादनेन रक्षकम् । अनिपद्यमानं विनाशरहितम्, अथवाऽऽदित्यरूपेण पतनरहितम् । तथा पथिभिर्नानामार्गैराचरन्तं च पराचरन्तं च, आदित्यरूपः सन्नाभिमुख्येन प्रातःकाले समागच्छन्तं सायंकाले पराङ्मुखत्वेन गच्छन्तम् । स महावीर आदित्यरूपः सध्रीचीः सहावस्थिता अपि विषूचीर्नानादेशेषु विभज्य गच्छन्तीरपि प्रजाः सर्वा वसानः स्वकीयरश्मिभिराच्छादयन्निव वर्तते । अथवैकत्रावस्थितास्तत्र तत्र पृथगवस्थिताश्च मरीचीः स्वस्मिन्नाच्छादयन्वर्तते । स च भुवनेष्वन्तः सर्वेषु लोकेषु मध्य आवरीवर्ति पुनःपुनरावर्तते । सोऽयं मन्त्र उपरिष्टाद्व्याख्यास्यते । तत्र प्रथमं प्रवर्ग्यस्य कालं विधत्ते -
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । ग्रीवा उपसदः । पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति । ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति, इति । (प्रपा० ५ । अनु० ६ । विभा० १)
प्रवर्ग्यस्य यज्ञशिरोरूपत्वादुपसदां च यज्ञग्रीवारूपत्वादुभयोः सामीप्यायोपसदनुष्ठानात्प्रागेव प्रवर्ग्यकर्मानुतिष्ठेत् । तप्ते घृते पयः प्रक्षेपः प्रवृञ्जनं तद्यस्मिन्कर्मविशेषे विद्यते सोऽयं प्रवर्ग्यः, स कर्मविशेषो यथा संपद्यते तथा प्रवृञ्जनं कुर्यादित्यक्षरार्थः । प्रवर्ग्योपसदोः सामीप्ये सति यथा लोके ग्रीवायां शिरः प्रतिहितं भवति तथैतत्संपद्यते । ग्रीवास्विति वचनव्यत्ययः । प्रवर्ग्यस्यावृत्तिं विधत्ते -
त्रिः प्रवृणक्ति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरोऽवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० २)
उपसदां दिनत्रयेऽनुष्ठेयत्वात्तत्समीपवर्ती प्रवर्ग्योऽपि दिनत्रयेऽनुष्ठेयः । तथा सति लोकत्रयार्थं यज्ञशिरः प्रतिहितं भवति । सायं प्रातश्चेति कालद्वयानुष्ठानं प्रशंसति -
षट्संपद्यन्ते । षड्वा ऋतवः(१) । ऋतुभ्य एव यज्ञस्य शिरोऽवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० ३)
एकैकस्मिन्दिने कालभेदेन द्विरनुष्ठानात्षट्संख्या संपद्यते । तत ऋतुभ्यः सकाशाद्यज्ञशिरः संपादितं भवति । दिनषट्कपक्षं विधत्ते -
द्वादशकृत्वः प्रवृणक्ति । द्वादशमासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० ४)
षट्सु दिनेषु कालद्वयानुष्ठानेन द्वादशत्वम् । द्वादशसु दिनेष्वनुष्ठानविधिमभिप्रेत्य प्रशंसति -
चतुर्विँशतिः संपद्यन्ते । चतुर्विँशतिरर्धमासाः । अर्धमासेभ्य एव यज्ञस्य शिरोऽवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० ५)
द्वादशस्वपि दिनेषु कालद्वयानुष्ठानेन चतुर्विंशतिसंपत्तिः । अग्निष्टोमे त्रिष्वेव दिनेषूपसदोऽग्निचयने षट्सु दिनेष्वहीने सत्रे च द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्रकारेण सङ्गृहीतम् - “त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विंशतिकृत्वः” इति । विकल्पितं पक्षान्तरं विधत्ते -
अथो खलु । सकृदेव प्रवृज्यः । एकँ हि शिरः(२), इति । (प्रपा० ५ । अनु० ६ । विभा० ६)
पक्षान्तरोपन्यासायाथोशब्दः शिरस एकत्वात्तत्स्थानीयोऽयं प्रवर्ग्यः सकृदेवानुष्ठेयो न त्वावृत्येति केषांचित्पक्षः । एतच्च सूत्रकारेण विस्पष्टमुदाहृतम् - “सुत्यायां प्रवृञ्जनमेके समामनन्ति । तत्र मीमांसा । यदा पुरस्तादरुणः स्यादथ प्रवृज्य उपकाश उपव्युषं समयाविषित उदितानुदित उदिते वा प्रातः संगवे मध्यन्दिने वा पवमाने स्तुत आग्नीध्रागारे प्रवृज्यः सकृदेव प्रवृज्य इति विज्ञायते” इति । प्रवर्ग्यस्याग्निष्टोमसंबन्धं विधत्ते -
अग्निष्टोमे प्रवृणक्ति । एतावान्वै यज्ञः । यावानग्निष्टोमः । यावानेवयज्ञः । तस्य शिरः प्रतिदधाति, इति । (प्रपा० ५ । अनु० ६ । विभा० ७)
यावन्तः सोमयागाः सन्ति तेषु सर्वेष्वप्यग्निष्टोमः संचार्यतः सर्वयज्ञात्मकः, तत्रानुष्ठिते सति कृत्स्नेऽपि यज्ञे शिरः प्रतिहितं भवति । अनारभ्याधीतस्य प्रवर्ग्यस्य यद्यपि पुरस्तादुपसदामिति वाक्येनैव प्रकृतिभूताग्निष्टोमसंबन्धः प्राप्तः, तथाऽपि शाखान्तरगतं न प्रथमयज्ञे प्रवृञ्ज्यादिति निषेधमपोद्य प्रतिप्रसवार्थं पुनर्विधानम् । निषेधस्त्वतिरात्रेऽपि चरितार्थो भविष्यति, तस्यापि विकल्पितः प्रथमयज्ञत्वात् । तथा चापस्तम्ब आह - “अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्वं समामनन्ति” इति । पुरस्तादुपसदामितिवाक्येनोक्थ्येऽप्युपसद्भावात्पूर्वं प्रवर्ग्यस्यापि प्राप्तौ निषेधयति -
नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्दहेत्, इति । (प्रपा० ५ । अनु० ६ । विभा० ८)
एह्यू षु ब्रवाणीत्यादीनि शस्त्राण्यत्रोक्थशब्देनावि(भि)धीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः, तत्र प्रवृञ्जनेनोक्थशस्त्रसाध्याः प्रजाः पशवश्च दह्येयुः(रन्), तस्मात्तत्र न प्रवृञ्ज्यात् । उक्थ्यविशेषे प्रतिप्रसवं विधत्ते -
विश्वजिति सर्वपृष्ठे प्रवृणक्ति(३)। पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वाऽवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० ९)
रथंतरबृहद्वैरूपवैराजशाक्वररैवतसामसाध्यानि पृष्ठस्तोत्राणि सर्वाण्यपि यस्मिन्विश्वजिद्यागे विद्यन्ते सोऽयं सर्वपृष्ठः । यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः, तथाऽपि शाखान्तरे तत्सद्भावमभिप्रेत्य नोक्थ्ये प्रवृञ्ज्यादिति निषेधं वारयितुं पुनर्विधिः । सर्वत्र पृष्ठस्तोत्राणि अच्युतं न च्युतमपि दोषं च्यावयन्ति विनाशयन्ति । अत्रापि पृष्ठस्तोत्रैरेवाच्युतं निषेधप्रयुक्तं प्रबलमपि दोषं च्यावयित्वा प्रवर्ग्यफलमपि प्राप्नोति । तदेवं बुद्धिस्थं प्रवर्ग्यविधिवविचारं परिसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे पूर्वभागं व्याचशष्टे -
अपश्यं गोपामित्याह । प्राणो वै गोपाः । प्राणमेव प्रजासु वियातयति, इति । (प्रपा० ५ । अनु० ६ । विभा० १०)
प्राणे हि स्वावस्थानेन शरीराणि गोपायतीति गोपाः । मन्त्रे च प्राणत्वेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः । अतो गोपामपश्यमित्युक्ते सति सर्वासु प्रजासु प्राणमेव प्रसारितवान्भवति । आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे -
अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते, इति । (प्रपा० ५ । अनु० ६ । विभा० ११)
आदित्यो ह्युदयेन प्रकाशं कृत्वा सर्वाः प्रजा गोपायतीति गोपाः, तद्रूपत्वेन स्तुतत्वान्महावीरो गोपाः । एतत्पाठेन यजमानमेव प्रजानां गोप्तारं करोति । प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति -
अनिपद्यमानमित्याह(४)। न ह्येष निपद्यते, इति । (प्रपा० ५ । अनु० ६ । विभा० १२)
द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनं च प्रसिद्धमिति दर्शयति -
आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति, इति । (प्रपा० ५ । अनु० ६ । विभा० १३)
यदाऽयमादित्य उदयं प्राप्तः सर्वाः प्रजा अभितो विशेषेण पश्यति तदानीं स्वेन सह वर्तमाना दूरे विविधं प्रसृताश्च मरीचीर्वस्त्रवद्वसानो वर्तत इत्येतत्प्रसिद्धमित्येतादृशं तृतीयपादाभिप्रायं दर्शयति -
स सध्रीचीः स विषूचीर्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभिविपश्यति, इति । (प्रपा० ५ । अनु० ६ । विभा० १४)
चतुर्थपादोक्ता भुवनमध्ये सूर्यस्याऽऽवृत्तिः प्रसिद्धेति दर्शयति -
आ वरीवर्ति भुवनेष्वन्तरित्याह । आ ह्येष वरीवर्ति भुवनेष्वन्तः, इति । (प्रपा० ५ । अनु० ६ । विभा० १५)
अथ वसन्तर्तुरूपेण स्तावकं मन्त्रमाह -
हे महावीरात्रास्मिन्कर्मणि मधुमाध्वीभ्यां सहितस्त्वं प्रावीरस्मान्प्रकर्षेण रक्षितवानसि । मधुशब्दो वस्न्तावयवचैत्रमासाभिमानिदेवमाचष्टे, माध्वीशब्दस्तत्पत्नीम् । तथा द्वितीयो मधुशब्दो वसन्तावयववैशाखमासाभिमानिदेवमाचष्टे, माधूचीशब्दस्तत्पत्नीम् । ताभ्यां सहितस्त्वं प्रावीरित्यन्वयः । वां वसन्तदेवौ युवामनुसृत्य देववीतये देवप्राप्त्यर्थम्, महावीरमवेक्ष इति शेषः । मन्त्रस्य वसन्तर्तुपरतां दर्शयति -
अत्र प्रावीर्मधुमाध्वीभ्यां मधुमाधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० १६)
अस्मै यजमानार्थं वसन्तसंबन्धिनावृत्ववयवौ चैत्रवैशाखमासौ स्वोचितभोगप्रदानसमर्थौ करोति । अथ ग्रीष्मर्तुरूपेण स्तावकं मन्त्रमाह -
अग्निशब्दाभ्यामत्युष्णौ ग्रीष्मावयवौ ज्येष्ठाषाढमासौ विवक्षितौ । तत्रैकोऽग्निर्ज्येष्ठमासरूपो द्वितीयेनाग्निनाऽऽषाढमासरूपेण संगतोऽभूत् । तदुभयमासवर्तिनावादित्यौ सवितृसूर्यशब्दाभ्यां विवक्ष्येते । अयं महावीराख्यो देवो ज्येष्ठमासे सवित्रा संगतः, आषाढमासे सूर्येण संगत्य रोचते । अस्य मन्त्रस्य ग्रीष्मर्तुपरतां दर्शयति -
समग्निरग्निना गतेत्याह(५)। ग्रैष्मावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० १७)
वसन्तवाक्यवद्व्याख्येयम् । तस्यैव मन्त्रस्यार्थान्तरं दर्शयति -
समग्निरग्निना गतेत्याह । अग्निर्ह्येवैषोऽग्निना संगच्छते, इति । (प्रपा० ५ । अनु० ६ । विभा० १८)
एष महावीररूपोऽग्निरादित्यरूपेणाग्निना संगच्छत इत्ययमर्थः प्रसिद्धः । पुनरपि ग्रीष्मर्तुरूपेणैव स्तावकं मन्त्रान्तरमाह -
स्वाहाशब्दो निपातत्वादनेकार्थः । अग्निवदुष्णरूपो ज्येष्ठमासस्तपसा तापयुक्तेनाऽऽषाढमासेन स्वाहा सुष्ठु समागतः । सं देवेनेत्यादि पूर्ववत् । अस्य मन्त्रस्य पूर्वमन्त्रेण सह समानार्थतां दर्शयति -
स्वाहा समग्निस्तपसा गतेत्याह । पूर्वमेवोदितम् । उत्तरेणाभिगृणाति, इति । (प्रपा० ५ । अनु० ६ । विभा० १९)
ग्रीष्मविषयत्वं पूर्वस्मिन्मन्त्रेऽभिहितमेव ग्रीष्ममुत्त(मेवोत्त)रमन्त्रेणापि श्रुतिर्ब्रूते । अथ वर्षर्तुरूपेण स्तावकं मन्त्रमाह -
हे महावीर वर्षर्तुरूपेण दिवो द्युलोकस्य रजसो मेघादिरञ्जनोपेतस्य धर्ता धारको विभासि प्रकाशसे । तथौषधीजननेन पृथिव्या अपि धर्ता, हविर्द्वारेणोपकारकत्वाद्देवानामपि धर्ता पोषको देवः । अत एवामर्त्यो मरणरहितः, दीक्षादिरूपेण तपसा जायते सिध्यतीति तपोजाः । अस्य मन्त्रस्य वर्षर्तुपरतां दर्शयति -
धर्ता दिवो विभासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० २०)
वसन्तमन्त्रवद्व्याख्येयम् । शारदर्तु(शरदृतु)रूपेण स्तावकं मन्त्रमाह -
हे महावीर त्वां हृदे हृदयार्थमवेक्ष इति शेषः । मनसे मनोर्थं त्वामवेक्षे । अत्र हृन्मनःशब्दाभ्यामनुकूलभोगार्थत्वेन चिन्त्यमानावाश्वयुजकार्तिकमासावुपलक्ष्येते । तन्मासद्वयोचितभोगसिध्यर्थमित्यर्थः । तथा दिवे द्युलेकप्राप्त्यर्थं, सूर्याय सूर्यप्राप्त्यर्थं च त्वामवेक्षे । इममस्मदीयमध्वरं यागमूर्ध्वं कृधि, उन्नतं कुरु । होत्रा इमा होमक्रिया दिवि द्युलोके देवेषु मध्ये यच्छ देहि कथयेत्यर्थः । अस्य मन्त्रस्य शारदर्तु(शरदृतु)परतां दर्शयति -
हृदे त्वा मनसे त्वेत्याह । शारदावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० २१)
वसन्तवाक्यवद्व्याख्येयम् । मन्त्रचरमभागेन(ण) सर्वेषां लोकानां होमक्रियाभिसंबन्धं दर्शयति -
दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवेमाल्ँ लोकान्संदधाति, इति । (प्रपा० ५ । अनु० ६ । विभा० २२)अथ हेमन्तर्तुरूपेण स्तावकं मन्त्रमाह -
जम्बूद्वीपादयो या भुवस्तासां भुवां विश्वासां सर्वासां हे पते पालक हेमन्तर्तुरूप महावीर त्वामवेक्ष इति शेषः । भुवनो भुवनस्य लोकजातस्य, मनसोऽन्तःकरणजातस्य, वचसो वाक्यजातस्य, तपसस्तपोजातस्य, ब्रह्मणो वेदजातस्य, पते पालक त्वामवेक्षे । अस्य मन्त्रस्य हेमन्तर्तुपरतां दर्शयति -
विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० २३)
वसन्तवाक्यवद्व्याख्येयम् । शै(शि)शिरर्तुरूपेण स्तावकं मन्त्रमाह -
हे घर्म प्रवर्ग्य देव शै(शि)शिरर्तुरूप, देवश्रूर्देवेषु श्रूयमाणस्त्वं देवान्हविष्प्रदानेन पाहि रक्ष । अस्य मन्त्रस्य शै(शि)शिरर्तुपरतां दर्शयति -
देवश्रूस्त्वं देव घर्म देवान्पाहीत्याह । शैशिरावेवास्मा ऋतू कल्पयति, इति । (प्रपा० ५ । अनु० ६ । विभा० २४)
वसन्तवाक्यवद्व्याख्येयम् । अथ बहूनि वाक्यानि नानाविधैः स्तावकान्युच्यन्ते । तत्रैकवाक्यतामाह -
हे महावीरास्मेऽस्मभ्यं तपोजां तपस उत्पन्नां देवायुवं देवानिच्छन्तीं वाचं मन्त्ररूपां नियच्छ नितरां देहि । तपोजामित्यनेन यक्षयोग्या मन्त्ररूपा वाग्विवक्ष्यते तस्यास्तपस्विना पुरुषेण लभ्यमानत्वादित्येतद्दर्शयति -
तपोजां वाचमस्मे नियच्छ देवायुवमित्याह । या वै मेध्या वाक् । सा तपोजाः । तामेवावरुन्धे,(७) इति । (प्रपा० ५ । अनु० ६ । विभा० २५)
वाक्यान्तरमाह -
अयं महावीरो देवानां संबन्धी गर्भरूपः, देवैरपेक्षितस्य हविषोऽत्र गर्भरूपेणावस्थानात् । मन्त्रार्थस्य प्रसिद्धिं दर्शयति -
गर्भो देवानामित्याह । गर्भो ह्येष देवानाम्, इति । (प्रपा० ५ । अनु० ६ । विभा० २६)
वाक्यान्तरमाह -
देवैर्हविष्प्रदानार्थं तदा तदा मन्यन्त इति मतयः प्रजास्तासां प्रजानां महावीरः फलदानेन पालकत्वात्पिता । मतिशब्देन प्रजाविवक्षां दर्शयति -
पिता मतीनामित्याह । प्रजा वै मतयः । तासामेष एव पिता । यत्प्रवर्ग्यः । तस्मादेवमाह, इति । (प्रपा० ५ । अनु० ६ । विभा० २७)
वाक्यान्तरमाह -
अयं महावीरः पूर्वोक्तरीत्या पालकत्वात्प्रजानां स्वामी । अस्य वाक्यस्यार्थप्रसिद्धिं दर्शयति -
पतिः प्रजानामित्याह । पतिर्ह्येष प्रजानाम्, इति । (प्रपा० ५ । अनु० ६ । विभा० २८)
वाक्यान्तरमाह -
ये कवयः शास्त्रार्थाभिज्ञाः, तेषामभिज्ञानसाधनबुद्धिरूपोऽयं महावीरः । अनेन कर्मण्यनुष्ठिते तेन सुकृतेन प्रज्ञोदयात् । अस्मिन्नर्थे प्रसिद्धिं दर्शयति -
मतिः कवीनामित्याह(८)। मतिर्ह्येष कवीनाम्, इति । (प्रपा० ५ । अनु० ६ । विभा० २९)
वाक्यान्तरमाह -
अयं महावीरो देवो देवेन सवित्रा संयुज्यायतिष्ट यजमानमनुग्रहीतुं प्रयत्नं कृतवान् । तथा सूर्येण संयुज्यारुक्त दीप्तवान् । अत्र देवशब्दद्वयेनाऽऽदित्यमहावीरौ विवक्षिताविति दर्शयति -
सं देवो देवेन सवित्राऽयतिष्ट सँ सूर्येणारुक्तेत्याह । अमुं चैवाऽऽदित्यं प्रवर्ग्यं च सँ शास्ति, इति । (प्रपा० ५ । अनु० ६ । विभा० ३०)
सम्यक्कथयतीत्यर्थः । वाक्यान्तरमाह -
हे घर्म महावीर त्वमस्मभ्यमायुस्तेजसोः प्रदाताऽसि । अस्य वाक्यस्याऽऽयुष्परतां दर्शयति -
आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असीत्याह । आशिषमेवैतामाशास्ते, इति । (प्रपा० ५ । अनु० ६ । विभा० ३१)
वाक्यान्तरमाह -
हे महावीर नोऽस्माकं पालकत्वात्पिताऽसि अतः पिता जनक एव भूत्वा नोऽस्मान्बोध, इदं कुर्विति सन्मार्गं बोधय । महावीरे प्रवृत्तस्योत्तरकर्तव्यताया बुध्यमानत्वाद्बोधकत्वमस्यावश्यमस्तीत्येतद्दर्शयति -
पिता नोऽसि पिता नो बोधेत्याह । बोधयत्येवैनम्, इति । (प्रपा० ५ । अनु० ६ । विभा० ३२)
वाक्यान्तरमाह -
अयं महावीरो दीर्घमायुः शरीरपाटवं क्षीरसमृद्धिं च संपादयति । तथा कान्तिं पूजां धनं च प्रयच्छति । अन्तरिक्षं स्वोत्पन्नया ज्वालया प्र(प्रा)ति पूरयतीत्यन्तरिक्षप्रः । अत एवोरोर्विशालादपि वस्तुनो वरीयानतिशयेन विवृत्तः(तः) । तादृश हे महावीर त्वामशीमहि व्याप्नुयाम व्याप्नुवन्तं मां मा हिँसीर्हिंसितं मा कुरु । अथाग्निरूपेण स्तुतये काचिद्देवता(दृच)माह -
होऽग्ने त्वं मानुषीणां मनुष्यजातियुक्तानां विश्वासां सर्वासां विशां प्रजानां गृहपतिरसि गृहस्वामी भवसि । हे यविष्ठ युवतम पूर्भिर्धनादीनां पूरणैः शतं शतसंवत्सरमायुः पाहि रक्ष । तथा शतँहिमाः शतसंवत्सरान्मेद्धारं सम्यगभिवृद्धियुक्तं मामंहसः पाहि पापाद्रक्ष । कीदृशं माम् । तन्द्राविणं त्वत्पालनात्पूर्वं तन्द्रायुक्तं कर्मण्यलसम् । हार्दिवानं त्वत्पालनादूर्ध्वं हृदयगतकर्मोत्साहवन्तम् । रातयस्तदीयानि फलदानानीहैवास्मिन्नेव कर्मणि सन्तु । कल्पः - “अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेय” इति । पाठस्तु -
हे महावीर ते तव प्रसादादहं पत्नी त्वष्टीमती सिक्ते रेतसि रूपाणां विकर्त्रा त्वष्टृशब्देन युक्ता सती सपेय पत्या संगच्छेय । ततः संगमादूर्ध्वं सुरेताः शोभनेन पुत्रोत्पादने(के)न रेतसा युक्ता सती रेतो दधाना तादृशमेव पतिसंबद्धं रेतो धारयन्ती तव संदृशि त्वदीयकटाक्षे सति वीरं विधेय कर्मणि शूरं पुत्रं लभेय । अहं त्वत्प्रसादाद्रायस्पोषेण धनपुष्ट्या मा वियोषं वियुक्ता मा भूवम् । अस्मिन्ननुवाके मन्त्रसंख्यां दर्शयति -
नवैतेऽवकाशा भवन्ति । पत्नियै दशमः । नव वै पुरुषे प्राणाः(९)। नाभिर्दशमी । प्राणानेव यजमाने दधाति । अथो दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे, इति । (प्रपा० ५ । अनु० ६ । विभा० ३३)
अवकाशयन्तेऽर्थं प्रकाशयन्त इत्यवकाशा मन्त्राः । ते चात्र नवसंख्याका भवन्ति । अपश्यं गोपामित्येको मन्त्रः, अत्र प्रावीरित्याद्या ऋतुविषयाः षण्मन्त्राः, तपोजामित्यादि मा मा हिँसीरित्यन्तं वाक्यजातमेको मन्त्रः, त्वमग्न इत्यादिको रातयः सन्त्वित्यन्त एको मन्त्रः । एवं नवसंख्याकाः । त्वष्टीमतीत्यादिकः पत्न्या दशमो मन्त्रः । पुरुषशरीरेऽपि च्छिद्रगताः प्राणा नवसंख्याकास्तदपेक्षया नाभिर्दशमी, अतो मन्त्रगतसंख्यासाम्याद्यजमाने प्राणानेव सुस्थितान्करोति । अपि च विराड्द्वाराऽन्नमपि प्राप्नोति । एतैर्मन्त्रैः साध्यं महावीरावेक्षणं विधत्ते -
यज्ञस्य शिरोऽच्छिद्यत । तद्देवा होत्राभिः प्रत्यदधुः । ऋत्विजोऽवेक्षन्ते । एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति(१०), इति । (प्रपा० ५ । अनु० ६ । विभा० ३४)
यदा धनुष्कोट्या यज्ञपुरुषस्य शिरश्छिन्नं तदा देवास्तच्छिरो होत्राभिर्यज्ञशरीरे प्रतिहितवन्तः । होमनिष्पादिका ऋत्विजां याः प्रत्यवेक्षणादिक्रिया एता एव होत्रास्तस्मादृत्विजामवेक्षणेन होत्राभिरेव यज्ञस्य शिरः प्रतिहितं भवति । अग्निष्ट्वेत्यादिमन्त्रैरुपस्थानादूर्ध्वकालीनत्वमवेक्षणस्य विधत्ते -
रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाँ सृष्ट्यै, इति । (प्रपा० ५ । अनु० ६ । विभा० ३५)
रुचिधात्वर्थप्रतिपादकैरग्निष्ट्वेत्यादिकैर्मन्त्रैरभिमन्त्रितो महावीरो रुचितः, तादृशं पश्चादवेक्षेरन् । पुरा प्रजापतिः प्रवर्ग्यादुचितादेव प्रजाः सृष्टवान्, अतोऽत्रापि सृष्ट्यै तद्भवति । पूर्वोक्तमेवानूद्य पुनः प्रशंसति -
रुचितमवेक्षन्ते । रुचिताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा एधन्ते, इति । (प्रपा० ५ । अनु० ६ । विभा० ३६)
पूर्वोक्ताद्रुचितात्प्रवर्ग्यादेव कर्मानुष्ठानद्वाराऽऽदित्यप्राप्त्या मेघो वर्षति, अतोऽत्रापि रुचितावेक्षणे पर्जन्यो वर्षणशीलो भवति, प्रजाश्च सम्यग्वर्धन्ते । पुनरपि प्रकारान्तरेण प्रशंसति -
रुचितमवेक्षन्ते । रुचितं वै ब्रह्मवर्चसम् । ब्रह्मवर्चसिनो भवन्ति(११), इति । (प्रपा० ५ । अनु० ६ । विभा० ३७)
ब्रह्मवर्चसं श्रुताध्ययनसंपत्ती रुचितं विद्वत्सभायां प्रकाशितं भवति । अतो रुचितावेक्षणेन ब्रह्मवर्चसयुक्ता भवन्ति । अवेक्षणे पूर्वोक्तमन्त्रान्विधत्ते -
अधीयन्तोऽवेक्षन्ते । सर्वमायुर्यन्ति, इति । (प्रपा० ५ । अनु० ६ । विभा० ३८)
अधीयन्तोऽपश्यं गोपामित्यादिमन्त्रान्पठन्त ऋत्विजोऽवेक्षेरन्, ततो मन्त्रसामर्थ्यात्सर्वायुष्प्राप्तिः । पत्न्याः कंचिद्विशेषं विधत्ते -
न पत्न्यवेक्षेत । यत्पत्न्यवेक्षेत । प्रजायेत । प्रजां त्वस्यै निर्दहेत् । यन्नावेक्षेत । न प्रजायेत । नास्यै प्रजां निर्दहेत् । तिरस्कृत्य यजुर्वाचयति । प्रजायते । नास्यै प्रजां निर्दहति, इति । (प्रपा० ५ । अनु० ६ । विभा० ३९)
अत्रायं विचारः, किं पत्न्यवेक्षेत न वेति । अवेक्षणपक्षे प्रजोत्पत्तिलक्षणे गुणे सत्यपि तदीयां प्रजां महावीरो निर्दहेदित्येष महान्दोषः, अतो नावेक्षेतेत्येकः पक्षः । अनवेक्षणपक्षे निर्दाहाभावेऽपि प्रजोत्पत्तिर्न स्यादित्यन्यो दोषः, अतो दोषद्वयनिवृत्तये पत्नीं केनचिद्व्यवधानेन तिरस्कृत्य त्वष्टीमतीति मन्त्रं पठेत्(पाठयेत्)। तस्मिन्मन्त्रे सपेयेत्यस्य तात्पर्यं दर्शयति -
त्वष्टीमती ते सपेयेत्याह । सपाद्धि प्रजाः प्रजायन्ते(१२),इति । (प्रपा० ५ । अनु० ६ । विभा० ४०)
ऋतवो हि शिरः सर्वपृष्ठे प्रवृणक्त्यनिपद्यमानमित्याह गतेत्याह शारदावेवास्मा ऋतू कल्पयति रुन्धे कवीनामित्याह प्राणाः प्रतिदधाति भवन्ति वाचयति चत्वारि च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥६॥
स्त्रीपुरुषयोः समवायात्प्रजोत्पत्तिः प्रसिद्धा तस्मात्सपेयेत्युच्यते । अत्र मीमांसा । तृतीयाध्यायस्य तृतीयपादे चिन्तितम् -
“न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याद्ययज्ञता ॥ प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः । आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥”
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते - न प्रथमयज्ञे प्रवृञ्ज्यादिति । सोऽयं निषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यो न तु तदीयप्रथमप्रयोगे । कुतः । एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम इति तस्य प्रथमयज्ञत्वाभिधानादिति चेत् । मैवम् । पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्तीति वाक्ये क्रतौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः, प्रतिषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् । प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते । प्रथममध्येतव्यत्वात्प्रथम(मं) काण्डं तदनन्तरमध्येतव्यत्वाद्द्वितीय(यं) काण्डम् । एवमादावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः पुत्रः । तथाऽपि(तथा सति) प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः, तदावृत्तिविशेष(षय)तया यज्ञशब्दो(यज्ञे) लाक्षणिकः । त्वत्पक्षे क्रतौ मुख्यो यज्ञशब्दः प्रयोगे लाक्षणिकः स्यादिति चेत् । बाढम् । तथाऽप्यसञ्जातविरोधिनि लाक्षणिकत्वकल्पनात्काम(द्वर)मुत्तरपदे तत्कल्पनं, तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यस्य निषेधः । न तु सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति । विधिश्च तत्र श्रूयते - अग्निष्टोमे प्रवृणक्तीति । एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थाऽस्तु । तथा च श्रूयते - कामं तु योऽनूचानः स्यात्तस्य प्रवृञ्यादिति । तस्मादनूचानव्यतिरिक्त(कर्तृके) प्रथमप्रयोग एवायं निषेधः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥७॥अथ चतुर्थप्रपाठकेऽष्टमोऽनुवाकः
सप्तमे महावीरावेक्षणमुक्तम् । अष्टम आज्ययुक्ते महावीरे पयः प्रक्षेपणं प्रवृञ्जनमुच्यते । कल्पः - “सावित्रेण रशनामादाय” इति । पाठस्तु -
द्वितीयानुवाके(प्रपा० ४ अनु० २) व्याख्यातोऽयं मन्त्रः । अनेन मन्त्रेण साध्यमादानं विधत्ते -
देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै, इति । (प्रपा० ५ । अनु० ७ । विभा० १)
कल्पः - “अदित्यै रास्नाऽसीत्यभिमन्त्र्य"इति । हे रशने त्वमदित्यै भूमिरूपायै धेन्वै रास्ना बन्धनार्था रशनाऽसि । मन्त्रतात्पर्यं दर्शयति -
आददेऽदित्यै रास्नाऽसीत्याह यजुष्कृत्यै, इति । (प्रपा० ५ । अनु० ७ । विभा० २)
आदद इत्येष पूर्वमन्त्रशेषः स्पष्टार्थत्वात्पाठ एव तस्य व्याख्यानम् । यजुषा मन्त्रेण कृतिर्निष्पादनं यजुष्कृतिः, तत्सिध्यर्थमनेनाभिमन्त्रणम् ।
कल्पः - “पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघामाह्वयति । इड एहि । अदित एहि । सरस्वत्येहि” इति । इडादीनि गोनामधेयानि तैः संबोध्येहीत्याह्वयति । मन्त्रतात्पर्यं दर्शयति -
इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामाह्वयति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३)
वक्ष्यमाणाह्वानेन पुनरुक्तिं वारयितुं देवनामानीति विशेष्यते । इडादीनि देवानां प्रसिद्धानि गोनामानि, मन्त्रपाठे सति तैरेवेयमाहूता भवति ।
कल्पः - “प्रत्येत्य दोग्ध्रे निदान इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैरसावेहि । असावेहि । असावेहि” इति । घर्मदुघामाह्वयतीत्यनुवर्तते । मनुष्ये व्यवहारार्थं सङ्केतितं गङ्गादिकं धेनुनाम “असौ” इति शब्देन निर्दिश्यते, हे गङ्गे समागच्छ । पूर्वाह्वानाद्व्यावृत्तिमन्त्रं दर्शयति -
असावेह्यसावेह्यसावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि(१) । मनुष्यनामैरेवैनामाह्वयति, इति । (प्रपा० ५ । अनु० ७ । विभा० ४)
द्विविधाह्वानगतां संख्यां प्रशंसति -
षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनामाह्वयति, इति । (प्रपा० ५ । अनु० ७ । विभा० ५)
त्रीणि देवनामानि त्रीणि मनुष्यनामानीत्येवं षट्सम्पत्तिः ।
कल्पः - “अदित्या उष्णीषमसीति रशनया घर्मदुघामभिदधाति” इति । हे रशनेऽदित्या भूमिरूपाया धेनोरुष्णीषस्थानीयाऽसि । मन्त्रस्य स्पष्टार्थतां दर्शयति -
अदित्या उष्णीषमसीत्याह । यथा यजुरेवैतत्, इति । (प्रपा० ५ । अनु० ७ । विभा० ६)
कल्पः - “वायुरस्येड इति वत्सम्” इति । अभिदधातीत्यनुवर्तते । इडाया अपत्यमैडो वत्सः, तादृशस्त्वं वायुस्वरूपोऽसि । वायुत्वमुपपादयति -
वायुरस्येड इत्याह । वायुदेवत्यो वै वत्सः, इति । (प्रपा० ५ । अनु० ७ । विभा० ७)
वत्सापाकरणे वायवः स्थेत्याम्नानाद्वायुदेवत्यत्वम् । अत एवान्यत्र ब्राह्मणे वायुर्वत्स इत्युक्तम् ।
कल्पः - “पूषा त्वोपावसृजत्वित्युपावसृज्य” इति । अश्विभ्यां प्रदापयेति मन्त्रशेषः । हे वत्स त्वां पूषाख्यो देवः स्तनपानार्थं मुञ्चतु, त्वं चाश्विदेवार्थं पयः प्रदापय । मन्त्रस्य पूर्वभागे पूषेत्यस्य तात्पर्यं दर्शयति -
पूषा त्वोपावसृजत्वित्याह । पौष्णा वै देवतया पशवः(२)। स्वयैवैनं देवतयोपावसृजति, इति । (प्रपा० ५ । अनु० ७ । विभा० ८)
पोषकत्वादेवायं पशूनां देवः । उत्तरभागेऽश्विशब्दतात्पर्यं दर्शयति -
अश्विभ्यां प्रदापयेत्याह । अश्विनौ वै देवानां भिषजौ । ताभ्यामेवास्मै भेषजं करोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ९)
अस्मै वत्साय क्षीरं भेषजमित्येतत्प्रत्यक्षम् । अश्विभ्यां तु हविष्प्रदानद्वारा भेषजम् । कल्पः - “यस्ते स्तनः शशय इति घर्मदुघामभिमन्त्रयते” इति । पाठस्तु -
हे धेनो ते तव यः स्तनः शशयः शयानः स्थैर्येणावस्थितः, यश्च स्तनो मयोभूः सुखस्य भावयिता, येन च स्तनेन विश्वा सर्वाणि वार्याणि वरणीयानि वत्सादिशरीराणि पुष्यसि पुष्टानि करोषि, यश्च स्तनो रत्नधा रत्नवन्महार्घं क्षीरं धारयति, अत एव वसुविदुत्तमं वस्तु लभते, यश्च स्तनः सुदत्रः शोभनदानशीलः, बहुक्षीरं ददातीत्यर्थः । हे सरस्वति, एतन्नामयुक्ते धेनो तं स्तनमिह कर्मणि धातवे धातुं देवानां क्षीरं पातुमकर्योग्यं कुरु । स्तनवर्णनेन धेनोरेव स्तुतिः संपद्यत इत्येतद्दर्शयति -
यस्ते स्तनः शशय इत्याह । स्तौत्येवैनाम्, इति । (प्रपा० ५ । अनु० ७ । विभा० १०)
कल्पः - “उस्र घर्मँ शिँष । उस्र घर्मं पाहि । घर्माय शिँषेति निदाय वत्सम्” इति । निदाय बध्वेत्यर्थः । हे उस्र वत्स घर्मम(मं क्ष)रणयोग्यं क्षीरं शिंषा विशेषय । हे उस्र क्षीराख्यं घर्मं पाहि पालय यथा सुरक्षितं भवति तथा कुरु । किमर्थमिति तदुच्यते - घर्माय प्रवर्ग्यार्थं शिंषावशेषय । घर्मायेत्येतच्चतुर्थ्यन्तस्य तात्पर्यं दर्शयति -
उस्र घर्मँ शिँषोस्र घर्मं पाहि घर्माय शिँषेत्याह । यथा ब्रूयादमुष्मै देहीति । तादृगेव तत्, इति । (प्रपा० ५ । अनु० ७ । विभा० ११)
लोके हि बालपुत्रार्थं क्षीरं देहीति गृहस्वामिनं बालस्य माता याचते तद्वदिदं द्रष्टव्यम् ।
कल्पः -“बृहस्पतिस्त्वोपसीदत्वित्युपसीदति” इति । हे धेनो त्वा त्वां दोग्धृरूपो बृहस्पतिरुपसीदतु समीपे प्राप्नोतु । बृहस्पतिशब्दतात्पर्यं दर्शयति -
बृहस्पतिस्त्वोपसीदत्वित्याह(३)। ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति, इति । (प्रपा० ५ । अनु० ७ । विभा० १२)
देवानां मध्ये बृदस्पतेः परब्रह्मरूपत्वात्तेनैवोपसदनं कृतं भवति ।
कल्पः - “दानवः स्थ पेरव इति स्तनान्संमृश्य” इति । विष्वग्वृतो लोहितेनेति मन्त्रशेषः । हे स्तना यूयं दानवः क्षीरदानकुशलाः, पेरवो वत्सेन पातुं योग्याः, लोहितेन रक्तेन विष्वग्वृतः पृथग्भूत्वा वर्तमानाः स्थ । न हि स्तनदोहने रक्तमायाति । पानयोग्यत्वकथनेन शुद्धिः सूचितेत्येतद्दर्शयति -
दानवः स्थ पेरव इत्याह । मेध्यानैवैनान्करोति, इति । (प्रपा० ५ । अनु० ७ । विभा० १३)
विष्वग्वृत इत्यनेन क्षीरस्य रक्ताद्व्यावृत्तिर्विवक्षितेति दर्शयति -
विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै, इति । (प्रपा० ५ । अनु० ७ । विभा० १४)
कल्पः - “अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेति वर्षीयसि दोग्ध्रे दोग्धि” इति । स्थूले दोहनपात्रे दुह्यादित्यर्थः । इन्द्राय पिन्वस्व । इन्द्राय पिन्वस्वेति मन्त्रशेषः । हे धेनोऽश्विसरस्वत्यादिदेवार्थं पिन्वस्व हविः प्रभूतं देहि । प्रभूतदातृत्वं धेनोः प्रसिद्धमित्येतद्दर्शयति -
अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतयेपिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते, इति । (प्रपा० ५ । अनु० ७ । विभा० १५)
बृहस्पत्यादिवदिन्द्रस्य संबन्धमात्रेण परितोषो न भवति किन्तु हविर्भागोऽप्यस्तीत्येतद्दर्शयति -
इन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेत्याह । इन्द्रमेव भागधेयेन समर्धयति, इति । (प्रपा० ५ । अनु० ७ । विभा० १६)
भागाधिक्येनेन्द्रमन्त्रावृत्तिं दर्शयति -
द्विरिन्द्रायेत्याह(४)। तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः, इति । (प्रपा० ५ । अनु० ७ । विभा० १७)
कल्पः - “उपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य शफोपयमानादत्ते गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतमसीति तृतीयमित्यु(मु)पयमनं प्रतिप्रस्थाता” इति । तप्तस्य महावीरस्य हस्ताभ्यां ग्रहीतुमशक्यत्वात्संदंशवदुभयतः काष्ठद्वयमध्ये महावीरं संदष्टं कृत्वा काष्ठद्वयस्य मूलद्वयमग्रद्वयं च धृत्वाऽध्वर्युप्रतिप्रस्थातारावानयतः, तौ काष्ठविशेषौ शफावित्युच्येते । महावीरस्याधस्ताद्धार्यमाणः काष्ठविशेष उपयम इत्युच्यते । हे प्रथमशफ त्वं गायत्रीच्छन्दःसंबन्ध्यसि । हे द्वितीयशफ त्वं त्रिष्टुप्छन्दःसंबन्ध्यसि । हे उपयम त्वं जगतीछन्दःसंबन्ध्यसि । एतन्मन्त्रसाध्यमादानं विधत्ते -
गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमानादत्ते । छन्दोभिरेवैनानादत्ते, इति । (प्रपा० ५ । अनु० ७ । विभा० १८)
गायत्रादिशब्दप्रयोगेण च्छन्दोभिरादानं सिध्यति ।
कल्पः - “सहोर्जो भागेनोप मेहीति पय आह्रियमाणं प्रतीक्षते” इति । आग्नीध्रेणाऽऽनीयमान हे पय ऊर्जो रसस्य भागेन सह मामुपेहि मत्समीपे समागच्छ । एतन्मन्त्रबलेनोर्जो रसस्य भागः संपादितो भवतीति दर्शयति -
सहोर्जो भागेनोप मेहीत्याह । ऊर्ज एवैनं भागमकः, इति । (प्रपा० ५ । अनु० ७ । विभा० १९)
कल्पः - “इन्द्राश्विना मधुनः सारघस्येति महावीरे गोपय आनयति” इति । घर्मं पात वसवो यजता वडिति मन्त्रशेषः । हे इन्द्र हेऽश्विनौ यूयं त्रयोऽपि मधुनः संबन्धिनं घर्मं घृतसहितं क्षीरं पात पिबत । कीदृशस्य मधुनः, सारघस्य सरघा मधुमक्षिकास्ताभिर्निष्पादितं सारघं तादृशस्य । मधुनः संबन्धेन हविषस्तद्वन्मधुररसत्वम् । दे वसवो देवा यजत यागं कुरुत । वट्, इदं हविर्दत्तमस्तु । अस्मिन्मन्त्र इन्द्रशब्देन सहाश्विशब्दस्य प्रयोगाभिप्रायं दर्शयति -
अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूताम् । आवाभ्यामेव पूर्वाभ्यां वषट्क्रियाता इति । इन्द्राश्विना मधुनः सारघस्येत्याह । अश्विभ्यामेव पूर्वाभ्यां वषट्करोति । अथो अश्विनावेव भागधेयेन समर्धयति(५), इति । (प्रपा० ५ । अनु० ७ । विभा० २०)
धनुष ऊर्ध्वकोट्या छिन्नमेतद्यज्ञस्य शिरः पुनस्तद्देहे प्रतिदधतावश्विनौ तस्मिन्काल इदं वचनमब्रूताम् । पूर्वभाविभ्यामावाभ्यामेव वषट्कारेण हविः प्रदातव्यमिति । अतस्ताभ्यां प्रार्थितत्वादश्विनाविति मन्त्र उच्यते । तेनैताभ्यां प्रथमतो हविर्दत्तं भवति । अपि च पूर्वं भागरहितावश्विनाविदानीं भागेन समृद्धं(द्धौ) करोति । शिरःप्रतिधानवेलायामितरदेवान्प्रति पूर्वाभ्यामिति वरस्य वृतत्वाद्देवान्तरापेक्षयाऽश्विनोः पूर्वत्वमतो नान्येभ्यो देवेभ्यो घर्मो दीयते किन्त्विन्द्रसहिताश्विभ्यामेव । मन्त्रस्योत्तरभागे वसुशब्देन वसूनामपि भागसिद्धिं दर्शयति -
घर्मं पात वससो यजता वडित्याह । वसूनेव भागधेयेन समर्धयति, इति । (प्रपा० ५ । अनु० ७ । विभा० २१)
अत्र मीमांसया वषट्शब्दं(वट्शब्दं) प्रशंसति-
यद्वषट्कुर्यात् । यातयामाऽस्य वषट्कारः स्यात् । यन्न वषट्कुर्यात् । रक्षाँसि यज्ञँ हन्युः । वडित्याह । परोक्षमेव वषट्करोति नास्य यातयामा वषट्कारो भवति । न यज्ञँ रक्षाँसि घ्नन्ति(६), इति । (प्रपा० ५ । अनु० ७ । विभा० २२)
अत्रेदं विचार्यते - वषट्शब्दः प्रयोक्तव्यो न वेति । तत्प्रयोगे सतीदानीमेव गतसारत्वात्सोमयागे भविष्यति वषट्कारो निःसारो भवेत् । तदप्रयोगे वज्रो वै वषट्कार इति श्रुतस्य वज्रस्याभावाद्रक्षांसि यज्ञं विनाशयेयुः । अत उभयदोषपरिहाराय द्वितीयाक्षरं परित्यज्य वडित्येव प्रयोक्तव्यम् । तथा सति संपूर्णत्वाभावात्प्रत्यक्षो वषट्कारो न भवति । ततः संपूर्णवषट्कारो न गतसारः, एकदेशस्यापि विद्यमानत्वाद्वज्रसद्भावेन रक्षांस्यपि यज्ञं न विनाशयन्ति ।
कल्पः - “स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्युद्यन्तमूष्माणमनुमन्त्रयते” इति । वृष्टिवनये वृष्टिप्रदानाय सूर्यस्य रश्मये हे ऊष्मंस्त्वां स्वाहा जुहोमि स्वाहाकारयोग्यामाहुतिमाहुतिद्रव्यं कृत्वा जुहोमि । सूर्यायेत्यनुक्त्वा रश्मय इत्युक्तेस्तात्पर्यं दर्शयति -
स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुण्यो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० २३)
सूर्यो न साक्षाद्वृष्टिं प्रयच्छति किं तु पुण्यरश्मिद्वाराऽतः साक्षाद्रश्मय एव वृष्टिप्रदानायाऽऽहुतिर्युक्ता ।
कल्पः - “मधु हविरसीत्यजापयः” इति । महावीर आनयतीत्यनुवर्तते । हेऽजाक्षीर त्वं मधुरं हविरसि । स्वादु कर्तुं मधुशब्दप्रयोग इति दर्शयति -
मधु हविरसीत्याह । स्वदयत्येवैनम्, इति । (प्रपा० ५ । अनु० ७ । विभा० २४)
कल्पः - “सूर्यस्य तपस्तपेत्यूष्माणम्” इति । उद्यन्तमनुमन्त्रयत इत्यनुवर्तते । हे ऊष्मन्सूर्यस्य तपः सूर्यसंबन्धिनं तापमपि तप त्वमतिशयेन तप्तं कुरु । मन्त्रस्य स्पष्टार्थतां दर्शयति -
सूर्यस्य तपस्तपेत्याह । यथा यजुरेवैतत्, इति । (प्रपा० ५ । अनु० ७ । विभा० २५)
कल्पः - “द्यावापृथिवीभ्यां त्वा परिगृह्णामि शफाभ्यां महावीरं परिगृह्य” इति । हे महावीर त्वां द्यावापृथिवीदेवतारूपाभ्यां शफाभ्यां परिगृह्णामि । मन्त्रबलाद्द्यावापृथिवीपरिग्रहः सिध्यतीति दर्शयति -
द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्याह । द्यावापृथिवीभ्यामेवैनं परिगृह्णाति(७), इति । (प्रपा० ५ । अनु० ७ । विभा० २६)
कल्पः - “प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति” इति । हे महावीर त्वामन्तरिक्षदेवतारूपेणोपयमानाख्यकाष्ठपात्रेणोपयच्छामि, शफनामकाभ्यां काष्ठाभ्यामुध्रियमाणे त्वयि तयोः सहायरूपेणानेनाधस्तादुद्यच्छामि । मन्त्रबलादन्तरिक्षदेवतासाहाय्यं सिध्यतीति दर्शयति -
अन्तरिक्षेण त्वोपयच्छामीत्याह । अन्तरिक्षेणैवैनमुपयच्छति । न वा एतं मनुष्यो भर्तुमर्हति, इति । (प्रपा० ५ । अनु० ७ । विभा० २७)
कल्पः - “देवानां त्वा पितृणामनुमतो भर्तुँ शकेयमित्यादायोत्थाय” इति । हे महावीर देवानां पितृणां वाऽनुमतिं प्राप्तोऽहं त्वां भर्तुं धारयितुं शक्तो भूयासम् । एतत्पाठेनोभयानुमतिसिद्धिं दर्शयति -
देवानां त्वा पितृणामनुमतो भर्तुँ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आदत्ते, इति । (प्रपा० ५ । अनु० ७ । विभा० २८)
कल्पः - “तेजोऽसि तेजोऽनुप्रेहीति हरति” इति । पाठस्तु -
हे प्रवर्ग्य त्वं तेजोरूपोऽसि । अतस्तेजोरूपमाहवनीयमनुलक्ष्य प्रेहि प्रकर्षेण गच्छ । अत्युष्णस्त्वं द्युलोकादीन्स्पृशन्नपि मा(मा) हिँसीः, तापं मा कुरु । सुवरसि त्वमेव स्वर्गरूपोऽसि । अतः स्वर्गसुखं मे प्रयच्छ । तत्सुखाधारं दिवं द्युलोकं मे प्रयच्छ । दिवो द्युलोकान्मां पाहि । तत्र राक्षसप्रवेशं निवार्य मां पालय । मन्त्रस्य पूर्वभागे तेजोऽनुप्रेहीत्यस्य तात्पर्यं दर्शयति -
वि वा एनमेतदर्धयन्ति । यत्पश्चात्प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनुप्रेहीत्याह । तेज एवास्मिन्दधाति, इति । (प्रपा० ५ । अनु० ७ । विभा० २९)
आहवनीयस्य पश्चिमभागे गार्हपत्यस्योत्तरदेशे प्रवर्ग्यं कृत्वा पुरः पूर्वस्यां दिश्याहवनीये जुह्वतीति यदस्ति एतेनैनं प्रवर्ग्यं (व्यर्धयन्ति) समृद्धिरहितं कुर्वन्ति । प्रवृञ्जनेनैव तेजसो गतत्वात् । अतस्तेजोऽनुप्रेहीत्युक्त्या द्रव्ये तेजः संपादितं भवति । मध्यमभागस्याहिंसापरत्वं दर्शयति -
दिविस्पृङ्मा मा हिँसीरन्तरिक्षस्पृङ्मा मा हिँसीः पृथिविस्पृङ्मा मा हिँसीरित्याहाहिँसायै(८), इति । (प्रपा० ५ । अनु० ७ । विभा० ३०)
तृतीयभागस्याऽऽशीः परत्वं दर्शयति -
सुवरसि सुवर्मे यच्छ दिवं यच्च दिवो मा पाहीत्याह । आशिषमेवैतामाशास्ते, इति । (प्रपा० ५ । अनु० ७ । विभा० ३१)

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥८॥अथ चतुर्थप्रपाठके नवमोऽनुवाकः
अष्टमे महावीरे घृतयुक्ते क्षीरप्रक्षेपलक्षणं प्रवृञ्जनमुक्तम् । नवमे तस्य प्रवर्ग्यद्रव्यस्याऽऽहवनीये याग उच्यते । कल्पः - “व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेत्यपान्य पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहा” इति । पाठस्तु -
अत्र वातायेति विशेष्यनिर्देशः । समुद्रादिशब्दा विशेषणभूता नामधेयविशेषवाचिनः । हे प्रवर्ग्य त्वां समुद्रनामकाय वाताय स्वाहा कथयामीत्यर्थः । निपातानामनेकार्थत्वात् । एवमुत्तरेष्वपि योज्यम् । षष्ठसप्तमौ मन्त्रौ विकल्पार्थौ । वसुयुक्तायाग्नयेऽग्निनामकाय वातविशेषाय त्वां स्वाहा कथयामि । एवमुत्तरत्रापि योज्यम् । ऋग्भ्वादिभिर्युक्ताय सवितृनामकाय वाताय कथयामि । अङ्गिरोभिः पितृभिश्च युक्ताय यमनामकाय वाताय कथयामि । अयमपि मन्त्रो विकल्पार्थः । एतैर्मन्त्रैः साध्यं वातनामकथनं विधत्ते -
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्येव यज्ञस्य शिरः प्रतिदधाति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३२)
आहवनीयं प्रति नेतुं प्रवर्ग्यमुद्यत्य वातनामकथनेन वायोरात्मत्वादात्मन्येव यज्ञस्य शिरः प्रतिहितो(तं) भवति । तत्कथनमध्ये श्वासं वारयति -
अनवानम् । प्राणानाँ संतत्यै, इति । (प्रपा० ५ । अनु० ७ । विभा० ३३)
अवानं श्वासः स यथा न भवति तथा पठेत् । तच्च प्राणानामविच्छेदाय भवति । मन्त्रसंख्यां विधत्ते -
पञ्चाऽऽह । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३४)
धानाकरम्भादिहविष्पञ्चकयोगेन यज्ञः पाङ्क्तः । स च यावानस्ति तस्य सर्वस्य शिरो नामपञ्चकेन प्रतिहितं भवति । उत्तरपञ्चकस्य प्रथममन्त्रेऽग्निशब्देनाऽऽदित्यो विवक्षित इति दर्शयति -
अग्नये त्वा वसुमते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३५)
हविष्प्रक्षेपाभावेऽपि स्वाहाशब्दप्रयोगमात्रेण जुहोतीत्युच्यते । द्वितीयमन्त्रादौ सोमादिशब्दैः प्रसिद्धार्थतामेव विवक्षितां दर्शयति -
सोमाय त्वा रुद्रवते स्वाहेत्याह । चन्द्रमा वै सोमो रुद्रवान् । तस्मा एवैनं जुहोति । वरुणाय त्वाऽऽदित्यवते स्वाहेत्याह(१०)। अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३६)
अनन्तरमन्त्रे सवितृशब्देन संवत्सरस्य विवक्षां दर्शयति -
सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संवत्सरो वै सवितर्भुमान्विभुमान्प्रभुमान्वाजवान् । तस्मा एवैनं जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३७)
अनन्तरमन्त्रे यमशब्देन प्राणस्य विवक्षां दर्शयति -
यमाय त्वाऽङ्गिरसे पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिरस्वान्पितृमान्(११)। तस्मा एवैनं जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३८)
वातानां मन्त्रानुपसंहरति -
एताभ्य एवैनं देवताभ्यो जुहोति, इति । (प्रपा० ५ । अनु० ७ । विभा० ३९)
समुद्रादिभ्यो यमान्तेभ्यस्त्रयोदशमन्त्रोक्ताभ्यो देवताभ्यो होमः कृतो भवति । अनुष्ठेयमन्त्रसंख्यां प्रशंसति -
दश संपद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे, इति । (प्रपा० ५ । अनु० ७ । विभा० ४०)
त्रयोदशसु त्रयाणां विकल्पार्थत्वेन पूर्वपञ्चकमुत्तरपञ्चकं चेत्येवमनुष्ठेयमन्त्राणां दशत्वसंपत्तिः, अतो विराजाऽन्नप्राप्तिः । अथ रौहिणपुरोडाशौ विधत्ते -
रौहिणाभ्यां वै देवाः सुवर्गं लोकमायन् । तद्रौहिणयो रौहिणत्वम् । यद्रौहिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति, इति । (प्रपा० ५ । अनु० ७ । विभा० ४१)
स्वर्ग(र्गे) रोहत्याभ्यां पुरोडाशाभ्यामिति रौहिणौ ताभ्यां स्वर्गप्राप्तिः । रौहिणपुरोडाशयोर्दक्षिणोत्तरयोरपि होममन्त्रावुत्तरानुवाक आम्नास्यमानावपि पुरोडाशविधिप्रसङ्गादिहैवोपहृत्य व्याख्यास्ये(ये)ते -
अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा रात्रिर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिर्जुषताँ स्वाहेत्याह । आदित्यमेव तदमुष्मिंल्लोकेऽह्ना परस्ताद्दधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिंल्लोकेऽहोरात्राभ्यां धृतः, इति । (प्रपा० ५ । अनु० ७ । विभा० ४२)
मनुष्यनामानि पशवः सीदत्वित्याहेन्द्रायेत्याहार्धयति घ्नन्ति गृह्णात्याहिँसायै पञ्चाऽऽहाऽऽदित्यवते स्वाहेत्याह पितृमानेति चत्वारि च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥७॥
अहर्देवता केतुनाऽऽध्यक्षरूपेणाऽऽदित्यमण्डलेन सह ज्योतिर्जुशतां प्रकाशं सेवताम् । ज्योतिषां मध्ये सुज्योतिः शोभनज्योतीरूपमहरुद्दिश्य स्वाहुतमिदमस्तु । एवं रात्रिदेवतामन्त्रोऽपि व्याख्येयः । तत्तेन मन्त्रद्वयेन स्वर्गलोकात्परस्तादुपरिभागेऽहर्देवतया सहितमादित्यं धारयति । अवस्तादधोभागे रात्रिदेवतया सहितमादित्यं धारयति । यस्मादेवं तस्मात्स्वर्गेऽसावादित्यो देवताद्वयेन धृतो वर्तते ।
कल्पः - “अपरेणाऽऽहवनीयं दक्षिणाऽतिक्रामन्विश्वा आशा दक्षिणसदितिब्रह्माणमीक्षते” इति । दक्षिणदेशे सीदतीति दक्षिणसद्ब्रह्मा सोऽयं विश्वा आशाः सर्वदिग्वर्तिनो देवान्प्रीणात्विति शेषः । उक्तार्थपरत्वं मन्त्रस्य दर्शयति -
विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान्प्रीणाति । अथो दुरिष्ट्या एवैनं पाति, इति । (प्रपा० ५ । अनु० ८ । विभा० १)
अनेन मन्त्रेण देवप्रीतिर्भवति । यागे संभावितदोषाच्च यजमानं पालयति ।
कल्पः - “विश्वान्देवानयाडिहेति होतारम्” इति । ईक्षत इत्यनुवर्तते । इह कर्णणि होता विश्वान्देवानयाडिष्टवान् । अयाट्शब्देन सर्वदेवानां भागसमृद्धिं दर्शयति -
विश्वान्देवानयाडिहेत्याह । विश्वानेव देवान्भागधेयेन समर्धयति, इति । (प्रपा० ५ । अनु० ८ । विभा० २)
कल्पः - “स्वाहाकृतस्य घर्मस्येति घर्ममभिमन्त्र्य” इति । पाठस्तु -
अश्विना हेऽश्विनौ स्वाहाकृतस्य स्वाहाकारेण समर्पितस्य मधोर्मधुरस्य घर्मस्य प्रवर्ग्यद्रव्यस्य रसं पिबतम् । यजुर्भिर्यजुर्देवताभिः सहिताय यज्ञियाय यज्ञयोग्यायाग्नये शं सुखं यथा भवति तथा स्वाहुतमस्तु । मन्त्रस्य पूर्वभागेणाश्विनोर्भागसमृद्धिं दर्शयति -
स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्याह । अश्विनावेव भागधेयेन समर्धयति, इति । (प्रपा० ५ । अनु० ८ । विभा० ३)
उत्तरभागे स्वाहेत्युच्चारेण प्रवर्ग्येऽभिघारणं हविष्ट्वं च संपद्यत इति दर्शयति -
स्वाहाऽग्नये यज्ञियाय शं यजुर्भिरित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः(१), इति । (प्रपा० ५ । अनु० ८ । विभा० ४)
कल्पः - “अश्विना घर्मं पातमिति वषट्कृते जुहोति” इति । पाठस्तु -
हेऽश्विनौ घर्मं प्रवर्ग्यहविः पातं पिबतम् । कीदृशम् । हार्दिवानं हृदयप्रियातिशयो हार्दी सोऽस्यास्तीति हार्दिवा तादृशम् । अहरह्न्यस्मिन्दिने दिवाभिर्द्योतमानाभिरूतिभिरस्मद्विषयलक्षणक्रियाभिर्निमित्तभूताभिः पातमिति पूर्वत्रान्वयः । हेऽश्विनौ वां युवां द्यावापृथिव्यौ देवते अनुमंसातामनुमतौ कुरुताम् । इन्द्रायेदं स्वाहुतमस्तु ।
कल्पः - “स्वाहेन्द्रा वडित्यनुवषट्कृते” इति । जुहोतीत्यनुवर्तते । इन्द्रेत्ययं शब्दः परमैश्वर्ययोगात्स्विष्टकृदग्निमाचष्टे । स्वाहाशब्द आहुतियोग्यतामाह । तादृशाय वषडिदं हविः समर्पितम् । अश्विना घर्मं पातमित्युक्त्या तयोर्भागसमृद्धिं दर्शयति -
अश्विना घर्मं पातँ हार्दिवानमहर्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्धयति, इति । (प्रपा० ५ । अनु० ८ । विभा० ५)
अनुमँसातामिति पदेन द्यावापृथिव्योरनुज्ञा प्रार्थ्यत इति दर्शयति -
अनु वां द्यावापृथिवी मँसातामित्याहानुमत्यै, इति । (प्रपा० ५ । अनु० ८ । विभा० ६)
चतुर्थ्यन्तस्येन्द्रशब्दस्य प्रथमतः प्रयोगे कारणं दर्शयति -
स्वाहेन्द्राय स्वाहेन्द्रा वडित्याह । इन्द्राय हि पुरो हूयते, इति । (प्रपा० ५ । अनु० ८ । विभा० ७)
यस्मात्प्रधानदेवतारूपायेन्द्राय प्रथमत आहुतिः पश्चात्स्विष्टकृद्देवताया आहुतिर्युक्ता, तस्मादिन्द्रायेति मुख्यदेवताविवक्षया प्रथमप्रयोगः । अत्रानुष्ठनक्रमं विधत्ते -
आश्राव्याऽऽह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनुयजति स्वगाकृत्यै, इति । (प्रपा० ५ । अनु० ८ । विभा० ८)
प्रथममाश्रावणं कृत्वा ततो घर्मस्य यजेति ब्रूयात् । हे होतर्घर्मस्य प्रवर्ग्यस्यानुष्ठानार्थं यज याज्यां पठ । एवं प्रैषमुक्त्वा ततो होत्रा याज्यापाठेन वषट्कृते सत्यश्विना घर्ममित्यनेन मन्त्रेण जुहुयात् । एतच्च रक्षसामपघाताय भवति । ततोऽनुवषट्कारे होत्रा प्रयुक्ते सति स्वाहेन्द्रा वडिति मन्त्रेण यजेत् । तच्च स्वगाकृत्यै स्वाधीनकरणायोपयुज्यते । कल्पः - “घर्ममपातमश्विनेत्यनुवाकशेषेणोपस्थाय” इति । पाठस्तु -
हेऽश्विनावस्मिन्नहनि द्योतमानरक्षणक्रियानिमित्तं हृदयप्रियातिशययुक्तं प्रवर्ग्यद्रव्यमपातं युवां पीतवन्तौ । द्यावापृथिव्यौ च युवयोरनुमतिं दत्तवत्यौ । प्रकृष्टरक्षाहेतुं तं प्राव्यं(प्रवर्ग्यद्रव्यं) यथावट् स्विष्टकृद्देवतायै यथावद्दत्तवानस्मि । द्यावापृथिव्योः प्रसादादस्य कर्मणो निष्पत्तेस्ताभ्यां नमोऽस्तु । हेऽश्वीन्द्ररूप प्रवर्ग्यदेवास्मदीयमिमं यज्ञं दिवि धा द्युलोके स्थापय । द्विरुक्तिरादरार्था । हे प्रवर्ग्य द्युप्रभृतिकं लोकत्रयं प्राप्नुहि । तथोर्ध्वदिक्सहिताः प्राच्यादिपञ्च दिग्देवताः प्राप्नुहि । प्रवर्ग्यस्य पातारो ये देवा ये च पितरस्तानुभयान्प्राप्नुहि । होममन्त्रेण सहोपस्थानमन्त्रस्य समानार्थतां दर्शयति -
घर्ममपातमश्विनेत्याह(२)। पूर्वमेवोदितम् । उत्तरेणाभिगृणाति, इति । (प्रपा० ५ । अनु० ८ । विभा० ९)
अमँसातामित्यस्यातीतार्थवाचिशब्दस्य सिद्धानुज्ञापरत्वं दर्शयति -
अनु वां द्यावापृथिवी अमँसातामित्याहानुमत्यै, इति । (प्रपा० ५ । अनु० ८ । विभा० १०)
अनन्तरमन्त्रभागस्य स्पष्टार्थतां दर्शयति -
तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथा यजुरेवैतत्, इति । (प्रपा० ५ । अनु० ८ । विभा० ११)
हविषः स्वर्गप्राप्तिपरत्वमनन्तरभागस्य दर्शयति -
तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत्, इति । (प्रपा० ५ । अनु० ८ । विभा० १२)
दिवं गच्छेति प्रार्थनाया हविषो लोकत्रयप्रतिष्ठापनार्थतां दर्शयति -
दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रतिष्ठापयति, इति । (प्रपा० ५ । अनु० ८ । विभा० १३)
अथोत्तरवाक्याणां सर्वदिक्षु देवेषु पितृषु च हविषः प्रतिष्ठापनार्थतां दर्शयति -
पञ्च प्रदिशो गच्छेत्याह(3)। दिक्ष्वेवैनं प्रतिष्ठापयति । देवान्घर्मपान्गच्छ । पितॄन्घर्मपान्गच्छेत्याह । उभयेष्वेवैनं प्रतिष्ठापयति, इति । (प्रपा० ५ । अनु० ८ । विभा० १४)

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके नवमोऽनुवाकः ॥९॥अथ चतुर्थप्रपाठके दशमोऽनुवाकः
आहवनीये प्रवर्ग्यद्रव्येण होमो नवमेऽभिहितः । दशमे तद्द्रव्यशेषेणाग्निहोत्रहोमोऽभिधीयते । तत्राऽऽदौ किंचिदनुमन्त्रणमुच्यते । कल्पः - “उपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्ना पूरयतीषे पीपिह्यूर्जे पीपिहीति विक्षरन्तमनुमन्त्रयते” इति । पाठस्तु -
आहवनीयस्योपरि महावीरं धारयित्वा तत्रत्ये तप्ते घृते तप्तस्य दध्नः प्रक्षेपे सति प्रवर्ग्यो विक्षरति विशेषेण पात्रस्योर्ध्वं यदोद्गच्छति तदानीमुद्गच्छन्तं प्रवर्ग्यं संबोध्येदमुच्यते - हे प्रवर्ग्य, इषेऽन्नार्थं पीपिहि त्वं प्रवृद्धो भव । तथोर्जे रसार्थं ब्राह्मणाद्यर्थं च प्रवृद्धो भव । सुभूतं शोभनं प्राणिजातम् । मह्यं ज्यैष्ठ्यायाध्वर्योर्मम प्रशस्तत्वाय । प्रवर्ग्यस्याभिवृध्या सर्वमिदमभिवर्धत इत्यर्थः । एतस्याभिवृद्धेर्मन्त्रोक्ताया वृष्टिहेतुत्वं दर्शयति -
यत्पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात्पिन्वमानः पुण्यः, इति । (प्रपा० ५ । अनु० ८ । विभा० १५)
पिन्वते वर्धते पात्रस्योपर्युद्गच्छतीत्यर्थः । हविष उद्गमनं दिग्विशेषेण प्रशंसति -
यत्प्राङ्पिन्वते । तद्देवानाम् । यद्दक्षिणा । तत्पितृणाम्(४)। यत्प्रत्यक् । तन्मनुष्याणाम् । यदुदङ् । तद्रुद्राणाम्, इति । (प्रपा० ५ । अनु० ८ । विभा० १६)
इत्थमभिवृद्धिं प्रशस्य प्रागुदग्दिशोः संधौ क्षरणं विधत्ते -
प्राञ्चमुदञ्चं पिन्वयति । देवत्राऽकः, इति । (प्रपा० ५ । अनु० ८ । विभा० १७)
प्रागुदङ्मध्यवर्तिनमेतं प्रवर्ग्यमिष्टं पिन्वयति, अभिवृद्धं कुर्यात् । महावीरमध्ये तस्मिन्प्रदेशे दधिप्रक्षेपेणाभिवर्धयेत् । तेन देवत्रा देवेष्वकरेतं प्रवर्ग्यं करोति । पक्षान्तरं विधत्ते -
अथो खलु । सर्वा अनुदिशः पिन्वयति । सर्वा दिशः समेधन्ते, इति (प्रपा० ५ । अनु० ८ । विभा० १८)
पात्रमध्ये सर्वा दिशोऽनुलक्ष्य दधिप्रक्षेपेण तद्धविरुद्गमयेत् । तेन सर्वा अपि दिशः सम्यग्वर्धन्ते । पात्रादुद्गतस्य हविषः परिधिभ्यो बहिर्देशे पतनं वारयितुं विधत्ते -
अन्तः परिधि पिन्वयति(५)। तेजसोऽस्कन्दाय, इति । (प्रपा० ५ । अनु० ८ । विभा० १९)
परिधीनामन्तरेव यथा पतति तथाऽभिवर्धयेत् । तथा सत्यविनाशितं तेजो भवति । मन्त्रेषु चतुर्थीविभक्तेस्तात्पर्यं दर्शयति -
इषे पीपिह्यूर्जे पीपिहीत्याह । इषमेवोर्जं यजमाने दधाति, इति । (प्रपा० ५ । अनु० ८ । विभा० २०)
उत्तरमन्त्रेष्वप्येतदनुसंधेयम् । सर्वेषां यजमानार्थत्वे समाने सति पुनर्यजमानायेत्युक्तेस्तात्पर्यमाह -
यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमाशास्ते, इति । (प्रपा० ५ । अनु० ८ । विभा० २१)
यजमानस्य फलान्तरानुशासनायेयमुक्तिरित्यर्थः । अध्वर्योः स्वार्थं मह्यमित्युक्तिरिति दर्शयति -
मह्यं ज्यैष्ठ्याय पीपिहीत्याह । आत्मन एवैतामाशिषमाशास्ते, इति । (प्रपा० ५ । अनु० ८ । विभा० २२)
कल्पः - “अथैनं दिशोऽनुप्रहावयति त्विष्यै त्वा द्युम्नाय त्वा त्वेन्द्रयाय त्वा भूत्यै त्वा” इति । हे प्रवर्ग्य त्विष्यै दीप्तिसिद्धये त्वां प्राच्यां दिशि हुतं करोमि । द्युम्नाय धनाप्तिसिद्धये त्वां दक्षिणस्यां दिशि हुतं करोमि । इन्द्रियाभिवृद्धये त्वां प्रतीच्यां दिशि हुतं करोमि । भूत्या ऐश्वर्यसिध्यर्थमुदीच्यां दिशि हुतं करोमि । मन्त्रस्य स्पष्टार्थतां दर्शयति -
त्विष्यै त्वा द्युम्नाय त्वेन्द्रियाय त्वा भूत्यै त्वेत्याह । यथा यजुरेवै तत्, इति । (प्रपा० ५ । अनु० ८ । विभा० २३)
कल्पः - “प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति धर्माऽसि सुधर्मा मे न्यस्मे ब्रह्मणि धारयेति (ब्राह्मणस्य) क्षत्त्राणि धारयेति राजन्यस्य विशं धारयेति वैश्यस्य” इति ।
नेत्वा वातः स्कंदयादिति(मन्त्रशेषः) । हे महावीर धर्माऽसि त्वं धारणशक्तियुक्तोऽसि मे मम सुधर्मा सुष्ठु धारको भवेति शेषः । अस्मे अस्मासु ब्रह्मणि ब्राह्मणजात्युचितानि कर्माणि (नि)धारय नितरां संपादय । क्षत्त्राणि क्षत्त्रियजातियुक्तानि कर्माणि धारय । विशं प्रजां धारय । वातो वायुस्त्वां नेत्स्कन्दायान्नैव शोषयतु । मन्त्रपाठेन ब्राह्मणजात्युचिते कर्मणि यजमानस्य स्थापनं दर्शयति -
धर्माऽसि सुधर्मा मे न्यस्मे ब्रह्माणि धारयेत्याह(६)। ब्रह्मन्नेवैनं प्रतिष्ठापयति, इति । (प्रपा० ५ । अनु० ८ । विभा० २४)
मन्त्रशेषस्य निगदव्याख्यातत्वमभिप्रेत्य तत्स्वरूपमात्रमुपदर्शयति -
नेत्त्वा वातः स्कन्दयादिति, इति । (प्रपा० ५ । अनु० ८ । विभा० २५)ब्राह्मणादिविषयेषु मन्त्रत्रयेष्वनुषङ्गद्योतनाय पृथगुपदर्शनम् । कल्पः - “यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत्” इति । पाठस्तु -
हे महावीर द्वेष्टा द्वेष्यश्चेत्युभयविधस्यामुष्य शत्रोः प्राणे त्वां सादयामि । अमुना शत्रुणा सह त्वं निरर्थं गच्छ प्रयोजनाभावं प्राप्नुहि, तदीयं प्रयोजनं मा कुर्वित्यर्थः । अनेन मन्त्रेणाभिचारप्रयोगं विधत्ते -
यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनँसह निरर्थं गमयति, इति ।
यं शत्रुं यजमानो द्विष्यात्, शत्रुश्च यमेव यजमानं द्वेष्टि, ऐनं द्वेष्यं द्वेष्टारं चेत्युभयविधं शत्रुं स यजमानस्तेन महावीरेण सह निरर्थं पुरुषार्थाभावं प्रापयति । कल्पः - “अथैताञ्शकलानुपयमने जुहोति पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रम्” इति । पाठस्तु -
अनिष्टस्य हिंसकः शराः, तादृशाय शरसे पूष्णे पोषकाय देवाय स्वाहुतमिदमस्तु । ग्रावभ्यः पाषाणजन्यध्वनिरूपाभ्यो वाग्देवताभ्यः । प्रतिरेभ्योऽभिवृद्धिहेतुभ्यः प्राणदेवेभ्यः । प्रथममन्त्रे पूषञ्श(श)ब्देन बहुदेवताविवक्षां दर्शयति -
पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति, इति ।
द्विविधा हि देवता हुतभागा अहुतभागाश्चेति । तथा चान्यत्राऽऽम्नातम् - “हुतादोवा अन्ये देवा अहुतादोऽन्ये” इति । तासु हुतभागाः सर्वा अप्यत्रोपलक्षितास्ताभ्यः सर्वाभ्य एनमुक्तं शकलं जुहोति । ग्रावशब्देन तज्जन्यध्वनिविवक्षां दर्शयति -
ग्रावाभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः(७)। ताभ्य एवैनं जुहोति, इति । प्रतिरशब्देन प्राणविवक्षां दर्शयति -
प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति, इति ।
द्यावापृथिवीशब्देन मुख्यार्थविवक्षां दर्शयति -
द्यावापृथिवीभ्याँ स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति, इति ।
घर्मपेभ्य इति विशेष्येण(षणेन) सोमयागं कृत्वा पितृलोकगतानां पितॄणां विवक्षां दर्शयति -
पितृभ्यो घर्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मपाः । तेभ्य एवैनं जुहोति, इति ।
यज्वनां स्वकीययागकाले प्रवर्ग्यपानमस्तीति ते घर्मपाः ।
कल्पः - “षष्ठं शकलं सर्वेषु लेपेष्वङ्क्त्वाऽनन्वीक्षमाण उदञ्चं निरस्यति रुद्राय रुद्रहोत्रे स्वाहा” इति । रुद्राः सहस्रसंख्याका होतार आह्वातारो यस्य मुख्यरुद्रस्य तस्मै रुद्रहोत्रे मुख्यरुद्राय स्वाहुतमिदं शकलमस्तु । अनेन मुख्यरुद्रस्य भागसमृद्धिं दर्शयति -
रुद्राय रुद्रहोत्रे स्वाहेत्याह । रुद्रमेव भागधेयेन समर्धयति, इति । अस्य शकलस्याऽऽज्यपयःपिष्टलेपेषु सर्वेष्वञ्जनं विधत्ते -
सर्वतः समनक्ति । सर्वत एव रुद्रं निरवदयते, इति ।
सर्वाञ्जनेन क्रूरदेवस्य रुद्रस्य सर्वतोऽपसारणं कृतं भवति । शकलपरित्यागस्य दिग्विशेषं विधत्ते -
उदञ्चं निरस्यति । एषा वै रुद्रस्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते, इति ।
ऐशान्याः समीपे वर्तत इत्युदीच्यपि रुद्रस्य दिग्भवति । हस्तेन जलस्पर्शनं विधत्ते -
अप उपस्पृशति मेध्यत्वाय, इति ।
रुद्रार्थशकलस्पर्शेन यज्ञयोग्यत्वं विनष्टं पुनर्जलस्पर्शनेन तद्योग्यता संपद्यते । शकलपरित्यागकाले तद्दर्शनं निषेधति -
नान्वीक्षेत । यदन्वीक्षेत(९)। चक्षुरस्य प्रमायुकँ स्यात् । तस्मान्नान्वीक्ष्यः, इति ।
प्रमायुकं विनश्वरम् ।
कल्पः - “प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाँ स्वाहा । रात्रिर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाँ स्वाहा” इति । तावेतौ मन्त्रौ पूर्वस्मिन्ननुवाके ब्राह्मणोदाहरणप्रसङ्गेन व्याख्यातौ ।
कल्पः - “अपीपरो माऽह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वाऽऽयुर्मे दा वर्चसा माऽऽञ्जीरिति सायं समिधमादधाति, अपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः” इति । तन्मन्त्रशेषस्तु - “एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माऽऽञ्जीः” इति । होऽग्ने मां यजमानमपीपरः पारं नीतवानसि । तस्मादह्नो रात्रेश्च सकाशान्मां पाहि । हेऽग्ने ते तवैषा समिदाधीयते, तया समिधा त्वं समिध्यस्व संदीप्तो भव । मे मह्यमायुः, दा देहि । वर्चसा तेजसा मां यजमानमाञ्जीः, अक्तं कुरु । संयोजयेत्यर्थः । अपीपरो मा रात्रिया इति मन्त्रोऽपि तद्वद्व्याख्येयः । अहः शब्दस्य रात्रिशब्दस्य च पाठे पौर्वापर्यमात्रं विशेषः । मन्त्रद्वयेऽपि यजमानस्याऽऽयुर्वर्चःप्राप्तिं दर्शयति -
अपीपरो माऽह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वाऽऽयुर्मे दा वर्चसा माऽऽञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । आपीपरो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समित्तया समिध्यस्वाऽऽयुर्मे दा वर्चसा माऽऽञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति, इति ।
कल्पः - “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रं जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः” इति । योऽयमग्निः स ज्योतिः स्वरूपः, यश्च ज्योतिःस्वरूपः सोऽप्यग्निः । अग्नेर्ज्योतिषांश्चात्यन्तमभेदं द्योतयितुं व्यतिहारेण द्विरुपन्यासः । तस्मादग्नये स्वाहुतमिदमस्तु । सूर्यमन्त्रोऽप्येवं व्याख्येयः । मन्त्रद्वयस्य स्पष्टार्थतां दर्शयति -
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्याह । यथा यजुरेवैतत्, इति ।
कल्पः - “अथाप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधायैतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति भूः स्वाहा” इति । भूः सत्तास्वभावः सदेव सौम्येदमग्र आसीदित्यादिशास्त्रप्रतिपाद्यस्य परमात्मनः स्वरूपभूतो योऽग्निस्तस्मै स्वाहुतमिदमस्तु । अत्र मीमांसया भूः स्वाहेति मन्त्रं प्रथमप्रवर्ग्यकालीनाग्निहोत्रविषयत्वेन व्यवस्थापयति -
ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रा३ न होतव्या३मिति(१०)। यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः पराभवेत् । भूः स्वाहेत्येव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः पराभवति, इति ।
अत्र प्रथमप्रवर्ग्ये प्रातःकालीने तदीयद्रव्येणाग्निहोत्रं जुहुयान्न वेति विचारः । होमपक्षे प्रथमाम्नातेनाग्निर्ज्योतिरिति मन्त्रेण होतव्यम् । स च मन्त्रो नित्याग्निहोत्रे सायंकालीनः, अतो यथापूर्वमनुष्ठानं न स्यात् । अहोमपक्षे त्वाहुत्यभावादग्निः क्षुधया पराभूतो भवेत् । अतो दोषद्वयपरिहाराय भूः स्वाहेति मन्त्रेण प्रथमप्रवर्ग्यकाले जुहुयात् । ततः सायमग्निर्ज्योतिरिति मन्त्रः । परेद्युः प्रातः सूर्यो ज्योतिरिति मन्त्रः । एवं सति यथापूर्वं नित्याग्निहोत्रवदेवेमा आहुतीर्जुहोति । अग्निश्चाहुतिसद्भावान्न पराभवति । कल्पः - “हुतँ हविर्मधु हविरिति भक्षयित्वा” इति । पाठस्तु -
इदं प्रवर्ग्याख्यं हविरुत्तराग्नौ हुतम् । तच्च हविर्मधु स्वादुभूतम् । कुत्र हुतमिति तदुच्यते - इन्द्रमतेऽग्नावतिशयेन परमैश्वर्ययुक्ते जाठरे प्राणरूपेऽग्नौ । हे प्रवर्ग्य त्वं नोऽस्माकं पिता पालकोऽसि, अतो मां मा हिंसीः । हे घर्म प्रवर्ग्य देव मधुमतो माधुर्ययुक्तस्य वाजवतः शरीरव्यापित्वेन गतियुक्तस्य पितुमतोऽन्नसाधनत्वेनान्नयुक्तस्याङ्गिरस्वतोऽङ्गसौष्ठवहेतोः स्वधाविनोऽमृतयुक्तस्य ते तव सारमश्याम भक्षयेम । अथवा स्वधाविन इत्युत्तरत्रान्वेतव्यम् । यस्मात्स्वधाविनोऽमृतत्वार्थिनो वयं त्वामशीमहि तस्मान्मां मा हिंसीः । मधुशब्देन स्वादुत्वं विवक्षितमिति दर्शयति -
हुतँ हविर्मधु हविरित्याह । स्वदयत्येवैनम्, इति ।
अग्निशब्देन प्राणविवक्षां दर्शयति -
इन्द्रतमेऽग्नावित्याह(११)। प्राणो वा इन्द्रतमोऽग्निः । प्राण एवैनमिन्द्रतमेऽग्नौ जुहोति, इति ।
मा मा हिँसीरिति प्रार्थनायाः क्षरणादिहिंसापरिहारार्थत्वं दर्शयति -
पिता नोऽसि मा मा हिँसीरित्याहाहिँसायै, इति ।
अश्यामेत्यस्य लिङ्प्रत्ययस्याऽऽशीरर्थविवक्षां दर्शयति -
अश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामाशास्ते, इति ।
मा मा हिंसीरित्यनेन देवताशरीरभक्षणप्रयुक्तहिंसानिवारणविवक्षां दर्शयति -
स्वधाविनोऽशीमहि त्वा मा मा हिँसीरित्याहाहिँसायै, इति ।
उक्तमन्त्रसाध्यं भक्षणं विधत्ते -
तेजसा वा एते व्यृध्यन्ते । ये प्रवर्ग्येण चरन्ति । प्राश्नन्ति । तेज एवाऽऽत्मन्दधते(१२), इति ।
प्रवर्ग्यप्रचरणप्रयासेन क्षीणा शक्तिर्हविर्भक्षणेन समाहिता भवति । नियमान्विधत्ते -
संवत्सरं न माँ समश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्सँश्यति, इति ।
प्रवर्ग्यानुष्ठायी संवत्सरमात्रं मांसं न भक्षयेत् । स्त्रियं नोपेयात् । मृन्मयेन कारकादिना जलं न पिबेत् । अस्य यजमानस्योच्छिष्टं रामो रमणीयः पुत्रो न पिबेत् । तत्तेन नियमेन स्वकीयं तेज एव सम्यक्तीक्ष्णीकरोति । यथोक्तं संवत्सरमांसवर्जनादिव्रतं प्रशंसति -
देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सन्यदधत । यत्किञ्च दिवाकीर्त्यम् । तदेतेनैव व्रतेनागोपायत् । तस्मादेतद्व्रतं चार्यम् । तेजसो गोपीथाय । तस्मादेतानि यजूँषि विभ्राजः सौर्यस्येत्याहुः, इति ।
देवाश्चासुराश्च यदा परस्परं योद्धुं संनद्धा आसंस्तदानीं ते देवा विजयं प्राप्तुमिच्छन्तः सूर्यस्य पुत्रे विभ्राण्नामके देवे ब्रह्म वेदजातं सम्यङ्निहितवन्तः । स च विभ्राड्देवो वेदे यत्किञ्चिद्दिवाकीर्त्यमहन्येव पठनीयमनुवाकजातमस्ति, तत्सर्वमेतेन पूर्वोक्तनिरूपणेनैव व्रतेन युक्तो रक्षितवान्, तस्मात्कारणाद्दिवाकीर्त्येन प्रवर्ग्याध्यायेनानुष्ठानं कुर्वता पुरुषेण पूर्वोक्तमेतद्व्रतं चरणीयम् । यस्माद्विभ्राण्नामको देवो दिवाकीर्त्यानि नमो वाचे या चोदितेत्यादीनि यजूंषि रक्षितवान्, तस्मादेतानि यजूंषि सूर्यपुत्रस्य विभ्राड्देवस्य संबन्धीनीत्येवमभिज्ञाः कथयन्ति । तदीयानुष्ठाने तेजोरक्षणार्थं व्रतचरणम् ।
कल्पः - “अग्रेणाऽऽहवनीयं पर्याहृत्य सम्राडासन्द्यां संसादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः स्वाहा त्वा नक्षत्रेभ्य इति सायम्” इति । हे घर्मपात्रसमूह त्वां सूर्यस्य रश्मिभ्यः स्वाहा समर्पयामि । ततस्त्वां नक्षत्रेभ्यः समर्पयामि । एतन्मन्त्रद्वयसाध्यं घर्मपात्रसाधनं विधत्ते -
स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सँसादयति । स्वाहा त्वा नक्षत्रेभ्य इति सायम् । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति(१३) इति ।
अकरश्विनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिधि पिन्वयति धारयेत्याह वाचो घर्मपास्तेभ्य एवैनं जुहोत्यन्वीक्षेत होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
सूर्यो नक्षत्राणि चेत्येताः प्रवर्ग्यपात्रसमूहस्य स्वामिभूताः, अतस्ताभिरेव देवताभिरेनं पात्रसमूहं समृद्धं करोतीति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके दशमोऽनुवाकः ॥१०॥अथ चतुर्थप्रपाठक एकादशोऽनुवाकः
दशमे प्रवर्ग्यशेषेणाग्निहोत्रहोम उक्तः, एकादशे प्रवर्ग्योद्वासनमुच्यते । कल्पः - “प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौही(हीं) ब्रह्मणे धेनुं होत्रे रुक्ममध्वर्यवेऽपरं खरं पूर्वस्मिन्खरे न्युप्योच्छिष्टखरं संस्कृष्योत्तरेणाऽऽहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य तस्यां सर्वं परिघर्मं समाधायौदुम्बर्यां स्रुचि चतुर्गृहीतं गृहीत्वा घर्म या ते दिवि शुगित्येतैर्यथालिङ्गं जुहोत्यपि वा प्रतिप्रस्थाता त्रीन्सन्नखाञ्शलाकान्मु(मु)ष्टीनादाय तेषामेकमाहवनीये प्रदीप्याऽऽस्यदघ्ने धारयति तमध्वर्युरभिजुहोति घर्म या ते दिवि शुक्” इति । पाठस्तु -
हे घर्म प्रवर्ग्य ते तव संबन्धिनी शुक्संतापः । या दिवि द्युलोके या गायत्रे छन्दसि या ब्राह्मणे पुरुषे या हविर्धाने मण्डपे च विद्यते, तां सर्वां ते त्वदीयां शुचमेतेन होमेनाहमवयजे नाशयामि । कल्पः - “तस्मिन्नपरं प्रदीप्याऽऽहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुगिति, तस्मिन्परं प्रदीप्याऽऽहवनीये पूर्वं प्रहृत्य जानुदघ्ने धारयति तमध्वर्युरभिजुहोति घर्म या ते पृथिव्याँ शुक्” इति । पाठस्तु -
एतौ मन्त्रौ प्रथममन्त्रवद्व्याख्येयौ । एतन्मन्त्रसाध्यं होमं विधत्ते -
घर्म या ते दिवि शुगिति तिस्र आहुतीर्जुहोति । छन्दोभिरेवास्यैभ्यो लोकेभ्यः शुचमवजयते, इति ।
अस्य घर्मस्य संबन्धिनीं शुचं छन्दोदेवताभिरेव सहायभूताभिर्लोकत्रयादपनयति । प्रदीप्यमानस्य शलाकामुष्टेर्धारणे क्रमेण मुखनाभिजानुप्रमाणानि हस्तेनाभिनीय विधत्ते -
इयत्यग्रे जुहोति । अथेयत्यथेयति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यः शुचमवजयते, इति ।
अग्रे प्रथममियत्यास्यदघ्ने देशे(धारयित्वा) जुहोति । अथानन्तरमियति नाभिदघ्ने देशे धारयित्वा जुहोति । अथानन्तरमियति जानुदघ्ने देशे धारयित्वा जुहोति । एते च त्रयो देशा लोकत्रयरूपाः, अतो लोकेभ्यः शुचं निराकरोति । कल्पः - “आहवनीय एवैनमनुप्रहरत्यनु नोऽद्यानुमतिरिति परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयत्यन्विदनुमते त्वम्” इति । अनु नो द्यानुमतिरित्येकस्या ऋचः प्रतीकम् । अन्विदनुमते त्वमित्यपरस्या ऋचः प्रतीकम् । एते ऋचाविदं वामास्ये हविरित्यनुवाके व्याख्याते । अनयोर्देवतानुरूपतां दर्शयति -
अनु नोऽद्यानुमतिरित्याहानुमत्यै, इति ।
कल्पः - “दिवस्त्वा परस्या(स्पा)या इति । प्रथमेऽभिप्रव्रजन्ति” इति । पाठस्तु -
सर्वे मिलित्वा प्रवर्ग्योद्वासनदेशं प्रति यदा गच्छन्ति तदा मार्गं त्रेधा विभज्य प्रथमे भागे मन्त्रेणानेन प्रव्रजन्ति । हे प्रवर्ग्य दिवो द्युलोकस्य परस्या(स्पा)या अतिशयेन पालननिमित्तं त्वां वयमनुक्रामाम, त्वं चान्तरिक्षस्य संबन्धिनीस्तनुवः प्राणिशरीराणि पाहि रक्ष । तथा पृथिव्या धर्णणा धारणनिमित्तं त्वां वयमनुक्रामाम, एतदनुक्रमग्रहणं नव्यसे नूतनाय सुविताय शोभनगमनाय संपद्यताम् । अस्य मन्त्रस्य लोकत्रयधारणे तात्पर्यं दर्शयति -
दिवस्त्वा परस्पाया इत्याह । दिव एवेमाल्ँ लोकान्दधार, इति । दिवो द्युलोकदेवताया रक्षणेन लोकत्रयं धृतं भवतीत्यर्थः । कल्पः - “ब्रह्मणस्त्वा परस्या(स्पा)या इति द्वितीये” इति । अनेन मन्त्रेण द्वितीयमार्गभागे प्रव्रजेयुरित्यर्थः । पाठस्तु -
पूर्ववद्व्याख्येयम् । लोकविषयमन्त्रानन्तरं ब्राह्मणादिजातिविषयमन्त्रेण लोकेषु प्रजानां धारणं सिध्यतीति दर्शयति -
ब्रह्मणस्त्वा परस्पाया इत्याह(१)। एष्वेव लोकेषु प्रजा दधार, इति ।
कल्पः - “प्राणस्य त्वा परस्पाया इति तृतीये” इति । अनेन मन्त्रेण मार्गस्य तृतीयभागे प्रव्रजेयुः । पाठस्तु -
चक्षुषस्तनुव इत्यनेन चक्षुष्मन्ति शरीराणीत्यर्थो विवक्षितः । अन्यत्पूर्ववद्व्याख्येयम् । ब्रह्मक्षत्त्रादिप्रजाविषया(य)(मन्त्रा)नन्तरं प्राणचक्षुरादिविषयमन्त्रेण प्रजासु प्राणधारणसिद्धिं दर्शयति -
प्राणस्य त्वा परस्पाया इत्याह । प्रजास्वेव प्राणान्दधार इति ।
प्रवर्ग्यस्य पूर्वदिश्युद्वासनं विधत्ते -
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत् । जिह्मं यज्ञस्य शिरो हरेत् । प्राञ्चमुद्वासयति । पुरस्तादेव यज्ञस्य शिरः प्रतिदधाति(२) । प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति, इति ।
प्रवर्ग्यस्य यज्ञशिरोरूपस्य दक्षिणादिषु तिसृषु दिक्षूद्वासने सति शिरो जिह्मं कुटिलं यथा भवति तथा हृतं स्यात् । अतः पुरस्तादेवाऽऽर्जवेन यज्ञशिरःप्रतिधानाय प्रवर्ग्यं प्राङ्मुखमेवोद्वासयेत् । किंच प्रवर्ग्यस्याऽऽदित्यरूपत्वादादित्यस्य च पुरस्तादेवोदयात्प्रागुद्वासनं युक्तम् । शफादीनां तत्र नयनं विधत्ते -
शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनँ सतनुं करोति, इति ।
तप्तस्य महावीरस्य हस्तेन स्प्रष्टुमशक्यत्वात्तद्धारणार्थौ काष्ठविशेषौ शफौ । उपयमः पात्रविशेषः । धृष्टी अङ्गारनिर्हरणाद्यर्थौ साधनविशेषौ । साधनान्तराणामप्युपदर्शनार्थ इति शब्दः । एतानि सर्वाण्यपि महावीरमनुप्रवर्ग्योद्वासनदेशे हरेयुः । तेनैनं प्रवर्ग्यमात्मसहितं शरीरसहितं करोति । एतद्वेदनं प्रशंसति -
सात्माऽमुष्मिल्ँ लोके भवति । य एवं वेद, इति ।
साधनानां कारणं वृक्षविशेषं विधत्ते -
औदुम्बराणि भवन्ति । ऊर्ग्वा उदुम्बरः । ऊर्जमेवावरुन्धे, इति ।
उदुम्बरफलस्य भक्ष्यत्वेनोर्ग्रूपत्वात्तद्वृक्षेणोर्क्प्राप्तिः । गमनकाले साधनीभूतं सामगानं विधत्ते -
वर्त्मना वा अन्वित्य(३)। यज्ञँ रक्षाँसि जिघाँसन्ति । साम्ना प्रस्तोताऽन्ववैति । साम वै रक्षोहा । रक्षसामपहत्यै, इति ।
गमनवेलायां प्रस्तोतुं सामगानेन सहितः प्रस्तोता तान्सर्वाननुगच्छेत् । साम्नो रक्षोघ्नत्वात्तद्गानं रक्षोपघाताय भवति । यदुक्तं सूत्रकारेण - “सर्वे सहपत्नीकास्त्रिः साम्नो निधनमुपयन्त्यर्धाध्वे द्वितीयं प्राप्यापरेणोत्तरवेदिं तृतीयम्” इति । तदिदं विधास्यन्नादौ प्रस्तोतुर्निधनावृत्तिं विधत्ते -
त्रिर्निधनमुपैति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाँस्यपहन्ति, इति ।
पञ्चभागयुक्तस्य साम्नश्चरमो भागो निधनं तत्त्रिवारं पठेत् । तेन लोकत्रयाद्रक्षसामपहतिर्भवति । पत्नीसहितानां सर्वेषां प्रस्तोतृनिधनभागोच्चारणं विधत्ते -
पुरुषः पुरुषो निधनमुपैति । पुरुषः पुरषो हि रक्षस्वी । रक्षसामपहत्यै(४), इति ।
सर्वेष्वपि पुरुषेषु बाधकानि रक्षांस्यनुगच्छन्ति, अतः सर्वोऽपि पुरुषो रक्षस्वी । निधनपाठेन तानि रक्षांस्यपहन्यन्ते । उद्वासनदेशे हिरण्यस्थापनं विधत्ते -
यत्पृथिव्यामुद्वासयेत् । पृथिवीँ शुचाऽर्पयेत् । यदप्सु । अपः शुचाऽर्पयेत् । यदोषधीषु । ओषधीः शुचाऽर्पयेत् । यद्वनस्पतिषु । वनस्पतीञ्छुचाऽर्पयेत् । हिरण्यं निधायोद्वासयति । अमृतं वै हिरण्यम्(५)। अमृत एवैनं प्रतिष्ठापयति, इति ।
प्रवर्ग्यस्य दाहकत्वात्पृथिव्यादीनां दाहो मा भूदिति हिरण्ये तदुद्वासनम् । अग्निसंयोगेऽपि विनाशाभावाद्धिरण्यममृतम् । अतस्तत्रैव प्रवर्ग्यं प्रतिष्ठापयति । कल्पः - “उदकुम्भमादायाध्वर्युर्वल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन्पर्येति” इति । पाठस्तु -
हे परिषेक त्वं शंयुधायाः सुखप्राप्तेर्दुःखवियोगस्य धारको वल्गुः सुन्दरोऽसि । जनधाया जनस्य धारकः शिशुर्बालवदुपलालनीयोऽसि । उत्तरवेदिपरत्वेन व्याख्येयम् । एतन्मन्त्रसाध्यं परिषेचनं विधत्ते -
वल्गुरसि शंयुधाया इति त्रिः परिषिञ्चन्पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचँ शमयति, इति ।
आहवनीयादिरूपेणाग्नेस्त्रिगुणत्वात्त्रिवारपरिषेचनेन सर्वस्याग्नेः शोकः शाम्यति ।
कल्पः - “निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिः परिषिञ्चन्प्रतिपर्येति” इति । हे उत्तरवेदि शं च वक्षि सुखमपि वहसि, परि च वक्षि दुःखपरिहारमपि वहसि । एतन्मन्त्रसाध्यां प्रदक्षिणावृत्तिं विधत्ते -
त्रिः पुनः पर्येति । षट्सम्पद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवास्य शुचँ शमयति, इति । त्रीणि प्रदक्षिणानि त्रीण्यप्रदक्षिणानीति षट्सम्पत्तिः ।
कल्पः - “चतुःस्रक्तिर्नाभिर्ऋतस्येत्युत्तरवेदिमभिमृश्य” इति । चतुःस्रक्तिः कोणत्रयोपेतोत्तरवेदिः, इयमृतस्य यज्ञस्य नाभिस्थानीया । यद्वा, ऋतस्य सत्यभूताया भूमेर्नाभिस्थानीया । मन्त्रस्य भूमिनाभिपरत्वं दर्शयति -
चतुःस्रक्तिर्नाभिर्ऋतस्येत्याह(६)। इयं वा ऋतम् । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह, इति ।
प्रवर्ग्यहोमाधारत्वादुत्तरवेदिः प्रवर्ग्य इत्युच्यते ।
कल्पः - “सदो विश्वायुरित्युत्तरेणोत्तरवेदिं खरौ न्युप्यानुव्यूहति” इति । शर्म सप्रथा इति मन्त्रशेषः । सदो भूप्रदेशविशेष उत्तरवेद्युत्तरदेशरूपः । विश्वायुः कृत्स्नायुर्हेतुः । अत एव सप्रथाः ख्यातियुक्तः । शर्म सुखहेतुः । सदःशब्देन भूमिविवक्षां दर्शयति -
सदो विश्वायुरित्याह । सदो हीयम्, इति ।
कल्पः - “अप द्वेषो अप ह्वर इति मार्जालीयदेश उच्छिष्टखरम्” इति । न्युप्यानुव्यूहतीत्यनुवर्तते । अन्यद्व्रतस्य सश्चिमेति मन्त्रशेषः । द्वेषो द्वेष्टा शत्रुरपनीतः, ह्वरः कौटिल्यकारी चापनीतः । व्रतस्यानुष्ठीयमानस्य कर्मणोऽन्यत्सश्चिम पूर्वोक्तद्वेषकौटिल्याभ्यामतिरिक्तं क्षेमेणानुष्ठानं वयं संपादितवन्तः । अनेन मन्त्रेण शत्रुनिराकरणं दर्शयति -
अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै, इति ।
कल्पः - “घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पूरयति” इति । पाठस्तु -
हे घर्मैतन्मधुमिश्रं दधि ते तवान्नम् । एतच्च पुरीषं संपूर्णम् । तेन मधुमिश्रेण दध्ना त्वं वर्धस्वाऽऽप्यायस्व च । अभिवृद्धिः स्वरूपबाहुल्यम् । आप्यायनं मनसः परितोषः । त्वत्प्रसादाद्वयमपि वृद्धिमाप्यायनं च प्राप्नवाम । एतन्मन्त्रसाध्यं पूरणं विधत्ते -
घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति(७), इति ।
ऊर्क्शब्देन स्वादुत्वमुच्यते । अन्नाद्यशब्देनोदरपूर्तिहेतुत्वम् । वेदनं प्रशंसति -
अनशनायुको भवति । य एवं वेद, इति ।
अनशनेच्छाशीलोऽशनायुको दरिद्रः । अनशनायुकस्तृप्तः । कल्पः - “अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः” इति । रन्तिरित्यादयः परिजानादहीनमित्यन्ता बहवो मन्त्राः । तेषु प्रथमं मन्त्रमाह -
रन्तिनामको द्युलोकवर्ती यो गन्धर्वोऽस्ति हे प्रवर्ग्य तद्रूपस्त्वमसि । तस्य ते तादृशस्य गन्धर्वरूपस्य तव हविर्धानं पद्वद्धविर्धानाख्यमण्डपाद्विसदृशम् । उत्तरवेद्यां प्राक्शिरस्त्वेनावस्थितस्य तवाधोभागवर्तित्वात् । योऽयमग्निरुत्तवेदिगतः सोऽयमध्यक्षास्तव स्वामी । योऽयं रुद्रः क्रूरो देवः सोऽयमधिपतिरनिष्टनिवारणेनाधिकपालकः । मन्त्राक्षरैः प्रवर्ग्यमहिम्नः स्पष्टप्रतिभानं दर्शयति -
रन्तिर्नामासि दिव्यो गन्धर्व इत्याह । रूपमेवास्यै तन्महिमानँ रन्ति बन्धुतां व्याचष्टे, इति ।
रन्तिर्बन्धुत्वं रमणहेतुत्वात् । मन्त्रस्य यत्स्वरूपमस्ति रन्त्यादिशब्दोपेतमेतदेव प्रवर्ग्यस्य बन्धुत्वलक्षणं महिमानं प्रकाशयति । द्वितीयं मन्त्रमाह -
अहमस्य प्रवर्ग्यस्य प्रसादादायुरादिना रायस्पोषान्तेन फलषट्केन संगतो भूयासम् । मन्त्रस्याऽऽशीरर्थतां दर्शयति -
समहमायुषा सं प्राणेनेत्याह । आशिषमेवैतामाशास्ते, इति ।
तृतीयं मन्त्रमाह -
योऽस्माकं द्वेष्टा यश्चास्माभिर्द्वेष्य उभयविधोऽसौ शत्रुः प्रवर्ग्येण विनाशितः । मन्त्रस्य परविनाशपरत्वेनाभिचाररूपतां दर्शयति -
व्यसौ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः, इति ।
अस्य शत्रोरेष मन्त्रपाठो यजमानेन कृतोऽभिचारः । तेनासौ विनश्यतीत्यर्थः । चतुर्थं मन्त्रमाह -
अयं प्रवर्ग्यो वृषा कामानां वर्षयिता हरिः पापस्य हर्ता तादृशः सन्नचिक्रदत् । क्रन्दनमुत्साहेनाऽऽक्रन्दनं कृतवान् । स च प्रवर्ग्यो महान्गुणैरधिकः । मित्रो न मित्र इव दर्शतो दर्शनीयः । तादृशः सूर्येण संभूय रोचते प्रकाशयति । प्रथमपादे विशेषणयोः प्रसिद्धिं दर्शयति -
अचिक्रदद्वृषा हरिरित्याह । वृषा ह्येषः(८)। वृषा हरिः, इति ।
यथा वृषत्वं प्रसिद्धं तथा हरित्वमपीति वक्तुं वृषेति पुनरुक्तिः । द्वितीयपादस्य स्तुतिपरतां दर्शयति -
महान्मित्रो न दर्शत इत्याह । स्तौत्येवैनमेतत्, इति ।
पञ्चमं मन्त्रमाह -
हे प्रवर्ग्य त्वं चिदादिविशेषणविशिष्टोऽसि । चिदभिज्ञः । समुद्रयोनिर्यागादिद्वारा समुद्रस्यापि कारणभूतः । इन्दुश्चन्द्रवदाह्लादकारी । दक्ष उत्साहवान् । श्येनः श्येनवद्वेगवान् । ऋतावा कर्मफलयुक्तः । हिरण्यपक्षः, चित्याग्नावनुष्ठीयमानः सन्सुवर्णसमानपक्षोपेतः । शकुनः पक्ष्याकारः । भुरण्युर्जगद्भरणसमर्थः । महान्गुणैरधिकः । सधस्थे कर्मकर्तृभिः सहावस्थानप्रदेशे ध्रुवः स्थिरः । आनिषत्त आभिमुख्येनोपविष्टः । हे प्रवर्ग्य ते तुभ्यं नमोऽस्तु मा मा हिंसीः । समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति -
चिदसि समुद्रयोनिरित्याह । स्वामेवैनं योनिं गमयति, इति ।
समुद्रादिकं जगत्कर्मरूपां स्वकीयां योनिं प्रापयति । यद्वा समुद्रो योनिर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः । समुद्रसदृशः परमात्मा तस्य कारणम्, ततो मन्त्रपाठेन स्वकीययोनिप्राप्तिः । वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति -
नमस्ते अस्तु मा मा हिँसीरित्याहाहिँसायै, इति ।
षष्ठं मन्त्रमाह -
सोमस्य परिमोषको गन्धर्वः सोमगन्धर्वः । स च विश्वावसुनामकः । अत एव सोमप्रकरणे श्रूयते - “तँ सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्” इति । सोमस्यापहर्तारं तं विश्वावसुमापो ददृशुषीः, अब्देवता दृष्टवत्यः । ताश्चाब्देवता ऋतेन यज्ञेन निमित्तेन तत्तदा व्यायन्विशेषेण गन्धर्वसमीपं प्रत्यागच्छन् । इन्द्रो देवस्तदपां गमनमन्ववैदनुक्रमेण ज्ञातवान् । स चेन्द्र आसामपां समीपे रारहाणो भृशं गच्छन्सूर्यस्य परिधीन्परिधिसदृशान्रश्म्यभिमानिनो देवान्पर्यपश्यत्परितो वेष्टयितॄनवलोकितवान् । यदा गन्धर्वः सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः । इन्द्रश्च तदभिज्ञायापां सहायार्थं गन्धर्वमवरोद्धुं सूर्यरश्मीन्प्रेषितवानित्यर्थः । विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्शयति -
विश्वावसुँ सोमगन्धर्वमित्याह । यदेवास्य क्रियमाणस्यान्तर्यन्ति । तदेवास्यै तेनाऽऽप्याययति, इति ।
अनुष्ठीयमानस्य प्रवर्ग्यस्य यदङ्गमृत्विजोऽन्तर्हितं कुर्वन्ति, तदङ्गमेतेन वृत्तान्तस्मरणेन समृद्धं करोति । गन्धर्वेणाऽऽपादितस्य वैकल्यस्याद्भिरिन्द्रेण च समाहितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तम् । सप्तमं मन्त्रमाह -
अस्मिन्कर्मणि यद्वा घा यदेव किंचिदङ्गं यथाशास्त्रमनुष्ठितम्, उतापि च यदङ्गं न विद्म वयं विस्तृतवन्तः, तत्सर्वं नोऽस्मभ्यं विश्वावसुर्गृ(रभिगृ)णातु कथयतु । कीदृशः । दिव्यो गन्धर्वः, दिवि भवो गन्धर्वजातिः । अतः सर्वज्ञ इत्यर्थः । रजसो विमानः, रञ्जकस्य गीतस्य विशेषेण निर्माता । धियो हिन्वानः, बुद्धेः प्रीणयिता । स गन्धर्वो नोऽस्मदीया धिय इद्बुद्धीः सर्वा अप्यव्याद्रक्षतु । पूर्वमन्त्रे यथाऽङ्गवैकल्यसमाधानहेतुत्वं तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति -
विश्वावसुरभि तन्नो गृणत्वित्याह(९)। पूर्वमेवोदितम् । उत्तरेणाभिगृणाति, इति ।
चतुर्थपादे धीरक्षणेनर्तुसमृद्धिर्विवक्षितेति दर्शयति -
धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति, इति ।
ऋतवो यदा स्व स्वकार्यकरास्तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीरक्षणमृतुषु प्रवाहरूपेण प्रवर्तते । अष्टममन्त्रमाह -
यः पूर्वो गन्धर्वोऽस्ति सोऽयं नदीनां गङ्गायमुनादीनां चरणे प्रवाहरूपे प्रवर्तके सस्निमविन्दच्छुद्धिं लब्धवान् । नदीप्रवहणेन पङ्कादिप्रक्षालनाच्छुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्तीत्यश्मव्रजा नद्यः । तासां दुरो द्वाराण्यपावृणोदपनीतवान् । नदीषु प्रवेष्टुं द्वारस्थानीयास्तीर्थभूता मार्गा अश्मभिर्येऽवरुद्धास्तत्र पाषाणानपनीय नदीः सेवितुं योग्याः कृतवान् । तत आसां नदीनाममृतानि शुद्धिकारणानि जलानि स गन्धर्वः प्रवोचत्प्राणिनामग्रे कथितवान् । तत्र इन्द्रो दक्षं कुशलं गन्धर्वमहीनं क्वापि वैकल्यरहितं परिजानात्परितो ज्ञातवान् । अत्र जलवाचिनाऽमृतशब्देन मरणरहितानां प्राणानामपि सूचनं दर्शयति -
प्राऽऽसां गन्धर्वो अमृतानि वोचदित्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति, इति ।
अमृतशब्दपाठेन यजमानस्य प्राणान्सुस्थितान्करोति ।
कल्पः - “एतत्त्वं देव घर्म देवो देवानुपागा इत्यभिमन्त्र्य” इति । हे घर्म देव त्वं देवो देवतारूपः सन्नेतदस्माकं प्रत्यक्षं यथा भवति तथा देवानुपागाः प्राप्तवानसि । अत्र प्रवर्ग्यस्य देवत्वं सर्वदेवप्रमाणं च प्रसिद्धमित्येतद्दर्शयति -
एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन्देवानुपैति, इति ।
कल्पः - “इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य” इति । पाठस्तु -
अहं यजमानो मनुष्यः सन्निदं प्रत्यक्षं यथा भवति तथा मनुष्यान्प्राप्नोमीति शेषः । हे सोमपीथ सोमपान (मा) मामाभिमुख्येनान्विहि प्राप्नुहि । न केवलं त्वमेव किं तु प्रजया रायस्पोषेण च सह, तदुभयमपि मां प्राप्नोतु । यजमानस्य मनुष्यत्वं मनुष्यप्राप्तिश्च प्रसिद्धेत्येतद्दर्शयति -
इदमहं मनुष्यो मनुष्यानित्याह(१०)। मनुष्यो हि । एष सन्मनुष्यानुपैति, इति ।
सोमपानप्रार्थनायां कारणं दर्शयति -
ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्सोमपीथमनृद्वासः सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्सोमपीथमात्मन्धत्ते, इति ।
यः प्रवर्ग्यमुद्वासयति, असौ तदानीं तं प्रवर्ग्यमनु स्वकीयां प्रजां पुत्रादिकां पशून्गवादीन्सोमपीथं करिष्यमाणं सोमपानं चोद्वास ईश्वर उद्वासयितुं समर्थो भवति । प्रवर्ग्योद्वासनमनु सर्वमिदं नश्यतीत्यर्थः । अतः सोमपीथेत्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि संपादयति । कल्पः - “सुमित्रा न आप ओषधय इति मार्जालीयदेश उच्छिष्टखरे मार्जयित्वा” इति । पाठस्तु -
एता आपः, तत्कार्या(र्यभूता) ओषधयश्च नोऽस्माकं सुमित्राः सुस्निग्धाः सन्तु । यो द्वेष्टा यश्च द्वेष्यः, तस्मा उभयस्मै दुर्मित्राः शत्रवः सन्तु । प्रथमपादस्याऽऽशीःपरतां दर्शयति -
सुमित्रा न आप ओषधयः सन्त्वित्याह । आशिषमेवैतामाशास्ते, इति ।
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति -
दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः, इति ।
कल्पः - “उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठत इत्येके” इति । उद्वयमिति मन्त्रः समास्त्वाऽग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवेनामिति मन्त्रद्वयमुदु त्यमित्यनुवाके व्याख्यातम् । एतन्मन्त्रसाध्यं होमं विधत्ते -
प्र वा एषोऽस्माल्लोकाच्यवन्ते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरीभ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आदित्यः सुवर्गो लोकः । यत्सौरी भवतः । तेनैव सुवर्गाल्लोकान्नैति(११), इति ।
प्रवर्ग्यस्योद्वासनेन स्वयमेवास्माल्लोकाद्भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूपत्वेन तत्र होमे सति स्वयमस्मिल्ँ लोके प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात्सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।
ब्रह्मणस्त्वा परस्पाया इत्याह दधात्यन्वित्य रक्षस्वी रक्षसामपहत्यै वै हिरण्यमाहार्धयति ह्येष गृणात्वित्याह मनुष्यानित्याहास्यैषोऽष्टौ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके नवमोऽनुवाकः ॥९॥
कल्पः - “इममू षु त्यमस्मभ्यमित्याहवनीये जुहोत्युपतिष्ठन्त(त) इत्येके” इति । पाठस्तु -
हेऽग्ने देवेषु मध्येऽस्मभ्यं सनिं फलदानं प्रवोचः प्रकर्षेण कथय । न केवलं फलदानं किं तु त्यमिममू षु तं शास्त्रप्रसिद्धमिममस्माभिरिदानीमनुष्ठितं प्रवर्ग्यमपि सुष्ठु देवेषु क्षपय(कथय) । कीदृशं प्रवर्ग्यम् । गायत्रं गायत्र्यादिछन्दोयुक्तम् । अत एव पूर्वत्राऽऽम्नातम् - “छन्दोभिर्वा एष क्रियते” इति । नवीयांसमतिशयेन नूतनं सर्वाङ्गसंपूर्णमित्यर्थः । शाखान्तरे यानि प्रवर्ग्यसामानि तेषामाधारभूता ये मन्त्रास्तान्विधत्ते -
प्रजापतिं वै देवा शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरन् । तानि शुक्रयजूँष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः(१)। तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसाऽन्नाद्येन समर्धयन्ति, इति ।
पुरा कदाचिद्देवाः सर्वे प्रजापतिं कामधेनुं कृत्वा शुक्रं पयः प्रवर्ग्यरूपं क्षीरं दुग्धवन्तः । तदेकमेव भूत्वा देवेभ्यो न व्यभवत्, बहूनां देवानामर्थे विविधं नाभूत् । अतः सर्वेषां भोगाय न पर्याप्तम् । तदानीमग्निस्तदेकं पयो विविधमकरोत् । तानि विविधानि पयांसि शुक्रियाणि प्रवर्ग्यसंबन्धीनि सामान्यभवन् । तेषां च पयोरूपाणां साम्नां यो रसोऽत्यक्षरत्तेभ्योऽस्रवत्, तानि सामभ्यः स्रुतानि साराणि शुक्रयजूंषि प्रवर्ग्यसंबन्धिनो मन्त्रा आसन् । शुक्रियाणां प्रवर्ग्यसंबन्धिनां साम्नां संबन्धीनि प्रवर्ग्ययोग्याण्येतानि यजूंषि । इत्थं प्रवर्ग्याङ्गमन्त्रोत्पत्तिरुक्ता, अथ द्रव्यमुच्यते - एतयोर्वक्ष्यमाणयोर्द्वयोः पयसोर्मध्येऽन्यदेकं सामपयसं साम्नां प्रियं क्षीरम् । अन्यद्देवानां प्रियम् । तदुभयं विभज्य प्रदर्श्यते - तत्र गव्यं सामदेवतायाः प्रियम् । अजाक्षीरं देवानां प्रियम् । यस्मादेवं मन्त्रोत्पत्तिः क्षीरद्वयं चैतादृशं तस्माद्यत्र कर्मण्येतैर्यजुर्भिः प्रवर्ग्यमन्त्रैश्चरन्त्यनुतिष्ठन्ति, तत्तत्र कर्मणि द्विविधेन पयसा चरन्ति । शुक्रियमन्त्रैः क्षीरद्वयं जुहुयादिति मन्त्रद्रव्यविशिष्टकर्मविधिरयं द्रष्टव्यः । तेन कर्मणा प्रजापतिं देवांश्चान्नसमृद्धान्कुर्वन्ति । तद्वेदनं प्रशंसति -
एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते, इति ।
एवं विदुषः प्रवर्ग्यमाहात्म्यविदो यस्य प्रवर्ग्यम(र्ग्योऽ)नुष्ठीयते स एष साक्षान्मुख्यं प्रवर्ग्यफलमनुभवति । तस्य प्रवर्ग्यस्य काम्यमुद्वासनदेशं विधत्ते -
उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः(२)। तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति, इति । उत्तरवेदेरग्न्याधारत्वाप्रवर्ग्यहविषश्च तत्स्वरूपत्वादुभयोस्तेजस्त्वम् । तमेव देशं फलान्तराय विधत्ते -
उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखँ संदधात्यन्नाद्याय । अन्नाद एष भवति, इति ।
प्रवर्ग्यस्य शिरोरूपत्वादुत्तरवेदेर्मुखत्वात्तत्रास्योद्वासने सत्यन्नं भोक्तुं शिरसा मुखस्य साधनं कृतं भवति । ततोऽयमन्नादो भवत्येव । उत्तरवेद्यामुद्वासनं प्रशंसति -
यत्र खलु वा एतमुद्वसितं वयाँसि पर्यासते । परि वै ताँ समां प्रजा वयाँस्यासते(३)। तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय, इति ।
यत्र यस्मिन्संवत्सरे क्वचिद्देशविशेष उद्वासितमेतं प्रवर्ग्यं वयांसि पक्षिणः पर्यासते परित आगत्योपविशन्ति, तां समां तं संवत्सरं सर्वमपि पक्षिणः प्रजाः पुत्रादीन्पर्यासते पुत्रादिशवदेहेषु प्रविशन्ति, प्रजा म्रियन्त इत्यर्थः । अतस्तेजोऽन्नकामराहित्येऽपि प्रजारक्षणार्थमुत्तरवेद्यामेवोद्वासयेत् । तत्रापि देशविशेषं विकल्पितं विधत्ते -
पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज्ज्योतिरुदेति । तत्पश्चान्निम्रोचति । स्वामेवैनं योनिमनूद्वासयति, इति ।
उत्तरवेदेः पूर्वभागे पश्चिमभागे वा प्रवर्ग्यमुद्वासयेत् । प्रवर्ग्यस्वरूपमिदमादित्यज्योतिः पुरस्तादुदेति पश्चादस्तमेति । ततस्तयोरुभयोरपि तदीयस्थानत्वात्स्वकीयमेव स्थानमनुसृत्योद्वासयति । अन्यं देशविशेषं विधत्ते -
अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज्ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रतिष्ठापयति(४), इति ।
एतदौर्वविद्युत्स्वरूपं ज्योतिरपां मध्यादजायत । प्रवर्ग्यश्च ज्योतिःस्वरूपः । तस्मादेनं प्रवर्ग्यं स्वकीय एव स्थाने प्रतिष्ठापयति । देशान्तरं विधत्ते -
यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभिप्रवर्तयति, इति ।
यजमानो यं पुरुषं द्विष्यात्स द्वेष्यो यस्यां दिशि तिष्ठति तस्यां दिशि प्रवर्ग्यमुद्वासयेत् । प्रवर्ग्यस्य वैश्वानराग्निरूपत्वादेनं द्वेष्यमभिलक्ष्य वैश्वानराग्निनैव प्रवर्तयति । तेनाग्निना तमभितो दहतीत्यर्थः । तत्रैव कंचिद्विशेषं विधत्ते -
औदुम्बर्याँ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्धर्मः(५)। इदमहममुष्याऽऽमुष्यायणस्य शुचा प्राणमपिदहामीत्याह । शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्च्छति, इति ।
उदुम्बरवृक्षस्य योयं शाखा तस्यां प्रवर्ग्यमुद्वासयेत् । उदुम्बरस्यान्नरूपत्वात्, अन्नस्य प्राणस्थितिहेतुत्वात्, घर्मस्य च संतापरूपत्वात्, तदनुसारेणोद्वासनकाल इदमित्यादिमन्त्रं पठेत् । अमुष्यायणस्य देवदत्तपुत्रस्यामुष्य यज्ञदत्तस्य प्राणमिदं प्रत्यक्षं यथा भवति तथा शुचा संतापेनातिदहामि सर्वतो दग्धं करोमि । एतन्मन्त्रपाठेनास्य द्वेष्यस्य प्राणं संतापेन दहत्येव । तदानीमेवासावार्तिं प्राप्नोति । देशान्तरं विधत्ते -
यत्र दर्भा उपदीकसंतताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्झावर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नियच्छति । ता आपो नियता धन्वना यन्ति(६), इति ।
गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके दशमोऽनुवाकः ॥१०॥
यस्मिन्देशे दर्भा उपदीकसंतताः स्तम्बैरविच्छिन्ना भवन्ति । वृष्टिकामस्तत्रोद्वासयेत् । य एते दर्भा एता एवापामनूज्झावर्य इत्येतन्नामभाजो भवन्ति । अनूज्झा अनुक्रमगताः प्रवाहाः, तद्युक्ता नद्योऽनूज्झावर्यः । आपो वै दर्भा इति श्रुत्यन्तराद्दर्भाणामविच्छिन्नप्रवाहोपेतनदीरूपत्वम् । प्रवर्ग्यश्चाऽऽदित्यरूपत्वादादित्यवद्वृष्टिप्रदः । अतो दर्भेषु तदुद्वासने सत्यादित्यो द्युलोकाद्वृष्टिं प्रेरयति । ताश्चाऽऽपो धन्वना मरुदेशेन सह नियताः प्रवर्तन्ते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकादशोऽनुवाकः ॥११॥अथ चतुर्थप्रपाठके द्वादशोऽनुवाकः
एकादशे प्रवर्ग्योद्वासनमुक्तम् । तत्र महावीरे द्रव्यपूरणावसरे घर्मैतत्तेऽन्नमिति मन्त्रात्पूर्वं त्रयो मन्त्रा अपेक्षिताः, तेऽत्र द्वादशेऽभिधीयन्ते ।
कल्पः - “महीनां पयोऽसीति महावीरे गोपय आनयति” इति । विहितं देवत्रेति मन्त्रशेषः । हे द्रव्य देवत्रा देवनिमित्तं विहितं संपादितं महीनां गवां पयोऽसि ।
कल्पः - “ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रस इति मधु” इति । महावीर आनयतीत्यनुवर्तते । हे मधुद्रव्य वनस्पतीनामोषधीनां च रसभूतस्त्वं ज्योतिर्भा ज्योतिषा प्रकाशकोऽसि ।
कल्पः - “वाजिनं त्वा वाजिनोऽवनयाम इति दधि” इति । महावीर आनयतीत्यनुवर्तते । ऊर्ध्वं मनः सुवर्गमिति मन्त्रशेषः । ऊर्ध्वमुपरि वर्तमानं मनो मननीयं स्वर्गं प्राप्तुं हे दधिद्रव्य वाजिनमन्नवन्तं त्वां वाजिनोऽन्नवन्तो वयमवनयामो महावीरे प्रक्षिपामः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके द्वादशोऽनुवाकः ॥१२॥अथ चतुर्थप्रपाठके त्रयोदशोऽनुवाकः
त्रयोदशमारभ्य प्रायेण घर्मप्रायश्चित्तान्युच्यन्ते । कल्पः - “यदि घर्मः स्कन्देत् । अस्कान्द्यौः पृथिवीमिति द्वाभ्यामभिमन्त्रयते” इति । तत्र प्रथमामाह -
द्यौर्द्युलोकाख्यो देवः पृथिवीं देवतां प्रत्यस्कान्स्ववीर्यं स्कन्दितवान् । तथा युवा यौवनोपेत ऋषभो गा बह्वीः प्रत्यस्कान्स्वकीयं वीर्यं स्कन्दितवान् । इमा विश्वा भुवनैतानि सर्वाणि भूतजातानि, स्कन्ना स्कन्नवीर्यरूपाणि । अतोऽत्रापि स्कन्नो द्रव्यस्कन्दनयुक्तो यज्ञः प्रजनयतु प्रजामुत्पादयतु । अथ द्वितीयामाह -
अस्कान्द्रव्यं स्कन्नमभूत्, तेनाजनि किंचिदपत्यमुत्पन्नम् । प्राजनि प्रकर्षेणापत्यस्यापत्यमुत्पन्नम् । स्कन्नाद्द्रव्याद्वृषा सेचनसमर्थः पुत्र आजायते । अतो वयं स्कन्नाद्द्रव्यात्प्रजनिषीमहि प्रकर्षेणापत्यमुत्पादयामः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥अथ चतुर्थप्रपाठके चतुर्दशोऽनुवाकः
कल्पः - “यदि घर्मेण चरत्सु विद्युदापतेद्या पुरस्ताद्विद्युदापतदित्येतैर्यथालिङ्गं जुहुयात्” इति । पाठस्तु -
या विद्युदशनिरूपा पुरस्तात्पूर्वस्यां दिश्यापतत्पतितवती, तां विद्युतं ते तव संबन्धिनैतेन होमेनावयजे नाशयामि । अत्र त इत्यभिधानाद्घर्मः संबोधनीयः । या दक्षिणत इत्यादिषु त्रिषु विद्युदित्यादिकमनुषञ्जनीयम् । अनुषङ्गद्योतनायैवोत्तमे मन्त्रे पुनः पठ्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥अथ चतुर्थप्रपाठके पञ्चदशोऽनुवाकः
कल्पः - “प्राणाय स्वाहा पूष्णे स्वाहेत्येतावनुवाकौ घर्मप्रायश्चित्तानि” इति । घर्मविषये यद्वैकल्यं तद्वारयितुमनुवाकद्वयहोमः । तत्रैकमनुवाकमाह -
वाक्यशब्देन वक्तव्यशब्दमात्रत्वशङ्कायां वारयितुं देवतावाचकस्य सरस्वतीशब्दस्य प्रयोगः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके पञ्चदशोऽनुवाकः ॥१५॥अथ चतुर्थप्रपाठके षोडशोऽनुवाकः
अनुवाकान्तरमाह -
पोषको देवः पूषा । स एव विशेषणभेदाद्भिद्यते । शरसे शत्रूणां हिंसकाय । प्रपथ्याय प्रकृष्टस्वर्गमार्गहिताय । नरान्मनुष्यान्धिनोति प्रीणयतीति नरन्धिषः, तस्मै । अङ्घृणिरञ्जनेन दीप्यमानः, तस्मै । नृ नय इति धातोर्नरुणशब्दः । प्राणिनां स्व स्वमार्गेषु नेता नरुणः, तस्मै । आ समन्ताज्ज्ञानमाकेतस्तेन सह वर्तत इति साकेतः, तस्मै ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके षोडशोऽनुवाकः ॥१६॥अथ चतुर्थप्रपाठके सप्तदशोऽनुवाकः
कल्पः - “घर्मेष्टकामुपदध्यात्युदस्य शुष्माद्भानुरित्यनुवाकेन” इति । एतच्च महाग्निचयने द्रष्टव्यम् । तथा च तत्र सूत्रकारेणोक्तम् - “घर्मेष्टकामुपधाय कुलायिनी तयोः प्रयोगे मन्त्रौ” इति । पाठस्तु -
भानुः सूर्योऽस्याग्नेः शुष्माद्बलादुदेति । उच्छशब्देनाऽऽकाङ्क्षितत्वादेतीत्यध्याहर्तव्यः । स च भानुर्नाऽऽर्त । आर्ति न प्राप्तः । पुनः पुनरुदयं गच्छतोऽप्यग्निबलसाहाय्यादार्तिस्तस्य न विद्यते । पृथिवी न भूमिरिव भूमिप्रयातं भारं बिभर्ति । यथा पृथिवी प्राणिनां भारं सहते तथाऽयं रश्मिभारं सहते । तस्याग्नेः प्रसादाच्छुक्रा निर्मला मनीषा देवी कर्मणि मनः प्रेरयन्ती देवता प्रकर्षेणैतु प्राप्नोतु । किंनिमित्तमित्येतदुच्यते । अस्मत् । निमित्तार्थे पञ्चमी, अस्माननुग्रहीतुमित्यर्थः । बुद्धिप्राप्तौ दृष्टान्तः । सुतष्टो वर्धकिना सुष्ठु तक्षणेन वाजी वेगवान्रथो न रथ इव । एके महात्मानस्तमग्निमर्चन्तो महि पूजार्हं साम सर्वेषु समं मन्वत मनसि निश्चितवन्तः । तेनाग्नितेजसा सूर्यमरोचयन्दीप्तियुक्तमकुर्वन् । घर्मः शिरो यदिदं प्रवर्ग्यरूपं यज्ञस्य शिरोऽस्ति, यदयं चीयमानोऽग्निरेव । अतो हेऽग्ने त्वं पुरीषमिष्टकोपादानमृत्स्वरूपमसि । तच्च स्वरूपं प्रजया पशुभिः समेत्य प्रियं भुवत् । यजमानानां प्रियं भवति । तथाविधाग्निरूपे हे घर्मेष्टके प्रजापतिस्त्वामत्र क्षेत्रे सादयतु स्थापयतु । अङ्गिरस्वङ्गिरोभिरिव तया प्रजापतिदेवतयोपहिता सती ध्रुवा सीद स्थिरा भूत्वा तिष्ठ ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके सप्तदशोऽनुवाकः ॥१७॥अथ चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः
कल्पः - “कुलायिनीं यास्ते अग्न आर्द्रा योनय इत्यनुवाकेन” इति । उपदधातीत्यनुवर्तते । पाठस्तु -
हेऽग्ने ते त्वदीया आर्द्रा योनयोऽश्वत्थवृक्षादिरूपा आर्द्राः कारणविशेषाः सन्ति । “अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनुं यज्ञियाँ संभरामि” इति श्रुतेः । याश्च कुलायिनीराहवनीयादिस्थानविशेषाः सन्ति । हेऽग्ने ते त्वदीया इन्दवश्चन्द्रप्रभृतयः स्थानविशेषा ये सन्ति । या उर्णुना(उ ना)भयो याश्चोर्णुना(याश्च ना)भ्यादि स्थानविशेषाः सन्ति । हेऽग्ने ते त्वदीया याश्चान्यास्तनुव ऊर्जो नामौषध्यादिपाचकत्वेनोर्ङ्नामधारिण्यः सन्ति । ताभिः सर्वाभिर्युक्तस्त्वमुभयीभिर्दैवीभिर्मानुषीभिश्च प्रजाभिः संवादिन ऐकमत्यं गतस्त्वमिह क्षेत्रे द्रविणास्माकं धननिमित्तं हेऽग्ने सीद तिष्ठ । प्रजापतिरित्यादिपूर्ववत् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः ॥१८॥अथ चतुर्थप्रपाठक एकोनविंशोऽनुवाकः
कल्पः - “अध्वर्युरग्निमभिमृशत्यग्निरसि वैश्वानरोऽसीत्यनुवाकेन” इति । पाठस्तु -
इष्टकाभिर्निष्पन्न हे देव त्वमग्निरसि । अङ्गारैर्विनेष्टकाशरीरमात्रेणैवाग्नित्वम् । वैश्वानरो विश्वेषां नराणामुपकारकोऽसि । प्रभवादीनामेकैकपञ्चके वर्तमानाः शब्दाः संवत्सरादयः । सर्वेष्वनुगतो वत्सरः । त्वमेवं षड्विधोऽसि । तस्य तथाविधस्य त ऊर्जरूपस्य वसन्ताद्यृतवः शिर आद्यवयवाः । चैत्रादिमासेषु ये शुक्लपक्षास्ते चितिरूपाः । ये च कृष्णपक्षास्ते पुरीषरूपाः । यान्यहोरात्राणि तानीष्टकारूपाणि । तस्य ते तादृशस्य तव मासादयः स्वस्वकार्यक्षमा भवन्तु । इतिशब्दशिरस्का आप्रविसमुद उपसर्गा अत्र निर्दिष्टाः । तैरुचितक्रियां संयोज्याऽग्निः स्तोतव्य इति तात्पर्यार्थः । उचितक्रियाणां च बहूनां संभवान्महती स्तुतिः संपद्यते । प्रजापतिरित्यादि पूर्ववत् । अग्निविशेषणत्वाद्ध्रुव इति (पुं)लिङ्गनिर्देशः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकोनविंशोऽनुवाकः ॥१९॥अथ चतुर्थप्रपाठके विंशोऽनुवाकः
(कल्पः -)“भूर्भुवः सुवः, इति सर्वप्रायश्चित्तानि” इति । त्रयो लोका सुखप्रदा भवन्त्विति मन्त्रत्रयस्यार्थः ।
कल्पः - “यदि महावीरःपद्येतोर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामुच्छ्रयीत” इति । पाठस्तु -
एतच्च मन्त्रयोः प्रतीकद्वयम् । तौ च मन्त्रावञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातौ । कल्पः - “यदि भिद्येत विधुं दद्राणमिति संदध्यात्” इति । पाठस्तु -
बहूनां कर्मणां समने समीचीनचेष्टारूपेऽनुष्ठाने दद्राणं भूयः प्रवर्तमानं विधुमनुष्ठानस्य विधातारं महावीरं युवानं यौवनोपेतपुरुषवद्दृढमेव सन्तं पलितो वयोहीनसदृशः शैथिल्यविशेषो जगार निगीर्णवान् । देवस्य जगद्विधातुः परमेश्वरस्य काव्यमभिज्ञानरूपं महित्वा महिमानं पश्य हे जनसमूहावलोकय । किं तन्माहात्म्यमिति तदुच्यते । स महावीरो ह्यः पूर्वेद्युः समान सम्यक्चेष्टितवान् । अद्यास्मिन्दिने ममार भग्नोऽभूत्, ईदृशं खल्वीश्वरस्य माहात्म्यम् । कल्पः - “ततो यानि दृढार्थे संश्लेषणानि स्युस्तैरेनमभिसंदध्यात्, यदन्यन्मासान्मासेभ्यश्च । यदृते चिदभिश्रिष इति । भिन्नं महावीरं विधुं दद्राणमिति मन्त्रेण संधाय यदृते चिदिति मन्त्रेण संश्लेषणसाधनैरुपलिम्पेत्” इति । पाठस्तु -
यन्महावीरस्वरूपं जर्तृभ्यः पुरा कपालजरणेभ्यः कपालानां चूर्णीभावेभ्यः पूर्वमभिश्रिष ऋतेऽभितः संश्लेषणसाधनानि द्रव्याणि विनाऽऽतृदस्तर्दनं भङ्गं प्राप्नोत् । तस्य महावीरस्य मघवेन्द्रः संधिं संधानं (संधाता) करिष्यति । कीदृशो मघवा । पुरोवसुः पुरतोऽवस्थितानि वसूनि संश्लेषणसाधनानि द्रव्याणि यस्यासौ पुरोवसुः । इत्थं स इन्द्रो विहृ(ह्रु)तं विशेषेण भग्नं महावीरं पुनर्निष्कर्ता पुनरपि संपादयिष्यति ।
कल्पः - “यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येत्येताभ्यामेनं प्रतिपरीयुः” इति । त्रः परिषिञ्चन्पर्येतीति यदुक्तं तत्राधिकपर्यावर्तने, त्रिः पुनः (प्रति)परियन्तीति विपरीतावर्तनं यदुक्तं तदकरणेऽप्येतत्प्रायश्चित्तम् । तत्र मन्त्रेणोदितं प्रतीकद्वयम् । पुनरूर्जा निवर्तस्वेत्येको मन्त्रः, सह रय्या निवर्तस्वेत्यपरो मन्त्रः । एतावुभावपि भूमिर्भूम्नेत्यत्र व्याख्यातौ । कल्पः - “मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चित्तानि” इति । घर्मस्याऽऽज्यपयोरूपद्रव्यस्य व्यथनं (ने) चलनं (ने) संतापाधिक्येन पात्रस्योपर्युद्गमने सत्येतत्प्रायश्चित्तम् । तत्र प्रथमामृचमाह -
नोऽस्मदीय हे घर्म हविर्द्रव्य त्वं व्यथितश्चलितो भूत्वा नोऽस्मान्मा विव्यथः स्वस्थानान्मा विचालय । नोऽस्माकं परमुत्कृष्टं कर्माधरं निकृष्टं मा कुरु । रजो माऽनैः, अस्मान्रजोगुणं मा प्रापय । तथा तमस्यन्तस्तमोगुणमध्येऽस्मान्सुष्ठु माऽऽधाः, मा स्थापय । वृधानो वर्धमाना उद्दान्ता रुद्रियासो रुद्रसंबन्धिनः क्रूरदेवा माऽभिगुः, अस्मिन्कर्मण्याभिमुख्येन माऽऽगच्छन्तु । अथ द्वितीयामाह -
हे घर्म हीडितेभिरपराधयुक्तैर्नोऽस्मदीयैः क्रतुभिः कुपितस्त्वमस्मान्यजमानान्द्विषा द्वेषेण सुनीते सुष्ठु संपादिते फले मा परादा निराकरणं मा कुरु । एतावन्तं कालं महता स्वक्लेशेन संपादितं कर्मफलमीषदपराधद्वेषेण मा विनाशयेत्यर्थः । तथा रुद्रः क्रूरो देवो नोऽस्मान्माऽस्ता माऽस्यतु, मा निराकरोतु । द्यावापृथिव्यावपि देवते मा हीडिषातामस्मद्विषये क्रोधं मा कुरुताम् । अथ तृतीयामाह -
हे मित्रावरुणौ नोऽस्मान्घर्मापराधरहितानिह कर्मणि, उपावतमुपेत्य रक्षतम् । हे सखाया सखिवदत्यन्तस्निग्धौ युवामिह कर्मणि नोऽस्मानन्वादीध्याथामनुक्रमेण सर्वतो दीप्तान्कुरुतम् । आदित्यानां संबन्धिनी हेतिः पापिषु हिंसाकरणमायुधं नोऽस्मान्परिवृणक्तु सर्वतो वर्जयतु । कीदृशी हेतिः । प्रसितिः, प्रकृष्टबन्धा । उग्रा तीक्ष्णाघाता । शतापाष्ठा बहुस्पर्शा, बहुभिरवयवैः प्रहर्तुं समर्थेत्यर्थः । विषा व्यापिनी । घशब्दो यथोक्तविशेषणसमुच्चयार्थः । चतुर्थादीनामष्टमान्तानां पञ्चानां प्रतीकानि दर्शयति -
तत्राऽऽद्यं मन्त्रद्वयमिन्द्रं वो विश्वतस्परीन्द्रं नर इत्यत्र व्याख्यातम् । अन्तिमो जुष्टो दमूना इत्यत्र व्याख्यातः ।
कल्पः - “यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्योद्वयं तमसस्परीत्यादित्यमुपस्थायोदुत्यं चित्रमिति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वोभूते वयः सुपर्णा इत्यादित्यमुपतिष्ठन्ते” इति । चतसृणामेतासामत्र प्रतीकान्याम्नातानि । उद्वयमिति मन्त्रः समास्त्वाऽग्न इत्यनुवाके व्याख्यातः । उदुत्यं चित्रमिति द्वयमुदुत्यं जातवेदस इत्यनुवाके व्याख्यातम् । वयः सुपर्णा इति व्याख्यास्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके विंशोऽनुवाकः ॥२०॥अथ चतुर्थप्रपाठक एकविंशोऽनुवाकः
कल्पः - “दधिघर्मं भक्षयन्ति भूर्भुवः सुवरित्यनुवाकेन” इति । पाठस्तु -
भूरादिलोकदेवता अनुगृह्णन्त्विति शेषः । त्यत्प्रसिद्धं महदिन्द्रियसामर्थ्यं मयि धायि धीयतां स्थाप्यताम् । तथा दक्ष उत्साहः क्रतुरनुष्ठानं सुवीर्यं सर्वेषु कार्येषु शोभनं सामर्थ्यं तत्सर्वं मयि स्थाप्यताम् । त्रिशुगग्निविद्युदात्मना त्रेधाभिन्नदीप्तिर्घर्मो मदर्थमाकूत्यादिभिः सह विभातु विविधं दीप्यताम् । आकूतिः संकल्पः । मनः संकल्पसाधनम् । विराडन्नम् । ज्योतिस्तेजः । यज्ञः क्रतुः । पयः क्षीरम् । ब्रह्म ब्राह्मणजातिः । तेजः शरीरकान्तिः । क्षत्त्रं क्षत्त्रियजातिः । यशः कीर्तिः । सत्यमनृतवर्जितम् । तपः कृच्छ्रचान्द्रायणादिकम् । तस्य तैराकूत्यादिभिर्युक्तस्य घर्मस्य दोहं वृष्ट्यादिसमृद्धिं वयमशीमहि । तस्य सुम्नं तन्निमित्तं सुखं चाशीमहि । तस्य प्रवर्ग्यस्य प्रसादाद्भक्षं चाशीमहि व्याप्नुयाम । हे घर्म तस्य तादृशस्य ते तव रसमुपहूतोऽनुज्ञातोऽहं भक्षयामि । कीदृशस्य तव । इन्द्रेण प्रथमं पीतस्य । मधुमतो माधुर्ययुक्तस्य । उपहूतस्यानुज्ञातस्य ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकविंशोऽनुवाकः ॥२१॥अथ चतुर्थप्रपाठके द्वाविंशोऽनुवाकः
कल्पः - “व्याख्याता घोरास्तन्वोऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकौ” इति । घोरतनूनां प्रतिपादकौ द्वावनुवाकौ, तत्रोक्तास्तन्व आधानप्रतिपादके सूत्रे व्याख्याताः । अरण्येऽनुवाक्या भवन्तीति हि तत्र सूत्रेऽभिहितम् । तथा द्वयोरनुवाकयोर्मरुद्गण उक्तः, स च विकल्पितः । तस्य विनियोगो राजसूयप्रकरणे सूत्रकारेणाभिहितः - “मारुतमेकविंशतिकपालं निर्वपति वैश्वदेवीमामिक्षां तस्यारण्येऽनुवाक्यैर्गणैः कपालानुपदधाति” इति । ब्राह्मणं चाऽऽम्नातम् - “योऽरण्येऽनुवाक्यो गणस्तं मध्यत उपदधाति” इति । तत्र घोरतनुप्रतिपादकं प्रथममनुवाकमाह -
हेऽग्ने ते तव संबन्धिन्यो घोरा अत्युग्रास्तनुवो याः सन्ति । कास्ता इति चेत् । क्षुदादिभिरमत्यन्तैरष्टाभिः शब्दैः प्रतिपादिताः । हेऽग्ने ते तव संबन्धिन्य एता उक्ता(घोरा)स्तनुवः, ताभिस्तनुभिः सह योऽस्माकं द्वेष्टा यश्च द्वेष्योऽमुं द्विविधं पुरुषं गच्छ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके द्वाविंशोऽनुवाकः ॥२२॥अथ चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः
अथ घोरतनुप्रतिपादकं द्वितीयमनुवाकमाह -
स्निगादीन्यनिरान्तानि तनुनामानि । अन्यत्पूर्ववत् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः ॥२३॥अथ चतुर्थप्रपाठके चतुर्विंशोऽनुवाकः
मरुद्गणप्रतिपादकं प्रथममनुवाकमाह -
धुन्यादीनि सप्त पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । एतद्रूपेण कपालान्यवतिष्ठन्त इत्यर्थः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके चतुर्विंशोऽनुवाकः ॥२४॥अथ चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः
मरुद्गणप्रतिपादकमनुवाकान्तरमाह -
उग्रादीनि सहमानान्तानि सप्त पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । सहस्वादीनि विक्षिप इत्यन्तानि षण्ना(पञ्च)मानि विकल्पितानि । अनुवाकद्वयोक्तं गणद्वयं कपालोपधाने विकल्पितम् । उत्तरगणे च नामषट्कं पुनर्विकल्पितम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः ॥२५॥अथ चतुर्थप्रपाठके षड्विंशोऽनुवाकः
कल्पः - “यदि घर्मदुघं वा महावीरं वा स्तेनोऽपहरेद्गार्हपत्ये स्रुवाहुतिं जुहुयात्, अहोरात्रे त्वोदीरयतामिति” इति । पाठस्तु -
चोरस्य नामनिर्देशार्थोऽसाविति शब्दः । हे देवदत्तनामक चोर त्वामहोरात्रदेवते उदीरयतामुद्गायताम् । अर्धमासदेवतास्त्वामुदीं जयन्तूत्कर्षेणैव जयन्तु । मासदेवतास्त्वां श्रपयन्तु वह्नौ पक्तुं प्रवर्तन्ताम् । ऋतुदेवतास्त्वां सम्यक्पक्वं कुर्वन्तु । संवत्सरदेवस्त्वां हन्तु मारयतु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके षड्विंशोऽनुवाकः ॥२६॥अथ चतुर्थप्रपाठके सप्तविंशोऽनुवाकः
अभिचारप्रकरणे ब्राह्मणे यदुक्तं यद्वाचः क्रूरं तेन वषट्करोतीति, तदेतत्क्रूरमाह -
भर्त्सनद्योतकाः खडादयस्त्रयोऽनुकरणशब्दाः । हननच्छेदनभेदनवाचकानि तु क्रियापदानि । इत्येतानि षड्विधानि वाचः क्रूराणि ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके सप्तविंशोऽनुवाकः ॥२७॥अथ चतुर्थप्रपाठकेऽष्टाविंशोऽनुवाकः
कल्पः - “यदि घर्मेण चरत्स्वेकवृक उत्तिष्ठेद्विगा इन्द्र विचरन्स्पाशयस्वेत्येनमभिमन्त्रयते” इति । पाठस्तु -
एकाकित्वेनारण्ये संचरन्वत्सान्मारयति योऽरण्यश्वा सोऽयमेकवृकः, तद्बाधनमत्र प्रार्थ्यते । हे, इन्द्र विगा वत्सानेकवृकाद्वियोज्य तद्रक्षार्थं विशेषेण चरन्स्पाशयस्व तमेकवृकं बाधितं कुरु । हे इन्द्र पशुमन्तं वत्सान्भक्षयितुमायातैः पशुभिर्युक्तं तमेकवृकं स्वपन्तं निद्राणं गच्छ । गत्वा च दुर्विदत्रं दुर्बुद्धिशीलममुमेकवृकं वज्रेणाऽऽयुधेन बोधय । यथा स्वपन्तं सुप्तं प्रहारेण बोधयन्ति , तथा वज्रप्रहारेण बोधय । बोधयेत्यस्यैवार्थः स्पष्टमुच्यते । स्वपन्तमेनमेकवृकं भोजनेभ्यो वत्सभक्षणेभ्यो निवारयितुं प्रहर मारयेत्यर्थः । कल्पः - “उभयत आदीप्योल्मुकमस्मै प्रत्यस्येत् । अग्ने अग्निना संवदस्य” इति । पाठस्तु -
हेऽग्न उल्मुकस्य मूलभागवर्तिन्नग्निनोल्मुकाग्रभागवर्तिना सह संवदस्व, एकवृकं हन्तुमैकमत्यं प्राप्नुहि । हे मृत्यो मूलभागस्थिताग्निप्रेरित मृत्युनाऽग्रभागस्थिताग्निप्रेरितेन सह संवदस्व, एकवृकं हन्तुं संवादमनुमतिं कुरु । हे भगव ऐश्वर्यादिगुणयुक्ताग्ने, ते तुभ्यं नमोऽस्तु । कल्पः - “अथैनमनुतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेण” इति । पाठस्तु -
वृकदर्शनावृत्यनुसारेण नमस्कारावृत्तिवाक्यानि योजनीयानि । यद्वा सकृद्दर्शनेऽपि कृत्स्नो मन्त्रः प्रयोक्तव्यः । नमस्कारावृत्युक्तिरादरार्था ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठकेऽष्टाविंशोऽनुवाकः ॥२८॥अथ चतुर्थप्रपाठक एकोनत्रिंशोऽनुवाकः
कल्पः - “अथ यदि गृध्रः शालावृको भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेत्, “असृङ्मुखः” “यदेतत्” “यदीषितः” “दीर्घमुखि” “इत्थादुलूकः” “यदेतद्भूतान्यन्वाविश्य” “प्रसार्य सक्थ्यौ” इत्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानम्” इति । तत्र गृध्रविषयमनुवाकमाह -
गृध्रः पक्षिविशेषः । हे गृध्र त्वं विधावसि विविधं धावनं करोषि, शवमन्विच्छन्सर्वत्र संचरसि । कीदृशः । असृङ्मुखोऽसृग्रक्तं मुखे यस्यासौ तादृशः । पातुं स्वीकृतेन रुधिरेण मुखस्य सर्वस्य लेपितत्वादव्यक्तः, ईदृग्जातिरिति निश्चेतुमशक्यः । यमस्य दूतो यमो हि मारयितुं गृध्रं प्रेषयति । श्ववत्पद्यते शवं गच्छतीति श्वपात् । त्वं रक्तमांसयोर्गन्धेन तृषया युक्तत्वाद्गृध्रः । शोभनौ पर्णौ शीघ्रपतनक्षमौ यस्यासौ सुपर्णः । तादृशस्त्वं कुणपं शवं निषेवसे नितरां सेवसे । सोऽयं गृध्रो यमस्य प्रेताधिपतिदेवस्य भवस्य परमेश्वरस्यान्तर्यामिण उभयोरेतयोर्दूतः । भवो हि यमं प्रेषयति यमश्च गृध्रम् । अतः साक्षात्परम्परया चोभयोर्दूतः सन्निह प्रहितः प्रेषितः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकोनत्रिंशोऽनुवाकः ॥२९॥अथ चतुर्थप्रपाठके त्रिंशोऽनुवाकः
अथ शालावृकविषयमनुवाकमाह -
वृकः क्रोष्टा । हे वाग्देवि ध्वनिदेवते वृकसो भूत्वा वृकादुत्पद्याभिरायस्याभिमुख्येन शब्दं करोषीति यत्तदेतन्मे द्विषन्तमभिलक्ष्य राय शब्दं कुरु । हे मृत्यो वृकरूपं तं द्विषन्तं मृत्यवे मारकाय देवाय नय प्रापय । स द्विषन्नार्त्या रोगेणाऽऽर्तिं दुःखमार्च्छतु प्राप्नोतु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके त्रिंशोऽनुवाकः ॥३०॥अथ चतुर्थप्रपाठक एकत्रिंशोऽनुवाकः
भयेडकविषयमनुवाकमाह -
एडको मेषः, स च युद्धव्यसनयुक्तो भयेडकः । तं दृष्ट्वैवं भीत्या मनुष्याः पलायन्ते । स च यदि केनचिदीषितः प्रवर्तितो यदि वा स्वकामी स्वेच्छावर्ती सन्नेतां श्रूयमाणां वाचं वदति ध्वनिं करोति । हे इन्द्राग्नी ब्रह्मणा परमेश्वरेण सह संविदानावैकमत्यं गतावस्मभ्यमस्मदर्थं गृहेष्वस्मदीयेषु तां वाचं शिवां सुखकरीं कृणुतं कुरुतम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकत्रिंशोऽनुवाकः ॥३१॥अथ चतुर्थप्रपाठके द्वात्रिंशोऽनुवाकः
दीर्घमुखीविषयमनुवाकमाह -
दीर्घमुखी काकस्त्री गर्दभी वा । दुष्टा हनूर्यस्याः सा दुर्हणूः । हे दुर्हणु दीर्घमुखि दक्षिणतो दक्षिणभागे मा स्म वदो ध्वनिं मा कार्षीः । यदि दक्षिणभागे वदाच्छब्दं कुर्यास्तदा मे द्विषन्तमवबाधासै(सा)(अ)वबाधस्व विनाशय ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके द्वात्रिंशोऽनुवाकः ॥३२॥अथ चतुर्थप्रपाठके त्रयस्त्रिंशोऽनुवाकः
उलूकविषयमनुवाकमाह -
उलूकः काकविरोधी घूकः । सोऽयमुलूक इत्थादनेन प्रकारेणाऽऽपप्तत्प्राप्नोत् । कीदृशः । हिरण्यवद्रक्ते अक्षिणी यस्यासौ हिरण्याक्षः । अयोवत्कृष्णवर्णं मुखं यस्यासावयोमुखः । स च यज्ञविघातिनां रक्षसां दूतः सन्निह समागतः । हेऽग्ने तमुलीकमितः स्थानान्नाशय ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके त्रयस्त्रिंशोऽनुवाकः ॥३३॥अथ चतुर्थप्रपाठके चतुस्त्रिंशोऽनुवाकः
अथ भूतोपसृष्टविषयमनुवाकमाह -
यक्षराक्षसग्रहाविष्टो मनुष्यो यद्वदति तद्विषयमिदमुच्यते । यक्षादिभूतानि प्राणिनो मनुष्याननुप्रविश्य दैवीं वाचं मनुष्याणामयोग्यां कांचिद्वाचं वदसीति यदेतदेतेन वचनेन नोऽस्माकं द्विषतः शत्रून्परावद पराभूता यथा भवन्ति तथा वद । हे मृत्यो यक्षादिरूप मृत्यवे परमृत्युरूपाय देवाय तान्द्विषतो नय प्रापय । ते द्विषन्त आर्त्या रोगेणाऽऽर्तिं दुःखमार्च्छन्तु प्राप्नुवन्तु । अस्मिन्नर्थेऽग्निनोल्मुकमूलभागवर्तिनाऽग्निरुल्मुकाग्रवर्ती संवदतां संवादमनुमतिं करोतु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके चतुस्त्रिंशोऽनुवाकः ॥३४॥अथ चतुर्थप्रपाठके पञ्चत्रिंशोऽनुवाकः
अथ शकुनिविषयमनुवाकमाह -
ग्रामगमनादौ शुभाशुभसूचकः पक्षी शकुनिः । हे शकुने सक्थ्यौ प्रसार्योरू प्रसृतौ कृत्वेह पतसि । सव्यमक्षि वामं चक्षुर्निपेपि च पुनः पुनर्निमीलयसि च । तेन दोषेणेहास्मिन्देशे कस्यचन कस्यापि पुरुषस्य माऽममत्, रोगो मा भवतु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके पञ्चत्रिंशोऽनुवाकः ॥३५॥अथ चतुर्थप्रपाठके षट्त्रिंशोऽनुवाकः
कल्पः - “यदि घर्मधुक्क्रिमिणा स्यात्, अत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन्हन्यात् । अपि वा सार्वत्रिकमेतत्प्रायश्चित्तं क्रियेत” इति । पाठस्तु -
हे क्रिमे घर्मधुगादिवर्तिन्नत्रिणा कण्वेन जमदग्निना च महर्षिणाऽनुगृहीतोऽहं त्वां हन्मि । विश्वावसोर्ब्रह्मणा विश्वावसुसंज्ञकस्य गन्धर्वस्य मन्त्रेण क्रिमीणां राजा स्वामी हतः । अपि चैषां क्रिमीणां स्थपतिरन्योऽपि राजव्यतिरिक्तः प्रभुर्हतः । अपि च तव माता हता । तव पिता (हतः) । अन्येऽपि क्रिमयः स्थूलाः क्षुद्राः कृष्णाः श्वेताश्च नानाविधा हताः । अपि चाऽऽशातिका आगत्य शात्यमाना अस्माभिरेव बाध्यमाना गवाश्वादिशरीरेषु वर्तमाना दंशयूकादयः सर्वेऽपि श्वेताभिः क्रिमिजातिभिः सह मारिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके षट्त्रिंशोऽनुवाकः ॥३६॥अथ चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः
कल्पः - “यमभिचरेत्तस्य लोहितमवदानं कृत्वाऽऽहरावद्य शृतस्येत्यनुवाकेन जुहुयात्” इति । पाठस्तु -
यथा यागकाले शृतस्य हविषः पक्वं हविरवद्यावदाय जुहु इति (जुहुयामिति) । तथा हे शत्रो लोहितं द्वितीयमाहराऽऽनय । अमुं शत्रुं यमस्य जम्भयोर्दन्तयोर्मध्य आदधामि स्थापयामीति यत्तत्सत्यम् । तत्कार्यं तथा हि तथैवास्तु । दंशनध्वनेरनुकरणरूपौ खण्फण्शब्दौ तौ यथा भवतस्तथा शत्रो मारितोऽसि ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः ॥३७॥अथ चतुर्थप्रपाठकेऽष्टात्रिंशोऽनुवाकः
कल्पः - “यमभिव्याहरिष्यन्स्यात्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेत्, ब्रह्मणा त्वा शपामीत्यनुवाकेन” इति । पाठस्तु -
हे शत्रो त्वां देवदत्तनामानं ब्रह्मणा मन्त्रेण शपामि शापयुक्तं करोमि । ब्रह्मणः परमात्मवस्तुनः शपथेन शापसामर्थ्येन त्वां शपामि । भृगूणां महर्षीणां संबन्धिना घोरेणोग्रेण चक्षुषा त्वां प्रेक्षे । अङ्गिरसां महर्षीणां संबन्धिना रौद्रेणोग्रेण मनसा त्वां ध्यायामि । अघस्य पापरूपस्य क्रूरस्याऽऽयुधस्य खड्गरूपस्य धारया त्वां विध्यामि । असौ हे देवदत्तरूप त्वं मदभचरितुः पुरुषादधरः पद्यस्वार्वाचीनः पतितो भव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठकेऽष्टात्रिंशोऽनुवाकः ॥३८॥अथ चतुर्थप्रपाठक एकोनचत्वारिंशोऽनुवाकः
कल्पः - “यं द्विष्यात्तस्य गोष्ठे स्वयमोषधीं निखनेत्, उत्तुद शिमिजावरीत्यनुवाकेन । अपि वा गोष्ठस्यैवादक्षिणं द्वार्बाहुमेतेनैव विचालयेत्” इति । पाठस्तु -
कृषिमन्तरेण स्वयमेवोत्पन्ना शिमिजावरी । हे तथाविधौषध उत्तुद शत्रुमुत्कृत्य व्यथितं कुरु । हे तल्पेजे तस्य शयनस्थाने समुत्पन्न ओषधे तदीये तल्पे प्रविश्य तमुत्तुद । ततो गृहाद्भ्रष्टं कृत्वा गिरीननुप्रवेशय । ततो मरीचीर्दावाग्निरश्मीनुपप्रापय्य संनुद सम्यङ्निराकुरु । सूर्यो यावता कालेनेतो देशात्पुरस्तात्पूर्वस्यां दिश्युदेति तावता कालेनेतो देशादमुं द्वेष्टारं द्वेष्यं च नाशय ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकोनचत्वारिंशोऽनुवाकः ॥३९॥अथ चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः
कल्पः - “यद्युद्गाता पुरुषः साम न गायेत्, अध्वर्युरेवैतेन साम्नोद्गायेत् । भूर्भुवः सुवरित्यनुवाकेन” इति । पाठस्तु -
एते सर्वे स्तोभविशेषाः । ऋचमन्तरेण स्तोभैरेव स्वरविशिष्टैः साम गायेत् । गानार्था तत्र तत्राऽऽवृत्तिः । भूरादयस्त्रयो लोका इष्टार्थप्रदाः सन्तु । विशेषतो भुवः सकाशादधायि सर्वमिष्टं संपादितम् । नृभिर्मनुष्यैर्मन्यतेऽभीष्टत्वेन स्मर्यत इति नृम्णं सुखम् । नृम्णे सुखे सत्यपि पुनर्नृम्णं सुखमस्तु । निधाय्यो नितरां संपादनीयो भागः, अवायि प्राप्तः । गत्यर्थो वातिधातुः । एकारो देवतासंबोधनार्थः । हे देवतेऽस्मे अस्मासु सुवर्णज्योतिः सुवर्णसमानं ज्योतिः संपद्यताम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः ॥४०॥अथ चतुर्थप्रपाठक एकचत्वारिंशोऽनुवाकः
सूत्रेऽवान्तरदीक्षां व्याख्यास्याम इत्युपक्रम्याभिहितम् - “चतस्र औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति पृथिवीसमिदित्येतैर्मन्त्रैः” इति । तत्र प्रथमं मन्त्रमाह -
पृथिवी देवता सम्यग्दीप्यमानत्वात्समिदित्युच्यते । तां पृथिव्याख्यां समिधमग्निर्देवः समिन्धे सम्यग्दीपितवान् । सा च पृथिव्याख्या समिदग्निं देवं समिन्धे सम्यग्दीपयति । तां पृथिवीरूपां समिधमहं समिन्धे सम्यक्प्रकाशयामि । सा च देवता मया समिद्धा सती मामायुरादिभिः समिन्तां सम्यक्प्रकाशयतु । तेजः शरीरकान्तिः । वर्चो बाह्यदीप्तिः । अथ द्वितीयतृतीयमन्त्रावाह -
पूर्ववद्व्याख्येयौ । चतुर्थं मन्त्रमाह -
हे समित्वं प्राजापत्या प्राजापतिसंबन्धिनी सपत्नक्षयणी वैरिविनाशिनी मे समिदसि सम्यग्दीपिकाऽसि । तस्मान्मे मम भ्रातृव्यहाऽसि शत्रुविघातिनी भवसि । स्वाहुतमिदमस्तु । कल्पः - “अथ देवता उपतिष्ठते, अग्ने व्रतपते व्रतं चरिष्यामि” इति । पाठस्तु -
हे व्रतपतेऽवान्तरदीक्षारूपस्य व्रतस्य पालकाग्ने व्रतमिदमहं चरिष्यामि । त्वत्प्रसादाद्व्रतं कर्तुं शकेयं शक्तो भूयासम् । मे मदीयं तद्व्रतं राध्यतां समृद्धिं गच्छतु । वायो व्रतपत इत्येतस्मिन्नुत्तरस्मिंश्च व्रतं चरिष्यामीत्यादिकमनुषज्यते । एतदर्थमेव चतुर्थमन्त्रे पुनराम्नातम् । व्रतपत इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृत्स्नव्रतस्वीकारार्था । कल्पः - “आवृत्तैर्मन्त्रैः समिध आधायाऽऽवृत्तैर्देवता उपस्थाय” इति । पाठस्तु -
व्रतावसाने कर्तव्यत्वादचारिषमित्यादिभूतार्थवाचिशब्दप्रयोगः । तद्धि चतृषु वेदव्रतेषु सौम्यव्रतमित्यभिधीयते । एतस्य प्रवर्ग्याङ्गत्वाभावेऽपि शुक्रियकाण्डोक्तमन्त्रसापेक्षत्वादत्राऽऽम्नातम् । एतच्च सूत्रकारेण दर्शितम् - “अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति, प्रथमोत्तमयोर्वोत्तमेनानुवाकेन शान्तिं कृत्वा” इति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकचत्वारिंशोऽनुवाकः ॥४१॥अथ चतुर्थप्रपाठके द्विचत्वारिंशोऽनुवाकः
कल्पः - “गामवसृज्य मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति, एवं सायं प्रातः प्रवर्ग्योपसद्भ्यां चरन्ति” इति । तस्मिन्ननुवाके प्रथमं मन्त्रमाह -
मातरिश्वाऽन्तरिक्षनिवासी वातो नोऽस्माकं शं सुखं यथा भवति तथा पवताम् । सूर्योऽपि तथैव तपतु । अहान्यपि नोऽस्माकं सुखकराणि भवन्तु । रात्रिश्च सुखकरी संपद्यताम् । द्वितीयं मन्त्रमाह -
उषा देवी नोऽस्माकं सुखकरी प्रभातं करोतु आदित्यश्चास्माकं सुखकर उदेतु । हे सरस्वति त्वं नोऽस्मान्प्रति शिवाऽनुकूला शंतमाऽतिशयेन सर्वोपद्रवशमनी सुमृडीका सुष्ठु सुखकरी च भव । ते संदृशि तव कटाक्षे सति व्योम सुखशून्यत्वं मा भूत् । तृतीयं मन्त्रमाह -
हे भूमे त्वमिडायै धेनुरूपाया इडादेव्या वास्त्वसि निवासस्थानमसि । सर्वं जगत्त्वत्प्रसादाद्वास्तुमन्निवासस्थानयुक्तं भवतु । वयमपि त्वत्प्रसादाद्वास्तुमन्तो निवासस्थानयुक्ता भूयास्म । वास्तोर्निवासस्थानान्मा छित्स्म विच्छिन्ना मा भूयास्म । हि यस्माद्वयमेवंविधास्तस्मादस्माकं विपरीतो यो द्वेष्टा यश्च द्वेष्यः सोऽयमवास्तुर्निवासस्थानरहितो भूयात् । अथ चतुर्थं मन्त्रमाह -
प्रतिष्ठाऽऽधारः । अन्यत्पूर्ववत् । अथ पञ्चमं मन्त्रमाह -
हे वात वायो मे भेषजं यथा भवति तथाऽऽवाहि । अस्मान्प्रति सर्वतो वातं कुरु । हे वात यद्रपः पापमस्ति तद्विवाहि विश्लेष्य गच्छ । यस्मात्त्वं विश्वभेषज इति विश्वस्य चिकित्सको देवानां दूतश्च सन्नीयसे गच्छसि । अथ षष्ठं मन्त्रमाह -
इमौ लोके दृश्यमानौ द्वौ वातावासिन्धोः समुद्रसहिते प्रदेश आपरावतो दूरवर्तिलोकयुक्ते देशे वातः सञ्चरतः । शान्तो वायुरेकस्तीव्रोऽपरः । तयोर्मध्येऽन्य एकः शान्तो मे मम दक्षमावातु सुखं संपादयतु । अन्यस्तीव्रो वायुर्यद्रपो मम यत्पापमस्ति तत्परावातु विनाशयतु । अथ सप्तमं मन्त्रमाह -
हे वात ते गृहे यददो योऽसावमृतस्य निधिर्हितः स्थापितः, ततो निधेः सकाशान्नोऽस्माकं जीवसे जीवनाय देहि कियदप्यमृतं प्रयच्छ । ततोऽमृतान्नोऽस्माकं भेषजं दे(धे)हि, औषधं संपादय । ततस्तस्मान्नोऽस्माकं मह आवह तेजः संपादय । अथाष्टमं मन्त्रमाह -
अयं वातो भेषजं यथा भवति तथाऽऽवातु । नोऽस्माकं हृदे मनसे शंभूरनिष्टशान्तिं भावयन्मयोभूः सुखं च भावयन्वर्तताम् । नोऽस्माकमायूंषि चिरकालजीवनानि प्रतारिषत्प्रकर्षेण वर्धयतु । अथ नवमं मन्त्रमाह -
अत्रेन्द्रशब्देन परमैश्वर्ययोगादादित्य उच्यते । तथा च ब्राह्मणम् - “असौ वा आदित्य इन्द्र एष प्रजापतिः” इति । हे आदित्यमण्डल त्वमिन्द्रस्य गृहोऽसि, आदित्यस्य निवासस्थानमसि । तं तादृशमादित्यगृहं त्वां प्रपद्ये प्राप्नोमि । कीदृशोऽहम्, सगुर्गोसहितः । साश्वोऽश्वसहितः । अन्यदपि मे यद्वस्तु विद्यते तेन सह त्वां प्रविशामि । अथ दशमं मन्त्रमाह -
भूः प्रपद्ये भूर्लोकदेवतां प्रपन्नोऽस्मि । एवमुत्तरत्रापि । यथा व्यस्तानां प्रपत्तिस्तथा समस्तानामपि प्रपत्तिः । अनार्तेत्यनेनाऽऽरोग्यकरी देवतोच्यते । आखणं खनितुमशक्यमश्मानं दृढं पाषाणं प्रपद्ये । पाषाणवद्दार्ढ्यं ममास्त्वित्यर्थः । प्रजापतेः संबन्धि ब्रह्मकोशं सर्वमन्त्राधारभूतं ब्रह्म वेदस्वरूपं प्रपद्ये । ॐकारेण परमात्मोच्यते, तमपि प्रपद्ये । अथैकादशं मन्त्रमाह -
यदिदमन्तरिक्षमस्ति तन्मे मदर्थमुर्वन्तरं विस्तीर्णावकाशो भूयात् । तस्मिन्नन्तरिक्षेऽग्नयो गार्हपत्यादयः पर्वता मेर्वादयश्च बृहदधिकं सुखं भवति तथा वर्ततामि(न्ता)ति शेषः । अत्रान्तरिक्षे संचरन्वातो यया स्वस्त्या क्षेमहेतुभूतया क्रियया मां प्रति स्वस्ति क्षेमं करोतीति शेषः । तया स्वस्त्या क्षेमहेतुभूतया क्रियया मानसान्यस्मदीयान्यन्तःकरणानि स्वस्ति क्षेमं प्रापयत्विति शेषः । अथ द्वादशं मन्त्रमाह -
हे प्राणापानदेवौ मृत्योः सकाशान्मां पातं रक्षतम् । हे प्राणापानौ युवां मां कदाचिदपि मा हासिष्टं मा परित्यजतम् । अथ त्रयोदशं मन्त्रमाह -
ग्रन्थतदर्थधारणशक्तिर्मेधा, प्रजा पुत्रादिः, तेजः शरीरकान्तिः, तत्सर्वमग्निर्मयि संपादयतु । इन्द्रियं चक्षुरादिपाटवम् । भ्राजो दीप्तिजातम् । अन्यत्पूर्ववत् । अथ चतुर्दशं मन्त्रमाह -
हेऽश्विनौ सौभगेभिः सौभाग्यैः (सौभाग्यापादकैः) सूक्तैरस्मान्पातम् । कीदृशैः । द्युभिर्द्योतमानैः । अक्तुभिरञ्जनहेतुघृतादिद्रव्ययुक्तैश्च । अरिष्टेभिर्विनाशरहितैः । नोऽस्माकं तदश्विनोः पालनं मित्रादयो मामहन्तामतिशयेन पूजयन्तु । सिन्धुः समुद्रः । अथ पञ्चदशं मन्त्रमाह -
कस्य प्रजापतेः संबन्धिनीत्यस्मिन्नर्थे केति शब्दः स्त्रीलिङ्गो वर्तते । ऊतीशब्दो रक्षावाची । कयोत्या प्रजापतिसंबन्धिना रक्षणेन चित्र आभुवत्, चित्रोऽयं यज्ञो नोऽस्मान्प्रत्यागतः । कीदृशो यज्ञः । सदावृधः सर्वदा वर्धमानः । सखा सखिवत्प्रियतमः । स च यज्ञः कया प्रजापतिसंबन्धिन्या शचिष्ठयाऽतिशयितया शक्त्या वृता वर्तते । अथ षोडशं मन्त्रमाह -
हे प्रवर्ग्य त्वां कः प्रजापतिर्मत्सन्मदयतु हर्षयतु । कीदृशः प्रजापतिः । सत्यः परमार्थभूतः । मदानां हर्षकारणानामायुरादीनामन्धसोऽन्नस्य च मंहिष्ठोऽतिशयेन वर्धयिता । आरुजे सर्वतोऽनिष्टभङ्गार्थं वस्वपेक्षितं धनं दृढाचिद्दृढमेव करोत्विति शेषः । अथ सप्तदशं मन्त्रमाह -
हे प्रजापते जरितॄणां जरणशीलानां सखीनां सखिवत्प्रियाणां नोऽस्माकं शतमूतिभिः शतसंख्याकैः रक्षणैः, अभी षु सर्वतः सुष्ठु अविता भवासि रक्षिता भव । अथाष्टादशं मन्त्रमाह -
केचिदृषय इन्द्रमुपसेदुः । कार्यार्थं प्राप्तिरुपसत्तिः । कीदृशा ऋषयः । वयः पक्षिमूर्तिधारिणः । अत एव सुपर्णाः शोभनपक्षोपेताः । प्रियमेधा अधीतस्य श्रुतस्य धारणशक्तिर्मेधा तस्यां प्रीतियुक्ताः । नाधमानाः किंचित्कार्यं याचमानाः । स एव याच्ञाप्रकारः स्पष्टीक्रियते । हे इन्द्र ध्वान्तमज्ञानलक्षणमन्धकारमपोर्णुहि, अपसारय । चक्षुर्ज्ञानलक्षणां दृष्टिं पूर्धि पूरय । निधयेव शृङ्खलेवाज्ञानेन बद्धानस्मान्मुमुग्धि तस्मादज्ञानाद्बन्धनान्मोचय । अथैकोनविंशं मन्त्रमाह -
आपो देव्यो नोऽस्माकमभिष्टये पीतयेऽभीष्टाय पानाय शं सुखहेतवो भवन्तु । किं च नोऽस्माकं शं सुखं यथा भवति तथा, योर्दुःखवियोगो यथा भवति तथाऽभिस्रवन्तु सर्वतः प्रवहन्तु । अथ विंशं मन्त्रमाह -
अहमपो देवीः प्रति भेषजं पापविनाशकारणमौषधं याचामि । कीदृशीरपः । वार्याणां वरणीयानां कामानामीशाना दातुं समर्थाः । चर्षणीनां मनुष्याणां क्षयन्तीर्निवासहेतुभूता इति । अथैकविंशं मन्त्रमाह -
आप ओषधयश्चेत्येता द्विविधा देवता नोऽस्मान्प्रति सुमित्राः सुष्ठु स्निग्धाः सन्तु । योऽस्मदीयः शत्रुस्तस्मै दुर्मित्रा दुर्हृदया विध्वंसिन्यः सन्तु । अथ द्वाविंशं मन्त्रमाह -
हिशब्द एवकारार्थः प्रसिध्यर्थो वा । हे आपो यूयमेव मयोभुवः स्थ सुखस्य भावयित्र्यो भवत । स्नानपानादिहेतुत्वेन सुखोत्पादकत्वं प्रसिद्धम् । तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापयत । किंच महे महते रणाय रमणीयाय चक्षसे दर्शनीयाय दधातन । अस्मान्परतत्वसाक्षात्कारयोग्यान्कुरुतेत्यर्थः । अथ त्रयोविंशं मन्त्रमाह -
वो युष्माकं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत रसं प्रापयत । तत्र दृष्टान्तः - उशतीरिव मातर इति । कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं प्रापयन्ति तद्वत् । अथ चतुर्विंशं मन्त्रमाह -
यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ तस्मै रसाय वो युष्मानरं गमाम, अलं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकान्कुरुत । अथ पञ्चविंशं मन्त्रमाह -
येयं पृथिवी देवता सेयं शान्ता सर्वोपद्रवशमनयुक्ता । न केवलं स्वयमेव किं त्वग्निना देवेन सह शान्ता । तादृशी शान्ता देवता मे मम शुचं शोकं शमयतु शान्तं करोतु । अथ षड्विंशसप्तविंशौ मन्त्रावाह -
पृथिवीमन्त्रवद्व्याख्येयम् । अथाष्टाविंशं मन्त्रमाह -
पृथिव्यादयः सर्वदेवता अस्मदनिष्टशमनहेतुत्वाच्छान्तिदेवतारूपाः । ब्रह्म वेदः । पृथिव्यादीनामुपचरितं शान्तिदेवतारूपत्वम् । या तु शान्त्यभिमानिनी देवता सा शान्तिरेव मुख्यमेव तस्याः शान्तित्वम्, अतः सा शान्तिदेवता मे शान्तिरस्तु सर्वारिष्टशमनहेतुरस्तु । अथैकोनत्रिंशं मन्त्रमाह -
अहं यजमानः सर्वशान्त्या सर्वारिष्टशमनहेतुतया पूर्वोक्तगुणविशिष्टया शान्त्या शान्तिदेवतया मह्यं मच्छरीरार्थं द्विपदे मदीयाय मनुष्यार्थं चतुष्पदे मदीयाय पश्वर्थं च शान्तिं सर्वानिष्टशमनं करोमि । अतः शान्तिदेवता मे मदर्थं शान्तिः सर्वानिष्टशमनहेतुरस्तु । अथ त्रिंशं मन्त्रमाह -
श्रीप्रभृतयो धर्मान्ता या देवताः सन्ति, एतानि देवशरीराणीह कर्मसमाप्तावुत्तिष्ठन्तं मामन्वा समन्तादुत्तिष्ठन्तु । यानि श्रीप्रभृतीनां स्वरूपाण्येतानि मा(मां) मा हासिषुर्मा परित्यजन्तु । पुनरपि मा मा हासिषुः, द्विरुक्तिरादरार्था । अथैकत्रिंशं मन्त्रमाह -
अहममृतान्देवाननुलक्ष्याऽऽयुरादिविशेषणविशिष्टेन सोमेन सहोदस्थामुत्तिष्ठामि । चिरजीवनमायुः, तत्रापि रोगाद्युपद्रवरहितं स्वायुः । तदुभयप्रदत्वाद्रसस्य तद्रूपत्वम् । ओषधीनां पर्जन्यस्य च रसः सारम् । चक्षुर्भिर्विशेषणैः पृथक्क्रियापदमन्वेतुं चत्वार उच्छब्दाः । अथ द्वात्रिंशं मन्त्रमाह -
पुरस्तात्पूर्वस्यां दिश्युच्चरदुदयं गच्छच्छुक्रं ज्योतिःस्वरूपं देवहितं सर्वेभ्यो देवेभ्यो हितकारि चक्षुर्दृष्टेरनुग्राहकं तदादित्यमण्डलं शरदः शतं शतसंख्याकान्संवत्सरान्सर्वदा पश्येम । तत्प्रसादाज्जीवनादिव्यापारांश्च प्राप्नवाम । नन्दाम द्रव्यैः समृद्धा भूयास्म । मोदाम तद्भोगेन हृष्टाः स्म । भवाम स्वस्थाने निवसाम । शृणवाम वेदशास्त्ररहस्यं गुरुमुखादवगच्छाम । प्रब्रवाम शिष्येभ्यः प्रकर्षेण कथयाम । अजीताः शत्रुणा केनाप्यजिताः । किंच ज्योग्दीर्घं कालं सूर्यं दृशे द्रष्टुं समर्था भूयास्म । अथ त्रयस्त्रिंशं मन्त्रमाह -
यः सूर्यो महतः प्रौढादर्णवात्पूर्वसमुद्रात्तत्रापि विशेषतः सरिरस्य जलस्य मध्याद्बिभ्राजमानो विशेषेण दीप्यमान उदगादुदयं गच्छति, स सूर्यो मनसा मां पुनातु शोधयतु । कीदृशः सूर्यः । वृषभः कामानां वर्षयिता । लोहिताक्षो रक्तवर्णाक्षियुक्तः । विपश्चित्सर्वज्ञः । अथ चतुस्त्रिंशं मन्त्रमाह -
अत्र वेदः संबोध्यते । हे श्रुते त्वं ब्रह्मणः परमात्मवस्तुनः श्रो(श्चो)तनीश्र(स्र)वणहेतुभूताऽसि ब्रह्मतत्वं बोधयसीत्यर्थः । हे मदीये श्रोत्रे युवां ब्रह्मणो वेदस्याऽऽणी नेतृणी भवथः, वेदं शृणुथ इत्यर्थः । हे मनो ब्रह्मणो वेदस्याऽऽवपनं धारणस्थानमसि । इयं मही महती पृथिवी ब्रह्मणा वेदप्रतिपाद्येन परमात्मना धारिता । महत्प्रौढमन्तरिक्षमेनेन परमात्मना धारितम् । पृथिवीं विस्तीर्णां सदेवां देवसहितां दिवं दाधार परमात्मा धृतवान् । यत्परमात्मतत्वं तत्प्रतिपादकं वेदवाक्यं वाऽहं यजमानो वेद जानामि । तदुभयमहं सर्वदा मनसि धारयाणि । स वेदो मन्मत्तः सकाशादध्याधिक्येन मा विस्रसत्, विस्रस्तो मा भूत् । अथ पञ्चत्रिंशं मन्त्रमाह -
मेधा धारणशक्तिः, मनीषा ग्रहणशक्तिः, ते उभे समीची अनुकूले सत्यौ मां यजमानमाविशतां सर्वतः प्रविशताम् । किमर्थम् । भूतस्य पूर्वमधीतस्य भव्यस्याध्येष्यमाणस्य चावरुध्यै स्वीकारार्थम् । एतत्सिध्यर्थमेव सर्वमायुरयाणि प्राप्नवानि । द्विरुक्तिरादरार्था । अथ षट्त्रिशं मन्त्रमाह -
हे हरिवोऽश्वयुक्तेन्द्राऽऽभिर्गीर्भिरस्मदीयस्तुतिभिर्वर्धमानस्त्वमतोऽस्मत्कर्मण ऊनमङ्गं नोऽस्मदर्थमाप्याययाभिवर्धय । यदा यस्मिन्काले स्तोतृभ्यः स्तोत्रनुग्रहार्थं महि गोत्रा महतो मेघान्रुजासि भग्नान्करोषि । अध तदा वयं ते तवानुग्रहाद्भूयिष्ठभाजः स्याम प्रभूतधनानां लब्धारो भूयास्म । अथ सप्तत्रिंशं मन्त्रमाह -
एवमुक्तेन प्रकारेण ब्रह्म परमात्मप्रतिपादकमन्त्रजातं प्रावादिष्म प्रकर्षेण वयं कथितमन्तः । तद्ब्रह्मतत्वं तस्य प्रतिपादकं वाक्यं च नोऽस्मान्मा हासीत्, कदाचिदपि मा परित्यजतु । हे प्रणवप्रतिपाद्य परमात्मन्, आध्यात्मिकानां ज्वरशिरोव्यथादिकृतानां विघ्नानां शान्तिरस्तु । आधिदैविकानां यक्षराक्षसादिकृतानां विघ्नानां शान्तिरस्तु । अथ नमो वाच इत्यारभ्य शं नो वातः पवतामित्यन्तैरनुवाकैः संपाद्यं प्रवर्ग्यं स्तोतुं तस्य प्रवर्ग्यस्य नामानि दर्शयति -
प्रजापतिः संभ्रियमाणः । सम्राट्संभूतः । घर्मः प्रवृक्तः । महावीर उद्वासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत, इति ।
अस्य प्रवर्ग्यस्य तत्तदवस्थाभेदेन प्रजापत्यादीनि नामानि संपद्यन्ते । यदा मृद्वराहविहतवल्मीकवपादिसंभारैः संभ्रियमाणत्वदशापन्नो भवति तदा प्रजापतिरित्येतस्य नाम । सर्वात्मना संभृतत्वदशापन्नस्य सम्राडिति नाम । प्रवृञ्जनदशापन्नस्य घर्म इति नाम । उद्वासनदशापन्नस्य महावीर इति नाम । एताभिर्दशाभिरवस्थावद्यत्स्वरूपं तेन रूपेणाऽऽदित्य इति नाम । स प्रवर्ग्य एवमेतानि नामान्यकुरुत संपादितवान् । नामवेदनं प्रशंसति -
य एवं वेद । विदुरेनं नाम्ना, इति ।
देवदत्तोपाध्याय इत्येवं तदीयं नाम सर्वैर्ज्ञातं भवति । अथ नामविशेषव्यवहारप्रदर्शनेन प्रशंसति -
ब्रह्मवादिनो वदन्ति(१) । यो वै वसीयाँसं यथानाममुपचरति । पुण्यार्तिं वै स तस्मै कामयते । पुण्यार्तिमस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् । घर्म इति दिवाऽऽचक्षीत । सम्राडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा(२)। प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः, इति ।
यो वै यः कोऽपि पुमान्भृत्यो वसीयाँसमतिशयेन वसुमन्तं धनिकं राजानममात्यादिकं वा यथानामं तदीयं नामानतिक्रम्य नामकरणकाले संपादितेनैव नाम्नोपचरति, अधिपते स्वामिन्नित्यादिशब्दैर्विना भो देवदत्तेत्यादिकेनैव मुख्येन नाम्ना तमाह्वयति । स भृत्यस्तस्मै धनिकाय पुण्यार्तिं वै भाग्यहानिमेव कामयते । उत्तमोपचारयोग्ये नीचव्यवहारात् । अथवा स धनिको राजादिस्तस्मै स्वाभाविकनाम्ना व्यवहरते भृत्याय पुण्यार्तिं धनादिहानिं कामयते दण्डयितुमिच्छति । न केवलं राजादिरेव किंतु यो मूढ एवं वेद स्वाभाविकनाम्नैव व्यवहारं निश्चिनोति, अस्मै मूढाय राजादिप्रभुपरिसरवर्तिनः सर्वेऽपि पुरुषाः पुण्यार्तिं ताडनधनहान्यादिकं कामयन्ते । एवं ब्रह्मवादिन आहुः । यस्मादेवं तस्मादेवं विद्वान्नामान्तरेणैव प्रभुर्व्यवहरणीय इत्येवं जानन्पुरुषः प्रवर्ग्यं प्रत्यहनि घर्म इति नाम्ना व्यवहरेत् । रात्रौ तु सम्राडिति नाम्ना । तत्र घर्मशब्देनोच्यमाना दीप्यमाना या तनूः सम्राट्शब्देनोच्यमाना सम्यग्राजमाना या तनूरेते उभे अप्येतस्य प्रवर्ग्यस्य प्रिये शरीरे । एते घर्मसम्राट्शब्दरूपे अस्य प्रवर्ग्यस्य प्रिये नामनी । तस्मादेताभ्यां शब्दाभ्यां व्यवहरन्पुरुषः प्रिययैव तनुवा देवादिरूपेण प्रियेण च नाम्ना तच्छरीररोचितेनैव प्रवर्ग्यं समृद्धं करोति । तथा सति जनतामायतो जनसमूहं सभां प्रत्यागच्छतोऽस्य घर्मादिनामभिर्व्यवहारिणः पुरुषस्य कीर्तिः पूर्वाऽस्मादपि पुरुषात्पूर्वभाविनी गच्छति । अस्य पुरुषस्याऽऽगमनात्प्रागेव सर्वेऽपि सभानिष्ठा यतचित्ता(त्तो)भिज्ञोऽयं महात्मेत्यवमेनं प्रशंसति । घर्मादिनामविशेषद्वारा प्रवर्ग्यस्य प्रशंसां कृत्वा गायत्रीछन्दोगतसंख्यासाम्येनापि प्रशंसति -
गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानुव्यभवन् । प्रवर्ग्येणाऽऽप्नुवन् । यच्चतुर्विँशतिकृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु विभवति । गायत्रीमाप्नोति । पूर्वस्य जनं यतः कीर्तिर्गच्छति, इति ।
पुरा कदाचिदपरक्ता सती गायत्री देवी देवेभ्यः सकाशादपाक्रामत् । तदा देवाः प्रवर्ग्यमनुष्ठाय तेनैव प्रवर्ग्येण तां गायत्रीमनुव्यभवन्, अन्वेष्टुं विभवः समर्था अभवन् । अन्विष्य च तेन प्रवर्ग्येण तां गायत्रीं प्राप्नुवन् । अतो यदि द्वादशसु दिनेष्वेकैकस्मिन्दिने द्विर्द्विरित्येवं चतुर्विंशतिकृत्वः प्रवर्ग्यमनुतिष्ठेत्, तत्तदा गायत्रीमेवानुगन्तुं समर्थो भवति । चतुर्विंशतिसंख्याया गायत्र्यक्षरनिष्ठत्वात् । अतः संख्यासामान्याद्गायत्रीं प्राप्नोति । जनं यतः सभां गच्छतोऽस्य चतुर्विंशतिवारं प्रवर्ग्यानुष्ठायिनः पुरुषस्य कीर्तिस्तस्मादपि पूर्वभाविनी सती सभां प्राप्नोति । पुनरपि प्रकारान्तरेणावस्थाविशेषगतैर्नामभिः प्रशंसति -
वैश्वदेवः सँसन्नः(३)। वसवः प्रवृक्तः । सोमोऽभिकीर्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः क्वथन् । पौष्ण उदन्तः । सारस्वतो विष्यन्दमानः । मैत्रः शरो गृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्घुतः(४)। असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत, इति ।
संसन्नः सम्यगासादनदशां प्राप्तो यः प्रवर्ग्यस्तस्य वैश्वदेव इति नाम, तेन हि विश्वेदेवास्तुष्यन्ति । प्रवृञ्जनदशापन्नस्य वसव इति नाम, वसूनां प्रीतिहेतुत्वात् । प्रवृञ्जने सति पात्रस्यान्तर इतस्ततश्चलनमभिकीर्यमाणत्वं तद्दशापन्नस्य सोम इति नाम, तत्प्रीतिहेतुत्वात् । आनीयमानक्षीत्वदशापन्नस्याऽऽश्विन इति नाम, तेन ह्यश्विनौ तृप्यतः । पयसा सह क्वथनदशापन्नस्य मारुत इति नाम । पात्रस्यान्तपर्यन्तमुद्गमनमुदन्तः, तदवस्थापन्नस्य पौष्ण इति नाम । पात्रादप्युन्नतत्वं विष्यन्दनं तद्दशापन्नस्य सारस्वत इति नाम । पचनबाहुल्येन घनीभावात्प्रतीयमानः शरः शराकारग्रहणदशापन्नस्य मैत्र इति नाम । शफाभ्यां खरादुद्यमनदशापन्नस्य तेज इति नाम । आहवनीयं प्रति ह्रियमाणत्वदशापन्नस्य वायुरिति नाम । आहवनीये हूयमानत्वदशापन्नस्य प्रजापतिरिति नाम । हुतत्वदशापन्नस्य वागिति नाम । इत्येताभिर्दशाभिरवस्थावान्यः प्रवर्ग्यस्तस्याऽऽदित्य इति नाम । स प्रवर्ग्य एवं तत्तद्देवताप्रीतिहेतुत्वात्स्वस्यैतानि नामान्यकुरुत संपादितवान् । नामवेदनं प्रशंसति -
य एवं वेद । विदुरेनं नाम्ना, इति ।
अथ प्रश्नोत्तराभ्यां मृन्मयस्य महावीरस्य होमसाधनत्मुपपादयति -
ब्रह्मवादिनो वदन्ति । यन्मृन्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाच्येव वाचं दधाति(५)। तस्मादश्नुते, इति । दारुमयस्य होमसाधनत्वं सर्वत्र दृष्टं न तु क्वचिदपि मृन्मयस्य । अत एव साकंप्रस्थानीयप्रकरणे समाम्नायते - “दारुपात्रेण जुहोति न हि मृन्मयमाहुतिमानशे” इति । एवं सत्यत्र कस्मात्कारणादेव महावीर आहुतिसाधनत्वं प्राप्नोतीति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञः पुरुषो वागेष इत्युत्तरं ब्रूयात् । एष महावीरो मन्त्रैर्निष्पादितत्वाद्वागात्मकः । अतोऽनेन होमे सति वाचि मन्त्रनिष्पन्ने महावीर एव वाचं मन्त्रनिष्पादितामाहुतिं संपादयति । तस्मात्कारणान्मृन्मयोऽप्ययं महावीर आहुतिमर्हति । प्रकारान्तरेण द्वादशधा विभागमुपजीव्य प्रशंसति -
प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृजत । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः(६), इति ।
वदन्ति तनुवा सँसन्नो हूयमानो वाग्घुतो दधात्येषः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठक एकादशोऽनुवाकः ॥११॥
योऽयं प्रवर्ग्यः स एष द्वादशधा विभक्तः प्रजापतिरेव । तत्कथमिति तदुच्यते । अवकाशमन्त्रेभ्यः प्राचीनो यो भागस्तेन भागेन प्रजापतिः प्रजाः सृष्टवान् । अपश्यं गोपामित्यनुवाके समाम्नाता दश मन्त्रा अवकाशनामकाः । एतच्च तद्ब्राह्मणे समाम्नातम् - “नवैतेऽवकाशा भवन्ति पत्नियै दशमः” इति । नमो युञ्जत इत्यादिभिः षड्भिरनुवाकैरुक्तो मन्त्रसमूहोऽवकाशेभ्यः प्राचीनो भागस्तेन प्रजासृष्टिः । अवकाशाख्यैस्तु दशभिर्मन्त्रैर्देवासुरानसृजत देवस्य त्वा सवितुः प्रसव इत्यादिकोऽवकाशेभ्य ऊर्ध्वो मन्त्रभागः, तेन प्रजापतिरन्नमसृजत । एवं पूर्वोक्तभागौ द्वौ, मध्ये दशावकाशा इति द्वादशप्रकारो मन्त्रसंग्रहः प्रजापतिस्वरूपः । अन्नं च प्रजापतिसृष्टत्वात्प्रजापतिस्वरूपम् । तादृशः प्रजापतिरेवैष प्रवर्ग्यरूपः । एवमस्य प्रशस्तत्वं द्रष्टव्यम् । अथ दिनविशेषेषु फलविशेषकथनेन प्रवर्ग्यं प्रशंसति -
सविता भूत्वा प्रथमेऽहन्प्रवृज्यते । तेन कामाँ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पञ्चमेऽहन्प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति(१)। यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्टमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाँ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति(२)। यदेकादशेहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति, इति ।
प्रथमे दिवसे प्रवृजत इति यत्तेनानुष्ठानेनायं सवितृदेवो भूत्वा कामान्प्राप्नोति । एवमुत्तरेष्वपि वाक्येषु योजनीयम् । द्वादशदिनानुष्ठानं प्रशस्योपसद्भ्यः प्राचीनप्रतीचीनकालानुष्ठाने प्रशंसति -
यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङमूल्लोकाँस्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङिमाल्ँ लोकाँस्तपन्नेति, इति ।
प्रवर्ग्य आदित्यस्वरूपः । उपसदो लोकस्वरूपाः । तथा सति प्रतिदिनं प्रवर्ग्यानुष्ठानात्पश्चादुपसदोऽनुष्ठानादादित्योऽधोभागवर्ती पराङूर्ध्वाभिमुखः सन्नितोऽप्युपरितनानमून्स्वर्गादिलोकांस्तपन्नेति प्रकाशयन्सञ्चरति । तथा पूर्वपूर्वदिनगतेभ्य उपसद्भ उत्तरोत्तरदिनगतः प्रवर्ग्य उपरिष्टाद्वर्तते । तस्मादसावादित्य ऊर्ध्वलोकवर्ती सन्नमुतोऽर्वाङ्स्वर्गलोकादधोमुखो भूत्वेमान्भूरादील्ँ लोकान्प्रकाशयन्सञ्चरति । वेदनं प्रशंसति -
य एवं वेद । ऐव तपति(३), इति ।
नक्षत्राण्येति विराजमेति तपति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥१२॥
देवा वै सत्रँ सावित्रं परिश्रिते ब्रह्मन्प्रचरिष्यामोऽग्निष्ट्वा शिरो ग्रीवा देवस्य रशनां विश्वा आशा घर्म या ते प्रजापतिँ शुक्रं प्रजापतिः संभ्रियमाणः सविता द्वादश(१२)।
देवा वै सत्रँस खदिरः परिश्रितेऽभिपूर्वमथो रक्षसां ग्रैष्मावेव ब्रह्म वै देवानामश्विना घर्मं प्राणो वा इन्द्रतमोऽग्निर्वृषा हरिर्यो वै वसीयाँसं यथानाममष्टोत्तरशतम्(१०८)।
शं नः० तन्नो माहासीत् । ॐशान्तिः शान्तिः शान्तिः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः ।
हरिः ॐ
यः पुमानेवमुक्तेन प्रकारेण प्रवर्ग्यस्याधस्तादुपरिष्टाच्चावस्थानं जानाति सोऽयं सर्वतः प्रकाशि(श)त एव । तदेवं ब्राह्मणगताभ्यामेकादशद्वादशानुवाकाभ्यां द्विचत्वारिंशोनुवाकोक्तमन्त्रैरनुष्ठेयः प्रवर्ग्यः प्रशस्तः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठके द्विचत्वारिंशोऽनुवाकः ॥४२॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये चतुर्थप्रपाठकः समाप्तः ॥४॥