04 प्रश्नः-4

….


… ०६ - ०४ - ११०११६७. …
अथ षष्ठप्रपाठके पञ्चमोऽनुवाकः - पञ्चमानुवाके यमयज्ञोऽभिधीयते । स च कल्पसूत्र एवमुपक्रान्तः - “यज्ञमयं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमम् । मासि मासि तु कर्तव्योऽन्तकाय बलिस्तथा” इति ।
०६ - ०५ - ११०११७०. तत्र मन्त्रविनियोग एवमभिहितः - “आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदताँ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योमिति यममावाहयति” इति । तत्राऽऽवाहनार्थः प्रणवोऽध्याहृतः । मन्त्रे हशब्दः प्रसिध्यर्थः, वाशब्दः समुच्चये । प्रसिद्धो यमो देवः सुमनाभिः सौमनस्ययुक्तै(क्ताभि)रूतिभिरस्मदीयरक्षणैः सहित इह यमयज्ञाख्ये कर्मण्यायातु । तथा प्रयताभिर्नियताभिरूतिभिरक्ता संबद्धा यमी चाऽऽयातु । मम यजमानस्योर्जायाऽऽन्नसिद्धये जात्या उत्तमजातिसिद्धये शत्रुहत्यै शत्रुवधाय च सुप्रयते सुष्ठु नियते बर्हिषि । ह प्रसिद्धौ । एतौ दम्पती आसीदतामुपविशताम् । कल्पः - “यमे इव यतमाने यदैतमिति च” इति । आवाहयतीत्यनुवर्तते । पाठस्तु -
०६ - ०५ - ११०११७१. इवशब्द एवकारार्थः । यद्यदा यतमाने प्रयत्नं कुर्वाणे यमे इव यमो यमी चेत्येते एव युवामैतमस्मिन्कर्मण्यागच्छतम् । तदानीं देवयन्तो देवानात्मन इच्छन्तो मानुषा यजमाना वां युवां प्रभरन्प्रकर्षेण भरन्तु पोषयन्तु । स्वमु लोकं स्वोचितमेव स्थानं विदाने जानत्यौ युवामासीदतमुपविशतम् । नोऽस्माकमिन्दव आह्लादाय स्वासस्थे सुखासनस्थाने भवतं तिष्ठतम् ।
०६ - ०५ - ११०११७२. कल्पः - “मध्यमस्या(माया)मुत्तरवेद्यां यमाय हविर्निवेदयन्ते - यमाय सोमँ सुनुत यमाय जुहुता हविः । यमँ ह यज्ञो गच्छत्यग्निदूतो अरंकृतः” इति । हे ऋत्विजो यमदेवार्थं सोमं सुनुत लतात्मकं सोममभिषुणुत । तथा यमार्थँ हविर्जुहुत । अग्निदूतो यस्मिन्यज्ञे सोऽयमग्निदूतः । अग्नेर्दूतत्वमन्यत्राऽऽम्नातम् - “अग्निर्देवानां दूत आसीत्” इति । अरंकृतो बहुभिर्द्रव्यैरलंकाररूपैर्युक्तः, तादृशो यज्ञो यमं ह यममेव (गच्छति) गच्छतु । (ओंकारस्त्वध्याहृतः)
०६ - ०५ - ११०११७३. कल्पः - “प्रतीच्यामुत्तरवेद्याम् - यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे” इति । ह ऋत्वजो यमार्थं घृतयुक्तं हविर्जुहोत । यूयं च प्रकर्षेण तिष्ठत । देवेषु मध्ये यो यमो देवः स प्रजीवसे प्रकृष्टजीवनार्थं नोऽस्माकं दीर्घमायुरायमत्प्रयच्छतु ।
०६ - ०५ - ११०११७४. कल्पः - “प्राच्यामुत्तरवेद्याम् -यमाय मधुमत्तमँ राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः” इति । ह ऋत्विजो यमाय राज्ञे मधुमत्तममतिशयेन मधुरं हव्यं जुहोतन जुहुत । पूर्वजेभ्यः सृष्ट्यादावुत्पन्नेभ्योऽत एव पूर्वेभ्योऽस्मत्तः पूर्वभाविभ्यः पथिकृद्भ्यः शोभनमार्गकारिभ्य ऋषिभ्य इदं प्रत्यक्षं यथा भवति तथा नमोऽस्तु । कल्पः - “योऽस्य कौष्ठ्येति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं परिगायन्ति” इति । तत्र प्रथमामाह -
०६ - ०५ - ११०११७५. को(कौ)ष्ठं धनमर्हतीति कौष्ठ्यः, तादृशो यो यम एक इदेक एव पार्थिवस्य पृथिव्यां भवस्यास्य सर्वस्य जगतो वशी वशेन युक्तः सर्वं जगत्तदधीनमित्यर्थः । यश्च यमो राजाऽनपरोध्यः केनाप्यपरोद्धुमशक्यः । तं यमं प्रति भङ्ग्यश्रव एतन्नामकं गीतं हे पुरुष गाय । भङ्गी रीतिः । संगीतशास्त्रोक्तां भङ्गीमर्हतीति भङ्ग्यम् । श्रवणीयं श्रवः । भङ्यं च तच्छ्रवश्चेति भङ्ग्यश्रवः । शास्त्रीयलक्षणोपेतत्वाच्छ्रोत्रसुखकरमित्यर्थः । अथ द्वितीयामाह -
०६ - ०५ - ११०११७६. यो यमो राजा केनाप्यपरोद्धुमशक्यः । योन यमेनाऽऽपो धृता इति शेषः । तथा नद्यो येन धृता । धन्वानि मरुस्थलानि येन धृतानि । द्यौर्येन धृता । दृढा पृथिवी च येन धृता । तादृशं यमं प्रति पूर्वोक्तं भङ्ग्यश्रवो गाय । अथ तृतीयामाह -
०६ - ०५ - ११०११७७. अनसां शकटानां रथानां शतं यस्य यमस्य सोऽयमनःशतः । तादृशो यमो राजा दानं फलप्रदानमुद्दिश्यात्र समागच्छतु । अश्वानभितिष्ठति रथेषु योजयति । कीदृशानश्वान् । हिरण्यकक्ष्यान्सौवर्णाभरणैर्युक्ताः कक्ष्याप्रदेशा येषां ते हिरण्यकक्ष्यास्तान् । शोभनं धुरं रथवहनस्थानं येषां ते सुधुरास्तान् । शृङ्गारार्थं हिरण्यनिर्मिते अक्षिणी येषां ते हिरण्याक्षास्तान् । पाषाणयुक्तमार्गेषु रक्षार्थं निर्मितैरयोमयैर्वलयैर्युक्ताः शफा येषां तेऽयः शफास्तान् । अनश(श्य)त इति पाठे नाशरहितानश्वानिति व्याख्येयम् । कल्पः - “यमो दाधारेत्यनुवाकशेषेण हविरुद्धरन्ति” इति । तत्र प्रथमामाह -
०६ - ०५ - ११०११७८. पृथिवीं सर्वां यमो दाधार धृतवान् । तथा विश्वं सर्वमिदं जगद्यमो धृतवान् । यत्प्राणदस्मिञ्जगति श्वासयुक्तं यदस्ति यदप्यन्यद्वायुना रक्षितं वस्त्वस्ति सर्वमित्सर्वमेव यमाय यमार्थं तस्थे तस्थावस्थितवान् । अथ द्वितीयामाह -
०६ - ०५ - ११०११७९. पञ्च भूतानि यथा वर्तन्ते, षड्ऋतवो यथा वर्तन्ते, पञ्चदश तिथयो तथा वर्तन्ते, ऋषयश्च वसिष्ठादयो यथा वर्तन्ते, तं प्रकारं सर्वं स पुमान्ब्रूयाद्वक्तुं शक्तः । कः पुमानिति स उ(तदु)च्यते - यो यमं वेद स पुमान्ब्रूयादित्यन्वयः । यमो हि नियन्तृत्वेन भूतर्तुतिथ्यादिकं सर्वं जगद्यथायथं प्रवर्तयति । अतो यमस्य माहात्म्यं विद्वानिदमित्थमिति सर्वं वक्तुं शक्नोति । यथा वैक ऋषिरेक एव सर्वज्ञः परमेश्वरो विजानते विशेषेण जगज्जानाति तम(द)पि प्रकारान्तरं यममाहात्म्याभिज्ञ एव वक्तुमुत्सहते । अथ तृतीयामाह -
०६ - ०५ - ११०११८०. त्रिकद्रुकेभिर्ज्योतिर्गौरायुरिति त्रिकद्रुका इति सूत्रकारेणोक्तत्वात्ते त्रयो यागास्त्रिकद्रुकास्तैर्यागैः षडुर्वीर्भूमीः पतति प्राप्नोति । ताश्चोर्व्यः शाखान्तरमन्त्रे समाम्नाताः - “षण्मोर्वीरँ हसस्पान्तु द्यौश्च पृथिवी चाऽऽपश्चौषधयश्चोर्क्च सूनृता च” इति । बृहत्परं ब्रह्मैकमिदेकमेव । गायत्र्यादीनि तु च्छन्दांसि च्छन्दोरूपेण व्यवस्थितानि । एवं नानाविधं यज्जगदस्ति सर्वा ता तत्सर्वं जगद्यम आहिता यमे प्रतिष्ठितम् । नियामकत्वादेव जगद्व्यवस्थाहेतुत्वं यमस्य युक्तमित्यर्थः । अथ चतुर्थींमाह -
०६ - ०५ - ११०११८१. अयं वैवस्वतः सूर्यस्य पुत्रो यमः पञ्चभिर्मानवैः पञ्चसंख्याकैर्मुख्यैर्दूतविशेषैः सहितः सन्नहरहः प्रतिदिनं गवादीन्नयमानो यमलोके प्रापयन्न तृप्यति । अलमेतावतेत्येवं तृप्तिं न प्राप्नोति । प्राणिनो नेतुमालस्यरहित इत्यर्थः । अथ पञ्चमीमाह -
०६ - ०५ - ११०११८२. इह लोके ये च पुरुषाः सत्येन वर्तितुमिच्छन्ति येऽपि चान्ये पुरुषा अनृतवादिनस्ते द्विविधा अपि जना वैवस्वते सूर्यस्य पुत्रे यमे राजनि स्थिते सति तद्भृत्यैर्विविच्यन्ते । तत्र सत्यवादिन स्वर्गं नयन्ति, अनृतवादिनो नरकं नयन्तीत्येवं तद्विवेकः । अथ षष्ठीमाह -
०६ - ०५ - ११०११८३. ये च पुरुषा इह लोके देवान्नमस्यन्त्युपासते येऽपि चान्ये ब्राह्मणानपचित्यति सुवर्णदानान्नदानादिना पूजयन्ति ते द्विविधा अपि हे राजन्निह त्वदीये लोके विविच्यन्ते । तत्रोपासका ब्रह्मलोके नीयन्ते दानादिकर्मनिष्ठास्तु स्वर्गलोके नीयन्त इति तद्विवेकः । अथ यस्मादेवं तस्मात्सर्वेऽपि हे यम त्वामुपयन्ति । अथ सप्तमीमाह -
०६ - ०५ - ११०११८४. यमो राजा देवैरन्यैः सह सुपलाशे शोभनपर्णोपेते यस्मिन्वृक्षे सोमसवननामके । तदश्वत्थः सोमसवन इति श्रुत्यन्तरात् । संपिबते संभूय सोमपानं करोति । अत्रास्मिन्वृक्षे विश्पतिः प्रजानां स्वामी नोऽस्माकं पिता पुराणाः पुरातनान्देवाननुवेनति अनुगच्छति । त एते सप्तापि मन्त्रा यममाहात्म्यप्रतिपादकाः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये पेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके पञ्चमोऽनुवाकः ॥५॥अथ षष्ठप्रपाठके षष्ठोऽनुवाकः - पूर्वानुवाके पितृमेधगतयमविशेषमन्त्रप्रसङ्गाद्बुद्धिस्थो यमयज्ञोऽभितः । स च स्वतन्त्रः पुरुषार्थे न तु पितृमेधाङ्गभूतः । अथ प्रासङ्गिकं परिसमाप्य प्रकृतः पितृमेधशेष एवोच्यते । चयनान्तमग्निचित इति सूत्रेऽभिहितत्वादग्निचिद्विषयं लोष्टचयनमुच्यते । कल्पः - “अग्निमुपसमाधाय जघनेनाग्निं तिस्रः पालाश्यो मेध्यो निहत्य तासामन्तरेणास्थिकुम्भं निधाय तदुपरिष्टाच्छतातृण्णामध्युद्यम्य दध्ना मधुमिश्रेण पूरयति - वैश्वानरे हविरिदं जुहोमि” इति । पाठस्तु -
०६ - ०६ - ११०११८५. वैश्वानरेऽग्निसदृशे कुम्भ इदं वाजिनमिश्रदधिरूपं हविर्जुहोमि । कीदृशं हविः । साहस्रं सहस्रसंख्योपेतम् । उत्सं प्रवाहरूपम् । शतधारं शतच्छिद्रेषु पतन्तीभिर्धाराभिर्युक्तम् । एष वैश्वानरो देवः पिन्वमाने वर्धमाने पूर्यमाणे कुम्भ एतमस्मदीयं पितरं पितामहं प्रपितामहं च बिभरद्बिभर्तु । कल्पः - “विक्षरन्तमभिमन्त्रयते - द्रप्सश्चस्कन्देमं समुद्रमिति द्वाभ्याम्” इति । तत्र प्रथमामाह -
०६ - ०६ - ११०११८६. द्रप्सो बिन्दुः स पृथिवीमनु चस्कन्द । पृथिव्यां पतित इत्यर्थः । स च द्रप्सो हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च । तदेतदभिप्रेत्य स्मर्यते -
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति ।
सोऽयमर्थो द्यामित्यादिनाऽभिधीयते - द्यामिमं च येनिमनु । अन्तरिक्षरूपमिदं स्थानमनुसंचरति । यश्च पूर्वो योऽपि पूर्वः पृथिवीमनुचस्कन्देति पूर्वोक्तस्थानविशेषस्तमप्यनुसंचरति । तृतीयं योनिं द्युलोकरूपमादित्यस्थानमनुसंचरति । तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि । कुत्र होम इति तदुच्यते - अनु सप्त होत्रा इति । यस्यां दिशि द्रप्सः पतितस्तद्व्यतिरिक्ता होमयोग्याः सप्त दिशो याः सन्ति तास्वनुक्रमेण जुहोमि । यथाऽयं द्रप्सो हुत आदित्यादिस्थानत्रयेषु सं(ये सं)चरन्नुपकरोति तथा भावयामीत्यर्थः । अथ द्वितीयामाह -
०६ - ०६ - ११०११८७. हेऽग्न इमं कुम्भं जनाय प्रेतपुरुषार्थं मा हिँसीर्हिंसितं मा कुरु । किंतु परमे व्योमन्नुत्तमे विधिरक्षणे स्थितं कुरु । कीदृशमिमम् । समुद्रं समुद्रवत्प्रभूतम् । शतधारं शतसंख्याकधारोपेतम् । उत्सं प्रस्रवणयुक्तम् । भुवनस्य मध्ये व्यच्यमानं सेव्यमानमभिव्यज्यमानं वा घृतं दुहानां घृतकारणं दधि दुहानम् । अदितिमखण्डनीयम् । कल्पः - “व्य(व्यु)ष्टायां हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनं संमार्ष्टि - अपेत वीत” इति । पाठस्तु -
०६ - ०६ - ११०११८८. यमेन नियुक्ताः पुरुषाः पुरातना नूतनाश्च सर्वस्यां भूमौ व्याप्य वर्तन्ते, तान्सम्बोध्येदमुच्यते - हे यमदूता यूयं पुराणा अत्राग्निक्षेत्रे स्थ पूर्वं स्थिता ये च नूतना यूयमत्र स्थ ते सर्वे यूयमपेतस्मात्स्थानादपगच्छत । वीत परस्परं वियुज्य गच्छत, अतो विसर्पतास्मात्स्थनाद्विदूरं गच्छत । अहोभिर्दिवसैरक्तुभी रात्रिभिश्चाद्भिर्जलैश्च व्यक्तं विशेषेण संबद्धमवसानमिदं स्थानमस्मै यजमानाय यमो ददातु । कल्पः - “सवितैतानि शरीराणीति सीरं युनक्ति, षड्गवं द्वादशगवं चतुर्विंशतिगवं वा” इति । पाठस्तु -
०६ - ०६ - ११०११८९. सविता प्रेरकः परमेश्वरो मातुर्मातृस्थानीयायाः पृथिव्या उपस्थ उत्सङ्ग एतानि शरीराणि शरीरावयवस्वरूपाण्यस्थीन्यादधे स्थापितवान् । तेभिस्तैर्निमित्तभूतैरघ्निया गावो बलीवर्दा युज्यन्तां लाङ्गलेन संबध्यन्ताम् । कल्पः - “शुनं वाहा इति द्वाभ्यां प्रसव्यावृत्ताः षट्पराचीः सीताः कृषति” इति । तत्र प्रथमामाह -
०६ - ०६ - ११०११९०. लाङ्गलं वहन्तीति वाहा बलीवर्दाः, ते शुनं सुखं यथा भवति तथा प्रेरयन्त्विति शेषः । लाङ्गलं च शुनं सुखं यथा भवति तथा कृषतु । वरत्राश्चर्ममय्यो रज्जवोऽपि शुनं सुखं यथा भवति तथा बध्यन्ताम् । अष्ट्रामारां तीक्ष्णाग्रलोहयुक्तं बलीवर्दप्रेरकं दण्डं चोदिङ्गय हे कीनाश बलीवर्दप्रेरणार्थमुद्यतां कुरु । शुनासीरा हे वाय्वादित्यौ शुनं सुखमस्मासु धत्तं संपादयतम् । अथ द्वितीयामाह -
०६ - ०६ - ११०११९१. शुनो वायुः सीर आदित्यः । हे शुनासीरौ वाय्वादित्याविमां पूर्वोक्तां शुनमस्मासु धत्तमित्येतादृशीं वाचं श्रुत्वा दिव्यन्तरिक्षे यत्पय उदकं चक्रथुः संपादितवन्तौ तेनोदकेनेमां भूमिमुपसिञ्चतं सिक्तां कुरुतम् । कल्पः - “उद्यम्य लाङ्गलं सीते वन्दामह इति सीताः प्रत्यवेक्षते” इति । पाठस्तु -
०६ - ०६ - ११०११९२. लाङ्गलपद्धतिः सीता । हे सीते त्वां वन्दामहे नमस्कुर्मः । हे सुभगे सौभाग्ययुक्ते सीतेऽर्वाच्यधः प्रसृता भव । नोऽस्मान्प्रति यथा येन प्रकारेण सुभगा सौभाग्ययुक्ता ससि भवसि यथा च सुफला ससि शोभनफलोपेता भवसि । तथाऽर्वाची भवेति पूर्वत्रान्वयः । कल्पः - “सवितैतानि शरीराणीति मध्ये कृष्टस्यास्थिकुम्भं निदधाति” इति । पाठस्तु -
०६ - ०६ - ११०११९३. सवितेत्यादिः पूर्ववत् । तेभिरस्थिभिर्निमित्तभूतैर्हेऽदिते भूमे शं सुखहेतुर्भव । कल्पः - “वियुच्यध्वमग्निया देवयाना इति दक्षिणेंऽसे बलीवर्दान्विमुच्य” इति । पाठस्तु -
०६ - ०६ - ११०११९४. हेऽघ्निया बलीवर्दा विमुच्यध्वं विमुक्ता भवत । देवयाना देवान्प्रति गमनवन्तो वयमस्य मनुष्यजन्मरूपस्य तमसोऽन्धकारस्य पारं परभागं प्रत्यतारिष्म तारितवन्तः । ज्योतिः स्वर्गमार्गप्रकाशकं सुकृतरूपसाधनमापाम प्राप्नवाम । सुवः स्वर्गमगन्म वयं प्राप्तवन्तः । कल्पः - “उदपात्रेणोदुम्बरशाखया वोक्षति प्र वाता वान्ति” इति । पाठस्तु -
०६ - ०६ - ११०११९५. वाताः पुरो वायवः प्रवान्ति प्रकर्षेण गच्छन्ति । तेन वायवो विद्युतः पतयन्ति पतिताः कुर्वन्ति । ओषधीरोषधयश्चोज्जिहत उद्गच्छन्ति । सुवस्तन्निमित्तं सुखं पिन्वते वर्धते । विश्वस्मै भुवनाय सर्वप्राण्युपकारार्थमिराऽन्नं जायते । यद्यस्मात्कारणात्पर्जन्यो मेघः पृथिवीं रेतसा स्वकीयेनोदकेनावति रक्षति । तस्मात्पूर्वोक्तमन्नादिकमुपपन्नम् । कल्पः - “पात्र्यां सर्वौषधीः संयुत्याऽऽवपति - यथा यमाय " इति । पाठस्तु -
०६ - ०६ - ११०११९६. यथा यमलोके पञ्च मानवाः पञ्चसंख्याका मनुष्यरूपा मुख्या यमदूता हार्म्यं हर्म्यस्य योग्यं गृहोपकरणजातमवपन्संपादितवन्तः । एवमहमपि हार्म्यं हर्म्यस्य गृहस्य योग्यं गृहोपकरणभूतमोषधिजातं वपामि प्रक्षिपामि । यथा येन प्रकारेण जीवलोके जनसमूहे भूरयः प्रभूता वयमसाम भवाम तथा कुर्म इति शेषः । कल्पः - “चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्य” इति । पाठस्तु -
०६ - ०६ - ११०११९७. हे शर्करा यूयं चितः स्थ संपादिता भवथ । परिचितः स्थ परितः स्थापिता भवथ । ऊर्ध्वचितः सर्वाभ्य इष्टकाभ्य ऊर्ध्वं संपादिताः स्थ । तादृशीनां युष्माकं पितरो देवाता पितृदेवत्या यूयम् । प्रजापतिर्देवस्तादृशीर्वो युष्मान्सादयतु अत्र स्थापयतु । तथा प्रजापतिरूपया देवतयाऽङ्गिरस्वध्रुवाः सीदतेति शेषः । अङ्गिरोभिः स्थापिता यथा ध्रुवास्तथाऽत्रापि ध्रुवाः सत्यस्तिष्ठत । कल्पः - “आप्यायस्व समेतु त इति सिकता व्यूहति, उत्तरया त्रिष्टुभा राजन्यस्य” इति । उभयोः प्रतीके दर्शयति -
०६ - ०६ - ११०११९८. आप्यायस्व समेतु ते सं ते पयाँसि समु यन्तु वाजा इति मन्त्रद्वयं मा नो हिँसीर्जनितेत्यनुवाके व्याख्यातम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके षष्ठोऽनुवाकः ॥६॥अथ षष्ठप्रपाठके सप्तमोऽनुवाकः - कल्पः - “लोष्टान्प्रतिदिशमनन्वीक्षमाण उपदधाति - उत्ते तभ्नोमीत्येतैः प्रतिमन्त्रम्” इति । तत्र प्रथमामाह - ०६ - ०७ - ११०११९९. हे लोष्ट ते त्वदर्थं पृथिवीमुत्तभ्नोमि, उत्कर्षेण स्तब्धां करोमि । हे पृथिवि त्वत्परि तवोपरीमं लोकं लोक्यते दृश्यत इति लोको लोष्टस्तं निदधत्स्थापयन्नहं मोरिषं तव हिंसां मा करोमि । एतां लोष्टरूपां स्थूणां स्तम्भं ते तव भारो यथा न भवति तथा पितरो धारयन्तु । अत्रास्मिन्देशे यमो देवो हे लोष्ट ते तव सादनात्स्थापननिमित्तं मिनोतु स्थानं करोतु । अथ द्वितीयामाह -
०६ - ०७ - ११०१२००. हे लोष्टैतां भूमिमुपसर्प प्राप्नुहि । कीदृशम्, मातरं मातृस्थानीयाम्, उरुव्यचसं बहुविस्ताराम्, पृथिवीं प्रथितां प्रसिद्धाम्, सुशेवां सुष्ठु सेवितुं योग्याम् । ऊर्णम्रदा कम्बलवन्मृदुभूता युवतिर्नित्यतरुणी दक्षिणावती कौशलयुक्ता सैषा पृथिवी, उपस्थे स्वोत्सङ्गे निर्ऋत्याः पापदेवतायाः सकाशाद्धे लोष्ट त्वां पातु । अथ तृतीयामाह -
०६ - ०७ - ११०१२०१. हे पृथिवि लोष्टमेनमुछ्मञ्चस्वोत्कर्षेण सुखयुक्तं कुरु । मा विबाधिथा अस्य बाधां मा कार्षीः । अस्मै लोष्टाय सूपायनं निवासस्थानं भोग्यद्रव्यं वा यस्याः सा सूपायना । सुष्ठूपवञ्चनं स्वेच्छागमनं यस्याः सा सूपवञ्चना । तादृशी भव । यथा लोके माता पुत्रं सिचा वस्त्रेण प्रावृणोति तथैनं लोष्ठमभिवृणु, अस्य प्रावरणं कुरु । अथ चतुर्थीमाह -
०६ - ०७ - ११०१२०२. हे पृथिवि हि यस्मादुछ्मञ्चमानोत्कर्षेण सुखं कुर्वाणा तिष्ठसि । तस्मात्कारणान्मितो मीयमानाः सहस्रं लोष्टा उपश्रयन्तां त्वामाश्रयन्तु । एतं वा मुख्यं लोष्टमाश्रयन्तु । ते सर्वे लोष्टा मधुश्रुतो माधुर्यरसस्राविणो गृहा भूत्वा विश्वाहा सर्वेष्वप्यहः स्वस्मै स्थाप्यमानलोष्टाय शरणा अत्र रक्षितारः सन्तु । कल्पः - “तिलमिश्राभिर्धानाभिस्त्रिरपसव्यं परिकिरति - एणीर्धानाः” इति । पाठस्तु -
०६ - ०७ - ११०१२०३. या धानाः सन्ति ता एणीर्मिश्रवर्णा हरिणीर्हरितवर्णा अर्जुनीः श्वेतवर्णाश्च धेनवः सन्तु । तिला वत्सस्थानीया यासां तास्तिलवत्साः, तादृश्यो धाना अस्मै प्रेतायोर्जमन्नरसं दुहाना विश्वाहा सर्वेष्वहः स्वनपस्फुरन्तीरपस्फुरणेन प्रातिकूल्यप्रतिभासेन रहिताः सन्तु । कल्पः -“अभिवान्यायै दुग्धस्यार्धशरावे मन्थस्त्रिः प्रसव्योपमथित आमपात्रस्थस्तं दक्षिणत उपदधाति - एषा ते यमसादने” इति । पाठस्तु -
०६ - ०७ - ११०१२०४. हे प्रेत ते तव यमसादने यमस्य स्थाने गृह एषा मन्थरूपा स्वधाऽन्नात्मिका निधीयते स्थाप्यते । असौ हे देवदत्तनामक प्रेत ते तवाक्षितिर्नाम क्षयरहिता खलु । कल्पः - “समूलं बर्हिर्दक्षिणा स्तृणाति - इदं पितृभ्यः प्रभरेम बर्हिः” इति । पाठस्तु -
०६ - ०७ - ११०१२०५. इदं बर्हिः पितृभ्यः पित्रर्थं प्रभरेम प्रकर्षेण स्तृणीम । वयं तु जीवन्त एव तत्वमारोहासः परमार्थतत्वमारोढुकामा देवाभ्यो देवार्थमुत्तरमुद्गततरमतिशयेनोत्कृष्टतरं बर्हिर्भरेम संपादयाम । हे प्रेत त्वं यमेन यम्या च संविदान ऐकमत्यं गतो मेध्यो भव(म्) । अमृतसेवनयोग्यो भव । कल्पः - “पालाशान्परिधीन्परिदधाति - मा त्वा वृक्षाविति पूर्वापरावुत्तरया दक्षिणोत्तरौ” इति । तत्र प्रथमामाह -
०६ - ०७ - ११०१२०६. हे प्रेत त्वां वृक्षौ पूर्वापरपरिधिरूपावेतौ मा संबाधिष्टां बाधितं मा कुरुत(ता)म् । हे पृथिवि त्वमपि माता मातृस्थानीया सती मा बाधिष्ठाः । हि प्रसिद्धान्पितॄनत्र स्थाने गच्छासि हे प्रेत प्राप्नुहि । यमराज्ये यमस्य देश एधासमेधस्व वर्धस्व । अथ द्वितीयामाह -
०६ - ०७ - ११०१२०७. हे प्रेत त्वां वृक्षौ दक्षिणोत्तरपरिधिरूपावेतौ मा संबाधेथां संबाधितं मा कुरुताम् । माता मातृस्थानीया मही महती पृथिवी मा बाधिष्ट । हि प्रसिद्धं वैवस्वतं सूर्यपुत्रं यमं गच्छासि प्राप्नुहि । यमराज्ये यमस्य देशे विराजसि विशेषेण राजमानो भव । कल्पः - “मध्ये नलेषीकान्निदधाति - नळं प्लवम्” इति । पाठस्तु -
०६ - ०७ - ११०१२०८. नळशब्देन जलमध्ये समुत्पन्नस्तृणविशेष उच्यते । हे प्रेत त्वं नळं प्लवं तृणविशेषरूपं प्लवनहेतुमेतमारोह । तेन नलेन पथो मार्गानन्विहि त्वमनुक्रमेण प्राप्नुहि । स तादृशस्त्वं नल(ळ)प्लवो नळरूपेण प्लवेन युक्तो भूत्वा संतर पितृलोकमार्गरूपं समुद्रं सम्यक्तर । प्रतर प्रकर्षेण तर । उत्तरोत्कर्षेण तर । मार्गे नानाविधोपद्रवपरिहाराभिप्रायेण नानाविधं तरणमुच्यते । कल्पः - “पुराणेन सर्पिषा शरीराणि सुसंतृप्तानि संतप्योत्तरत आसीनोऽनन्वीक्षमाणो दर्भेषु निवपति - सवितैतानि शरीराणि” इति । पाठस्तु -
०६ - ०७ - ११०१२०९. एतानि शरीराणि शरीरावयवरूपाण्यस्थीनि मातृस्थानीयायाः पृथिव्या उपस्थ उत्सङ्गे सविता प्रेरको देव आदधे सर्वतः स्थापयति हे पृथिवि तेभ्योऽस्थिभ्यः शं सुखहेतुर्भव ।
०६ - ०७ - ११०१२१०. कल्पः - “अथैनमुपतिष्ठते - षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः” इति । षड्ढोतृसंज्ञको मन्त्राभिमानिनी देवोऽस्ति तदनुग्रहेण हे प्रेत त्वदीयं चक्षुः सूर्यं गच्छत्विति योजनीयम् । अयं च मन्त्रः प्रथमानुवाके व्याख्यातः । कल्पः - “भुक्तभोगेन वससाऽस्थिकुम्भं निमृज्योपर्युपरि शिरो दक्षिणा व्युदस्यति - परं मृत्यो अनुपरेहि पन्थामिति, अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत्” इति । पाठस्तु -
०६ - ०७ - ११०१२११. हे मृत्यो देवयानादितरो यः पन्थास्ते स्वस्तव स्वभूतः तं परं पन्थां देवयानादितरं तं मार्गमनुपरेहि अनुक्रमेण प्राप्नुहि । चक्षुष्मते साधुदर्शिने शृण्वतेऽस्मद्विज्ञप्तीनां श्रोत्रे ते तुभ्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां प्रजां पुत्रादिरूपां मा रीरिषो मा विनाशय । उतापि च वीराञ्शूरान्भृत्यानपि मा रीरिषः । कल्पः - “भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखया वोक्षति - शं वातः” इति । पाठस्तु -
०६ - ०७ - ११०१२१२. वातो वायुस्ते तव शं सुखं करोतु । घृणिर्दीप्यमान आदित्यो हि प्रसिद्धस्ते तव शं सुखं करोतु । ओषधयश्च ते तव शं सुखहेतवः सन्तु । दिशः सर्वा मे मम शग्माः सुखप्रापिकाः कल्पन्तां समर्था भवन्तु । कल्पः - “इष्टकाः प्रतिदिशमनन्वीक्षमाण उपदधाति - पृथिव्यास्त्वा लोके सादयामीत्येतैः प्रतिमन्त्रं प्रतिदिशं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम्” इति । तत्र प्रथममन्त्रमाह -
०६ - ०७ - ११०१२१३. हे इष्टके त्वां पृथिव्या लोके स्थाने स्थापयामि सादयामि । अमुष्य प्रेतस्य शर्मासि सुखहेतुरसि । पितरस्तव देवताः स्वामिभूताः । प्रजापतिर्देवस्त्वामत्र सादयतु स्थापयतु । तया प्रजापतिदेवतया स्थापिता सती ध्रुवा सीद यथाऽङ्गिरोभिः स्थापिता तद्वत् । अत्राङ्गिरस्वद्ध्रुवा सीदेत्येतावदध्याहर्तव्यम् । अथ द्वितीयादीन्षष्ठान्तान्पञ्च मन्त्रानाह -
०६ - ०७ - ११०१२१४. हे द्वितीयेष्टके त्वामन्तरिक्षस्य लोके सादयामीत्यनुषज्य पूर्ववद्व्याख्येयम् । हे तृतीयेष्टके त्वां दिवो लोके सादयामि । हे चतुर्थेष्टके त्वां दिशां लोके सादयामि । हे पञ्चमेष्टके त्वां नाकस्य पृष्ठे स्वर्गस्योपरि सादयामि । हे षष्ठेष्टके त्वां ब्रध्नस्याऽऽदित्यस्य विष्टपे स्थाने सादयामि । सर्वत्रानुष्ङ्गद्योतनाय सादयामीत्यादेः पुनः पाठः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके सप्तमोऽनुवाकः ॥७॥अथ षष्ठप्रपाठकेऽष्टमोऽनुवाकः - कल्पः - “एवं चरूनपूपवानिति प्रतिमन्त्रम्” इति । तत्र प्रथममन्त्रमाह - ०६ - ०८ - ११०१२१५.पक्वा भक्ष्याः पिष्टविकारा अपूपाः, ते यस्य चरोः सन्ति सोऽयमपूपवान् । तथा घृतवान्प्रभूतघृतयुक्तः । तादृशश्चरुरिहास्मिन्स्थाने पूर्वस्यां दिश्यासीदतु, उपविशतु । किं कुर्वन् । पृथिवीमेतामुत्तभ्नुवन्नूर्ध्वं स्तब्धां कुर्वन् । उतापि च द्यां द्युलोकमुपर्यूर्ध्वभाग उत्तभ्नुवन् । देवानां मध्ये ये देवविशेषा यूयमिहास्मिन्नुपधाने घृतभागाः स्थ घृतसेविनो भवथ, ये(ते) यूयं योनिकृतः स्थानकारिणः पथिकृतो मार्गकारिणश्च सन्तः सपर्यत परिचरत । असौ देवदत्तादिनामक हे प्रेत ते तव यमसादने यमस्य स्थाने गृह एषा स्वधैतच्चरुरूपमन्नं निधीयते नितरां स्थाप्यते । दशसंख्याकान्यक्षराणि मन्त्रविशेषरूपेण प्रतिपादकानि यस्यश्चरुरूपायाः स्वधायाः सन्ति सेयं दशाक्षरा तादृशी या स्वधा विद्यते तां स्वधां हे प्रेत रक्षस्व । तां गोपायस्व । स्वरूपस्योपद्रवाभावो रक्षणम् । भोगदशायामप्युपद्रवाभावो गोपायस्वेत्यनेनोच्यते । तां तादृशीं स्वधां ते तुभ्यं परिददामि । अत्र देवतारूपा ये पितरस्ते सर्वे तस्यां स्वधायां त्वां प्रेतं मा दभन्हिंसितं मा कुर्वन्तु । प्रजापतिरित्यादि पूर्ववत् । अथ दक्षिणादिमध्यमान्तचतुर्दिक्षु चरूपधानविषयान्मन्त्रानाह -
०६ - ०८ - ११०१२१६.अत्र शृतवानित्यादिपदचतुष्टयेन मन्त्रभेदो द्रष्टव्यः । शृतभागा इत्यादीन्यपि चत्वारि पदानि शताक्षरेत्यादीन्यपि चत्वारि पदानि चतुर्ष्वपि मन्त्रेषु विभज्य योजनीयानि । शृतं सम्यक्पक्वं पयः, क्षीरं पयोमात्रम् । अन्यत्पूर्ववत् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठकेऽष्टमोऽनुवाकः ॥८॥अथ षष्ठप्रपाठके नवमोऽनुवाकः - कल्पः - “तिलमिश्राभिर्धानाभिस्त्रिः प्रसव्यं परिकिरत्येतास्ते स्वधा अमृताः करोमि” इति । पाठस्तु -
०६ - ०९ - ११०१२१७. हे प्रेत ते त्वदर्थमत्रास्यां चितौ या धाना भृष्टतण्डुलरूपाः परिकिरामि परितो विक्षिपामि । एता धानास्ते त्वदर्थममृता विनाशरहिताः स्वधा अन्नरूपाः करोमि । यमो देवस्ते त्वदर्थं पितृभिः संविदान ऐकमत्यं गतः संस्ता धाना अत्र स्थाने कामदुघाः कामप्रापिका धेनुर्धेनुरूपाः करोतु । कल्पः - “ओषधिस्तम्बान्प्रतिदिशमनन्वीक्षमाण उपदधाति - त्वामर्जुनेति प्रतिमन्त्रम्” इति । तत्र प्रथमामाह -
०६ - ०९ - ११०१२१८. तेषु मन्त्रेष्वर्जुनदूर्वाकाशदर्भशब्दास्तृणविशेषवाचिनः प्रसिद्धाः । हेऽर्जुनाख्यस्तृण त्वां ब्रह्माणोऽभिज्ञा विप्रा ओषधीनां पय इत्सर्वासामोषधीनां सारमेव विदुर्जानन्ति । तासामोषधीनां मध्यात्सकाशात्त्वामादद आनीय स्थापयामि । किमर्थम्, चरुभ्योऽपिधातवे चरूणामपिधानार्थम् । अथ द्वितीयामाह -
०६ - ०९ - ११०१२१९. हे प्रेत दूर्वाणां संबन्धिनं स्तम्बमाहर स्वीकुरु । एतां दूर्वां मम स्वस्य प्रियतमां विद्धीति शेषः । मनुष्याणां संबन्धिनीमिमां दक्षिणां दिशमनु सा दूर्वा भूयिष्ठा प्रभूता विरोहतु विविधमङ्कुरमुत्पादयतु । अथ तृतीयामाह -
०६ - ०९ - ११०१२२०. हे प्रेत काशाख्यानां तृणानां स्तम्बमाहर स्वीकुरु । किमर्थम् - रक्षसामपहत्यै । एतस्यै पश्चिमाया दिशोऽघायवोऽघं पापमुपद्रवमिच्छन्तो ये वैरिणः पराभवन्पराभवकर्तार आसन् । ते वैरिणो यथा पुनर्नाभवन्न भविष्यन्ति तथा काशस्तम्बं स्वीकुरु । अथ चतुर्थीमाह -
०६ - ०९ - ११०१२२०. हे प्रेत दर्भसंबन्धिनं स्तम्बं स्वीकुरु । इमामोषधीं पितृणां प्रियां विद्धीति शेषः । अस्यै दर्भरूपाया ओषध्या मूलमनुजीवादनुक्रमेण जीवतु । तथा काण्डं फलं चानुक्रमेण जीवतु वर्धतामित्यर्थः । कल्पः - “लोकं पृणेति लोकंपृणा उपदधाति, उत्तरया पुरीषेणानुविकिरति” इति । तयोर्मन्त्रयोः प्रतीके दर्शयति -
०६ - ०९ - ११०१२२१. लोकं पृण च्छिद्रं पृणेत्येको मन्त्रः । ता अस्येति द्वितीयः । एतौ चोभावपेत वीतेत्यनुवाके व्याख्यातौ । कल्पः - “‌उदपात्रेणोदुम्बरशाखया वोक्षति - शं वातः” इति । पाठस्तु -
०६ - ०९ - ११०१२२२. अयं मन्त्रः सप्तमानुवाके व्याख्यातः । ते सर्वा इत्येतावानेव विशेषः । कल्पः - “उपतिष्ठत इदमेव” इति । पाठस्तु -
०६ - ०९ - ११०१२२३. इदानीं वर्तमानमिदमेवैकं कष्टं संपन्नम् । इतोऽपरां कांचिदप्यार्तिं माऽऽराम मा प्राप्नवाम । तदस्मदभीष्टमश्विभ्यां देवाभ्यां मित्रेण वरुणेन च तथा कृतं संपादितम् । कल्पः - “वारणशाखां पुरस्तान्निदधाति - वरणो वारयात्” इति । पाठस्तु -
०६ - ०९ - ११०१२२४. अयं वारणाख्यो वनस्पतिर्देव इदं कष्टं वारयान्निवारयतु । तथा स वनस्पतिरार्त्या अन्यस्या अपि बाधाया निर्ऋत्यै पापदेवताया द्वेषाच्च वैरिकृतात्पालयत्विति शेषः । कल्पः - “विधृतिलोष्टमुत्तरतो विधृतिरसि” इति । पाठस्तु -
०६ - ०९ - ११०१२२५. हे लोष्ट त्वं विधृतिर्विधारकोऽसि । अतोऽस्मत्तः सकाशादघा पापानि द्वेषांसि वैराणि च विधारय वियुज्यान्यत्र स्थापय । कल्पः - “शमीशाखां पश्चाच्छमि शमय” इति । पाठस्तु -
०६ - ०९ - ११०१२२६. हे शमि एतन्नामकवृक्ष, अस्मदस्मत्तोऽघा पापानि द्वेषांसि वैराणि च शमय । कल्पः - “यवं दक्षिणतो यव यवय” इति । पाठस्तु -
०६ - ०९ - ११०१२२७. पूर्ववद्व्याख्येयम् । कल्पः - “अथैनमुपतिष्ठते पृथिवीम्” इति । पाठस्तु -
०६ - ०९ - ११०१२२८. आरोहावरोहाभ्यां पृथिव्यादिस्वर्गपर्यन्तप्राप्तिवाक्यानि स्पष्टानि । अपो वेत्यादिस्तु प्रथमानुवाके व्याख्यातः । कल्पः - “जघनेन चितिं कर्ष्वादि समानम्” इति। तन्मन्त्राणां प्रतीकानि दर्शयति- ०६ - ०९ - ११०१२२९. एते च मन्त्रास्तृतीयानुवाके व्याख्याताः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके नवमोऽनुवाकः ॥९॥अथ षष्ठप्रपाठके दशमोऽनुवाकः
कल्पः - “नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामं श्मशानं चाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं रोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तद्वेतसमालिनो ज्ञातीनारोहयति - आरोहत” इति । पाठस्तु -
०६ - १० - ११०१२३०. हे ज्ञातयो यूयं जरसं गृणाना जरावस्थां प्रार्थ्यमाना आयुरायुषो हेतुभूतं चर्माऽऽरोहत । अनुपूर्वं ज्येष्ठमनु कनिष्ठो यथा भवति तथा यतमानाः प्रयत्नं कुर्वन्तो यतिष्टाऽऽरोहणप्रयत्नं कुरुत । इह कर्मणि त्वष्टा हविषां पापानां(च) तनूकर्ताऽयमग्निः सुजनिमा शोभनजन्मा सुरत्नो भक्तेभ्यो देयैः शोभनैः रत्नैरुपेतो वो युष्मभ्यं दीर्घमायुः करोतु । जीवसे जीवनाय । कल्पः - “अथैताननुपूर्वान्प्रकल्पयति - यथाऽहानि” इति । पाठस्तु -
०६ - १० - ११०१२३१. यथा लोकेऽहानि दिनान्यनुपूर्वं भवन्ति, प्रतिपद्द्वितीया तृतीया चेत्येवमनुक्रमेणैव वर्तन्ते । यथा च वसन्ताद्यृतव ऋतुभिरुत्तरोत्तरैः क्लृप्ताः संबद्धाः यन्ति गच्छन्ति प्रवर्तन्ते । यथा च पूर्वं पितरं ज्येष्ठं वाऽपरः पुत्रः कनिष्ठो वा न जहाति न परित्यजति । हे धातः प्रजापत एवैवमनेनैव प्रकारेणैषां ज्ञातीनामायूंषि कल्पय संपादय ।
०६ - १० - ११०१२३२. कल्पः - “अथ वारणस्रुवेण वारण्यां स्रुचि चतुर्गृहीतमाज्यं गृहीत्वा जुहोति - न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अत नः शोशुचदघं मृत्यवे स्वाहा” इति । हेऽग्ने ते तव तनुवै शरीरार्थं मर्त्यो मनुष्यः क्रूरमुग्रं व्यापारं न हि चकार । कपिः कपिवच्चेष्टाकारी मनुष्यः पुनस्तेजनमुत्तेजनं यथा भवति तथा बभस्ति दीपयति । तत्र दृष्टान्तः - गौरिव जरायु । यथा गौः स्वगर्भस्य रक्षार्थं जरायुपटं संपादयति न तु क्रूरं करोति तद्वत् । नोऽस्मदीयमघं पापमपशोशुचत्, अपगतं यथा भवति तथा दीप्यतां दह्यताम् । हेऽग्ने रयिं धनं शुशुध्यातिशयेन शुद्धं कुरु । पुनरपि नोऽस्माकं पापमपगतं यथा भवति तथा दह्यताम् । तदर्थं मृत्यवे देवाय स्वाहुतमिदमस्तु । कल्पः - “उत्तरेणाग्निं रोहितोऽनड्वान्प्राङ्मुखोऽवस्थितो भवति तं ज्ञातयोऽन्वारभन्तेऽनड्वाहम्” इति । पाठस्तु -
०६ - १० - ११०१२३३. स्वस्तये क्षेमायैतमनड्वाहं वयमन्वारभामहे हस्तेन स्पृशामहे । हेऽनड्वान्स त्वं देवेभ्यो देवार्थमिन्द्र इव नोऽस्मदर्थं वह्निर्वाहकः संपारणः सम्यक्पारं प्रति नेता च भव । कल्पः - “प्राञ्चो गच्छन्तीमे जीवाः” इति । पाठस्तु -
०६ - १० - ११०१२३४. इमे जीवा ज्ञातयो मृतैर्वियुज्याऽववर्तिन्नावृत्ताः । केनाभिप्रायेणेति तदुच्यते - अद्यास्मिन्दिने नोऽस्माकं भद्रा कल्याणरूपा देवहूतिर्देवानामाह्वानक्रियाऽभूद्भवति । नृतये मनुष्यक्षयनिमित्तं हसाय हास्यार्थं हर्षार्थमित्यर्थः । प्राञ्जः प्राञ्चः प्राङ्मुखाः सन्तोऽगाम वयं गच्छामः । कीदृशा वयं, द्राघीय आयुरत्यन्तं दीर्घमायुः प्रतरामतिप्रकर्षेण दधाना धारयन्तः । कल्पः - “जघन्यः शमीशाखया पदानि लोपयते - मृत्योः पदम्” इति । पाठस्तु -
०६ - १० - ११०१२३५. मृत्योर्मृत्युरूपस्यानडुहः पदं स्थानं योपयन्तो लोपयन्तो यदैम गच्छामस्तदा वयं पूर्ववद्द्राघीय आयुः प्रतरां(रा)(मति)प्रकर्षेण दधानाः प्रजया धनेन चाप्यायमाना वर्धमानाः सन्तः, यज्ञियासो यज्ञयोग्याः शुद्धाः शरीरशुद्धियुक्ताः पूता द्रव्यशुद्धियुक्ताश्च भवथ । हे ज्ञातय इति द्रष्टव्यम् । कल्पः - “अथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधाति - इमं जीवेभ्यः परिधिं दधामि” इति । पाठस्तु -
०६ - १० - ११०१२३६. इममश्मानं जीवेभ्यो जीवानामर्थे परिधिं परिधानहेतुं दधामि स्थापयामि । नोऽस्माकं मध्येऽपरो यः कोऽप्येतमर्धमायुषो भागं माऽनुगान्माऽनुगच्छतु । किंतु पुरूचीर्विस्तृतिं गताः शरदः संवत्सराञ्शतं जीवन्तु । पर्वतेन पर्वतसदृशेन पाषाणेन मृत्युं तिरो दद्महे तिरोभूतं कुर्मः । कल्पः - “अथैताः पत्नयो नयने सर्पिषा संमृशन्तीमा नारीः” इति । पाठस्तु -
०६ - १० - ११०१२३७. इमा नारीरेतास्त्रियोऽविधवा वैधव्यरहिताः सुपत्नीः शोभनपतियुक्ताः सत्य आञ्जनेनाञ्जनहेतुना सर्पिषा संमृशन्तां चक्षुषी संस्पृशन्तु । अनश्रवोऽश्रुरहिता अनमीवा रोगरहिताः सुशेवाः सुष्ठु सेवितुं योग्या जनयो जाया अग्र इतः परं योनिं स्वस्थानमारोहन्तु प्राप्नुवन्तु । कल्पः - “कुशतरुणकैस्त्रैककुदेनाञ्जनेनाङ्क्ते - यदाञ्जनम्” इति । पाठस्तु -
०६ - १० - ११०१२३८. हिमवतस्परि हिमवत्पर्वतस्योपरि जातमुत्पन्नं त्रैककुदं त्रिककुत्पर्वतसंबन्धि यदाञ्जनं विद्यते । अमृतस्य मूलेन सुखस्य कारणेन तेनाञ्जनेनारातीर्जम्भयामसि शत्रून्विनाशयामः । कल्पः - “अथैतानि कुशतरुणकानि समुच्छ्रित्य दर्भस्तम्बे निदधाति - यथा त्वम्” इति । पाठस्तु -
०६ - १० - ११०१२३९. हे ओषधे दर्भस्तम्ब पृथिव्या उपरि यथा त्वमुद्भिनत्सि, उत्पद्यसे । एवमिमे कुशाः कीर्त्यादिभिः सहोद्भिन्दन्तूत्पद्यताम् । कीर्तियशसोर्लोकद्वयगतत्वेन भेदः । कल्पः - “अयं चैतदहः पचते यवोदनं च - अजोऽसीत्यजस्य प्राश्नीयात्” इति । पाठस्तु -
०६ - १० - ११०१२४०. हे पक्वद्रव्य त्वमजोऽस्यजसंबन्ध्यसि । अतोऽस्मत्सकाशादघा पापानि द्वेषांसि वैराणि चाजापगमय । कल्पः - “यवोदनस्य च प्राश्नाति - यवोऽसि” इति । पाठस्तु -
०६ - १० - ११०१२४१. हे ओदन त्वं यवोऽसि यवसंबन्ध्यसि । अतोऽस्मत्तः सकाशादघा पापानि द्वेषांसि वैराणि च यवय पृथक्कुरु ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके दशमोऽनुवाकः ॥१०॥अथ षष्ठप्रपाठक एकादशोऽनुवाकः - पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तस्तदनन्तरमेवैतैर्मन्त्रैर्द्वादश स्रुवाहुतीर्जुहुयात् । तत्र प्रथमं मन्त्रमाह - ०६ - ११ - ११०१२४२. पूर्वानुवाके व्याख्यातो मन्त्रः । अथ द्वितीयामाह -
०६ - ११ - ११०१२४३. सुक्षेत्रिया शोभनक्षेत्रयोग्यया सुगातुया शोभनगतियोग्यया वसूया च धनप्राप्तिहेतुभूतयाऽप्यनयाऽऽहुत्या यजामहे पूजयामः । अप न इत्यादि पूर्ववत् । अथ तृतीयामाह -
०६ - ११ - ११०१२४४. यद्यदैषां ज्ञातीनां भन्दिष्ठोऽतिशयेन भद्रः पुरुषार्थः प्राप्यते, तदानीमास्माकासोऽस्मत्संबन्धिनः सूरयश्च विद्वांसोऽपि पुत्रपौत्रादयः प्राप्यन्ताम् । अथ चतुर्थमाह -
०६ - ११ - ११०१२४५. यच्छब्दः प्रसिद्धिवाची । यत्प्रसिद्धाः सूरयो विद्वांसः सहस्वतो बलवतोऽग्नेः सकाशात्प्रयन्ति प्रकर्षेण प्राप्नुवन्ति । अथ पञ्चममाह -
०६ - ११ - ११०१२४६. हेऽग्ने ये वयं ते तव सूरयः स्तोतृनामैतत् । प्रकर्षेण स्तोतारः । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहर्तव्यः । ते वयं प्रजायेमहि प्रजां प्राप्नुयाम तव प्रसादेन तव स्वभूताः । अथ षष्ठमाह -
०६ - ११ - ११०१२४७. हे विश्वतोमुख सर्वतो ज्वालायुक्ताग्ने त्वं विश्वतः सर्वत्र परिभूरसि वैरिणां परिभाविताऽसि । अथ सप्तममाह -
०६ - ११ - ११०१२४८. हेऽग्ने नोऽस्माकं द्विषो द्वेषिणो मुखा मुखानि विश्वतः सर्वस्माद्देशादतिपारयातीत्य परतो नय । तत्र दृष्टान्तः - नावेव यथा नावा परतस्तार(तः प्राप)यन्ति तद्वत् । यद्वा हे विश्वतोमुखाग्ने द्विषः शत्रूनतिपारयेति व्याख्येयम् । अथाष्टममाह -
०६ - ११ - ११०१२४९. हेऽग्ने स त्वं नोऽस्माकं स्वस्तये क्षेमायातिपर्ष दुःखजातमतीत्य परतः प्रापय । तत्र दृष्टान्तः नावया सिन्धुमिव यथा लोके नावा समुद्रं तारयन्ति तद्वत् । अथ नवममाह -
०६ - ११ - ११०१२५०. प्रवणान्निम्नदेशान्निमित्तभूताद्यतीर्निर्गता आप इवास्मत्तः सकाशादघं पापमपेत्य स्यन्दन्तां प्रवाहरूपेण गच्छतु । अथ दशममाह -
०६ - ११ - ११०१२५१. उद्वनादुन्नतप्रदेशस्थाद्वनात्सकाशात्कुल्यया समागतान्युदकानि यथा निम्नदेशं प्रति स्यन्दते तथाऽस्मत्तः सकाशादघमपेत्य स्यन्दताम् । अथैकादशमाह -
०६ - ११ - ११०१२५२. आनन्दाय मरणाभावनिमित्तसंतोषाय, प्रमोदाय विषयभोगनिमित्तप्रकृष्टहर्षाय, पुनरपि स्वकीयन्गृहान्प्रत्यागामागतोऽस्मि । अथ द्वादशमाह -
०६ - ११ - ११०१२५३. यत्र यस्मिन्देश इदं ब्रह्म पूर्वोक्तं होममन्त्रजातं जीवनाय जीवनार्थं कं सुखं यथा भवति तथा परिधिः परिधानं क्रियते । तत्र देशे गौरश्वो वा पुरुषोऽन्यो वा पशुर्नैव प्रमीयते सर्वथा न म्रियते । अतस्तदर्थं नोऽस्मदीयमघमपशोशुचत् । अपेत्य दग्धं भवतु ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठक एकादशोऽनुवाकः ॥११॥अथ षष्ठप्रपाठके द्वादशोऽनुवाकः - राजगव्या हननमुत्सर्गश्चेति द्वौ पक्षौ, तत्र हननपक्षे मन्त्राः पूर्वमेवोक्ताः । अथोत्सर्गपक्षे मन्त्रा उच्यन्ते । कल्पः - “यद्युत्सृजन्त्यपश्याम युवतिमाचरन्तीं सचस्वा नः स्वस्तय इत्यन्ताभिस्तिसृभिः प्रसव्यं राजगवीमग्नीन्प्रेतं दारुचितिं च परिणीय” इति । तत्र प्रथमामाह -
०६ - १२ - ११०१२५४. मृताय मृतपुरुषार्थं परिणीयमानां जीवां जीवन्तीं युवतीं(तिं) यौवनवत्पुष्टाङ्गीं युवतित्वेन भावितां वा वृद्धामाचरन्तीमागच्छन्तीं राजगवीं वयमपश्याम । या राजगवी त्वमन्धेन तमसा जरातिशयेन मरणभीत्या वा दृष्टिप्रसारणाभावे सत्यत्यन्तनिबिडेन तमसा प्रावृता भवसि । अरिष्ट्या अहिंसार्थं प्राचीं प्राङ्मुखीमवाचीमवाङ्मुखीं तां राजगवीमवयन्वयमवैमो जानीमः । अथ द्वितीयामाह -
०६ - १२ - ११०१२५५. मया भ्रियमाणा पोष्यमाणा राजगवी, एतां रक्षितां त्वां(स्वां) माँस्तां मन्यताम् । अहमनेन रक्षिता नतु मरिष्यामीत्येवं निश्चिनोत्वित्यर्थः । हे राजगवि यद्यस्मात्कारणादनेनोपाकरणमात्रेण देवी देवतात्मिका सती पितृलोकं प्रत्यैष्यागच्छसि । विश्ववारा सर्वैर्वरणीया प्रार्थनीया नभसाऽऽकाशमार्गेण संव्ययन्ती द्युलोकं संवृण्वती हे राजगवि तथाविधा त्वं नोऽस्माकमुभौ लोकावेतल्लोकपरलोकौ पयसा क्षीरेणाभ्यावृ(णाऽऽवृ)णीह्यावृतौ कुरु । क्षीरपूर्णौ कुर्वित्यर्थः । अथ तृतीयामाह -
०६ - १२ - ११०१२५६. हेऽग्ने वयं त्वामग्निं पयसा पयोमुख्यभोग्यद्रव्यनिमित्तमुपसँसदेम समीपे सम्यक्प्राप्नुयाम । कीदृशमग्निम् । रयिष्ठां धनेऽवस्थितं धनप्रदमित्यर्थः । मधुमन्तं मधुरद्रव्ययुक्तमूर्मिणमुत्कर्षयुक्तमूर्जस्व(र्जःस)न्तं बलवन्तम् । हेऽग्ने स्वस्तये क्षेमार्थं नोऽस्मान्रय्या धनेन संसचस्व सम्यग्योजय वर्चसा कान्त्याऽपि संसचस्व । कल्पः - “ये जीवा इत्यभिमन्त्र्य” इति । पाठस्तु -
०६ - १२ - ११०१२५७. ये जीवा अस्मत्कुले जीवन्तो ये पुरुषाः सन्ति ये च मृताः सन्ति येऽपीदानीं जाता उत्पन्ना ये च जन्त्या इतः परं जनयितव्याः, तेभ्यो धारयितुं तान्सर्वान्पोषयितुं घृतस्य संबन्धिनी मधुधारा मधुररसोपेता(धारा) तया धारया व्युन्दती विशेषेण क्लेदनयुक्ता (राजगवी) वर्तते । कल्पः - “माता रुद्राणामिति द्वाभ्यामुत्सृजन्ति” । तत्र प्रथमामाह -
०६ - १२ - ११०१२५८. इयं राजगवी रुद्राणामेकादशसंख्याकानां माता मातृस्थानीया । वसूनामष्टसंख्याकानां दुहिता पुत्रीस्थानीया । आदित्यानां द्वादशसंख्याकानां स्वसा भगिनीस्थानीया । अमृतस्य नाभिरैहिकस्याऽऽमुष्मिकस्य च सुखस्य नाभिस्थानीया । अतः कारणाच्चिकितुषे ज्ञानयुक्ताय जनायर्त्विक्समूहाय नु क्षिप्रं प्रवोचं प्रकर्षेण कथयामि । किं कथ्यत इति तदुच्यते - अनामामपराधरहितामदितिमखण्डनीयां गां राजगवीमनुस्तरणीरूपेणोपाकृतां मा वधिष्ट हे जना अस्या वधं मा कुरुत । अथ द्वितीयामाह -
०६ - १२ - ११०१२५९. इयं राजगवी यत्र क्वापि स्वेच्छयोदकं पिबतु । तृणानि च भक्षयतु । ओम्, वयमङ्गीकुर्मः । उत्सृजत हे जना बद्धामेनां राजगवीं परित्यजत ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठप्रपाठके द्वादशोऽनुवाकः ॥१२॥ इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये षष्ठः प्रपाठकः समाप्तः ॥६॥