अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकस्याऽऽरम्भः
ब्राह्मणग्रन्थस्य तृतीयकाण्डे द्वादशप्रपाठके ब्रह्म वै चतुर्होतार इत्यस्मिन्ननुवाके चातुर्होत्रचितेर्ब्राह्मणमुक्तं न तु तन्मन्त्रस्तत्रोक्ताः । तेषामरण्येऽध्येतव्यत्वात् । अतोऽस्मिन्प्रपाठके तन्मन्त्रा उच्यन्ते । तत्र प्रथमानुवाकोक्तमन्त्राणां विनियोगो ब्राह्मण एवं समाम्नातः पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्पदमिति । तत्पाठस्तु -
आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केनचिद्यागेनाऽऽध्यात्मिकेनेष्टवान् । तद्यागवर्तिनः स्रुगादय एतेषु मन्त्रेषु प्रतिपाद्यन्ते । अत्र चित्तिचित्तशब्दाभ्यां निर्विकल्पकसविकल्पकभेदजनकावन्तःकरणवृत्तिभेदौ विवक्षितौ । वाक्प्रसिद्धा । आधीतमुच्चार्यमाणम् । केतविज्ञातशब्दाभ्यां निर्विकल्पकसविकल्पकज्ञानविषयावभिधीयते । वाक्पतिशब्देन वाचः प्रवर्तकः कण्ठताल्वादिस्थानेषु संयुज्यमानो वायुरुच्यते । मनःपाणौ प्रसिद्धौ । सामशब्देनाध्येतुर्वर्णोच्चारणशक्तिरुच्यते । एवं चित्यादयो दश शरीरगताः पदार्थविशेषाः स्रुगादयो दश पदार्था होमनिष्पादकाः । अग्निशब्दद्वयेन चाऽऽहवनीयगार्हपत्यौ विवक्षितौ । उपवक्तृशब्देनानुववाचनकर्तुर्होतुः पुरा प्रैषवक्ता मैत्रावरुणो विवक्षितः । यद्वा प्रोक्षणादिष्वनुज्ञायां पृष्टायां ब्रह्मा समीपे स्थित ॐ प्रोक्षेत्यादिना तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्यादयः शरीरगतपदार्थाः स्रुगादिरूपा इति वाक्यार्थः । अस्मिन्मन्त्रे स्रुगादीनां होमसाधनानां दशानामभिहितत्वादयं मन्त्रो दशहोतेत्युच्यते । सोऽयं मन्त्रस्य पूर्वभागः । तस्य चावयवाः पृथगिष्टकामन्त्राः । तत्र चित्तिः स्रुक्तया देवतयाऽङ्गिरस्वध्रुवाऽऽसीदेत्येवमुपधानप्रकारो द्रष्टव्यः । एवमेता दशेष्टका उपधेयाः । मन्त्रस्य योऽयमुत्तरो भागो ग्रहाख्यस्तेन ग्रहेष्टकामुपदध्यात् । तथा च ब्राह्मणमाम्नातम् - यथावकाशं ग्रहानिति । तं च ग्रहभागमाह -
हे वाचस्पते वाचः पालक हे विधे जगद्विधातः, हे नामन्सर्वस्य वशीकर्तः, ते तव नाम विधेम । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रसिद्धिं कुर्मः । यद्वा नमनं प्रह्वीभावं सम्पादयामः । त्वमप्यस्माकं नाम विधेः, देवानां मध्ये यजमानोऽयं यथाशास्त्रं हुतवानिति प्रसिद्धिं कुरु । अयं वाचस्पतिर्मदीयेषु यागेषु सोमं सोमसदृशमाज्यं पिबतु । अस्मासु हेमकर्तृषु नृम्णमपेक्षितं धनमादात्सम्पादयतु । इमं वृत्तान्तमुद्दिश्य जुहुधीति स्वकीया वागाह । अत्र वाचस्पत इत्यादि नृम्णं धादित्यन्तो ग्रहभागः । एतेषां मन्त्राणामुपधाने विनियोगः प्रकरणसिद्धः, चातुर्होत्रब्राह्मणे वाचनिकश्च । इतरे तु विनियोगास्तत्र तत्र वाचनिकाः । ते च ब्राह्मणे द्वितीयकाण्डे द्वितीयतृतीयप्रपाठकयोः प्रपञ्चिताः । तेषु होमाहोमविषयभेदेन कश्चिद्विषय आपस्तम्बेन दर्शितः - “यत्र होमार्थाः सग्रहाः सस्वाहाकाराः, यत्राहोमार्था अग्रहा अस्वाहाकाराः” इति । सोऽयं न्याय उत्तरेष्वपि मन्त्रेष्वनुसंधेयः । तदेवमस्मिन्ननुवाके दशहोतृमन्त्रोऽभिहितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके प्रथमोऽनुवाकः ॥१॥अथ तृतीयप्रपाठके द्वितीयोऽनुवाकः
अथ चतुर्होतृमन्त्र उच्यते । तस्य च विनियोगो ब्राह्मणेनैवाभिहितः - दक्षिणतः प्राञ्चं चतुर्होतारमिति । तत्पाठस्तु -
सोऽयं होतृभागः । तत्र पृथिव्यादयः प्रसिद्धाः, तथा होत्रादयश्च । उपवक्तृशब्देन समीपे स्थित्वा तत्तत्कर्मस्वनुजानानो ब्रह्मा विवक्षितः । अथ ग्रहभागमाह -
हे वाचस्पतेऽत्यन्तसम्पादितेन मन्त्रात्मिकाया वाचः त्वमा समन्ताद्यक्ष्यसे । अस्मै यजमानाय वार्यं वरणीयं सुवः स्वर्गमाकरा समन्तात्कुरु । अयं वाचस्पतिरस्मदीयेषु यागेषु सोमं पिबति । इन्द्रं देवमिन्द्रियसमृध्यर्थं जजनज्जनयतु प्रेरयत्वित्यर्थः । तदेतदुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥२॥अथ तृतीयप्रपाठके तृतीयोऽनुवाकः
अथ पञ्चहोतृमन्त्र उच्यते । तद्विनियोगो ब्राह्मण एवमाम्नातः - पश्चादुदञ्चं पञ्चहोतारमिति । तत्पाठस्तु -
अग्न्यादयः प्रसिद्धाः । अध्वर्युः प्रतिप्रस्थाता चेत्येवमध्वर्युद्वित्वेन होतृपञ्चकं पूरणीयम् । अथ ग्रहभागानाह -
योऽयं देवतात्मकः सोमः सोऽयं लतात्मकस्य यागदेशं प्रत्यागमने पुरतो गच्छति । शुक्रो भासको देवतादिप्रकाशको मन्त्रः शुक्रस्य गृह्यमाणतया भासमानस्य सोमस्य पुरतो गच्छति । आदौ मन्त्रं पठित्वा पश्चात्सोमो गृह्यते । हे इन्द्र ते त्वदर्थमेते सोमाः श्राताः पक्वाः, आश्रिता वा । कीदृशस्य ते । वातवदाप्नोति सहसा गच्छतीति वातापिस्तस्य । हवनमाह्वानं शृणोतीति हवनश्रुत्तस्य । एतदर्थं जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके तृतीयोऽनुवाकः ॥३॥अथ तृतीयप्रपाठके चतुर्थोऽनुवाकः
अथ षड्ढोतृमन्त्र उच्यते । द्विविधस्तन्मन्त्रः । अस्मिंश्चतुर्थानुवाके प्रोक्तः सूर्यं ते चक्षुरित्येकः । षष्ठानुवाके प्रोक्तो वाग्घोतेत्यपरः । स एव चातुर्होत्रचयने प्रोक्तव्यः । वाग्घोता षड्ढोतॄणामित्येवं तद्ब्राह्मणे निर्देशात् । सूर्यं त इत्यस्य तु पशुबन्धादौ विनियोगः । स च होतृब्राह्मणकाण्डे पठ्यते । पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयादिति । तन्मन्त्रपाठस्तु -
हे पशो योऽयं सूर्यः स ते चक्षुः, यो वायुः स ते प्राणः । तथा च पशुविषयेऽध्रिगुप्रैषे समाम्नायते - सूर्यं चक्षुर्गमयात् । वातं प्राणमन्ववत्सृजतादिति । या द्यौः स पृष्ठभागः, उपरिवर्तित्वसाम्यात् । यदिदमन्तरिक्षं तत्त्वदीयो जीवात्मा, मध्यवर्तित्वसाम्यात् । यानि हृदयादीन्यङ्गानि तैर्यज्ञं सम्पादयसीति शेषः । यान्यन्यान्यस्थ्यादीनि शरीरगतानि तैः पृथिवीं प्राप्नुहीति शेषः । सूर्यं ते चक्षुरित्यादावपि त्वदीयं चक्षुः सूर्यं प्राप्नोत्विति वा योजनीयम् । अथवा वक्ष्यमाणं वाचस्पतिसम्बोधनमनूद्य ते चक्षुः सूर्यं प्राप्नोत्विति वा योजनीयम् । अथवा वक्ष्यमाणं वाचस्पतिसंबोधनमनूद्य ते चक्षुः सूर्यं रूपं जानीयादित्येवं वाचस्पतिपरतया मन्त्रे योज्यम् । होमनिष्पादकस्य पशोश्चक्षुरादीनि षडङ्गान्यत्रोक्तानीत्यस्य मन्त्रस्य षड्ढोतृत्वम् । अथ ग्रहभागमाह -
हे वाचस्पतेऽच्छिद्रया वाचा स्वराक्षरसम्पूर्णेन मन्त्रेण, अच्छिद्रया जुह्वाघृतसम्पूर्णया स्रुचा, देवावृधं देवानां वर्धयित्रीं होत्रां होमक्रियां दिवि एरयस्व सर्वतः प्रेरय । एतमर्थमुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥४॥अथ तृतीयप्रपाठके पञ्चमोऽनुवाकः
अथ सप्तहोतृमन्त्र उच्यते । तस्य च विनियोगश्चातुर्होत्रब्राह्मण एवमाम्नातः - “उपरिष्टात्प्राञ्चँ सप्तहोतारम्” इति । तत्पाठस्तु -
महाहविः सत्यहविरित्याद्या अयास्यान्ताः सप्तसंख्याका महर्षयः । तन्महर्षिस्वरूपा अत्रत्या होत्रादयः । यज्ञस्य सोमयागस्य । अभिगरौ, अभित उद्गातुः पुरस्तात्पश्चाच्च गृहीतप्रस्तारप्रतिहारभागौ गायेते इति प्रस्तोतृप्रतिहर्तारावभिगरौ । होताध्वर्युरग्नीध्रो ब्रह्मा प्रस्तोता प्रतिहर्तोद्गातेति सप्तसंख्याका होमनिष्पादका अत्रोक्ता इत्ययं मन्त्रः सप्तहोतेत्युच्यते । अथ ग्रहभागमाह -
हे वाचस्पते हे हृद्विधे हृदयस्य विधातः चित्तप्रेरकेत्यर्थः । हे नामन्सर्वजगत्सम्बन्धिप्रणामयुक्त ते तुभ्यं नाम नामनं प्रणतिं विधेम कुर्मः । त्वं चास्माकं नाम विधेः, देवानां मध्ये सम्यग्यष्टवानिति प्रसिद्धिं नामधेयं कुरु । अयं वाचस्पतिः सोममपात्पीतवान् । दैव्यस्तन्तुर्मद्गृहे हविःस्वीकारार्थमागतो देवसम्बन्धी सन्तानो मा च्छेदि कदाचिदपि विच्छिन्नो मा भूत् । तथा मनुष्यस्तन्तुर्ऋत्विक्प्रवाहोऽपि विच्छिन्नो मा भूत् । द्यावापृथिवीभ्यां नमोऽस्तु । तमिममर्थमुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥अथ तृतीयप्रपाठके षष्ठोऽनुवाकः
अथ द्वितीयः षड्ढोतृमन्त्र उच्यते । तस्य च विनियोगश्चातुर्होत्रब्राह्मणे समाम्नातः - “उत्तरतः प्राञ्चँ षड्ढोतारम्” इति । तत्पाठस्तु -
येयं यजमानस्य वाक्सेयं होतृस्थानीया । येयं दीक्षा सा पत्नीस्थानीया । योऽयं वातः प्राणरूपः सोऽध्वर्युस्थानीयः । याः प्रोक्षणाद्यर्था आपस्ता अभिगरो ब्रह्मस्थानीयाः । अभितो गिरति कर्तव्यमनुजानातीत्यभिगरः । यन्मनस्तद्धविःस्थानीयम् । तपस्यग्निस्थानीये तन्मनोहविर्जुहोमि स्थापयामि । अत्र वागादीनां षण्णां होत्रादिरूपेण होमनिष्पादकानामभिधानात्षड्ढोतृत्वम् । अथ ग्रहभागमाह -
य एते भूरादयस्त्रयो लोकास्तेषां यत्कारणं स्वयंभु स्वतः सिद्धं परं ब्रह्म तस्मै स्वयंभुवे परब्रह्मणे जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके षष्ठोऽनुवाकः ॥६॥अथ तृतीयप्रपाठके सप्तमोऽनुवाकः
अनन्तरभाविनोऽनुवाकस्य चातुर्मास्येषु केशनिवर्तनेषु तदृतं तत्सत्यमिति जपित्वा पश्चाज्जपमापस्तम्ब आह - “ब्राह्मण एकहोतेति चानुवाकम्” इति । तथा ब्रह्ममेधेऽनुपद्रवतोऽजस्यानुमन्त्रणे विनियोगं भरद्वाज आह - ब्राह्मण एकहोतेति चेति । एतदनुवाकगतेषु दशसु पर्यायेषु प्रथमं पर्यायमाह -
योऽयं वेदविद्ब्राह्मणः सोऽयमेकेन स्वकीयेन तपसा जुहोति सर्वस्य जगत उपकरोतीत्येकहोता । स एव ज्योतिष्टोमादिनिष्पादकत्वाद्यज्ञरूपश्च । स ईदृशो ब्राह्मणो मह्यं प्रजादिचतुष्टयं ददातु । तत्प्रसादाद्यज्ञोऽपि मे सर्वदा भूयात् । अथ द्वितीयं पर्यायमाह -
द्वाभ्यां पाकहविर्वहनाभ्यामुपकरोतीति द्विहोता । अत एव पोषकत्वाद्भर्ता । अन्यत्पूर्ववद्व्याख्येयम् । अथ तृतीयमाह -
त्रिभिरग्न्यन्नयागैरुपकरोतीति त्रिहोतृत्वं सर्वप्राण्याधारत्वेन प्रतिष्ठात्वं च । अथ चतुर्थमाह -
चतुर्भिर्वाग्वृष्ट्यवकाशस्थानैरुपकाराच्चतुर्होतृत्वं यक्षगन्धर्वादीनामाश्रयत्वाद्विविधस्थितिहेतुत्वं च । अथ पञ्चममाह -
पञ्चभिः प्राणवृत्तिभिरुपकरोतीति पञ्चहोतृत्वम् । वायोः प्राणरूपत्वं प्रसिद्धम् । अथ षष्ठमाह -
षण्णामृतूनां निष्पादकत्वेन षड्ढोतृत्वम् । चन्द्रमा हि वृद्धिक्षयाभ्यां शुक्लकृष्णपक्षद्वारर्तून्कल्पयति । अत एवन्यत्राऽऽम्नातम् - “ऋतूनन्यो विदधज्जायते पुनः” इति । अथ सप्तममाह -
सप्तानां शीर्षण्यानां प्राणवृत्तीनां पोषकत्वेन सप्तहोतृत्वम् । अत एव प्राणपोषकत्वात्प्राणस्य प्राण इत्युच्यते । अथाष्टममाह -
आरोगादिभिः कश्यपान्तैरष्टभिः सूर्यैरुपकरोतीत्यष्टहोतृत्वम् । द्युलोकस्य केनापि निराकर्तुमशक्यत्वादनाधृष्यत्वम् । अथ नवममाह -
पूर्वोक्तैरष्टभिर्भूतिभिस्तत्रानुगतेन सामान्यरूपेण च नवधोपकारान्नवहोतृत्वम् । तेजस्वित्वं चाऽऽदित्यस्य प्रसिद्धम् । अथ दशममाह -
नव वै पुरुषे प्राणा नाभिर्दशमीति श्रुतानि शरीरगतानि दश च्छिद्राण्युत्पाद्योपकारित्वाद्दशहोतृत्वम् । सर्वजगत्कारणत्वेन सर्वात्मकत्वं प्रजापतेः प्रसिद्धम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके सप्तमोऽनुवाकः ॥७॥अथ तृतीयप्रपाठकेऽष्टमोऽनुवाकः
अथ संभारयजूंष्युच्यन्ते । तेषां चेष्टकोपधाने विनियोगश्चातुर्होत्रीयब्राह्मणेऽभिहितः - “हृदयं यजूँषि पत्न्यश्च” इति । तेषामेकविंशतिसंख्याकानां यजुषां पाठस्तु -
अत्राग्निसवित्रादयो देवा यजुःस्तोमादीनि यज्ञे सम्भरणीयान्यङ्गानि । एते देवास्तैः संभरणीयैः सहास्मिन्कर्मण्यागच्छन्त्विति वाक्यार्थः । उक्थामदशब्दः शस्त्रवाची । यज्ञशब्दो हविष्प्रक्षेपवाची । स्वगाकारः शंयुवाकमन्त्रः । पुरोधा ग्रहणकाले पठनीया ऋक्पुरोवाक् । पवित्रशब्दो दशापवित्रवाची । अयं यजमानः श्रद्धया सहाऽऽगच्छामि । स्पष्टमन्यत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥अथ तृतीयप्रपाठके नवमोऽनुवाकः
अथ देवपत्न्याख्या मन्त्रा उच्यन्ते । तेषां च विनियोगः पूर्ववद्द्रष्टव्यः । पत्न्यश्चेत्येवं तत्र पत्नीष्टकानामभिधानात् । पाठस्तु -
देवजाताविन्द्रादयः पतयः, सेनादयः पत्न्यः । दिग्विदिगादयोऽपि केषांचिद्देवानां पत्न्यः । एताः सर्वा आगत्य यज्ञमविकलं कुर्वन्त्विति वाक्यार्थः । अत्राऽऽम्नातैः षड्विंशतिवाक्यैः षड्विंशतिसंख्याकाः पत्नीष्टका उपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके नवमोऽनुवाकः ॥९॥अथ तृतीयप्रपाठके दशमोऽनुवाकः
अथ प्रतिग्रहमन्त्रा उच्यन्ते । तैश्च प्रतिग्रहेष्टकोपधानं चातुर्होत्रीयब्राह्मण एवमाम्नातम् - “यथावकाशं प्रतिग्रहाल्ँ लोकं पृणाश्च” इति । तत्र प्रथमं मन्त्रमाह -
हे प्रतिगृह्यमाणद्रव्य सवितुर्देवस्य प्रेरणे सत्यश्विसम्बन्धिभ्यां बाहुभ्यां पूषसम्बन्धिभ्यां हस्ताभ्यां त्वां प्रतिगृह्णामि । हे दक्षिणे देवि वरुणो राजा हिरण्यरूपां त्वामग्नये प्रापयतु । तेनाग्निप्रापणेन प्रग्रहदोषाभावादहममृतत्वं नरकाभावरूपं प्राप्नुयाम् । इयं च दक्षिणा दात्रे वयोऽस्तु पक्षिरूपिणी भूत्वा दातारं स्वर्गं नयत्वित्यर्थः । प्रतिग्रहीत्रे मह्यं मयः सुखमस्तु । इदं द्रव्यं कः प्रजापतिः कस्मै प्रजापतयेऽदाद्दत्तवान्, अन्तर्यामिरूपेण दातृप्रतिग्रहीत्रोः प्रेरकत्वात् । तथा कामः कामाय दत्तवान् । यथा प्रजापतिरदृष्टप्रेरकस्तथा कामस्य दृष्टप्रेरकत्वात् । तस्मात्काम एव दाता प्रतिग्रहीता च । स्वर्गादिफलविषयः कामो दाता, ऐहिकसुखविषः कामः प्रतिग्रहीता । ततो हे दक्षिणे समुद्रसमं कामं प्रविश । कामेन निमित्तेन त्वां प्रतिगृह्णामि । हे मद्धृदयवर्ति काम तदेतद्द्रव्यं तुभ्यं भवति । हे काम ते त्वत्प्रीतय एवैषा दक्षिणा प्रवृत्ता । अङ्गिरोगोत्रे समुत्पन्नस्य उत्तानाख्यो महर्षिस्त्वां प्रतिगृह्णातु । अथ वस्त्रादिविषयान्षोडशमन्त्रानाह -
एतेषु सर्वेषु मन्त्रेषु देवि दक्षिण इत्यन्तः पूर्वानुषङ्गः । तेनामृतत्वादिकमित्युत्तरानुषङ्गः । तस्य रथप्रतिग्रहमन्त्रस्य शेषभूतामुत्तरानुषङ्गात्पूर्वभाविनीं कांचिदृचमाह -
वैश्वानराख्यो देवः प्रत्नथा पुरातनशरीरधारी सन्स्वर्गमारूढवान् । स च दिवः पृष्ठं द्युलोकस्योपरिभागे मन्मभिर्मननविशेषैर्भन्दमानः कल्याणं कुर्वन्वर्तते । अयं यजमान इमां दक्षिणां दत्तवानित्येवं वदन्देवानामग्रे स्मारयतीत्यर्थः । स वैश्वानरो जन्तवे प्राणिरूपाय यजमानाय धनं पूर्ववज्जनयत्, पूर्वं यथा दक्षिणां दत्तवांस्तथैव तदनुरूपं फलं जनयति । स वैश्वानरो जागृविः सावधानः सन्नज्मा स्वर्गगमनशीलः समानं परियाति, यावद्दक्षिणार्थं द्रव्यं तेन सदृशं तद्योग्यं फलं परिप्रापयति । अस्या ऋच उपरितनं रथप्रतिग्रहमन्त्रशेषमाह -
अत्र तेनामृतत्वमश्यामित्यादिरुत्तरानुषङ्गः सर्वमन्त्रसाधारण इति दर्शयितुं प्रथममन्त्रे पठितोऽपि पुनराम्नातो राजा त्वेत्यादिर्वैश्वराय रथमित्यन्तः पूर्वोक्ताया ऋच उपरि रथमन्त्रे पुनः पठनीयः, इत्येतावान्विशेषः । एतैर्मन्त्रैः प्रतिग्रहेष्टका उपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके दशमोऽनुवाकः ॥१०॥अथ तृतीयप्रपाठके एकादशोऽनुवाकः
अथ होतृहृदयाख्या मन्त्रा अभिधीयन्ते । तेषां त्विष्टकोपधाने विनियोगश्चातुर्होत्रीयब्राह्मण एवमाम्नायते - “हृदयं यजूँषि पत्न्यश्च” इति । तत्र दशहोतृहृदयाख्यं मन्त्रमाह -
चित्तिः स्रुगित्यादीनां होतृमन्त्राणां हृदयं रहस्यं तत्वं परमात्मस्वरूपं प्रतिपादयतीत्ययमनुवाको हृदयमित्युच्यते । तत्रानेन मन्त्रेण दशहोतृहृदयं परमात्मतत्वमुच्यते । अयं मन्त्रद्रष्टा, इन्द्रस्य परमेश्वरस्याऽऽत्मानं निजस्वरूपं परिवेद परितः सर्वत्रावस्थितं जानामि । कीदृशमात्मानम् । सुवर्णं सुवर्णसदृशं यथा सुवर्णं स्वत एव प्रकाशमानं भवति तथा स्वयंप्रकाशम् । घर्ममन्यस्य वस्तुनो दीपकम्, “तस्य भासा सर्वमिदं विभाति” इति श्रुतेः । वेनं कान्तं सर्वदुःखराहित्येन तस्य कमनीयत्वम् । दशधा चित्तिः स्रुगित्यादिदशहोतृमन्त्रे प्रतिपादितैराकारैः । चरन्तं लोके व्यवहरन्तम् । अन्तः समुद्रे ब्रह्माण्डसृष्टेः पुरा सर्वत्र व्याप्यावस्थितो योऽयं जलसङ्घः सोऽयं समुद्रस्तस्य मध्ये मनसा चरन्तम्, इदं सर्वं जगत्सृजेयेत्येवंरूपेण मनोवृत्तिविशेषेण सह प्रवर्तमानम् । अत एवान्यत्रोक्तम् - “आपो वा इदमासन्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति” इति । ब्रह्मा चतुर्मुखः प्रजापतिरर्णेऽर्णवे यथोक्तसमुद्रे दशहोतारं दशहोतृमन्त्रं तत्प्रतिपाद्यरूपेणाऽऽविर्भूतं परमात्मानमन्वविन्दत् । सृष्टिसाधनत्वेनान्विष्य लब्धवान् । तथा च ब्राह्णणे समाम्नातम् - “प्रजापतिरकामयत प्रजाः सृजेयेति । स एतं दशहोतारमपश्यत्” इति । सोऽयमेवंविधः परमात्मा जनानां सर्वेषां शास्ताऽऽन्तर्यामिरूपेण नियामकः सन्हृदये प्रविश्यावस्थितः । तथा च स्मर्यते -
“ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया” इति ।
स चान्तर्यामी स्वकीयेनेश्वररूपेणैक एव सन्पुनर्जीवरूपेण बहुधा भूत्वा विचारो विविधचरणवान्भवति । अत एवान्यत्रोपनिषदि श्रूयते -
“एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” इति ।
शतं शुक्राणि शतसंख्योपलक्षितान्यनन्तानि सूर्यचन्द्रनक्षत्ररूपाणि ज्योतींषि यत्र यस्मिन्परमात्मन्येकं भवन्ति, एकत्वं प्राप्नुवन्ति । तथा सर्वे वेदा ऋग्वेदप्रभृतयश्चत्वारो वेदा नानाविधशाखोपेता विलीय यस्मिन्नेकीभवन्ति । होतारश्च होमकर्तारः सर्वे यजमाना दशहोत्रादिमन्त्रा वा यस्मिन्परमात्मन्येकत्वं प्राप्नुवन्ति । यथा बुद्बुदा जलमध्ये समुत्पद्य कंचित्कालमवस्थाय विलीयमाना जल एवैक्यं प्राप्नुवन्ति । तथा सर्वे भावाः परब्रह्मण एवोत्पद्य तत्रैव स्थित्वा विलीयमाना एकतां गच्छन्ति । अत एवोपनिषदि श्रूयते - “यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति” इति । स तादृश ईश्वरः सर्वेषां जनानामात्मा स्वरूपभूतः सन्मानसीनो योगयुक्तेन मनसोपलभ्यो भवति । तथा च कठा अधीयते - “मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन” इति । ततो योगिनां मानसप्रत्यक्षगम्यत्वात् । अन्तः प्रविष्टः शास्ता जनानामिति योऽयमुक्तः सोऽयं सर्वात्मा सर्वेषां प्राणिनामात्मा स्वरूपभूतः । तं हि जना योगेन निरुद्धचित्ताः सन्तो जगदीश्वरं स्वस्वरूपत्वेनैव साक्षात्कुर्वन्ति न तु भेदेन पश्यन्ति, अतः पूर्वोक्तः सर्वोऽप्यर्थ उपपन्न इत्युपसंह्रियते । सर्वाः प्रजा देवमनुष्यादयो यत्र यस्मिन्योगिप्रत्यक्षगम्ये चैतन्यैकरसे परमात्मन्येकीभवन्ति, चातुर्होतृमन्त्राश्च सर्वे यस्मिन्स्वप्रतिपाद्यैर्देवैः सह यस्मिन्ब्रह्मणि सम्पदं सम्यगेकीभावं प्राप्नुवन्ति । स तादृशो ब्रह्मस्वरूपो मानसीनो मानसप्रत्यक्षः सर्वेषां जनानामात्मा । ऋचां भेदादपुनरुक्तिर्द्रष्टव्या । द्वितीया द्विपदेतरास्तिस्रश्चतुष्पदा इत्यृचां विवेकः । अत्र चातुर्होतृशब्देन दशहोत्रादयः सर्वेऽपि मन्त्रा विवक्ष्यन्ते । तथा च ब्राह्मणे चतुर्होतृदेवं प्रति प्रजापतिर्वरं दत्तवान् - “त्वं वै मे नेदिष्ठँ हूतः प्रत्यश्रौषीः । त्वयैनानाख्यातार इति । तस्मान्नुहैनाँश्चतुर्होतार इत्याचक्षते” इति । तदेवं दशहोतृहृदयाख्यो मन्त्रोऽभिदितः । अथ चतुर्होतृहृदयाख्यो मन्त्रोऽभिधीयते । तत्र तिस्र ऋचस्तासु प्रथमामाह -
ब्रह्मा चतुर्मुख इन्द्रं परमैश्वर्ययुक्तं परमात्मानं तपसाऽन्वविन्दत्, अन्विष्य लब्धवान् । दर्शपूर्णमाससृष्टिसाधनं किमिति विचार्य चतुर्होतृमन्त्ररूपेणावस्थितं परमात्मानं निश्चितवानित्यर्थः । तथा च ब्राह्मण आम्नायते - “प्रजापतिरकामयत दर्शपूर्ममासौ सृजेयेति । स एतं चतुर्होतारमपश्यत्” इति । कीदृशमिन्द्रम् । जगतः प्रतिष्ठाम्, अग्निं सर्वस्य जगत आधाररूपो योऽयं चातुर्होत्रीयचितिरूपोऽग्निस्तत्स्वरूपम्, दिव आत्मानं सवितारं द्युलोकस्य प्रकाशकत्वेनाऽऽत्मवदवस्थितो यः सविता तद्रूपम्, तथा बृहस्पतिं योऽयं देवगुरुस्तद्रूपेणावस्थितम्, प्रदिशः सर्वान्प्रदेशाननुक्लृप्तं सर्वेषु प्रदेशेष्ववस्थितम्, चतुर्होतारं पृथिवी होतेत्यादिमन्त्रस्वरूपम्, वाचो वीर्यं सर्वस्वं देवरूपाया वाचः सारभूतम् । अथ द्वितीयामृचमाह -
कवयो विद्वांसो वेदशास्त्रपारङ्गताश्चतुर्होतृणां चतुर्होतृशब्देनाभिधीयमानानां सर्वेषां होतृमन्त्राणामात्मानं स्वरूपभूतं परमेशवरं निचिक्युः, निश्चितवन्तः । कीदृशमात्मानम् - अन्तः प्रविष्टं जीवरूपेण शरीरेषु प्रविश्यावस्थितम् । अत एवाऽऽम्नायते - “अनेन जीवेनात्मनाऽनुप्रविश्य” इति । कर्तारमेतमित्यनेन मानसप्रत्यक्षेण प्रतीयमानं लौकिकवैदिकसर्वक्रियानिष्पादकम् । एतच्चान्यत्राऽऽम्नातम् - “एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इति । रूपाणि विकुर्वन्तं त्वष्टारं गर्भेषु देवतिर्यङ्मनुष्यादिरूपाणि विविधं निष्पादयन्तं त्वष्टृदेवस्वरूपम् । एतदप्याम्नातम् - “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत्प्रजायते” इति । विविधं विपश्चितं तत्तद्रूपनिर्माणप्रकाराभिज्ञम्, अमृतस्य प्राणं मरणरहितस्य परमात्मनो व्यवहारहेतुभूतप्राणोपाधिस्वरूपम् । एतदप्याथर्वणिका आमनन्ति - “कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत” इति । यज्ञं सर्वैरनुष्ठीयमानत्वेन दृश्यमानमेतं दर्शपूर्णमासयज्ञस्वरूपं चतुर्होतृमन्त्रस्य तद्यज्ञसृष्टिसाधनत्वात्तद्रूपत्वं युक्तम् । तद्यज्ञसाधनत्वं ब्राह्मणे समाम्नातम् - “स एतं चतुर्होतारमपश्यत् । तं मनसाऽनुद्रुत्याऽऽहवनीयेऽजुहोत् । ततो वै स दर्शपूर्णमासावसृजत” इति । अथ तृतीयामाह -
योऽयं परमात्मा सोऽयं देवानां बन्धुवत्प्रियस्तादृशम् । तेषु देवेषु पक्षपातेन विजयहेतुत्वं तलवकारा आमनन्ति - “ब्रह्म ह देवेभ्यो विजिग्ये” इति । गुहासु बुद्धिषु निहितं साक्षित्वेनावस्थितम् । “यो वेद निहितं गुहायाम्” इत्यादिश्रुतेः । अमृतेन स्वर्गफलनिमित्तेन क्लृप्तं सम्पादितम् । एतं यज्ञमित्यादि पूर्ववत् । तदेवमृक्त्रयरूपं चतुर्होतृहृदयमुक्तम् । अथ पञ्चहोतृहृदयाख्यो मन्त्रोऽभिधीयते । तत्र तिस्र ऋचस्तासु प्रथमामाह -
पञ्चहोताऽग्निर्होतेत्यादिपञ्चहोतृमन्त्ररूप आत्मा स च विश्ववारः सर्वैर्वरणीयो वायुरूपः सञ्शतं नियुतः शतसंख्याकान्स्वकीयान्स्वान्परिवेद परितः सञ्चारित्वेन जानाति । अत एवेदं विश्वं जगद्वृणाति व्याप्नोति । सोऽयमिन्द्रस्याऽऽत्मा परमेश्वरस्य स्वरूपभूतः सन्निहितः सर्वत्रावस्थितः । स च देवानाममृतं प्रजानां चाऽऽयुः प्रयच्छतीति शेषः । अथ द्वितीयामाह -
एवं पञ्चहोतृदेवं कवयः पण्डिता निचिक्युः, निश्चितवन्तः । कीदृशम् । इन्द्रं परमैश्वर्ययुक्तम् । राजानं दीप्यमानम् । सवितारं प्रेरकम् । वायोरात्मानं स्वरूपभूतम् । ते कवय एतं पञ्चहोतृदेवमृतस्य पदे ब्रह्मणः स्थाने निपान्ति नितरां पालयन्ति, तद्रूपत्वेन पश्यन्तीत्यर्थः । कीदृशम् । रश्मीनां दृश्यमानानां किरणानां मध्ये स्थित्वा तपन्तं जगतस्तापं कुर्वन्तम् । रश्मिं प्रौढरश्मिरूपम् । आदित्यमित्यर्थः । अथ तृतीयामाह -
यः पञ्चहोतृदेव आण्डकोशे ब्रह्माण्डमध्येऽनिर्भिण्णः सन्नभेदेनावस्थितः सन्भुवनं कृत्स्नं भूतजातं बिभर्ति धारयति । अथ ब्रह्माण्डभेदानन्तरं तदन्तःस्थितान्भूरादिलोकान्विचष्टे विशेषेण प्रख्यापयति । यस्य पञ्चहोतृरूपस्य परमात्मनः शुष्ममाण्डकोशं प्रबलं ब्रह्माण्डावकाशस्थं प्राणं वायुविशेषमुल्बमाहुः, गर्भवेष्टनस्थानीयमाहुः । यथा लोके गर्भ उल्बेन वेष्ट्यते तथा सूत्रात्मशरीरं प्राणवायुना ब्रह्माण्डस्थेन वेष्टितं भवति । तेनामृतेन पञ्चहोतृरूपेण परमात्मनाऽहं क्लृप्तो व्यवहारसमर्थत्वेनोत्पादितोऽस्मि । अथ षड्ढोतृहृदयमन्त्रः । तत्र प्रथमामृचमाह -
वाग्घोतेति मन्त्रोऽत्र षड्ढोता, स च ब्रह्माण्डकोशमध्ये चन्द्ररूपेणावस्थितः । तंद्ररूपं षड्ढोतृत्वं कवयोऽभिज्ञाः सुवर्णत्वादिगुणयुक्तमाचक्षते । सुवर्णं शोभनवर्णोपेतं चन्द्रमण्डलं हिरण्मयवर्णोपेतं भासते । कोशं ब्रह्माण्डकोशमध्यगम् । रजसा रञ्जनात्मकेनामृतेन परीवृतं सर्वतो व्याप्तम् । तथाविधं चन्द्रम् । तामु कलां तादृशीमेव भागरूपां विचक्षत आचक्षते । कीदृशीमिति तदुच्यते - देवानां वसुधानीं वह्निरव्यादीनां देवतानामपेक्षितं यद्वस्वमृतरूपं तस्य धारयित्रीम् । अत एव स्मर्यते - “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः” इत्यादि । विराजं विशेषेण राजमानाम् । अमृतस्य पूर्णां पीयूषेण पूरिताम् । एवंरूपं षड्ढोतृदेवमभिज्ञा आचक्षते । प्राकृतस्तु जनः षड्ढोतुः पादं षड्ढोतृदेवस्याङ्गभूतं चन्द्रं न किलाऽऽविवित्से नैव जानाति । अथ द्वितीयामाह -
येन चन्द्ररूपेण षड्ढोतृदेवेन वसन्ताद्यृतवः पञ्चप्रकाराः क्लृप्ताः सम्पादिताः । हेमन्तशिशिरयोः समासेन पञ्चत्वम् । उत वा षड्ढा(धाऽ)थवा हेमन्तशिशिरयोर्विभागेन षट्प्रकाराः क्लृप्ताः । उतापि च मनसा क्लृप्ताः, संकल्पमात्रेण सम्पादिताः । तं चन्द्ररूपं षड्ढोतृदेवमृषिभिःकल्पमानं पञ्चधा षोढा वा भिन्नैर्वसन्तादिभिः सर्वव्यवहारसमर्थमृतस्य पदे सत्यस्य परब्रह्मणः स्थाने कवयो वेदरहस्याभिज्ञा निपान्ति नितरां पालयन्ति, परब्रह्मैवायं चन्द्ररूपः षड्ढोतेत्येवमुपासत इत्यर्थः । अथ तृतीयामाह -
देवाः सर्वे सहैव सन्तं स्वकीयहृदये स्वेन जीवात्मना सहैवावस्थितमेतं षड्ढोतृदेवं परमात्मानं न विजानन्ति, वेदान्ताभ्यासमन्तरेण हृदयेऽवस्थितोऽयं परमात्मैवेति विशेषेण न जानन्ति । कीदृशं परमात्मानम् । अन्तःप्रविष्टमन्तर्यामिरूपेण सर्वेषां पृथिव्यादिपदार्थानां मध्येऽवस्थितम् । एतच्च वाजसनेयिनोऽन्तर्यामिब्राह्मणे - “यः पृथिव्यां तिष्ठन्” इत्यादिना बहुप्रपञ्चेनाऽऽमनन्ति । कर्तारं नियामकत्वेन सर्वस्य निष्पादकम् । अन्तश्चन्द्रमसि चन्द्रमण्डलमध्ये मनसा संकल्पमात्रेण चरन्तम् । एतच्चोपलक्षणं सर्वेष्वपि वस्तुषु चरन्तमित्यर्थः । एतदेव स्पष्टीकर्तुं शतधा चरन्तमित्युक्तम् । इन्द्रस्य परमैश्वर्ययुक्तस्य देवादेरात्मानं स्वरूपभूतम् । अथ सप्तहोतृहृदयाख्यो मन्त्रः । तत्र प्रथमामृचमाह -
महाहविर्होतेत्ययं मन्त्रः सप्तहोता । स च सप्तधा विक्लृप्तः, होत्रध्वर्युप्रमुखैः सप्तभिः प्रकारैः सम्पादितः । स किं रूप इति तदुच्यते - इन्द्रः परमैश्वर्ययुक्तः । राजा दीप्यमानः । यः परमात्मा जगत ईशे स्वामी भवति । स एवायं सप्तहोतृरूप इत्यर्थः । अथ द्वितीयामाह -
ब्रह्मा प्रजापतिर्देवानामिन्द्रादीनां हृदयं हृदयस्थितं परमात्मानमन्वविन्दत् । अन्विष्य लब्धवान् । कीदृशम् । तन्तुं परेणाविच्छिन्नस्य यज्ञस्य परस्तात्फलदशायां परिषिच्यमानं वृष्टिरूपेण परितः सिच्यमानम् । अन्तरादित्य आदित्यमण्डलमध्ये मनसा संकल्पमात्रेण चरन्तम् । अथ तृतीयामाह -
ब्रह्मा चतुर्मुखः प्रजापतिर्ब्रह्मणो वेदस्य सकाशादेतत्सप्तहोतृस्वरूपमुज्जभार सारत्वेनोद्धृतवान् । कीदृशम् । अर्कं सूर्यरूपेणावस्तथितं, सरिरस्य मेघस्थजलस्य मध्ये रशमिद्वारा प्रविश्य श्चोतन्तं वर्षयन्तम् । अथ चतुर्थीमाह -
यस्मिन्सप्तहोतृरूपं आदित्ये पेरवो वृष्टिप्रदानेन लोकस्य पातारः सप्तसंख्याका रश्मय आश्रिताः । रश्मिसप्तकं च साकञ्जानां सप्तथमाहुरेकजमित्यत्र प्रपञ्चितम् । ते च सप्तरश्मयो बहुलां श्रियं प्रभूतां सस्यादिसम्पदं मेहन्ति वृष्टिसेचनद्वारेण सम्पादयन्ति । हे इन्द्र सप्तहोतृदेवरूप परमेश्वर बह्वश्वां बहुभिरश्वैरुपेतां गोमतीं बहुभिर्गोभिरुपेतां तां श्रियं प्रयच्छेति शेषः । अथ पञ्चमीमाह -
स देवः सप्तहोत्राख्य इन्द्राय कर्मस्वामिने यजमानाय श्रियं पिन्वते सिञ्चति, प्रयच्छतीत्यर्थः । कीदृशः स देवः, हरिः पापहरणशीलः, वसुवित्तमोऽतिशयेन धनस्य लब्धा, पेरुः पालकः । कीदृशीं श्रियम्, अच्युतां विनाशरहितां, बहुलां गवाश्वादिभिः प्रभूताम् । अथ षष्ठीमाह -
इन्द्रः परमैश्वर्ययुक्तः सप्तहोतृदेवः । स्पष्टमन्यत् । अथ सप्तमीमाह -
अस्याऽऽदित्यरूपस्य सप्तहोतृदेवस्य हरीणामन्धकारहरणशीलानां रश्मीनां शतँ शता शतसंख्याकानि शतानि, अयुतसंख्याकानीत्यर्थः । युक्ता युक्तानि सम्पादितानि । इन्द्रः परमैश्वर्ययुक्तो रश्मिर्बहुविधरश्मियुक्त आदित्यो वसुभिर्धनैः सहार्वाङायातु आभिमुख्येनाऽऽगच्छतु । आगतश्च सविता बहुलां श्रियं प्रभूतां धनादिसम्पदं मे मह्यं नियच्छतु नितरां ददातु । कीदृसः सविता, प्रमँहमाणोऽस्मदीयस्तुतिभिः प्रकर्षेण वर्धमानः रश्मिर्बहुविधरश्मियुक्तः इन्द्रः परमैश्वर्ययुक्तः । अथाष्टमीमाह -
अयं सप्तहोतृदेवोऽग्न्यात्मकः सन्मयि यजमाने मधुमद्घृतं मधुररसोपेतं घृतादिद्रव्यं तेजः कान्तिमिन्द्रियं चक्षुरादिसामर्थ्यं च दधातु सम्पादयतु । अथ नवमीमाह -
हरिरन्धकारहरणशीलः पतङ्गः सूर्यरूपः पटरी तेजःपटलवान्सुपर्णः पक्षिसदृशो दिविक्षयः स्वर्गनिवासी यः सप्तहोतृदेवो नभसाऽऽकाशमार्गेणैति गच्छति । स देवो नोऽस्माकं कामवरं कामानां मध्ये श्रेष्ठं ददातु । अथ दशमीमाह -
ऋतुपञ्चकात्मका अरा यस्य कालचक्रस्य तत्पञ्चारं पृथु विस्तृतं चक्रं संवत्सरात्मकं कालचक्रं परिवर्तते परितः प्रवर्तते । सरिरस्य मध्ये मेघवर्तिजलस्य मध्ये हिरण्यज्योती रश्मिसञ्चारेण विद्युद्रूपपरिणामे सति सुवर्णसमानं ज्योतिर्यस्य मण्डलस्य तद्धिरण्यज्योतिस्तादृशं ज्योतिरादित्यमण्डलं संवत्सरचक्रनिष्पादकमजस्रं निरन्तरं नभसाऽऽकाशमार्गेण सर्पदेति शनैः सञ्चरन्ग(माणं ग)च्छति । स ज्योतिर्मण्डलात्मा नोऽस्माकं कामवरं ददातु । अथैकादशीमाह -
सप्तसंख्याकाः साकञ्जानामित्यत्रोक्ता मुख्यरश्मिविशेषा अश्वसदृशा एकचक्रमेकप्रकारपरिवर्तं कालचक्रं युञ्जन्ति प्रवर्तयन्ति । तदेव स्पष्टीक्रियते - सप्तनामा सप्तसंख्यानि नामानि नमनयोग्यानि वश्यानि रश्मिरूपाणि यस्यासौ सप्तनामा । अश्वो व्यापक एकः सूर्यस्तत्कालचक्रं वहति । कीदृशं चक्रम् - त्रिनाभि तिस्रः सत्वरजस्तमोगुणरूपा भूतभविष्यद्वर्तमानरूपा वा नाभयो यस्य तत्त्रिनाभि । अजरं विनाशरहितम्, न हि कालः संसारमध्ये कदाचिद्विनश्यति । अनर्वम्, अर्वा विरोधी विनाशको भ्रातृव्यो वा अर्वेति श्रुतेः, तद्रहितम्, न हि कालचक्रस्य कश्चिद्विनाशकोऽस्ति । येन कालचक्रेणेमा विश्वा भुवनानि दृश्यमानानि सर्वाणि भूतजातानि तस्थुस्तिष्ठन्ति सुखेन वर्तन्ते, तस्य कालचक्रस्य निर्वाहकोऽयं सप्तहोतृदेव आदित्यः । अथ द्वादशीमाह -
सुवर्विदः स्वर्गमार्गाभिज्ञा ऋषयो भद्रं कल्याणं सप्तहोतृरूपमादित्यं पश्यन्तः प्राप्यत्वेन निश्चिन्वानास्तपोऽनशनादिरूपं दीक्षां नियमविशेषं चोपसेदुरनुष्ठितवन्तः । तत आदित्यसकाशात्क्षत्त्रं क्षतात्त्राणमनिष्टनिवारणं बलं शरीरशक्तिरोजः कान्तिश्चेत्येतत्सर्वं जातं संपन्नम् । तत्क्षत्त्रादित्रयमस्मै यजमानाय देवा अभिसंनमन्तु । अभितः सम्पादयन्तु । अथ त्रयोदशीमाह -
परमे व्योमन्नुत्कृष्टे हृदयाकाश इन्द्रं परमैश्वर्ययुक्तं सप्तहोतृदेवमादित्यं निचिक्युर्निश्चितवन्तः, ध्यातवन्त इत्यर्थः । कीदृशमिन्द्रम् - श्वेतं प्रकाशरूपत्वेन शुक्लवर्णम् । रश्मिं रशमियुक्तम् । बोभुज्यमानं सर्वैः प्राणिभिर्वृष्टिद्वारेण पुनः पुनर्भुज्यमानम् । एतदेव स्पष्टीक्रियते - अपां नेतारम्, आदित्याज्जायते वृष्टिरिति स्मृत्या सूर्यो जलस्य नेता तादृशम्, भुवनस्य गोपां भुवनस्य पालकम् । अथ चतुर्दशीमाह -
रोहिणी रोहितवर्णाः पिङ्गलाः पिङ्गलवर्णाश्च या आपस्तत्तद्भूमिसम्बन्धेन बहुविधा दृश्यन्ते, ताः सर्वा अपि सप्तहोतृरूपस्याऽऽदित्यस्य रशमिसंबन्धे सति मेघेषु नानारूपत्वं परित्यज्यैकरूपा भवन्ति । तथा क्षरन्तीर्वृष्टिरूपेण भूमौ पतन्त्यास्ताः पिङ्गलादिवर्णा आप एकरूपा भवन्ति । वृष्टिबाहुल्येन भूमौ नाव्यानां नावा तरणीयानामपां शतं सहस्राणि प्रयुतानि शतसंख्या बहुविधसहस्रसंख्या बहुविधलक्षसंख्या च सम्पद्यते । वृष्टिकाले तत्र तत्रानेकप्रवाहा भवन्ति । तदेतत्सर्वं सप्तहोतृमाहात्म्यम् । अथ पञ्चदशीमाह -
अयमादित्यः श्वेतः श्वेतवर्णो रश्मी रश्मियुक्तोऽस्ति । सोऽयं सर्वमिदं जगत्परिव्याप्य वर्तमानोऽस्माकं प्रजादिकं ददातु । अथ षोडशीमाह -
श्वेतः शुक्लवर्णो रश्मी रशमियुक्त आदित्यः सर्वं जगत्परिबभूव परितो व्याप्तवान्, तादृश आदित्यो मह्यं विश्वरूपान्गोमहिष्यादिरूपेण बहुविधान्पशून्सुवत्सौतु, प्रेरयत्वित्यर्थः । अथ सप्तदशीमाह -
असून्प्राणान्राति ददातीत्यसुरः परमात्मा, तस्य माययाऽचिन्त्यशक्त्याऽक्तमभिव्यक्तं पतङ्गमादित्यं हृदा मनसा हृत्पुण्डरीकगतेन नियमितेनान्तःकरणेन मनीषिणो वेदशास्त्राभिज्ञा महर्षयः पश्यन्ति ध्यात्वा साक्षात्कुर्वन्ति । कवयो लौकिकवार्ताभिज्ञाः पुरुषाः समुद्रे अन्तः समुद्रसमानेऽन्तरिक्षमध्ये विचक्षते विशेषेण कथयन्ति, अयमादित्य उदितो मध्याह्ने समागत इत्यादिव्यवहारं कुर्वन्ति । वेधसो विधातारोऽनुष्ठानकुशलाः केचिद्यजमाना मरीचीनां पदं रश्मीनां स्थानमादित्यमिच्छन्ति । आदित्यसायुज्यप्राप्त्यर्थमनुतिष्ठन्तीत्यर्थः । अथाष्टादशीमाह -
पतङ्ग आदित्यो मनसा स्वकीयेन प्राणिनां वाचं बिभर्ति धारयति, अन्तर्यामिरूपेण वाचं प्रेरयतीत्यर्थः । तथा च पौराणिका आहुः - “योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना” इति । तामादित्यप्रेरितां वाचं गर्भे अन्तः शरीरस्य मध्ये गन्धर्वनामको वायुरवददुच्चारयति । गन्धान्वहतीति व्युत्पत्या गन्धर्वशब्दो वायुमाचष्टे । वायुर्हि ताल्वादिसंयुक्तो वाचमुच्चारयति । तां वायुनोच्चारितां द्योतमानां प्रकाशमानां स्वर्यं स्वर्गस्य हेतुभूतां मनीषां मनस ईशित्रीमाह्लादकरीमित्यर्थः । तादृशीं वाचं कवयः शास्त्राभिज्ञा ऋतस्य पदे सत्यस्य परब्रह्मणः स्थाने निपान्ति नितरां पालयन्ति । परब्रह्मविषयाणि वेदवाक्यानि सर्वदा पठन्तीत्यर्थः । तदेतत्सर्वं वाचः प्रेरकस्याऽऽदित्यस्य माहात्यम् । अथैकोनविंशीमाह -
ये पशवो ग्राम्या ग्रामे भवा गवाश्वादयो विश्वरूपा जातिभेदैर्बहुविधा विरूपा वर्णादिभेदेन विविधाकारा एवं बहुधा दृश्यमानाः सन्तोऽपि पुनः पशुत्वाकारेणैकरूपास्तान्सर्वानग्निरूपः सप्तहोतृदेवोऽग्रे प्रमुमोक्तु प्रथमं तत्तत्स्थानात्प्रमुञ्चतु, प्रमुच्यास्मभ्यं पशून्ददात्वित्यर्थः । प्रजापतिश्च स्वकीयया प्रजया संविदान ऐकमत्यं गतोऽस्मभ्यं पशून्ददात्विति शेषः । अथ विंशीमाह -
हेऽग्निप्रजापती युवमुभौ युवां स्तुके स्तुके तत्तद्गवाद्यपत्ये वीतं प्रजननमुत्पत्तिमस्मासु नियच्छतं नियमेन सम्पादयतम् । यज्ञपतिं यजमानं प्रप्रतिरात्यन्तं प्रकर्षेण वर्धयतम् । अथैकविंशीमाह -
ग्राम्यादिशब्दाः पूर्ववद्योज्याः । तेषां ग्राम्यपशूनां सप्तानां गोश्वाजाविपुरुषगर्दभोष्ट्ररूपाणां सप्तसंख्याकानामिहास्मद्गृहे रन्तिः क्रीडाऽस्तु । तच्च धनपुष्टिशोभनापत्यशोभनवीर्यार्थं सम्पद्यते । अथ द्वाविंशीमाह -
अरण्ये भवा आरण्या द्विखुरा श्वापदादयस्तानरण्याधिपतिर्वायुः प्रमुमोक्तु । अन्यत्पूर्ववत् । अथ त्रयोविंशीमाह -
इडायै गोसम्पादनार्थं सृप्तं प्राप्तं घृतवद्घृतयुक्तं घृताकारमित्यर्थः । तादृशं चराचरं स्थावरजङ्गमरूपं जगदनुग्रहीतुं गुहाहितं प्राणिनां बुद्धाववस्थितं सप्तहोतृदेवं देवा अन्वविन्दन्नन्विष्य लब्धवन्तः । अथ चतुर्विंशीमाह -
सप्तानां द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनामधेयानाम् । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके एकादशोऽनुवाकः ॥११॥अथ तृतीयप्रपाठके द्वादशोऽनुवाकः
एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः । नारायणनाम्ना पुरुषसूक्तनाम्ना च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्ब आह - “पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरोऽस्याः शिरो भवति, सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते” इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह - “नारायणाभ्यामुपस्थानम्” इति । अयं चोत्तरश्चेत्युभावनुवाकौ नारायणसंज्ञौ नारायणाख्येन केनचिदृषिणा दृष्टत्वात्, जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रतिपादकत्वाच्च । तत्रास्मिन्द्वादशेऽनुवाके प्रथमामृचमाह -
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा, सहस्रशब्दस्योपलक्षणत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवमक्षिषु पादेष्वपि योजनीयम् । स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वतो वृत्वा सर्वतः परिवेष्ट्य दशाङ्गुलपरिमितं देशमत्यतिष्ठदतिक्रम्य स्थितः । दशाङ्गुलमित्युपलक्षणं ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः । अथ द्वितीयामाह -
यद्भूतमतीतं जगत्, यच्च भव्यं भविष्यज्जगत् । यदपीदं वर्तमानं जगत्, तत्सर्वं पुरुष एव । यथाऽस्मिन्कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः, तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यम् । उतापि चामृतत्वस्य देवत्वस्यायमीशानः स्वामी । यद्यस्मात्कारणादन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेनातिरोहति स्वकीयकारणावस्थामतिक्रम्य परिदृश्यमानां जगदावस्थां प्राप्नोति । तस्मात्प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुतत्वमित्यर्थः । अथ तृतीयामाह -
अतीतानागतवर्तमानरूपं जगद्यावदस्त्येतावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकीयसामर्थ्यविशेषो न तु तस्य वास्तवं स्वरूपम्, वास्तवस्तु पुरुषः, अतो महिम्नोऽपि ज्यायानतिशयेनाधिकः । एतच्च स्पष्टीक्रियते । विश्वा भूतानि कालत्रयवर्तीनि प्राणिजातानि यस्य पुरुषस्य पादश्चतुर्थोंऽशः । अस्यावशिष्टं त्रिपात्स्वरूपममृतं विनाशरहितं सद्दिवि द्योतनात्मके स्वप्रकाशरूपेऽवतिष्ठते । यद्यपि सत्यं ज्ञानमनन्तं ब्रह्मेत्याम्नातस्य परब्रह्मण इयत्ताया अभावादंशचतुष्टयं न निरूपयितुं शक्यं तथाऽपि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षित्वा पादत्वोपन्यासः । अथ चतुर्थीमाह -
योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितब्रह्मस्वरूपः सोऽयमूर्ध्व उदैदस्मादज्ञानकार्यात्संसाराद्बहिर्भूतः सन्नत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान् । तस्य योऽयं पादो लेशः सोऽयमिह मायायां पुनराभवत् । सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः परमात्मांशत्वं भगवताऽप्युक्तम् - “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” इति । ततो मायायामागत्यानन्तरं विष्वङ्देवतिर्यगादिरूपेण विविधः सन्व्यक्रामाद्व्याप्तवान् । किं कृत्वा साशनानशने अभिलक्ष्य शासनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातमनशनं तद्रहितमचेतनं गिरिनद्यादिकं तदुभयं यथा स्यात्तथा स्वयमेवंविधो भूत्वा व्याप्तवानित्यर्थः । अथ पञ्चमीमाह -
विष्वङ्व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते - तस्मादादिपुरुषाद्विराडजायत ब्रह्माण्डदेह उत्पन्नः । विविधं राजन्ते वस्तून्यत्रेति विराट् । विराजो अधि विराड्देहस्योपरि स्थितमेव देहमधिकरणं कृत्वा पुरुषस्तद्देहाभिमानी कश्चित्पुमानजायत । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयया मायया विराड्देहं ब्रह्माण्डं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवत् । एतच्चाऽऽथर्वणिका उत्तरतापनीये स्पष्टमामनन्ति - “स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव” इति । स जातो विराट्पुरुषोऽत्यरिच्यतातिरिक्तोऽभूत्, विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् । पश्चाद्देवादिजीवभावादूर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि । अथ षष्ठीमाह -
पूर्वोक्तक्रमेण देवशरीरेषूत्पन्नेषु ते देवा उत्तरसृष्टिसिध्यर्थं तत्साधनत्वेन यज्ञमतन्वत कंचिद्यज्ञमन्वतिष्ठन् । बाह्यद्रव्यस्याद्याप्यनिष्पन्नत्वेन हविरन्तरासम्भवात्पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य तेन पुरुषाख्येन(ण) हविषा यद्यदा मानसं यज्ञमकुर्वत तदानीमस्य यज्ञस्य वसन्तर्तुरेवाऽऽज्यमभूत्, तमेवाऽऽज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्म इध्मत्वेन संकल्पितः । शरत्पुरोडाशादिहविष्ट्वेन संकल्पिता । पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन संकल्पो वसन्तादीनां त्वाज्यादिरूपत्वेनेति द्रष्टव्यम् । अथ सप्तमीमाह -
अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन्, ऐष्टिकस्याऽऽहवनीयस्य त्रयः परिधय औत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः । अत एवाऽऽम्नायते - “न पुरस्तात्परिदधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षाँस्यपहन्ति” इति । त एत आदित्यसहिताः सप्तपरिधयोऽत्र सप्तच्छन्दोरूपाः । तथा समिधस्त्रिःसप्त त्रिगुणितसप्तसंख्याका एकविंशतिः कृताः । “द्वादश समाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविँशः” इति श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यद्यः पुरुषो वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपा यज्ञं तन्वाना मानसयज्ञं कुर्वाणाः पशुमबध्नन्विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र - “पुरुषेण हविषा” इत्युक्तम् । अथाष्टमीमाह -
यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्प्रोक्षितवन्तः । कीदृशम्, अग्रतः सर्वसृष्टेः पूर्वं पुरुषं जातं पुरुषत्वेनोत्पन्नम् । एतच्च पूर्वमेवोक्तम् - “तस्माद्विराडजायत विराजो अधि पूरुषः” इति । तेन पुरुषरूपेण पशुना देवा अयजन्त मानसयागं निष्पादितवन्तः । के ते देवा इति त एवोच्यन्ते साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्राणरूपास्तदनुकूला ऋषयो मन्त्रद्रष्टारश्च ये सन्ति ते सर्वेऽप्ययजन्त । अथ नवमीमाह -
सर्वहुतः सर्वात्मकः पुरुषो यस्मिन्यज्ञे हूयते सोऽयं सर्वहुतस्तादृशात्पूर्वोक्तान्मानसाद्यज्ञात्पृषदाज्यं संभृतं सम्पादितम् । दधि चाऽऽज्यं चेत्येवमादिभोग्यजातं सम्पादितमित्यर्थः । तथा वायव्यान्वायुदेवताकाल्ँ लोकप्रसिद्धानारण्यान्पशूश्चक्र उत्पादितवान् । आरण्या द्विखुरादयस्तथा ये ग्राम्या गवाश्वादयस्तानप्युत्पादितवान् । पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातम् - “वायवस्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिददाति” इति । अथ दशमीमाह -
छन्दांसि गायत्र्यादीनि । स्पष्टमन्यत् । अथैकादशीमाह -
अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये केचिदूर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति तेऽप्यश्ववदजायन्त । तथा गावोऽजाश्चावयश्च ते सर्वेऽप्युत्पन्नाः । अथ द्वादशीमाह -
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते - प्रजापतेः प्राणरूपा देवा यद्यदा पुरुषं विराड्रूपं व्यदधुः सङ्कल्पेनोत्पादितवन्तः । तदानीं कतिधा कतिभिः प्रकारैर्व्यकल्पयन्विविधं कल्पितवन्तः । एष सामान्यरूपः प्रश्नः । मुखं किमित्यादयो विशेषप्रश्नाः । अन्यत्स्पष्टम् । अथ त्रयोदशीमाह -
योऽयं ब्राह्मणत्वजातिविशिष्टः पुरुषः सोऽयमस्य प्रजापतेर्मुखमासीत्, मुखादुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्त्रियजातिः स बाहुत्वेन निष्पादितः बाहुभ्यामुत्पादित इत्यर्थः । तत्तदानीं यौ प्रजापतेरूरू तद्रूपो वैश्यः संपन्नः, ऊरुभ्यामुत्पन्न इत्यर्थः । तथा पद्भ्यां शूद्र उत्पन्नः । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः सप्तमकाण्डे “स मुखतस्त्रिवृतं निरमिमीत” इत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे उभे अपि तत्परत्वेनैव योजनीये । अथ चतुर्दशीमाह -
यथा दध्याज्यादिद्रव्याणि गवादिपशव ऋगादिवेदा ब्राह्मणादिमनुष्याश्च तस्मादुत्पन्नाः, एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । चक्षोश्चक्षुषः । अथ पञ्चदशीमाह -
यथा देवास्तस्मादुत्पन्नास्तथा लोकानप्यन्तरिक्षादीन्प्रजापतेर्नाभ्याद्यवयवेभ्योऽकल्पयन्नुत्पादितवन्तः । अथ षोडशीमाह -
यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते । तत्र मन्त्रद्रष्टा स्वकीयं ध्यानानुभवं प्रकटयति - यद्यः पुरुषः सर्वाणि रूपाणि देवमनुष्यशरीराणि विचित्य विशेषेण निष्पाद्य नामानि च देवोऽयं मनुष्योऽयं पशुरयमित्यादीनि कृत्वाऽभिवदंस्तैर्नामभिरभितो व्यवहरन्नास्ते, एतं पुरुषं विराजं महान्तं सर्वगुणैरधिकमादित्यवर्णमादित्यवत्प्रकाशमानं वेदाहं जानामि, ध्यानेन सर्वदाऽनुभवामीत्यर्थः । स च पुरुषस्तमसःपारेऽज्ञानात्परस्ताद्वर्तते । अतो गुरुशास्त्रोपदेशरहितैर्मूढैरनुभवितुमशक्य इत्यर्थः । अथ सप्तदशीमाह -
धाता प्रजापतिर्यं विराट्पुरुषमुदाजहार ध्यातॄणामुपकारार्थं प्रख्यापितवान् । चतस्रः प्रदिशश्चतुर्दिक्षुवर्तिनः सर्वान्प्राणिनः प्रविद्वान्प्रकर्षेण जानञ्शक्र इन्द्रस्तदनुग्रहार्थं प्रख्यापितवान् । धातुरिन्द्रस्योपदेशात्तं विराट्पुरुषमेवमुक्तप्रकारेण विद्वान्साक्षात्कुर्वन्निहास्मिन्नेव जन्मन्यमृतो मरणरहितो भवति । यदा विराट्पुरुषोऽहमिति साक्षात्करोति तदानीं वर्तमानदेहस्य तत्स्वरूपत्वाभावात्तन्मरणेनायमुपासको न म्रियते । अयनायामृतत्वप्राप्तयेऽन्यः पन्था यथोक्तविराट्पुरुषसाक्षात्कारमन्तरेणान्यो मार्गो न विद्यते । न हि कर्मसहस्रैरप्यमृतत्वं सम्पादयितुं शक्यते । “न कर्मणा न प्रजया धनेन” इत्यादिशास्त्रात् । अथाष्टादशीमाह -
अत्र कृत्स्नानुवाकतात्पर्यं संक्षिप्योपन्यस्यति - देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन संकल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात्पूजनात्तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यभूतान्यासन् । एतावता सृष्टिप्रतिपादकोऽनुवाकभागार्थः सङ्गृहीतः । अथोपासनतत्फलरूपोऽनुवाकभागार्थः संगृह्यते - यत्र यस्मिन्विराट्प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडुपास्तिसाधका देवाः सन्ति तिष्ठन्ति तं नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानस्तदुपासका महात्मानः सचन्ते समवयन्ति प्राप्नुवन्ति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके द्वादशोऽनुवाकः ॥१२॥अथ तृतीयप्रपाठके त्रयोदशोऽनुवाकः
अथोत्तरनारायणाख्यः कश्चिदनुवाकस्तस्य च विनियोगं पुरुषमेध आपस्तम्ब आह - “उत्तरनारायणेनाऽऽदित्यमुपस्थाय” इति । तत्र प्रथमामृचमाह -
योऽयं विराड्रूपो नारायणाख्यः पुरुषः सोऽयमद्भ्यः सम्भूतः सर्वत्र व्याप्तेषु जलेषु क्षीरमध्ये मण्डवद्ब्रह्माण्डगोलकमुत्पन्नम् । न केवलमद्भ्य एव किंतु पृथिव्यै रसाच्च भूम्याः सम्बन्धी योऽयं रसः सारस्तस्मादप्युत्पन्नः । “मण्डस्य योऽयं घनीभावः स पार्थिवः ये च तन्मध्ये द्रवांशास्त आप्याः, यत्कठिनं सा पृथिवी, यद्द्रवं तदापः” इत्यादिश्रुतेः । विश्वकर्मणो जगत्कर्तुः परमेश्वरादधिसमवर्तताऽऽधिक्येन निष्पन्नो योऽयं ब्रह्माण्डाभिमानी चेतनः पुमान्सोऽयमीश्वरांशस्तस्य विराट्पुरुषस्य रूपं चतुर्दशलोकरूपावयवसंस्थानं विदधन्निष्पादयंस्त्वष्टा विश्वकर्मा जगदीश्वरः । एति प्रवर्तते । पुरुषस्य विराडाख्यस्य सम्बन्धि तद्विश्वं प्रसिद्धं देवमनुष्यादिरूपं सर्वं जगदग्रे सृष्ट्यादावाजानं सर्वत उत्पन्नम् । अथ द्वितीयामाह -
पूर्ववद्व्याख्येयम् । अथ तृतीयामाह -
ब्रह्माण्डरूपे गर्भेऽन्तर्मध्ये प्रजापतिर्विग्रहवान्भूत्वा चरति । स च वास्तवेन रूपेण सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्रुत्या प्रतिपादनादजायमान एव तथाऽपि मायिकेन रूपेण बहुधा स्थावरजङ्गमादिबहुप्रकारो विशेषेण जायते । तस्य प्रजापतेर्योनिं जगत्कारणरूपं वास्तवं स्वरूपं धीरा धैर्यवन्तो योगेन निरुद्धेन्द्रिया महात्मानो जानन्ति । वेधसो विधातारः सृष्टिकर्तारस्तमेवोपास्य मरीचीनां मरीच्यत्रिप्रमुखानां(णां) महर्षीणां पदं जगदुत्पादकत्वलक्षणमिच्छन्ति । अथ चतुर्थीमाह -
यः परमेश्वरो देवेभ्यो देवार्थमातपति सर्वत्र प्रकाशते, देवानां देवत्वसिद्धये तत्तद्हृदयेषु चैतन्यरूपेण प्रविश्याऽऽविर्भवति । यश्च देवानां पुरोहितो बृहस्पतिर्बभूव “बृहस्पतिर्देवानां पुरोहितः” इति श्रुतेः । यश्च देवेभ्यः पूर्वो जातः प्रथमभावी हिरण्यगर्भरूपेणोत्पन्नः “हिरण्यगर्भः समवर्तताग्रे” इति श्रुतेः । तादृशाय रुचाय रोचमानाय स्वयंप्रकाशाय ब्राह्मये परब्रह्मस्वरूपाय ब्रह्मणा वेदेन प्रतिपाद्याय वा नमो नमस्कारोऽस्तु । अथ पञ्चमीमाह -
देवाः सर्वेऽग्रे सृष्ट्यादौ ब्रह्मविद्यासम्प्रदायप्रवर्तनकाले ब्राह्मं रुचं परब्रह्मसम्बन्धि चैतन्यं जनयन्तो विद्यया प्रादुर्भावयन्तस्तद्ब्रह्मतत्वं सम्बोध्याब्रुवन्वक्ष्यमाणं वाक्यमुक्तवन्तः । किं तद्वाक्यमिति तदुच्यते - हे परमात्मन्यः कश्चिद्ब्राह्मणः पुमांस्त्वामेवं यथोक्तप्रकारेण विद्यात्तस्य ब्रह्मविदः सर्वे देवा वशेऽसन्नधीना भवन्ति, स्वयं हि तेषां देवानामन्तर्यामी परमात्मा भवति, तस्माद्देवा एतदधीना न त्वस्य देवा ईश्वराः । एतमेवार्थं वाजसनेयिनो विस्पष्टमामनन्ति - “य एवं वेदाहं ब्रह्मास्मीति स इदँ सर्वं भवति तस्य देवाश्च नाभूत्या ईशते, आत्मा ह्येषाँ स भवति” इति । अथ यजुरात्मानं कंचिन्मन्त्रमाह -
ह्रीर्लज्जाभिमानिनी देवता । लक्ष्मीरैश्वर्याभिमानिनी देवता । हे परमात्मन् ह्रीश्च लक्ष्मीश्च ते तव पत्न्यौ भार्यास्थानीये । ये चाहोरात्रे ते पार्श्वद्वयस्थानीये । नक्षत्राण्याकाशे दृश्यमानानि रूपं तव शरीरस्थानीयम् । अश्विनौ यौ देवौ तौ तव व्यात्तं विवृतं मुखस्थानीयम् । तथाविध हे विराट्पुरुषेष्टमस्मदपेक्षितमात्मबोधं मनिषाणानुमन्यस्व देहीत्यर्थः । अमुं लोके दृश्यमानं गवाश्वादिकं मनिषाण प्रयच्छ । किं बहुना सर्वं मनिषाणैहिकमामुष्मिकं वा सर्वमिष्टं देहि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥अथ तृतीयप्रपाठके चतुर्दशोऽनुवाकः ।
अथ भर्तृसूक्ताख्यः कश्चिदनुवाकोऽभिधीयते । तस्य च मृत्यवे वेहतमित्यस्मिन्पशौ नारिष्ठहोमानन्तरमुपहोमार्थत्वेन विनियोगो द्रष्टव्यः । तथा चापस्तम्ब आह - “मृत्यवे वेहतं तत्र भर्तारमुपजुहुयात्” इति । तत्र प्रथमामाह -
योऽयं प्रणाभिमानी देवः सोऽयं भर्ता पोषकः सन्भ्रियमाणोऽन्तर्यामिणा परमेश्वरेण स्वयं धार्यमाणः सन्बिभर्ति देहान्धारयति । स च सूत्रात्मरूपेण स्वयमेक एव देवस्तत्तच्छरूरेषु बहुधा शरीरानुसारेण बहुप्रकारो निविष्टोऽवस्थितः । अत एव प्राणविद्याप्रकरणे तत्तच्छरीरानुसारेण प्राणस्यावस्थितिं काण्वा आमनन्ति - “समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः” इत्यादि । स प्राणो यदा भारं देहरूपं भर्तुं धारयितुं तन्द्रयते तन्द्रीमालस्यं प्राप्नोति, आयुषोऽवसाने हि तस्याऽऽलस्यं भवति । तदानीं भारं देहरूपं निधाय क्वचिदुत्सृज्य पुनरस्तमेति, अदर्शनं गच्छति । यथा देहोत्पत्तेः पूर्वमदर्शनं गतस्तथा देहपातादूर्ध्वमपीत्यभिप्रेत्य पुनरित्युक्तम् । अथ द्वितीयामाह -
वेदरहस्याभिज्ञाः पुरुषास्तमेव प्राणं मृत्युमाहुः, यदा प्राणो देहान्निर्गच्छति तदैव देहो म्रियतेऽतो मृत्युहेतुत्वान्मृत्युत्वम् । यदा प्राणो देहेऽवस्थितस्तदाऽमृतो देह इत्यमृतत्वहेतुत्वात्तं प्राणममृतमाहुः । शरीरस्थापनहेतुत्वात्तमेव प्राणं भर्तारं देहस्य धारयितारमाहुः । तथा च कौषीतकिनः समामनन्ति - “अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति” इति । यः पुमानेनं प्राणं सत्येन श्रुतिस्मृत्युदितेन सम्यङ्मार्गेण भर्तुं ध्यानकाले चित्ते धारयितुं वेद जानाति स उपासकः पुमान्भृतः परमेश्वरेणाऽऽदौ पोषितो भ्रियमाणोऽनेन प्राणवायुना धार्यमाणः सन्बिभर्ति स्वयमितरान्प्राणिनश्च पोषयितुं समर्थो भवति । अथ तृतीयामाह -
एष प्रणदेवः स्वतन्त्रः सन्सद्योजातमुत तदानीमेवोत्पन्नमपि पुरुषमल्पायुषं जहाति परित्यजति । एकमन्यं वा कंचित्पुरुषमुतो जरन्तं दीर्घेणाऽऽयुषा जरां प्राप्तमपि न जहाति । एकमहरेकस्मिन्नेव दिन उतो बहूननेकानपि पुरुषाञ्जहार संहरति । सोऽयं प्राणदेवः सदमेव सर्वदैवातन्द्र उच्छ्वासनिश्वासमरणामरणबहुमरणविषयव्यापारेष्वालस्यरहितोऽतोऽयं प्रार्थोऽस्माभिः प्रार्थनीयः, उपास्य इत्यर्थः । अथ चतुर्थीमाह -
यतो यस्मात्कारणादयं प्राण आबभूवाऽऽविर्बभूव । तत्कारणं यः पुमान्वेद जानाति । तथा संधां च सम्बन्धमपि यो वेद । कीदृशी संधेति सैव विशेष्यते । एष प्राणो ब्रह्मणाऽऽत्मना सह यां संधां संदधे यं संबन्धं प्राप्तवान् । इत्थमिह देहे वस्तव्यमियन्तं कालमिह वस्तव्यमित्येतादृशी संधा तां यो वेद तस्मिन्पुरुषे प्राणाकारं प्राणात्मसंबन्धं वाऽभिजानान उत जीर्णे शयाने तादृशे पुरुषे जरां प्राप्य शयाने सत्यपि तत्रायं प्राणो रमते क्रीडते(ति) । पूर्व्येषु पूर्वकृतैः कर्मभिः सम्पादितेष्वहस्सु दिवसेषु नैनं जहाति, एनं जीर्णं पुरुषं स प्राणो न परित्यजति । अथ पञ्चमीमाह -
हे प्राण त्वां वायुरूपं सर्वा आपोऽनुसञ्चरन्ति, यत्र वायुः प्रबलं वाति तत्रैवाधिकं सद्वृष्टिजलं प्रवर्तते । तत्र दृष्टान्तः - यथा जानतीः स्वस्ववत्साभिज्ञा गावः पयसा पुनानाः स्वकीयेन क्षीरेण स्रवन्त्यः पोषयन्त्यो वत्समनुसञ्चरन्ति तद्वदिति द्रष्टव्यम् । हे प्राण त्वं हव्यवाहं हविषां वोढारमग्निं समिन्त्से सम्यग्दीपयसि । वायुना ह्यग्निर्दीप्यते । तथा त्वमेव मातरिश्वा वायुरूपः सन्प्रजानां भर्ता धारयिताऽसि । अथ षष्ठीमाह -
हे प्राण त्वं यज्ञप्रवर्तकत्वेन यज्ञरूपोऽसि । प्राणस्य वायुरूपत्वाद्यज्ञप्रवर्तकत्वम् । एतच्चान्यत्राऽऽम्नातम् - “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इति । सोम उ सोमयागोऽपि त्वमेव सर्वक्रियाणां वायुप्रेरितत्वात् । किञ्च सर्वे देवास्तव हवं त्वदीयमाह्वानं प्रत्यायन्त्यागच्छन्ति । वायुना यागक्रियायां प्रवर्तितायां हविरर्थं देवा आगच्छन्ति । किं च देवतारूपेण त्वमेकोऽसि तथाऽपि बहून्देहाननुप्रविष्टः, तत्तदानुकूल्येन पृथग्रूपाणि धृत्वा तत्र तत्र स्थितः । हे प्राण ते तुभ्यं नमोऽस्तु । मे मम सुहव एधि, आह्वातुं सुलभो भव । अथ सप्तमीमाह -
अजिरमजनशीलं गमनस्वभावं शरीरं सञ्चरन्तौ सम्यक्प्रवर्तयन्तौ हे प्राणापानौ वां युवाभ्यां नमोऽस्तु । मे हवं मदीयमाह्वानं शृणुतम् । ब्रह्मणा मन्त्रेण वां ह्वयामि युवामाह्वयामि । तूर्तं तूर्णं शीघ्रमेतमागच्छतम् । युवाना तरुणौ युवां यः शत्रुर्मां द्वेष्टि तं जहितं विनाशयतम् । अथाष्टमीमाह -
हे प्राणापानौ वायू संविदानौ परस्परमैकमत्यं गतौ जहितमस्च्छत्रुं परित्यजतम् । अमुष्य मदीयशत्रोरसुना प्राणेन मा संगसाथां संगतौ मा भूताम् । ये ब्राह्मणा मदीयेन मन्त्रेण संविदाना वैकमत्यं गतौ देवा प्राणापानदेवौ युवां तं मदीयं शत्रुं वधाय वधार्थं दत्तं मह्यं प्रयच्छतं तं शत्रुमहं हनामि विनाशयामि । अथ नवमीमाह -
असदव्यक्तं जगत्कारणं जजान प्रथममाकाशात्मनाऽव्यक्तरूपेणोत्पन्नं तस्मात्सतोऽव्यक्तत्वेन सद्रूपादाकाशाद्वायुरूपोऽयं प्राण आबभूवाऽऽभिमुख्येनोत्पन्नः । स च वायुरूपः प्राणो यं यं देवमनुष्यादिदेहं जजानोत्पादितवान्स उ स सर्वोऽपि देहोऽस्य प्राणस्य गोपो रक्षकोऽभवत् । प्राणो हि शरीरे प्रविश्य गुप्तो वर्तते, (स) यावदायुस्तावन्तं कालं तत्रावस्थाय यदा देहरूपं भारं भर्तुं तन्द्रयते धारयितुमलसो भवति तदानीमेव तं भारं परास्य परित्यज्य पुनरपि देहोत्पत्तेः प्रागवस्थायामस्तमेत्यदर्शनं गच्छति । अथ दशमीमाह -
यद्यदा त्वं भुजो भोगान्करिष्यमाणः सन्नवदेवान्नवच्छिद्रवर्तिनश्चक्षुरादीन्दीप्यमानान्पदार्थान्प्राणयः प्रकर्षेण चेष्टितवानसि तद्वै तदानीमेव त्वं प्राणोऽभवः प्राणयति प्रकर्षेण चेष्टयतीति व्युत्पत्या प्राणनामकोऽभूः । कीदृशस्त्वम् - प्रजापतेर्महान्भोगोऽत्यन्तभोगहेतुः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥अथ तृतीयप्रपाठके पञ्चदशोऽनुवाकः ।
अथ मृत्युसूक्ताख्योऽनुवाकोऽभिधीयते । इत आरभ्य सप्तानामनुवाकानां ब्रह्ममेधे विनियोगं भरद्वाज आह - “मृत्युसूक्तेनानुशंसनं सौर्येणादित्योपस्थानं सौम्या संगहनमीयुष्ट इत्यवगाहनं ज्योतिष्मतीभिरुपोषणं चित्तँ सन्तानेनेति हविराहुतीः प्रयासाय स्वाहेति स्रुवाहुतीः” इति । तत्र मृत्युसूक्ते प्रथमामृचमाह -
हरिं हरणशीलं प्राणापहर्तारं मृत्युदेवं सर्वे देवा अनुयन्ति, आनुकूल्येन गच्छन्ति । न कोऽपि देवो मृत्युमुल्लङ्घयितुं क्षमते । कीदृशं हरिम् - हरन्तमायुषोऽवसाने प्राणानपहरन्तम्, अत एव विश्वस्येशानं सर्वस्य जगतः स्वामिनम्, मतीनां मननीयानां देवानां मध्ये वृषभं श्रेष्ठम् । अस्मिंस्तु कर्मणि सरूपं समानरूपमनुकूलमिदं ब्रह्म मन्त्रजातं मामनु यजमानमनुलक्ष्याऽऽगात्, आभिमुख्येन प्राप्नोत् । अतो हे मृत्यो ब्रह्मणा तुष्टः सन्नयनं मा विवधीर्मदीयं मार्गं मा विनाशय, किंतु विक्रमस्व मच्छत्रुविनाशार्थं पराक्रमं कुरु । अथ द्वितीयीमाह -
हे मृत्यो त्वं मा च्छिदो मदीयस्य कस्याप्यवयवस्य च्छेदं मा कार्षीः । मावधीर्मम वधमपि मा कार्षीः । मे मदीयं बलं मा विवृहो मा विनाशय । मा प्रमोषीः अन्यदपि मदीयं वस्तु चौर्येण माऽपहर । मे मदीयां प्रजां पुत्रपौत्रादिकां मा रीरिषो हिंसितां मा कुरु । हे उग्र देव मदीयमायुश्च मा रीरिषो मा विनाशय । नृचक्षसं मनुष्येषु प्रख्यातं त्वां हविषा विधेम परिचरेम । अथ तृतीयामाह -
सद्यस्तस्मिन्नेव क्षणे, चकमानाय भयहेतवे प्रवेपानाय तेन भयेन प्राणिनां कम्पयित्रे, प्राणिनो हि मृत्योर्नामग्रहणेनैव भीताः कम्पन्ते । अस्मा ईदृशाय मृत्यव आशाः सर्वा दिशः प्राशृण्वञ्शृण्वन्ति । सर्वदिग्वर्तिनः प्राणिनो मृत्युदेवस्य महिमानं शास्त्रेभ्यः प्रकर्षेण शृण्वन्ति । कामेन मृत्योरिच्छया पुनरजनयन्पुनः पुनरपत्यानि जनयन्ति । मृत्यौ प्रतिकूले सत्युत्पादितान्यपत्यानि तदानीमेव म्रियन्तेऽतो मृत्युमाराध्य तदिच्छानुवर्तिनोऽपत्यान्युत्पादयन्ति । अथ चतुर्थीमाह -
कामेन मृत्योरिच्छया मे काम आगान्मदीयमभीष्टं वस्त्वागच्छतु । मदीयं हृदयं मृत्योर्हृदयान्मृत्युचित्तानुकूल्येन वर्ततामिति शेषः । अतो मृत्योरनुग्रहे सत्यमीषां मदीयानामिन्द्रियाणां यददः प्रियं यदिदं वस्त्वभीष्टं तद्वस्तु मामभिलक्ष्योप समीप ए(ऐ)त्वागच्छतु । अथ पञ्चमीमाह -
हे मृत्यो देवयानादितरो यः पन्थास्ते स्वस्तव स्वभूतः, तं परं पन्थां देवयानादितरं तं मार्गमनुपरेहि, अनुक्रमेण प्राप्नुहि । चक्षुष्मते साधुदर्शिने शृण्वतेऽस्मद्विज्ञप्तीनां श्रोत्रे, ते तुभ्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां प्रजां पुत्रादिरूपां, मा रीरिषो मा विनाशय । उतापि च वीराञ्शूरान्भृत्यानपि मा रीरिषः । अथ षष्ठीमाह -
यो मृत्युर्मानुषीणां मनुष्यजातियुक्तानां प्रजानामेकराडेक एव राजा तादृशं मृत्युमहं यजे पूजयामि । कीदृशोऽहम् - मनसा (प्र)वन्दमानः प्रकर्षेण नमस्कुर्वाणः, नाधमानोऽपेक्षितं फलं याचमानः । कीदृशं मृत्युम् - प्रपूर्व्यं(पूर्व्यं) प्राणिभ्यः पूर्वस्मिन्कल्पे भवम् । चर्षणीनां मनुष्याणां वृषभं कामादिवर्षणक्षमम् । ऋतस्य प्रथमजां सत्यस्य परब्रह्मणः प्रथमोत्पन्नकार्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके पञ्चदशोऽनुवाकः ॥१५॥अथ तृतीयप्रपाठके षोडशोऽनुवाकः ।
अथ सूर्योपस्थाने विनियुक्तं मन्त्रमाह -
हे सूर्य त्वं तरणिरन्धकारोत्तरणहेतुः, विश्वदर्शतो विश्वैः सर्वैः प्राणिभिर्दर्शनीयः ज्योतिष्कृत्सर्वस्मिल्ँ लोके प्रकाशकृच्चासि । विश्वं सर्वं जगद्रोचनं दीप्यमानं यथा भवति तथाऽऽभासि सर्वतः प्रकाशयसि । अग्निष्टोमे योऽयमतिग्राह्यरूपो ग्रहोऽस्ति तादृश हे ग्रह भ्राजस्वते दीप्तियुक्ताय यथोक्तमहिमोपेताय सूर्याय त्वां गृह्णामि, अतस्त्वं तदर्थमुपयामगृहीत उपयामेन पृथिवीकार्येण पात्रेण गृहीतोऽसि । एष हविर्धानमण्डपस्थः खरप्रदेशस्ते तव योनिः स्थानम्, अतो भ्राजस्वते दीप्तिमते सूर्याय, त्वां तत्र प्रदेशे सादयामि, ईदृशोऽयमतिग्राह्यो यस्मै सूर्याय गृह्यते किमु वक्तव्यं तस्य माहात्म्यमित्येवमुपस्थानकाले स्तुत्यर्थो ग्रहोपन्यासो लिङ्गबलात्तस्यातिग्राह्यस्य ग्रहणेऽप्ययं मन्त्रो विनियुज्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके षोडशोऽनुवाकः ॥१६॥अथ तृतीयप्रपाठके सप्तदशोऽनुवाकः ।
प्रेतदाहस्थानसमीपेऽवटं खात्वा जलं प्रक्षिप्य तेन सेचनं संगाहनं तत्र विनियुक्तां सौमीमृचमाह -
हे मदिन्तमातिशयेन हर्षयुक्त सोम विश्वाभिरूतिभिः सर्वप्रकारैरस्मदीयरक्षणैराप्यायस्व सर्वतो वर्धस्व । नोऽस्मान्प्रति सप्रथस्तमोऽतिशयेन प्रथायुक्तो भव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके सप्तदशोऽनुवाकः ॥१७॥अथ तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ।
अथावगाहने विनियुक्तामृचमाह -
ये मर्त्यासो मनुष्या व्युच्छन्तीं प्रभातं कुर्वतीमुषसमुषःकालदेवतां पूर्वतरामितरेभ्योऽत्यन्तं पूर्वामपश्यन्पश्यन्ति, ते मनुष्या ईयुस्तां देवतां प्राप्नुवन्ति । (सा)अस्माभिरू नु अस्माभिरपि नु क्षिप्रं प्रतिचक्ष्याऽभूत्प्रत्यक्षं दर्शनीयाऽभूत् । येऽन्येऽप्यपरीष्वपररात्रिषु रात्रीणामवसानेषु पश्यान्पश्यन्ति ते ओ यन्ति तेऽपि तां देवतां सर्वथा प्राप्नुवन्ति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ॥१८॥अथ तृतीयप्रपाठक एकोनविंशोऽनुवाकः ।
अथोपोषणे दाहे विनियुक्तानि यजूंष्याह -
प्रेतं दग्धुं या समित्प्रक्षिप्यते तां संबोध्योच्यते - हे समित्वामस्य प्रेतस्योपरि सादयामि स्थापयामि । ज्योतिष्मतीमित्यादिभिर्विशेषणैस्तत्समिन्निष्ठाया ज्वालाया उत्तरोत्तराभिवृध्याऽवस्थाविशेषा उच्यन्ते । अत्यल्पप्रकाशोपेता ज्योतिष्मती । ईषदधिकप्रकाशोपेता ज्योतिष्कृत् । ततोऽप्यधिकप्रकाशोपेता ज्योतिर्वित् । एवं भास्वत्यादिषु योजनीयम् । मल्मलेति दह्यमानकाष्ठध्वनेरनुकरणम् । लिङ्गानुसारेणायं मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठक एकोनविंशोऽनुवाकः ॥१९॥अथ तृतीयप्रपाठक विंशोऽनुवाकः ।
अथ स्रुवाहुतिमन्त्रा उच्यन्ते । तत्र द्वादश मन्त्रानाह -
प्रेतस्य यमलोके बाधका देवताविशेषाः प्रयासादिशब्दवाच्याः, तन्निर्वचनानि तु यतायोगमुन्नेयानि । तस्यै तस्यै देवतायै स्रुवेण गृहीतमिदमाज्यं स्वाहुतमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठक विंशोऽनुवाकः ॥२०॥अथ तृतीयप्रपाठक एकविंशोऽनुवाकः ।
अथ राजगवीहविषो होमार्थोऽयमनुवाक उच्यते । तत्र नव मन्त्रानाह -
अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः । तृतीयान्ताः संतानादिशब्दाः पशोर्मांसविशेषवाचिनः । संतानाख्येन मांसविशेषेण चित्ताख्यं देताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयम् । तदेवमस्मिन्प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रियचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिः स्रुगित्यादयः सुवर्णं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन्ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह - “अथात उत्तरं पितृमेधं व्याख्यास्यामो ब्रह्ममेध इत्याचक्षते । तथाऽप्युदाहरन्ति द्विजातीनामपवर्गार्थस्तत्वदर्शिभिः । ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् । होतॄंश्च पितृमेधं च संसृज्य विधिरुत्तरः । विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः” इति । तस्य सग्रहैर्होतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान्संभारयजुर्भिः पात्रचयनं ज्योतिष्मतीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतेति चानुमन्त्रणं चित्तँ संतानेनेति हविराहुतीः प्रयासायस्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशंसनं सौम्या संगाहनं सौर्येणाऽऽदित्योपस्थानमीयुष्ट इत्यवगाहनं समानमत ऊर्ध्वं पैतृमेधिकमायवौदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत नानाचार्याय द्विजातीनामेव संतिष्ठते ब्रह्ममेधः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठक एकविंशोऽनुवाकः ॥२१॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुन्धरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये तृतीयः प्रपाठकः समाप्तः ॥३॥