तत्राऽऽद्येनुवाकेऽध्ययनाङ्गत्वेन यज्ञोपवीतं विधातुं तत्प्रशंसार्थमादावुपाख्यानमाह -
वयमेवाऽऽधिपत्यनिमित्तं स्वर्गं गमिष्याम इत्येवं देवा यदा यज्ञे प्रवृत्तास्तदानीमेवासुरा अपि तथैवाभिप्रेत्य यज्ञे प्रवृत्ताः, तावुभौ यज्ञौ प्रततौ विस्तीर्णावास्ताम् । तदानीं तथाविधा असुराः संनह्य कृतसन्नाहाः सहसैव भुजबलान्न शास्त्रेणैवाऽऽचरन्यज्ञमारब्धवन्तः, ते मौर्ख्याद्ब्रह्मचर्यादिनियमं चानादृतवन्तः । देवास्तु ब्रह्मचर्यात्समस्ततपसा युक्ताः सन्तो यथाशास्त्रमनुष्ठितवन्तः । ते मूर्खा असुरा अमुह्यन्मौर्ख्यपारवश्येन मोहं प्राप्ताः, मूढाः सन्तः कर्तव्याकर्तव्यं किमपि न प्रजानन् । ततो यथाशास्त्रानुष्ठानाभावात्स्वर्गं न प्राप्ताः । देवास्तु प्रसृतेनैव यज्ञेन स्वर्गं प्राप्ताः, अप्रसृतेन यज्ञेन युक्तानसुरान्पराभावयन् । अथ प्रसृताप्रसृतयोः स्वरूपं विभजते -
यज्ञोपवीतयुक्तस्य यो यज्ञः सोऽयं गुणाधिक्यात्प्रसृतः प्रकर्षेण वृत्त इत्युच्यते । अनुपवीतिनो यज्ञोपवीतरहितस्य यज्ञो गुणहीनत्वादप्रसृत इत्युच्यते । किञ्च ब्राह्मणो यज्ञोपवीतयुक्तः सन्यत्किमप्यधीते तत्सर्वं यागानुष्ठानसमं भवति । तदेवं यज्ञोपवीतं प्रशस्याध्ययनोपयोगं वदन्यज्ञानामङ्गत्वेन विधत्ते ।
प्रसृतिः प्रकृष्टगुणयुक्तत्वम् । यज्ञोपवीतसाधनं द्रव्यं विधत्ते -
कृष्णाजिनवस्त्रयोरन्यतरद्द्रव्यं दक्षिणभागे लम्बमानं कृत्वाऽधीयीतेत्यर्थः । एवमध्ययनादावनेनैव वाक्येन विहितस्यपि यज्ञोपवीतस्य दर्शपूर्णमासप्रकरणे निवीतं मनुष्याणामित्यत्र पुनर्विधानं तदतिक्रमे तत्रत्यविशेषप्रायश्चित्तार्थम् । यज्ञोपवीतप्रसङ्गात्त्रयाणामपि लक्षणं दर्शयति -
दक्षिणं बाहुमूर्ध्वं धृत्वा सव्ये बाहौ लम्बमाने सति यद्वेष्टनं तद्यज्ञोपवीतम् । एतदेव विपरीतं सव्यबाहोरूर्ध्वं धारणं दक्षिणबाहोर्लम्बमानं चेद्भवति तदा वेष्टनं प्राचीनावीतमित्युच्यते । बाह्वोरुभयोरप्यधो लम्बमानयोरंसद्वये (यद्वेष्टनं तत्) संवीतं तदेतन्मानुषं मनुष्याणामृषीणाम्, यज्ञोपवीतं देवानां यथा वा प्राचीनावीतं पितॄणां तद्वत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥१॥अथ द्वितीयप्रपाठके द्वितीयोऽनुवाकः
प्रथमे यज्ञोपवीतविधानमुक्तम् । द्वितीये संध्योपासनविधानमुच्यते । तत्प्रशंसार्थमादावाख्यायिकामाह -
हवाशब्दः प्रसिध्यर्थः । पुरोनुवाकः पूर्वकालः, पुर इत्येव पूर्वैरनूच्यते न त्विदानीमिति वा पश्चादिति वोच्यते । एतादृशे पूर्वकाले रक्षांसि खलूग्रं श्रेष्ठं तीव्रं तपोऽतिष्ठन्त कृतवन्तः । तेन तपसा तुष्टः प्रजापतिस्तान्रक्षोविशेषान्वरेणोपामन्त्रयतोपच्छन्दितवान्, वरं वृणीध्वमित्युक्त्वा तान्परितोष्य तपसो निवारितवान् । तानि रक्षांस्यादित्यो नोऽस्माकं योद्धा भवत्वित्येवंवरमवृणीत । प्रजापतिस्तानादित्येन सह युद्धं कुरुतेत्यनुज्ञां दत्तवान् । तस्मात्कारणात्तानि रक्षांसि, उत्तिष्ठन्तं हवोद्यन्तमेवाऽऽदित्यं योधयन्ति युद्धे प्रवर्तयन्ति । यावदयमादित्योऽस्तमन्वगादस्तं प्राप्नोति उदयमारभ्य तावदादित्येन सह युद्धं कुर्वन्ति । तदा च युद्धे प्रवृत्तानि तानि रक्षांसि तत्सवितुर्वरेण्यमित्यनया गायत्र्याऽभिमन्त्रितं यज्जलं तेनैव शाम्यन्ति न त्वन्येन केनापि । इत्यनेनाऽऽख्यानेन जलं प्रशस्यार्घ्यमभिधत्ते -
यस्मादनेन जलेन रक्षसां शान्तिः, तदु ह वै तस्मादेव कारणादेते लोके दृश्यमाना ब्रह्मवादिनो वेदस्य वक्तारः संध्यायां प्रातःसंध्याकाले पूर्वाभिमुखाः सन्तो गायत्र्याऽभिमन्त्रितं जलमूर्ध्वं विक्षिपन्ति प्रक्षिपेयुरित्यर्थः । ताश्च विक्षिप्ता आपो गायत्रीसामर्थ्याद्वज्ररूपं प्राप्य तान्यादित्ययुद्धार्थमागतानि रक्षांसि मन्देहनामकानां रक्षसां स्वभूते कस्मिंश्चिदरुणनाम्नि द्वीपे प्रक्षिपन्ति । अथ प्रदक्षिणावृत्तिं विधत्ते -
प्रदक्षिणाप्रारम्भमावर्तनं प्रक्रमेयुः कुर्युः । तेन च पापक्षयो भवति । अथ ध्यानं विधत्ते -
अयं परिदृश्यमान आदित्यो ब्रह्मेति शास्त्रतो विद्वान्पुमानुद्यन्तमस्तं यन्तं वाऽऽदित्यं तथा ध्यायन्प्रदक्षिणं च कुर्वन्वर्तते स पुमान्सकलं भद्रमश्नुते श्रेयः प्राप्नोति । वेदनं प्रशंसति -
यः पुमानादित्यो ब्रह्मेति वेद स पुमान्पूर्वमजानानोऽपि स्वयं वस्तुतो ब्रह्मैव सन्प्राप्ताद्वेदनादज्ञानापगमे सति स्वानुभवेनापि ब्रह्माऽऽप्नोति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥२॥अथ द्वितीयप्रपाठके तृतीयोऽनुवाकः
द्वितीये संध्यावन्दनमुक्तम् । तृतीयादिषु चतुर्ष्वनुवाकेषु पापक्षयार्थं कूष्माण्डहोमाङ्गभूता मन्त्रा उच्यन्ते । तत्र तृतीयानुवाकगतास्वृक्षु प्रथमामाह -
देवासो देवनशीला आदित्या अदितेः पुत्रा हे देवा देवहेडनं देवानां क्रोधकारणं यत्कर्म वयं चकृम, तस्मादपराधाद्यूयं मुञ्चत । अपि चर्तस्य यज्ञस्य संबन्धिना ऋतेन सत्येन होमेन मां यूयमित प्राप्नुत । अथ द्वितीयामाह -
हे देवा वयं जीवनकाम्या जीवनमात्मन इच्छन्तो यदनृतं वाचोदिम राजसेवादौ तत्प्रियार्थमनृतमुक्तवन्तः, सजोषसः परस्परमस्माभिश्च समानप्रीतियुक्ता हे विश्वे देवा इहास्मिन्कर्मण्यनुष्ठिते सति तस्मात्पापान्नोऽस्मान्मुञ्चत । अथ तृतीयामाह -
हे द्यावापृथिव्यावृतेन यज्ञेन विगुणेन यत्पापं प्राप्तं तथा हे सरस्वति, ऋतेन यत्पापं प्राप्तं त्वं द्यावापृथिव्यौ चेत्येता यूयं कृतात्तस्मादेनसो नोऽस्मान्पाहि पातेत्यर्थः । किञ्च यत्किंचिदनृतमूदिम वयमुक्तवन्तस्तस्मादप्येनसः पात । अथ चतुर्थीमाह -
यत्पापमन्यकृमन्येन यज्ञव्यतिरिक्तेन निमित्तेन कृतमारिम वयं प्राप्ताः, तस्मादेनसस्त इन्द्रादयो बृहस्पत्यन्ता देवा नोऽस्मान्मुञ्चन्तु । अथ पञ्चमीमाह -
सजाताः समानजन्मानो ज्ञातयः समानवयस्काः सखायो वा, तैर्मयि कृतः शंसः प्रशंसा स्तुतिः, उताथवा जामयो जाया भार्यास्ताभिर्मयि कृतः शंसः स्तुतिः, ज्यायाञ्ज्येष्ठो भ्राता तस्य शंसस्तेन मयि कृता स्तुतिः, कनीयान्कनिष्ठो भ्राता तस्य शंसस्तेन मयि कृता स्तुतिः, तस्मात्स्तुतिसङ्घात्प्रमत्तेन मयाऽनाधृष्टं केनापि प्रतीकारेणापरिहार्यं प्रबलं देवकृतं देवविषये सम्पादितं यदेनः पापं हे जातवेदस्त्वं तस्मादस्मात्पापान्मुमुग्धि मां मुक्तं कुरु । अथ षष्ठीमाह -
वागादिभिर्यदनृतमयुक्तरूपं वयं चकृम कृतवन्तः । वाचाऽसत्याभिधानं गुर्वादिषु त्वंकारादि च । मनसा परानिष्टचिन्तनम् । बाहुभ्यां ब्राह्मणताडनादि । ऊरुभ्यामगम्यालिङ्गनादि । अष्ठीवद्भ्यां जानुभ्यामगन्तव्यदेशगमनादि । शिश्नैः शिश्नेनायोनौ रेतःसेकादि । बहुवचनाच्चक्षुरादीन्द्रियग्रहः । चक्षुषोद्यदर्कदर्शनादि । श्रोत्रेण गुरुदेवादिनिन्दाश्रवणम् । आस्येनाभक्ष्यभक्षणमित्यादि । तस्मात्सर्वस्मादेनसोऽग्निर्मां प्रमुञ्चतु । यानि दुष्कृता यान्यप्यन्यानि पापानि चकृम तेभ्योऽपि प्रमुञ्चतु । अथ सप्तमीमाह -
त्रितो नाम कश्चित्पुरुषः, स च पौरोडाशिककाण्डेऽङ्गारेणोदकपातनान्निष्पन्न इति श्रुतः । स तृतीयमभ्यपातयत्, ततस्त्रितोऽजायतेति । स च तृती(त्रितो)येन परमेश्वरज्योतिषाऽर्णवात्समुद्रसमानात्पापान्निर्बभूव निर्मुक्तो बभूव, तथा येन ज्योतिषा परमेश्वरः स्वर्भानुसंज्ञकासुरेणाऽऽपादितात्तमसः सूर्यं निर्मुमोच निर्मुक्तं कृतवान्, इन्द्रः स्वर्गाधिपतिर्येन परमेश्वरज्योतिषा विश्वा अरातीः सर्वानपि शत्रूनजहात्क्षणान्नाशितवान्, तेन ज्योतिषाऽहमानशानः सर्वतो व्याप्नुवञ्ज्योतिराक्षि परमेश्वरं ज्योतिः प्राप्तवानस्मि । अथाष्टमीमाह -
इहास्मिञ्जन्मनि मया स्वीकृतं यत्कुसीदमृणमप्रतीतं केनाप्यालस्यादिनोत्तमर्णेभ्यो न प्रत्यर्पितम्, यमस्य दुष्टशिक्षाधिकारिणो निधिना निधिस्थानीयेन प्रत्यर्पयितव्येन येनर्णेन युक्तोऽहं चरामि, एतदेतेन होमेन तत्तस्मादृणान्मुक्तोऽहमनृणो भूयासम् । जीवन्नेव ते तव प्रसादा(त्त)त्तादृशं प्रतिदधामि प्रत्यर्पयामि । अनेन होमेन तुष्टस्त्वमस्मिन्नेव जन्मनि मां प्रत्यर्पणसमर्थं कुर्विति भावः । अथ नवमीमारभ्यैकविंशतिपर्यन्तानां त्रयोदशानां मन्त्राणां प्रतीकानि दर्शयति -
एते मन्त्राः सर्वेऽप्यनेनैवाभिप्रायेणाच्छिद्रकाण्डे यद्देवा देवहेडनमित्यनुवाके व्याख्याताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥३॥अथ द्वितीयप्रपाठके चतुर्थोऽनुवाकः
चतुर्थानुवाकोक्तास्वृक्षु प्रथमामाह -
अहमदीव्यन्पुत्रादिरक्षणरूपं व्यवहारं कर्तुमसमर्थः सन्यदृणं बभूव प्राप्तवानस्मि, यद्वा तदृणं जनेभ्य उत्तमर्णेभ्योऽदित्सन्प्रत्यर्पयितुमनिच्छन्संजगर सम्यग्भक्षितवानस्मि, अग्निरिन्द्रश्च संविदानौ प्रस्परमैक्यं गतौ मां तस्मादृणान्मुञ्चताम् । अथ द्वितीयामाह -
यद्यानि किल्बिषाणि पापानि द्रव्यापहरणादीनि हस्ताभ्यामहं कृतवानस्मि । अक्षाणां चक्षुरादीन्द्रियाणां वग्नुं वङ्गनीयं गन्तव्यं रूपादिविषयमित्यर्थः । तं विषयमुपजिघ्नमान उपहतं कुर्वन्नधर्महेतुं कुर्वन्यत्पापं कृतवानस्मि, तानि पापात्मकानि ऋणान्युग्रंपश्या च राष्ट्रभृच्चेत्येतन्नामधरिण्यावप्सरसावनुदत्तामानुकूल्येन प्रत्यर्पयताम् । पापरूपमृणं यथाऽस्माकं न भवति तथा कुरुतामित्यर्थः । अथ तृतीयामाह -
हे उग्रंपश्ये हे राष्ट्रभृत्किल्बिषाणि ऋणरूपाणि यानि कृतानि, यदक्षवृत्तं यद्द्यूते पणादिरूपं प्रतिश्रुतमप्रणीतम्, एतत्सर्वमनुदत्तमनुकूले युवामेव दत्तवत्यौ । ऋणानृणयुक्तान्नोऽस्मान्समानः सदृश उत्तमर्णोऽधिरज्जुर्बन्धनार्थमधिकरज्जुयुक्तः सन्नायास्मानादाय बध्वा नेदृणवो नैवर्णुयादृणप्रयुक्तं बन्धनं कुर्यादित्यर्थः । कुत्रेति तदुच्यते - यमस्य लोके मरणादूर्ध्वभाविनि गन्तव्ये लोके । द्वितीय इच्छब्द एवकारार्थः सन्नायेत्यनेन सम्बध्यते, आदायैव रज्जुभिर्बध्येत्यर्थः । चतुर्थीमारभ्य नवमीपर्यन्तानां षण्णामृचां प्रतीकानि दर्शयति -
“अवते हेड उदुत्तमम्” इति द्वयं वैश्वानरो न इत्यत्र व्याख्यातम् । “इमं मे वरुण तत्वा यामि” इति द्वयमिन्द्रं वो विश्वतस्परीत्यत्र व्याख्यातम् । “त्वं नो अग्ने सत्वं नो अग्ने” इति द्वयमायुष्ट आयुर्दा अग्न इत्यनुवाके व्याख्यातम् । अथ दशमीमाह -
संकुसुकः संक्षेपेण परापवादनशीलः, विकुसुकः परापवादनस्य विस्तारयिता, निर्ऋथः क्लेशस्य प्रापयिता, यश्च निस्वनः पिशुनः, ते तादृशा ये वयं स्मोऽस्मत्तेभ्योऽस्मत्तो यक्ष्मं रोगनिमित्तं पापमनागसः पापरहिता देवा दूराद्दूरमतिशयेन दूरं यथा भवति तथाऽचीचतं चातयन्तु, विनाशयन्त्वित्यर्थः । अथैकादशीमाह -
यक्ष्मं रोगनिमित्तं पापं निरचीचते निष्कृष्य निश्चयेन वा चातयामि नाशयामि कृत्यां पापरोगादिका(कां)(निर्ऋति)मलक्ष्मीं च नाशयामि । यः शत्रुरस्मदस्मासु तेन कृत्यादिना समृच्छातै विनाशमाचरेदस्मै शत्रवे तं यक्ष्मादिकं प्रसुवामसि प्रेरयामः । अथ द्वादशीमाह -
दुःशंसोऽस्मदीयस्य दुष्कृतस्य शंसिता कथयिता, अनुशंसोऽन्येषामग्रेऽस्मदीयस्य दुष्कृतस्य पुनः पुनः शंसिता, घणो हननशीलः, अनुघणस्तस्यैवानुविधायकः तेन तैर्दुःशंसादिभिः सहान्योऽपि यः शत्रुरस्मत्समृच्छातै, अस्मासु विनाशमाचरेत्, अस्मै विनाशकाय तं यक्ष्माणमस्माकं प्रसुवामसि प्रेरयामः । अथ त्रयोदशीमाह -
एवमनेन कर्मणा निर्धूतपापा वयं वर्चसा बलेन सम्पयसा क्षीरादिना संतनूभिः शोभनैः शरीरैर्मनसा च शिवेन समगन्महि सङ्गता भूयास्म । अत्र कर्मणि त्वष्टा देवो नोऽस्माकं रायो धनानि विदधातु संपादयतु । यच्च विलिष्टं स्वल्पं पापं तन्वोऽस्मच्छरीरस्य संबन्धि विद्यते तदप्यनुमार्ष्टु त्वष्टा शोधयतु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥४॥अथ द्वितीयप्रपाठके पञ्चमोऽनुवाकः
पञ्चमानुवाकप्रोक्तर्क्षु प्रथमामाह -
हे यजमान ते तुभ्यं वरेण्यः श्रेष्ठोऽयमग्निर्विश्वत आयुर्दधत्संपूर्णमायुर्दधातु । अपमृत्युना गृहीतोऽपि ते प्राणः पुनरस्यानुग्रहेणाऽऽयाति त्वद्देहे समागच्छतु । ते तव यक्ष्मं व्याधिं परासुवामि विनाशयामि । अथ द्वितीयामाह -
हेऽग्ने त्वमायुर्दाः सन्नेधि यजमानस्यायुष्प्रदो भव । कीदृशस्त्वम् - हविषो जुषाण आज्यं सेवमानः । घृतप्रतीको घृतोपक्रमः, आघारादीनां घृतेन हूयमानत्वात् । अवसानेऽपि घृतमेव योनिर्ज्वालोत्पत्तिकारणं यस्यासौ घृतयोनिः, तादृशस्त्वम् । मधु स्वादुतमं चारु शोधितत्वेन निर्मलं गव्यं गोसंबन्धि घृतं पीत्वा पिता पुत्रमिवेमं यजमानमभितो रक्ष । अथ तृतीयामाह -
हेऽग्ने, इमं यजमानं कृधि, आयुषे वर्चसे दीर्घायुषे बलाय च समर्थं कुरु । हे वरुण तिग्मं तीक्ष्णमोजो बलं पुनरपि सँशिशाधि नियमितं कुरु । हेऽदिते पृथिवि मातेव मातृवदस्मै सुखं प्रयच्छ । हे विश्वे देवा ममायं यजमानो जरदष्टिर्यथाऽसत्तथाकुर्वन्तु(रुत) । जरयाऽष्टिर्व्याप्तिर्यस्यासौ जरदष्टिः, बाल्ये यौवने च मरणरहितः । जरामायुःसम्पूर्तिपर्यन्तां यथा व्याप्नोति तथा कुर्वि(रुते)त्यर्थः । अथ चतुर्थीमाह -
हेऽग्ने, आयूंष्यस्मदीयजीवनानि पवसे यथा वर्धन्ते तथा शोधय । क्षीरादिरसमिषमन्नं च नोऽस्माकमासुवाऽऽभिमु्ख्येन प्रेरय । दुच्छुनामुपद्रवमारे दूरे नीत्वा बाधस्व विनाशय । अथ पञ्चमीमाह -
हेऽग्ने शोभनमपः कर्म यस्यासौ स्वपाः, तादृशस्त्वमस्मे अस्मदीयं वर्चो ब्रह्मवर्चसं सुवीर्यं शोभनसामर्थ्यं च पवस्व शोधय, वर्धयेत्यर्थः । धनं पुष्टिं च मयि दधत्स्थापय । अथ षष्ठीमाह -
योऽग्निः, ऋषिरतीन्द्रियज्ञानवान्, पवमानः शोधनशीलः, निषादपञ्चमा वर्णाः पञ्चजनास्तेषु भवः पाञ्चजन्यः, पुरोहितः सर्वकर्मसु पुरस्तान्निहितः, तमेवंगुणमग्निं महागयं महागृहमीमहे प्राप्नुमः । अथ सप्तमीमाह -
हेऽग्ने नोऽस्माकं जातान्सपत्नान्ये पूर्वमुत्पन्नाः शत्रवस्तान्प्रणुद प्रकर्षेण नाशय । हे जातवेदः पूर्वमनुत्पन्ना इतः परमुत्पत्तिप्रसक्तियुक्तास्तानजानताञ्शत्रून्प्र(ति)णु(नु)दस्व, उत्पत्तिप्रतिबन्धेन निराकुरु । सुमना अस्मदनुग्रहचित्तस्त्वमहेडन्नक्रुध्यंस्त्रिवरूथः प्राग्वंशसदोहविर्धानरूपग्रहत्रयोपेत उद्भावुद्भिदनुष्ठेयकर्मोत्पादकः सन्नस्मे दीदिहि, अस्मान्प्रकाशय । ते तव प्रसादाच्छर्मन्स्याम सुखवान्भवेयम् । अथाष्टमीमाह -
सहसा बलेन जातानित्यादि पूर्ववत् । सुमनस्यमानोऽस्मासु सौमनस्यं प्राप्तः सन्नोऽस्मानधिब्रूहि शत्रुभ्योऽधिकान्ब्रूहि । वयमपि त्वदनुग्रहादधिकाः स्याम, नोऽस्माकं सपत्नाञ्शत्रून्प्रणुद । अथ नवमीमाह -
हेऽग्ने यः शत्रुजनो वृको वृकसदृशः, अरण्यश्वा यथोपद्रवं करोति तथोपद्रवकारीत्यर्थः । अत एव वारोऽस्मद्व्यवहारस्य निवारकः सन्नभितः सर्वतो नोऽस्माञ्जिघांसति हन्तुमिच्छति । हे वृत्रहन्वैरिघातिन्नग्ने त्वं तान्वृकवद्घातुकाञ्जहि मारय । अस्मभ्यं तु वसु धनमाभर सम्पादय । अथ दशमीमाह -
हेऽग्ने यः प्रबलः शत्रुर्नोऽस्मानभिदासति हिनस्ति, यश्चान्यः समानबलः सन्न्यिष्टो नित्यं शत्रुत्वेनावस्थितो हिनस्ति, वयं तं हिंसकं समिधं समित्सदृशं कृत्वा हेऽग्ने तुभ्यं त्वदर्थमपिदध्मसि प्रक्षिपामः । अथैकादशीमाह -
अशपतोऽनाक्रोशतो य शत्रुः शपाच्छपति अधिक्षिपति, यश्चान्यः शत्रुः शपतोऽधिक्षिपतो नोऽस्माञ्शपात्प्रत्यधिक्षिपति तस्मै तदर्थं तस्मिन्नवस्थापयितुमुषाश्च निम्रुक्चोदयास्तमयदेवावहोरात्रदेवौ वा सर्वं पापमस्मदीयं समूहतां संगतं कृत्वा तस्मिन्नेवावस्थापयताम् । अथ द्वादशीमाह -
हे देवा यो मर्त्यो मनुष्योऽस्माकं सपत्नः शत्रुः सन्ननर्थं चिन्तयति यश्चास्माभिः सह रणो युद्धकारी सन्नभिदासत्युपक्षपयति, तस्योभयविधस्य संबन्धि किञ्चन धनादिकं मोच्छेष्यवशिष्टं मा कुरुत, किंतु सर्वं विनाशयत । यथा प्रक्षायतः प्रकर्षेण क्षीयमाणस्य दह्यमानस्येध्मस्य काष्ठस्य नकोऽप्यंशोऽवशिष्यते तद्वत् । अथ त्रयोदशीमाह -
हे जातवेदो यः शत्रुर्मां द्वेष्टि अहं च यं द्वेष्मि । द्विविधो द्वेषः प्रत्यक्षः परोक्षश्च । तत्र प्रत्यक्ष उभयकर्तृको द्वेष उदाहृतः, परोक्षमुभयकर्तृकं द्वेषं सूचयितुं यश्च मामिति पुनरुक्तिः । एवं च द्वेष्यो द्वेष्टा च द्वौ प्रत्यक्षौ द्वौ च परोक्षौ तांश्चतुर्विधान्सर्वान्, हेऽग्ने संदह सम्यग्भस्मीकुरु । यौ मुख्यौ द्वेष्यद्वेष्टारौ तद्द्वारा तदीया अन्येऽपि द्वेष्या द्वेष्टारश्च ये सन्ति तान्संग्रहीतुं याँश्चाहमिति पुनरुक्तिः । तान्सर्वांश्च संदहेति पूर्वत्रान्वयः । अथ चतुर्दशीमाह -
शत्रवस्त्रिविधा अरातयो द्वेषिणो निन्दकाश्चेति । तत्र दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽयमरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तत्र योऽस्मभ्यमरातीयादरातित्वमिच्छति, यश्च जनो नोऽस्मान्द्वेषते कार्यनाशनेन बाधते योऽप्यन्योऽस्मान्निंन्दाद्दौर्जन्यान्निंन्दति, यश्चापरोऽस्मान्दिप्साद्दम्भितुं हिंसितुमिच्छेत् । तान्सर्वाञ्जनान्मष्मषा कुरु चूर्णनभस्मीकरणादिजन्यस्य शब्दस्यानुकरणं मष्मषेति, चूर्णीकृत्य भस्मीकुर्वित्यर्थः । अथ पञ्चदशीमाह -
मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक्तीक्ष्णीकृतं शास्त्रीयमार्गेण कृतमित्यर्थः । तथा वीर्यमिन्द्रियशक्तिर्बलं शरीरदर्पस्तदुभयं संशितं सम्यक्स्वस्वकार्यक्षमं कृतम् । तथा यस्य क्षत्रस्य राज्ञोऽहं पुरोहितोऽस्मि मे मदीयं तत्क्षत्रं जिष्णु जयनशीलं यथा भवति तथा संशितम्, अस्त्विति शेषः । अथ षोडशीमाह -
एषां स्वकीयानां राजब्राह्मणादीनां मध्य एकैकस्य बाहू उदतिरमुत्कर्षेण वर्धितवानस्मि । लौकिकोक्तिरियम्, लोके हि योऽन्यस्मादुत्कृष्टोभवति तं जना एवमाहुः स्वकीयं हस्तमुपरितनं कृतवानिति । वर्चः कान्तिः, तामप्युदतिरम्, अथो अपि च बलं शरीरशक्तिस्तामप्युदतिरमुत्कर्षं प्रापयामि । ब्रह्मणा मन्त्रसामर्थ्येनामित्राञ्शत्रून्क्षिणोमि क्षीणान्करोमि । स्वान्स्वकीयान्पुरुषानहमुन्नयामि, उत्कर्षं प्रापयामि । अथ सप्तदशीमाह -
मनःप्राणादीनां पापेन योऽपक्षयः प्राप्तस्तस्य पापस्यानेन कर्मणा विनाशितत्वान्मे मनः पुनरप्यागादस्मिञ्शरीरे समागच्छतु । एवमायुरादयोऽपि समागच्छन्तु । आकूतं सङ्कल्पितं कार्यम् । चित्तं मनोजन्यं ज्ञानम् । आधीतं साकल्येन पठितो वेदः । एतेषां सर्वेषामागमनार्थं वैश्वानरो मे विश्वा सर्वाणि दुरितानि अवबाधतां विनाशयतु । कीदृशो वैश्वानरः । अदब्धः केनाप्यहिंसितः । तनूपा मदीयशरीरपालकः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥अथ द्वितीयप्रपाठके षष्ठोऽनुवाकः
अथ षष्ठानुवाकोक्तास्वृक्षु प्रथमामाह -
यदीनृणं यदेव प्रसिद्धमृणं देवतासु संगरः प्रतिज्ञारूपेण स्तुत्या संपादितम् । सङ्गरशब्दः प्रतिज्ञावाची । प्रतिज्ञा चैवं श्रूयते - “त्रिभिर्ऋणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति । तदेतदृणं त्रिविधं वैश्वानरायास्मत्स्वामिने प्रतिवेदयामो विज्ञापयामः । तत्र देवताशब्देनर्षयः पितरश्चोपलक्षिताः । स वैश्वानर एतानृणत्रयरूपान्पाशान्प्रमुञ्चन्प्रमोक्तुं प्रवेद प्रकर्षेण जानाति । सोऽभिज्ञो वैश्वानरो नोऽस्मान्दुरितात्परलोकविरोधिनः पापादवद्यादिह लोके निन्दादोषाच्च मुञ्चातु मुक्तान्करोतु । अथ द्वितीयामाह -
वैश्वानरो देवो नोऽस्मान्पवित्रैः शुद्धिहेतुभिर्होमादिभिः पवयाच्छोधयतु । यद्येन शोधनेन संगरं श्रुत्युक्तां प्रतिज्ञामृणत्रयरूपामाशां मयाऽपि प्रत्यर्पणीयत्वेनऽऽशंसनीयामभिधावाम्याभिमुख्येन शीघ्रं प्राप्नोमि, तादृशं पावनं कुर्यादित्यर्थः । अनाजानन्नृणनिर्मोचनोपायान्सर्वानप्यजानन्मनसा याचमानोऽनृणो भूयासमिति सर्वदा प्रार्थ्यमानोऽस्मि । अत्रोपायापरिज्ञाने यदेनः पापमस्ति तत्पापमवसुवामि । वैश्वानरप्रसादेन विनाशयामि । अथ तृतीयामाह -
दिव्याकाशे विचृतौ नाम विचृन्नामयुक्ते द्वे तारके लोके मघाशब्देन व्यवह्रियमाणे सुभगे सौभाग्ययुक्ते अमी अमू प्रत्यक्षेणास्माभिर्दृश्यमाने ये विद्येते ते उभे इह कर्मण्यमृतस्यर्णापाकरणरूपममृतं सुखं प्रयच्छताम् । एतत्तारकाभ्यां दत्तममृतं सुखं बद्धकस्य मम मोचनमृणमोचनसाधनम् । ऋणत्रयेण यो बद्धः स एव वाऽ(चा)त्यन्तकुत्सितत्वाद्बद्धक इत्युच्यते । पितृदेवताकाभ्यामाभ्यां तारकाभ्यां नामवृत्यादिप्रकाशनेन तस्मादृणत्रयान्मुक्तो भवामीत्यभिप्रायः । अथ चतुर्थीमाह -
अत्र मन्त्रद्रष्टा कश्चिदृषिरधमर्णं संबोध्य ब्रूते - हेऽधमर्ण विजिहीर्ष्य विहर्तुमिच्छ पारतन्त्र्यराहित्येन सुखसञ्चारो विहारस्तत्सिध्यर्थं लोकान्कृधि पुण्यानुष्ठानेनोत्तमलोकान्सम्पादय । बद्धकमृणेन कुत्सितेन बद्धमात्मानं बन्धादृणत्रयरूपान्मुञ्चासि मुक्तं कुरु । बन्धाद्विमोके दृष्टान्तः - योनेः प्रच्युतो गर्भ इव, उदरमध्ये सर्वावयवसङ्कोचेन निर्बध्यमानो गर्भो योनेर्बहिः पतितो यथा निर्बन्धान्मुक्तो भवति तद्वत् । तदृणत्रयान्मुक्तस्त्वं सर्वान्पथः पुण्यलोकमार्गाननुष्व सेवस्वेत्यर्थः । अथ पञ्चमीमाह -
स प्रजापतिरस्माभिर्दत्तं हविः प्रतिगृभ्णीत प्रतिगृह्णीत स्वीकरोतु । कीदृशः प्रजापतिः - ऋतस्य प्रथमजाः सत्यस्य परब्रह्मणः प्रथमः पुत्रः । किं कुर्वन्, प्रजानन्नस्मत्प्रार्थनां प्रकर्षेण निरूपयन् । विद्वान्सर्वार्थसाधनाभिज्ञः । तस्य प्रजापतेः प्रसादेन जरसः परस्ताद्वयोहानेरूर्ध्वमच्छिन्नं तन्तुं विच्छेदरहितं पुत्रपौत्रादिसंतानमनुसञ्चरेम, अनुप्रविश्य सम्यगृणनिर्मुक्तो विश्रम्भेण चरेम । अथ षष्ठीमाह -
एके पुरुषाः केचित्ततं पुत्रपौत्रादिरूपेण विस्तीर्णं तन्तुमनु स्वकीयं संतानमनुप्रविश्यानुसञ्चरन्ति पुण्यलोकाननुप्रविश्य प्राप्नुवन्ति । द्विविधो हि विग्रहः पुत्ररूपश्चाऽऽत्मरूपश्चेति । तयोर्मध्ये पुत्ररूपेणेह लोके पुण्यं कुर्वन्नेवाऽऽस्ते । पितृरूपेण लोकान्तरेषु सञ्चरति । एतदेवाभिप्रेत्यैतरेयोपनिषद्युक्तम् - “सोऽऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायामितर आत्मा कृतकृत्यो वयोगतः प्रैति” इति । अत आकारभेदेन तन्तुमनुप्रविश्येति पुण्यलोकाननुसंचरतीत्युभयमप्युपपद्यते । येषां पुरुषाणां पित्र्यमृणमायनवद्दत्तम्, आयनमागमः शास्त्रं तदस्यास्तीत्यायनवद्यथाशास्त्रं दत्तमित्यर्थः । पित्र्यमित्येतदन्ययोरपि द्वयोर्ऋणयोरुपलक्षणम् । तदृणत्रयं यैर्दत्तं तादृशाः केचिदनुसंचरन्तीति पूर्वत्रान्वयः । एकेऽपरे केचित्पुरुषा अबन्धु पुत्रपौत्रादिबन्धुरहिताः सन्तः पित्र्यमृणमपाकर्तुमशक्ता अपि ददतो धनदायिनं उत्तमर्णस्य प्रयच्छात्प्रयच्छन्ति तद्धनं प्रत्यर्पयन्ति, ते पुरुषा दातुं शक्नवाञ्शक्तवन्तश्चेत्, एषां पुरुषाणां स स्वर्गो भवत्येव । पुत्रोत्पत्तेर्दैवाधीनत्वेऽपि गृहीतं धनमवश्यं प्रत्यर्पणीयमेवेत्यर्थः । अथ सप्तमीमाह -
हे जायापती कर्माधिकारिणाविह जन्मनि घृतेन द्रव्येणाऽऽरभेथां कर्मारम्भं कुरुतम् । अनुसंरभेथां परस्परमनुकूलौ संगतौ कदाचिदप्यवियुक्तावेव भवतम् । तयोरुभयोः समानं साधारणं पन्थां पुण्यलोकमार्गमवथो रक्षतम् । वां युवयोर्यत्पूर्तं पितृभ्यो दत्तमन्नादि, यदग्नौ परिविष्टं परिप्रापितं हविः, तस्मै तदविच्छेदनं यथा क्रियेतेत्येवमर्थं संरभेथां त्वरेथां न तु तूष्णीमासाथाम् । तच्च गोत्रायोपयुज्यते, गोत्रसंभवाः पूर्वे परे च ये सन्ति तेषां सर्वेषामिदमनुष्ठानमुपयुक्तम् । अथाष्टमीमाह -
वयमन्तरिक्षं जिहिँसिम हिंसितवन्त इति यत्पापमस्ति, तथा पृथिवीं जिहिँसिमेति यदस्ति, उतापि च द्यां जिहिँसिमेति यदस्ति । लोकत्रयवर्तिनां प्राणिनामपकारस्तद्धिंसा । तथा मातरं पितरं वा जिहिँसिमेति यदस्ति, तस्मात्सर्वस्मादेनसो नोऽस्मान्गार्हपत्योऽग्निर्गृहपतेर्यजमानस्य संबन्धी वह्निरुन्नेषदुन्नयतु, पापादुद्धृतान्करोतु । यानि चान्यानि दुरितानि चकृम तेभ्योऽप्युन्नयतु । अथ नवमीमाह -
येयं भूमिः सेयं नोऽस्माकं माता लोकानां सर्वेषां निर्मात्री । अदितिर्देवी जनित्रं जननीस्थानीया । भूमिरचेतना निवासाधिकरणभूता, तदभिमानिनी देवताऽदितिः । यदिदमन्तरिक्षं तदस्माकं भ्राता भ्रातृस्थानीयम् । यदेनोऽस्माभिः कृतं तदभिशस्तः शत्रुस्थानीयम् । येयं द्यौः सेयं नः पिता पितृस्थानीया । यथा परमेश्वरेण सम्पादितः सर्वसाधारणोऽयं बन्धुवर्गः, तथा हे यजमान बन्धुवर्गसंपादनार्थं त्वं पितृयात्पितृत्वमिच्छञ्छं भवासि सुखं प्राप्नोषि । ऐहिकामुष्मिकसुखसिद्धये पुत्रानुत्पादयेत्यर्थः, जामि मित्वाऽऽलस्येन पुत्रोत्पत्तिरहित एव सन्मृत्वा लोकादृणत्रयरहितानां योग्यं लोकं मा विवित्सि नैव लप्स्यसि(से) । अथ दशमीमाह -
यत्र यस्मिन्पुण्यलोके स्थिताः सुहार्दः शोभनहृदयोपेताः सुकृतः पुण्यकर्माणः स्वायां तन्वां स्वकीये शरीरे रोगं विहाय परित्यज्य मदन्ते हृष्यन्ति, अश्लोणाङ्गैः श्लोणो रोगविशेषस्तद्रहितैरङ्गैर्युक्ता अह्रुताः कौटिल्यरहिताः केनचिदप्यवञ्चिताः सर्वे वयं तत्र स्वर्गे स्थित्वा पितरं पुत्रं च पश्येम । तादृशं जन्म भूयादित्यर्थः । अथैकादशीमाह -
हे देवा अहं दास्यन्नदास्यन्प्रत्यर्पणं चिकीर्षुरचिकीर्षुर्वा, तात्कालिकेन सर्वथा प्रत्यर्पयिष्यामीत्येतादृशेनानृतवचनेन धनमादाय यदन्नमद्मि भक्षयामि, अथवा किञ्चित्कार्यं परकीयं करिष्यामीत्यनेनानृतेन वचनेन धनमादाय तत्कार्यमकरिष्यन्यदन्नमद्मि, यदपि देवानां चक्षुषि दृष्टिविषये मया कृतमागः पापमस्ति, आदित्याभिमुख्येन मूत्रविसर्गादि । तथा च स्मर्यते -
“प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजम् । मेहन्ति ये च पापिष्ठास्ते भवन्ति गतायुषः ॥” इति । किञ्च यदेव किञ्चिच्छूद्रादिधनं प्रतिजग्राहं प्रतिगृहीतवानस्मि, तस्मात्सर्वस्मादेनसो विमुच्यायमग्निरनृणरहितं करोतु । अथ द्वादशीमाह -
बहुधा विरूपं द्रव्यदोषात्कर्तृदोषाद्देशकालदोषादिना वा बहुप्रकारेण शास्त्रनिषिद्धं यदन्नमद्मि तथा वस्त्रादीनपि निषिद्धान्स्वीकरोमि । यद्देवानामित्यादि पूर्ववत् । अथ त्रयोदशीमाह -
मया कर्त्रा कदाचनेह जन्मनि जन्मान्तरे वा यदा कदाचिदपि मनसा वाचा वा यदेनः कृतम्, हेऽग्नेरस्माभिरीडितः स्तुतस्त्वं मां तस्मात्सर्वस्मादेनसो मोग्धि मुञ्च हि यस्मात्कारणाद्धेऽग्ने त्वं यथातथं वेत्थ वस्तुनस्तथात्वमनतिक्रम्य यथातथं यस्य पापस्य यः प्रतीकारस्तस्य तत्सर्वं जानासि, तस्मान्मां पापान्मुञ्च ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥६॥अथ द्वितीयप्रपाठके सप्तमोऽनुवाकः
षष्ठेऽनुवाके कूष्माण्डहोमाङ्गमन्त्राः समापिताः । सप्तमे स होमो विधीयते । तदर्थमाख्यायिकामाह -
पूर्वप्रपाठके ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्निति त्रिविधा ऋषय आख्याताः । तन्मध्ये ये वातरशनाख्या ऋषयः श्रमणास्तपस्विन ऊर्ध्वमन्थिन ऊर्ध्वरेतसो बभूवुः, तान्वातरशनाख्यानृषीन्प्रत्यन्ये केचिदृषयोऽर्थमायन्नर्थयितुमागताः । तं वृत्तान्तमादावेवावगत्य किमशक्यमेते करिष्यन्तीतिनिश्चयरहितास्ते वातरशना निलायं कुत्रचिदन्तर्हिता अचरन् । अन्तर्धानस्थानं विचार्य योगसामर्थ्यात्सूक्ष्मशरीरा भूत्वा कूष्माण्डाख्यानि मन्त्रवाक्यान्यनुप्रविष्टाः । इतरे तु महर्षयः श्रद्धापूर्वकेण तपसा शुद्धचित्ताः सन्तो ध्यानेनान्विष्य तेषु कूष्माण्डमन्त्रेष्ववस्थितान्वातरशनाख्यांस्तानृषीन्प्रत्यक्षेणापश्यन् । अथ तेषामुभयेषां परस्परसंवादं दर्शयति -
तान्वातरशनानृषय इतरेऽब्रुवन्, हे वातरशनाः कथा केन हेतुना निलायं निलीय चरथेति । ते च वातरशनास्तैः पृष्टाः सन्तस्तानुपचरितुमिदमब्रुवन्, हे भगवन्त ऐश्वर्यादिषड्गुणयुक्ता वो युष्मभ्यं नमस्कारोऽस्तु महात्मानो यूयमस्मदीये स्थाने समागता अतोऽत्र केन साधनेन युष्मान्परिचरामेति । ततस्तान्वातरशनानितरेऽब्रुवन्, येन साधनेन वयमरेपसः पापरहिताः स्याम तादृशं पवित्रं शुद्धिकारणमस्मभ्यं ब्रूतेति । ते वातरशना अप्रयासेन सहसा शुद्धिप्रदं विचार्यैतानि वक्ष्यमाणानि सूक्तानि तेषां कथनयोग्यानीति निश्चितवन्तः । अथ तदुक्तं प्रयोगक्रमं दर्शयति -
अनुवाकक्रमेण होमः । चतुर्थानुवाकेनोपस्थानम् । वेदत्रयविद्ब्राह्मणो भ्रूणस्तदीयहत्याया अर्वाचीनं यत्पापं तस्मात्सर्वस्मान्मुक्ता भविष्यथेति । तदुत्तरं महर्षिवृत्तान्तमाह -
अरेपसः पापरहिताः । इदानीं विधत्ते -
प्राप्स्यमानकर्मारम्भेषु कूष्माण्डहोमेन पूतस्य देवलोकप्राप्तिर्भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥७॥अथ द्वितीयप्रपाठके अष्टमोऽनुवाकः
सप्तमे कूष्माण्डहोमः कर्मादिषु विहितः । अष्टमे दीक्षादिकं विधीयते । तत्राऽदौ कर्मादिव्यतिरिक्तस्थले होमं विधत्ते -
यः पुमान्संदिग्धेन पापेन स्वस्य पूतत्वं नास्तीति मनसि शङ्कते स पुमान्कूष्माण्डहोमेन पूतो भवति । अथ महापातकसमस्य पापस्य निवृत्यर्थं होमं विधत्ते -
अयोनौ प्रतिषिद्धयोनौ यो रेतः सिञ्चति एष सुवर्णस्तेयकारिणा भ्रूणहत्याकारिणा च समो भवति, सोऽपि कूष्माण्डैर्जुहुयात् । तेनोक्तेन होमेन यथोक्तपापनिवृत्तिं दर्शयति -
भ्रूणहत्यासमस्यापि मुख्यभ्रूणहत्याया अर्वाचीनत्वेन होमेन निवृत्तिर्युज्यते । भ्रूणहत्याया अर्वाचीनमपि तारतम्यतो भवति तस्मात्कथमेकेन होमेन निवृत्तिरित्याशङ्क्य दीक्षातारतम्येनेत्युत्तरं दर्शयति -
अल्पं महद्वा यावदेनो भवति तदनुसारेणाल्पां महतीं वा दीक्षां कृत्वा तस्यैनस उचिते काले सतति प्रतिदिनं जुहोति तत्र तारतम्येन षड्दीक्षाभेदाः । तत्र प्रथमं दीक्षाभेदं दर्शयति -
न मांसमश्नीयादितिनियमाचरणं दीक्षा पापाधिक्ये सति संवत्सरं दीक्षितो भूत्वा तस्मिन्संवत्सरे प्रतिदिनं जुहुयात् । तया संवत्सरदीक्षया स्वात्मानं शोधयति । पापानुसारेण दीक्षायाः पक्षान्तराणि विधत्ते -
पापबाहुल्ये सति संवत्सरनियमेन या शुद्धिः पापाल्पत्वे सा शुद्धिर्मासमात्रेण समवाप्यते । एवमुत्तरेष्वपि । अतः सर्वेषां संवत्सरसाम्यम् । गायत्रीपादानां त्रित्वसाम्येन त्रिरात्रदीक्षाया गायत्रीत्वात्तयैव शुद्धिर्भवति । अथ नियमान्विधत्ते -
उपरि खट्वादौ । स्पष्टमन्यत् । अथ वर्णभेदेन दीक्षादिनेषु भोजनद्रव्यविशेषं विधत्ते -
व्रतं भोजनमित्यर्थः । तदेतद्व्रतं प्रशंसति -
अपि च न केवलं कूष्माण्डहोमकर्मण्येवैतद्व्रतं किंतु सोमयागेऽप्येतदेव दीक्षाव्रतं कर्तव्यमित्येव ब्रूयात् । यस्मान्महत्यपि यज्ञे व्रतमिदमपेक्षितं तस्मादिदं प्रशस्तम् । अशक्तं प्रति कंचिद्विशेषं विधत्ते -
दीक्षितो यथोक्तव्रतेनोपदस्याम्युपक्षीणो भवामीति यदि मन्येत, तदानीं यथोक्तदीक्षादिव्रतमनु शरीरस्योपक्षयपरिहारार्थमोदनादिकं यत्किञ्चिदनुव्रतयेद्भुञ्जीत । धाना भृष्टयवतण्डुलाः । सक्तवस्तत्पिष्टानि । इतिशब्देनेदृशमन्यदपि विवक्ष्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके अष्टमोऽनुवाकः ॥८॥अथ द्वितीयप्रपाठके नवमोऽनुवाकः
अस्य प्रपाठकस्य स्वाध्यायब्राह्मणमिति समाख्यातः स्वाध्याय एवात्र प्राधान्येन विधेयः । तस्मिंश्च शुद्धः पुमानधिकारी । अतः शुद्धिहेतून्यज्ञोपवीतसंध्यावन्दनकूष्माण्डहोमानभिधाय स्वाध्यायं विधातुमुपाख्यानमाह -
कल्पादावेव ब्राह्मणाः सृष्टा न ह्यस्मदादिवत्कल्पमध्ये पुनः पुनर्जायन्ते तस्मादजाः । ते च पृश्नयः शुक्लाः स्वरूपेणैव निर्मलाः सन्तोऽपि पुनस्तप आचरन् । तदीयेन तपसा तुष्टं स्वयंभु ब्रह्म जगत्कारणत्वेन स्वतः सिद्धं परब्रह्मवस्तु कांचिन्मूर्तिं धृत्वा तपस्यमानांस्तानृषीननुग्रहीतुमभ्यानर्षदाभिमुख्येन प्रत्यक्षमागच्छत् । ततस्ते मुनय एतं ऋषिधात्वर्थविषयत्वादृषयोऽभवन् । तस्मादन्येषामपि ऋषीणामनयैव व्युत्पत्यर्षित्वं सम्पन्नम् । ततस्ते मुनयः सर्वकामप्रदं कंचिद्यज्ञं कामयमानाः स्वयंभुब्रह्मरूपां तां देवतामुपासितवन्तः । तद्देवतानुग्रहात्ते मुनय एतं वक्ष्यमाणं ब्रह्मयज्ञं सर्वकामहेतुमपश्यन् । दृष्ट्वा च तं यज्ञमाहरन्ननुष्ठितवन्तः । तेन यज्ञेन देवानपूजयन्त । ब्रह्म वेदस्तस्याध्ययनमेव सम्पादितं न तु यज्ञत्वमिति मतिं वारयितुं तत्राऽऽहुतीः सम्पादयति -
पादबद्धमन्त्रा ऋचस्ता अध्यगीषत त ऋषयोऽधीतवन्त इति यदस्ति ता अध्ययनक्रिया देवानां क्षीरद्रव्याहुतयोऽभवन्, तदाहुत्या या तुष्टिः सा तेषामृगध्ययनेन सम्पन्ना । एतदन्यत्रापि योज्यम् । अथर्वभिरङ्गिरोभिश्च दृष्टा मन्त्रा अथर्वाङ्गिरसः । ब्राह्मणानि कर्मचोदनाः “वायव्यँ श्वेतमालभेत” इत्यादयः । इतिहासा महाभारतादयः । पुराणानि । ब्रह्माण्डादीनि । यद्वा “देवासुराः संयत्ता आसन्” इत्यादय इतिहासाः । “आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्” इत्यादीनि सृष्ट्यादिप्रतिपादकानि पुराणानि । कल्पाः कल्पसूत्राणि प्रयोगप्रतिपादकानि । गाथा गायतिचोदिता मन्त्रविशेषा योऽस्य कौष्ठ्येत्यादयः । यमगाथाभिः परिगायतीति विधानात् । नराशंसपदोपेता नाराशंस्यो होता यक्षन्नराशंसमित्याद्याः । मन्त्रब्राह्मणान्तःपठितानामपि पुनरुक्तिः फलातिशयद्योतनार्थम् । मेदाहुतयो मांसाहुतयः । ताभिराहुतिभिर्देवाः क्षुद्रूपं पाप्मानं विनाशितवन्तः । स्वाध्यायजन्यतृप्त्या क्षुधं विस्मृतवन्तः । ततः क्षुद्रूपपापरहिता देवाः सुखमनुभवितुं स्वर्गं गताः । ऋषयश्च पूर्वोक्ता अध्ययनेन ब्रह्मयज्ञेन जगत्कारणस्य ब्रह्मणः सायुज्यं प्राप्ताः । ब्रह्मज्ञानोत्पादनद्वारा मुक्तिहेतुत्वं ब्रह्मयज्ञस्य युक्तम् । अत एव ज्ञानसाधनेषु प्राथम्येन वेदानुवचनं वाजसनेयिनः समामनन्ति - “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके नवमोऽनुवाकः ॥९॥अथ द्वितीयप्रपाठके दशमोऽनुवाकः
नवमे ब्रह्मयज्ञविधिप्रस्तावार्थमुपाखयानमुक्तम् । इदानीं तद्विधिप्रसङ्गेन पञ्च महायज्ञान्विधत्ते -
एवं यज्ञानां पाठतः पञ्चत्वं न तु स्वरूपविस्तारेण । सतति सततं दिने दिने प्रतायन्तेऽनुष्ठीयन्ते । सतति प्रतिदिनं संतिष्ठन्ते समाप्यन्ते । यस्मिन्दिन उपक्रमस्तस्मिन्नेव दिने तत्समाप्तिः, न तु यज्ञान्तरवद्दिनान्तरापेक्षा । देवयज्ञ इत्यादीनि तेषां नामानि । तत्र देवयज्ञस्य लक्षणमाह -
पुरोडाशादिहविर्मुख्यं तदलाभे समिधमप्यग्नौ देवानुद्दिशञ्जुहोतीति यत्सोऽयं देवयज्ञः । स च सकृद्दोममात्रेण समाप्यते । पितृयज्ञस्य लक्षणमाह -
तत्र पिण्डदानासम्भवे जलमात्रमपि पितृभ्यः स्वधाऽस्त्विति स्वधाशब्देन यद्ददाति सोऽयं पितृयज्ञः । तावतैव समाप्यते । भूतयज्ञस्य लक्षणमाह -
वैश्वदेवानुष्ठानादूर्ध्वं बहिर्देशे वायसादिभ्यो भूतेभ्यो यद्बलिप्रदानं सोऽयं भूतयज्ञः, तावतैव समाप्यते । मनुष्ययज्ञस्य लक्षणमाह -
वैश्वदेवादूर्ध्वं हन्तकारार्थान्नव्यतिरिक्तमन्नमतिथिभ्यस्त्र्यवरेभ्यो ब्राह्मणेभ्यो यद्दीयते स मनुष्ययज्ञः, तावतैव समाप्यते । ब्रह्मयज्ञस्य लक्षणमाह -
स्वस्यासाधारणत्वेन पितृपितामहादिपरम्परया प्राप्ता वेदशाखा स्वाध्यायः । तत्र विद्यमानमृगादीनामन्यतममेकमपि वाक्यमधीयीतेतियत्सोऽयं ब्रह्मयज्ञः, तावतैव समाप्यते । तत्र विशेषाकारेणाध्ययनं पृथक्पृथक्प्रशंसति -
कूलमर्हन्तीति कूल्या महानद्यः । ऋगध्ययनेन क्षीरपूर्णा महानद्यः स्वधाकारेण दत्तं हविर्भूत्वा पितॄनभिलक्ष्य प्रवहन्ति । तथा यजुरध्ययनेन घृतपूर्णो महानदीप्रवाहः । सामाध्ययनादेभ्यः पितृभ्यः सोमो धारया युक्तः पवते प्रवहति । एवमथर्वाङ्गिरसामध्ययनेन मधुपूर्णा नद्यः प्रवहन्ति । ब्राह्मणाद्यध्ययनेन मांससंबन्धी प्रवाहः । पितृतृप्त्या ब्रह्मयज्ञं प्रशस्य देवतृप्त्याऽपि प्रशंसति -
ऋगध्ययनं यदस्ति तेन क्षीराहुतिसमाना देवानां तृप्तिर्भवति । एवमुत्तरत्रापि योज्यम् । ते देवास्तृप्ताः सन्त एनं यजमानमायुरादिभिस्तर्पयन्ति । तेजः शरीरकान्तिः, वर्चो बलम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके दशमोऽनुवाकः ॥१०॥अथ द्वितीयप्रपाठके एकादशोऽनुवाकः
दशमे ब्रह्मयज्ञोऽभिहितः । एकादशे तत्प्रयोगोऽभिधीयते -
यः पुमान्ब्रह्मयज्ञं करिष्यति सोऽयं ग्रामात्प्राचीमुदीचीमैशानीं वा दिशं गच्छेत् । गृहस्योपर्याच्छादनार्थानि तृणकटादीनि च्छदींषि, यावति दूरे तानि न दृश्यन्ते तावद्दूरमच्छदिर्दर्शं तत्र गत्वा सूर्येऽभ्युदिते सति प्रथमानुवाकोक्तप्रकारेण यज्ञोपवीतं कृत्वा शुद्धप्रदेश उपविश्य हस्तद्वयं पूर्वं शुद्धमप्येतदङ्गत्वेन पुनः प्रक्षाल्योदकं त्रिः पिबेत् । द्विः मरिमृज्य शुध्यर्थमुदकेन तदा हस्तं प्रक्षालयेत्, तत ओष्ठौ सकृदुपस्पृश्य शिरःपृभृतीन्हृदयपर्यन्तानवयवान्क्रमेण स्पृष्ट्वा दर्भाणां महदित्यादिना वक्ष्यमाणेन सहान्वयः । अथाऽऽचमनादीन्प्रशंसति -
अत्र सव्यपाणिपादयोः प्रोक्षणानुवादादेव प्रोक्षणविधिरुन्नेतव्यः हृदयस्पर्शनोत्तरभाविकर्तव्यं विधत्ते -
दर्भाणां सम्बन्धि महत्प्रभूतं यथा भवति तथाऽऽसनमास्तीर्य तस्योपर्युपस्थं कृत्वा । उपस्थशब्द आसनविशेषं ब्रूते । आकुञ्चितस्य सव्यजानुन उपरि दक्षिणपादप्रक्षेपे सति यत्सुखावस्थानं भवति तत्कृत्वा । प्राङ्मुख आसीनः स्वकीयां शाखामधीयीत । दर्भाणामप्सारत्वमन्यत्राऽऽम्नातम्, “तासां यन्मेध्यं यज्ञियँसदेवमासीत्तदपोदक्रामत्ते दर्भा अभवन्” इति । ओषधीनां मध्ये दर्भाणां शुद्धिहेतुत्वात्तत्सारत्वं ततो दर्भासनवताऽधीयमानं ब्रह्म सरसं भवति - तत्रोपक्रमे कंचिद्विशेषं विधत्ते -
दक्षिणः पाणिरुत्तरो ययोस्तौ दक्षिणोत्तरौ । वामं पाणिं दक्षिणजानुन ऊर्ध्वमुत्तानं कृत्वा तस्योपरि दक्षिणहस्तमवाञ्चं कुर्यात् । तादृशौ च पाणी पवित्रयुक्तौ कार्यौ । तथा दक्षणपादोऽपि वामपादस्योपरि स्थापनीयः । एवं कृत्वोमितिप्रणवोच्चारणेनोपक्रमं कुर्यात् । योऽयमोमित्येवंरूपो यजुर्मन्त्रः स त्रयीं विद्यां प्रति वेदत्रयस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमात्राणां वेदत्रयरूपेणाध्ययनमाथर्वणिका आमनन्ति - “तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स ऋग्भिर्ऋग्वेदोऽथ द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः स सामभिः सामवेदः” इति । किंचैषा प्रणवरूपा सर्वा वागपि । अत एव च्छन्दोगा आमनन्ति - “तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णा” इति । अश्वत्थपत्रे दृश्यमानास्तन्तुसदृशा अवयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानिव्याप्तानि तद्वदोंकारेण सर्वाऽपि वाग्व्याप्ता । ऐतरेयेऽपि प्रणवादेरकारस्यैव सर्ववाग्व्याप्तिमामनन्ति - “अकारो वै सर्वा वाक्सैषा स्पर्षोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति” इति । अत एव मातृकामन्त्रे सर्वानपि ककारादीन्वर्णानकारशिरस्कानेव पठन्ति य(त)स्माद्युक्तं प्रणवस्य सर्वात्मकत्वम् । किंचैतत्प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्ववेदान्तवेद्यं परब्रह्मवस्तु । अत एव पिप्पलादशाखायामधीयते -“एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः” इति । कठाश्च पठन्ति - “एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम्” इति । तस्मात्प्रणवेनैव स्वाध्यायप्रारम्भो युक्तः । प्रणवप्रशंसापरामृचमवतारयति -
तदेतत्परब्रह्मस्वरूपं प्रणवाक्षरं कयाचिदृचा स्पष्टमुक्तम् । तामृचं दर्शयति -
या एता ऋचस्ताः सर्वाः परम उत्कृष्टे व्योमन्विशेषेण रक्षकेऽक्षरे प्रणवे निषेदुराश्रिताः । अत एव कठशाखायामभिधीयते -
“सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ॥” इति ।
न केवलमृच एव तस्मिन्प्रणवे समाश्रिताः किंतु विश्वे सर्वे देवा अपि यस्मिन्प्रणवाक्षरेऽधिनिषेदुः, अधिकत्वेन निषण्णाः । अत एवोत्तरतापनीये देवानां परमात्मध्यानार्थं प्रणवपर्यवसानमुक्तम् - “आत्मानमनुष्टुभाऽन्विष्य प्रणवेनैव तस्मिन्नवस्थिताः” इति । अनेनैव प्रकारेणर्चो देवाश्च यस्मिन्प्रणवे निषेदुस्तत्प्रणवाक्षरं यो न वेद स पुमानधीयानोऽपि ऋचा किं करिष्यति, न खलु फलरहितां कृषिं केचित्प्रार्थयन्ते । य इद्ये पुनर्महात्मानस्तत्प्रणवाक्षरं विदुस्ते महर्षय इमे परिदृश्यमानाः परमहंसाः समासते सम्यगवतिष्ठन्ते । ऐहिकामुष्मिकविषयक्लेशरहिताः सुखिनो वर्तन्ते । तांश्च परमहंसाञ्जाबालशाखाध्यायिन उदाहरन्ति - “तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयः” इति । इत्यनेन मन्त्रेण प्रशस्तत्वात्प्रणवस्य वेदत्रयप्रतिनिधित्वं युक्तम् । तेन प्रणवेन प्रारभ्य पश्चात्पठनीयान्मन्त्रान्दर्शयति -
भूर्भुवः स्वरिति यद्व्याहृतित्रयं तल्लोकत्रयात्मकब्रह्मप्रतिपादकं तदाह पठेत् । तेन त्रीनेव वेदान्प्रयुक्तवान्भवति । व्याहृतीनां वेदत्रयसारत्वेन प्रोक्तत्वात् । एतच्च च्छन्दोगा अधीयते - “स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः” इति । (एतद्व्याहृतित्रयं) वेदत्रयसारत्वेन प्रोक्तत्वाद्वाचः सम्बन्धि सत्य(त्यं)स्वरूपमित्युच्यते । अतस्तत्सत्यमेव प्रयुक्तवान्भवति । व्याहृतित्रयादूर्ध्वं पठनीयं दर्शयति -
अथ व्याहृत्यनन्तरं सावित्रीं सवितृदेवताकां गायत्रीच्छन्दस्कां तत्सवितुरित्यादिकामृचं च त्रिः पठेत् । तत्रायं प्रकारः । प्रथमं पादशः पादे पादे विरम्य पठेत् । ततोऽर्धर्चश एकैकस्मिन्नर्धे विरम्य पठेत् । ततोऽनवानं विरामरहितं यथा भवति तथा पठेत् । तस्यामृचि प्रतिपाद्यो यः सविता सोऽयं श्रियः प्रेरकः, अतो ब्रह्मयज्ञानुष्ठायी श्रियं प्राप्नोत्येव । एवमेकस्मिन्नहनि विधानमुक्तम् । अथो अनन्तरम् । तदादिदिवसेषु, प्रज्ञातयैव प्रतिपदा पूर्वस्मिन्दिवसे किञ्चित्पठित्वा परेद्युरनुष्ठानायायमुपक्रम इति या प्रतिपत्प्रज्ञाता यः प्रारंभप्रदेशो बुद्धौ स्थापितस्तयैव प्रतिपदा प्रारम्भप्रदेशेन च्छन्दांसि वेदावयवान्परेद्युः प्रतिपद्यते प्रारभते । पूर्वेद्युर्यावद्व्यवसितं तत एवाऽऽरभ्योत्तरेद्युरधीयीत न तु विप्रयुक्तं कंचिद्वेदभागम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके एकादशोऽनुवाकः ॥११॥अथ द्वितीयप्रपाठके द्वादशोऽनुवाकः
यत्पूर्वमुक्तं प्राच्यां दिशि ग्रामाद्बहिरित्यादि । तत्राशक्तस्यानुकल्पं विधत्ते -
यदा बहिर्गन्तुमशक्तो ग्रामेऽधीयते तदा मनसैवाधीयीत । उदित आदित्ये प्रारब्धुमशक्तश्चेद्दिवा नक्तं वाऽधीयीत । कस्यचिन्महर्षेर्मते मुख्य एवायं पक्षोऽपीति दर्शयितुं तमृषिमुदाहरति -
शुचिनामकस्य महर्षेः पुत्रः शौचः, अह्निसंज्ञिताया मातुः पुत्र आह्नेयो महर्षिरिति ह स्माऽऽह ग्रामे मनसेत्यादिकमपि मुख्यपक्षमे(ए)वेत्याह । नियमान्तरेष्वप्यशक्तस्यानुकल्पान्विधत्ते -
ग्रामे मनसाऽध्ययनमुक्तम्, अरण्येऽप्यबलोऽशक्तश्चेन्मनसाऽधीयीत । तमेवाबलं प्रत्युत वाचेति पक्षान्तरमुच्यते । उच्चैरध्येतुमशक्तः केवलेन मनसा, यदा निद्रालस्यचिन्तादिकं भवति तदानीं वाचा जिह्वास्पन्दनमात्रेणाधीयीत । दर्भेष्वासीन इति यदुक्तं तत्राऽऽसननिर्बन्धे शक्तिरहितस्योत व्रजन्नित्यादयः पक्षाः । आलस्यपरिहारायेतस्ततः शनैर्व्रजन्वा क्वचिदेव तिष्ठन्वा स्वेच्छयैवोपविश्य वा शयानो वा शक्त्यनुसारेण स्वाध्यायमधीयीतैव । न त्वङ्गलोपानुसारेण प्रधानस्य लोपो न्याय्यः । तादृशस्वाध्याययुक्तोऽपि तपस्वी भवति, अध्ययनफलं प्राप्नोति । पुण्यः पङ्क्तिपावनश्च भवति । एतस्य ब्रह्मयज्ञस्याङ्गभूतं कंचिन्मन्त्रं प्रदर्शयति -
ब्रह्मशब्देन वेदः प्रजापतिर्वोच्यते । वाक्यशब्देन सरस्वती । वाचस्पतिर्बृहस्पतिः । प्रशस्तत्वाद्विष्णुर्बृहत् । अस्य मन्त्रस्य विनियोग उपरिष्टाद्भविष्यति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥१२॥अथ द्वितीयप्रपाठके त्रयोदशोऽनुवाकः
तत्रैव ब्रह्मयज्ञे कंचिदन्यं विशेषं विधत्ते -
मध्यंदिनकाले प्रबलमुच्चतरं यथा भवति तथाऽधीयीत । योऽयं ब्रह्मयज्ञानुष्ठाता ब्राह्मणोऽस्ति स एषोऽसौ दिवि दृश्यमान आदित्य एव तत्प्राप्तियोग्यत्वात् । यस्मादादित्यरूपो ब्राह्मणो मध्यन्दिने प्रबलमधीयीत तस्मात्तदात्मक आदित्योऽपि तर्हि मध्यन्दिने काले तेक्ष्णिष्ठमतिशयेन तीक्ष्णं यथा भवति तथा तपति । तदेतदादित्यमाहात्म्यं प्रति काचिदृगभ्युक्ता । तामेतामृचं दर्शयति -
देवानां दीप्यमानानां रश्मीनामनीकं समूहावष्टम्भनरूपमादित्यमण्डलं चित्रं कालभेदेनारुणशुक्लादिवर्णोपेतत्वाच्चित्रं तादृशं मण्डलमुदगात्पूर्वस्यां दिश्युदयं प्राप्नोत् । तच्च मण्डलमन्धकारनिवारणोपयुक्तत्वान्मित्रादीनां चक्षुःस्थानीयम् । तदर्थमेवायं लोकत्रयमाप्रा रश्मिभिरापूर्य वर्तते । तन्मण्डलवर्ती सूर्यरूपः परमात्मा जगतो जङ्गमस्य तस्थुषः स्थावरस्याऽऽत्मा जीवरूपेण शरीरेष्ववस्थितः । इत्यनेन मन्त्रेणाऽऽदित्यमाहात्म्यमवगन्तव्यम् । ब्रह्मयज्ञस्येतरयज्ञवैलक्षण्यं दर्शयति -
अयं ब्रह्मयज्ञो यस्मिन्नहनि प्रारभ्यानुष्ठीयते तस्मिन्नेवाहनि समाप्यते न तु यज्ञान्तरवदितरदिनेष्वनुगच्छति तस्मात्प्राक्प्रातःकाले प्रारब्धस्य तस्य यज्ञस्य सायमवभृथः समाप्तिः । समाप्तिकाले मन्त्रविशेषं विधत्ते -
परिधीयते समाप्यते यया सेयमृक्परिधानीया । सा चात्र पूर्वानुवाक आम्नाता, ॐ नमो ब्रह्मण इत्येषा, तां त्रिः पठेत् । तत्पाठादूर्ध्वं कर्तव्यतां दर्शयति -
सेयं दक्षिणा गृह एव न चारण्य इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥अथ द्वितीयप्रपाठके चतुर्दशोऽनुवाकः
ग्रहणाध्ययने यान्यनध्यायकारणानि तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारयन्तीति वक्तुं तेषामनध्ययनकारणानां यज्ञाङ्गतामुपचरति -
अनध्ययनहेतूनापस्तम्बो दर्शयति - विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्त्र्यहमनध्याय इति । सोऽयमकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने स्वीकार्य एव । यथा सोमयागे हविर्धानं न यागविरोधि तथा तत्र मेघोऽपि । एवं विद्युदादौ द्रष्टव्यम् । अग्निर्ग्रामगृहादिदाहकः । अकाले महानुत्पातरूपो वायुरात्मा यजमानस्थानीयः । स्पष्टमन्यत् । अनध्ययनहेतूनां वर्जनीयत्वं निवार्योपादेयत्वं दर्शयति -
मेघादयो विरोधिनो न भवन्तीति यो विद्वांसोऽयं सत्स्वपि मेघादिनिमित्तेषु स्वाध्यायमधीते तदा तपस्तप्तं भनति । यस्मादयं ब्रह्मयज्ञः स्वाध्यायः कृच्छ्रचान्द्रायणादिवत्तपोरूपस्तस्मान्न सन्त्यनध्यायाः । न हि चान्द्रायणादिकं मेघादिषु वर्ज्यते । कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति -
अनेन ब्रह्मयज्ञेन मरणादूर्ध्वमुत्तमं स्वर्गमारोहति, जीवनवेलायां पङ्क्तिपावनत्वात्समानानां मध्य उत्तमो भवति । उत्तमः स्वर्ग एव प्रपञ्च्यते । वित्तेन पूर्णां पृथिवीं ब्राह्मणेभ्यो ददत्पुरुषो यावन्तं स्वर्गमनेकभोगोपेतं प्राप्नोति तावन्तमसौ प्राप्नोति । ततो भूयांसमधिकपि प्राप्नोति अक्षय्यं पुनरावृत्तिरहितं च लोकं प्राप्नोति । तत्प्राप्तेरूर्ध्वं पुनर्मृत्युं न प्राप्नोति । किंतु परब्रह्मणः सायुज्यं मोक्षं गच्छति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥अथ द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ।
ग्रहणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोद्य कारणान्तरमनध्यायस्य दर्शयति -
उक्तस्य ब्रह्मयज्ञस्य द्वावनध्यायौ विद्येते । आत्मा ब्रह्मयज्ञस्य कर्ता स्वयमशुचिर्यदा भवति तदानीमेकोऽनध्यायः । देशो वा मूत्रपुरीषादिभिरशुचिर्भवति स द्वितीयोऽनध्यायः । न तु कश्चित्तृतीयोऽनध्यायहेतुरस्ति । अथ तस्य यज्ञस्य सुलभत्वं दर्शयति -
समृद्धिः सामग्री । सा च यज्ञान्तरेषु द्रव्यार्जनादिना संपाद्यते । इह तु दैवतान्येव सामग्री, न तु बाह्यसाधनं किंचिदपेक्षितमस्ति । ब्रह्मयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव, तस्मादेवम्भूते कालादिवैकल्यशङ्कां परित्यज्य यज्ञानुष्ठाने फलसिद्धिं दर्शयति -
अस्य यज्ञ(स्य)निमित्तद्वयव्यतिरेकेणानध्यायकारणं नास्ति सामग्री च न प्रयाससम्पाद्या विद्यत इत्येवं विद्वान्पुमान्कालविषय आसनादिनियमविषये देशविषये च श्रद्धाजाड्यं परित्यज्य यावत्तरसं यावद्बलं यथाशक्ति स्वाध्यायमधीयानः स्वापेक्षितान्सर्वाल्ँ लोकान्प्राप्नोति । तत्र तत्र लोके पुरुषान्तरवदृणयुक्तो न भवति, किंन्त्वनृण एवानुसञ्चरति, तत्तस्मिन्ननृणस्यानुसञ्चारे काचिदृक्चोक्ता विद्यते । तामेतामृचं दर्शयति -
अस्मिन्भूलोके परस्मिन्नन्तरिक्षे तृतीये द्युलोके च, ब्रह्मयज्ञबलादनृणाः स्याम । ऋणेऽपाकृते सति देवयानाः पन्थान उत्तरमार्गविशेषाः पितृयाणाः पन्थानो दक्षिणमार्गविशेषा ऋणाभावेन प्रतिबन्धाभावात्सर्वानपि मार्गान्सर्वतः प्राप्नुयाम । ऋषीणामृणं ब्रह्मयज्ञेनापोद्यत इति तावत्सर्वेषां संमतम् । देवपितृकार्ययोरसमर्थस्य तदुभयविषयमप्यृणमनेनैवापोद्यते । अत एव स्मर्यते -
ततः सर्वान्पथो अनृणा आक्षीयेमेत्येतदुपपन्नम् । तदेतदनृणत्वं सम्भावयितुं पापस्पर्शराहित्येन स्वाध्यायं प्रशंसति -
योऽयमग्निः सृष्ट्यादावुत्पन्नस्तमुत्पन्नमात्रमेव सर्वः पाप्मा जग्राह, अग्निर्हि पापिनां पापशोधनाय समुत्पन्नः । अत एव स्मृतिकारा भाण्डादीनां पुनःपाकेन शुद्धिं ब्रुवते । यथा लोकेऽत्यन्तमलिनं वस्त्रमल्पजलेन यदा प्रक्षाल्यते तदानीं वस्त्रमालिन्यं सर्वं जले प्रविशति, तथा शोधनीयवस्तुगतः पाप्मा शोधकेऽग्नौ प्रविष्टः । तमग्निगतं पापं(प्मानं) देवा आहुतिभिर्विनाशितवन्तः । तदाहुतिगतं पापं कृत्स्नं यज्ञेन, यज्ञगतं च पापं दक्षिणाभिः, दक्षिणागतं च पापं प्रतिग्रहीत्रा ब्राह्मणेन, ब्राह्मणगतं च पापं तत्तन्मन्त्रगतैर्गायत्र्यादिच्छन्दोभिः, छन्दोगतं च पापं स्वकीयशाखारूपेण स्वाध्यायेन । न चात्र स्वाध्यायगतस्य पाप्मनो निवर्तकान्तरमन्वेष्टव्यम् । यस्मादपहतपाप्मा स्वाध्यायः, न खलु कश्चिदपि पाप्मा स्वाध्यायं स्प्रष्टुमीष्टे । यस्मादेतत्स्वाध्यायस्वरूपं देवानामपि शोधकम्, देवा हि पूर्वस्मिञ्जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तदर्थं चानुष्ठाय शुद्धाः सन्तो देवत्वं प्राप्ताः, (तस्मात्) तमीदृशं स्वाध्यायं योऽनूत्सृजति यः पुरुषः प्रारभ्य पश्चात्त्यजति स पुमानभागो वाचि भवति । वाङ्मात्रनिष्पाद्यत्वेनाप्रयाससाध्यं स्वाध्यायाध्ययनं तथाविधायां प्रयासरहितायां महाफलहेतुभूतायां वाच्यपि भाग्यं तस्य परित्यक्तुर्नास्ति । महाप्रयासनिष्पाद्ये ज्योतिष्टोमादिसाध्ये स्वर्गे भाग्यं नास्तीति किमु वक्तव्यम् । यो हि पाणिलब्धं चिन्तामणिमग्निमध्ये प्रक्षिपति स भाग्यहीन इत्यस्मिन्नर्थे न कोऽपि विप्रतिपद्यते । तत्तस्मिंश्चिन्तामणिपरित्यागसदृशोऽयं स्वाध्यायपरित्याग इत्यस्मिन्नर्थे काचिदृगभ्युक्ता । तामेतामृचं दर्शयति -
यः पुमान्वेदस्य वाङ्मात्रनिष्पाद्यमध्ययनं करोति तं पुमांसं वेदः समस्तपापक्षयद्वारेण मोक्षपर्यन्तोत्तमगतिप्रदानेन प्रियं सखायमिवातिस्नेहेन पालयति, तस्मादध्येतारं सखायं वेत्तीति सखिवित्स्वाध्यायः स्वयं च तस्य पुरुषस्य सखाऽत्यन्तस्नेहेन कदाचिदप्यनपायात् । न हि निरन्तराध्यायिनं स्वाध्यायः कदाचिदपि परित्यजति, किंतु दिनेदिनेऽतिशयेन तस्याधीनो भवति । तादृशं सखिविदं स्वयमपि सखायं यस्तित्याज परित्यक्तवान्, तस्य परित्यक्तुर्वाच्यपि भागो नास्ति, आयासरहिते महाफले पाठेऽपि भाग्यं नास्ति । किमु वक्तव्यं महाप्रयाससाध्येऽनुष्ठाने तत्फले वा । यदीं यद्यपि स्वाध्यायत्यागी कदाचिद्विद्वत्सभायामुपविश्य बहूनि शास्त्राणि शृणोति तदानीमलकमलीकमनृतमेव शृणोति पुरुषार्थपर्यवसानाभावात् । न हि काव्यनाटकालंकारादिश्रवणेन वृथायुःक्षयमन्तरेण कंचित्पुरुषार्थं पश्यामः । अत एव वाजसनेयिनः समामनन्ति - “नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्” इति । वेदव्यतिरिक्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसायित्वमेवोपपाद्यते । यस्मादयं वेदत्यागी सुकृतस्य पन्थां पुण्यानुष्ठानमार्गं न जानाति तस्मात्कण्ठशोषमात्रपर्यवसानम् । द्विविधं हि पुरुषेणार्थ्यते, ऐहिकजीवनमामुष्मिकौ च भोगमोक्षौ । तत्र जीवनस्य काव्यादेरपि कृषिवाणिज्यादिकमि(देरि)व भवेत्साधनत्वम् । आमुष्मिकमार्गं तु वेदमन्तरेण सर्वतो न जानाति । अतः शास्त्रान्तराणि शृण्वतः कण्ठशोष एव परिशिष्यते । न केवलं सुकृतज्ञानमात्राभावः प्रत्युत दुरितं च महत्संपद्यते । अत एव मनुना स्मर्यते -
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते मतिम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥” इति । इत्थं स्वाध्यायपरित्यागे बाधं दर्शयित्वा तदनुष्ठाने श्रेयो दर्शयति -
यस्मात्स्वाध्यायव्यतिरेकेण सुकृतमार्गो न ज्ञायते तस्मात्स्वाध्यायोऽध्येतव्यः, ग्रहणाध्ययनं ब्रह्मयज्ञाध्ययनं च कर्तव्यम् । तच्चोभयं परमपुरुषार्थसाधनमित्युपनिषदि बहूनामृषीणां मतभेदोपन्यासप्रसङ्गेन विस्पष्टमाम्नातम् - स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः, तद्धि तपस्तद्धि तप इति । सत्यवदनमेव परमपुरुषार्थसाधनमिति राथीतरस्य मतम् । कृच्छ्रचन्द्रायणादिरूपं तप एव तत्साधनमिति पौरिशिष्टेर्मतम् । मौद्गल्यस्त्वत्यन्तरहस्यदर्शी रहस्यार्थत्वात्तदेतदुभयमुवाच । तत्र ग्रहणार्थमध्ययनं(स्वाध्यायः) गृहीतस्य वेदस्य प्रतिदिनं ब्रह्मयज्ञरूपेण वचनं प्रवचनम् । उभे एवोत्तमे पुरुषार्थसाधने सत्यादीनामत्रार्थसिद्धत्वात् । यो हि निरन्तरं स्वाध्यायं पठति तस्यानृतवदने कः प्रसङ्गः । तपोऽप्यत्रार्थसिद्धं निषिद्धविषयप्रवणानामिन्द्रियाणां बलक्षयद्वारेणोद्धतत्वं वारयितुं कृच्छ्रचान्द्रायणादिना शरीरशोषरूपं तपः क्रियते । स्वाध्यायपरस्य तु विषयमात्रचिन्तैव नास्ति कुतो दुष्टविषयेषु प्रवृत्तिः । तच्चिन्तापूर्वकत्वं प्रवृत्तेर्भगवतोक्तम् -
“ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥” इति ।
विषयध्याननिवृत्त्यर्थमेव चित्तवृत्तिनिरोधरूपं योगं वक्तुं कृत्स्नं योगशास्त्रं प्रवृत्तम् । सा च विषयध्याननिवृत्तिः स्वाध्यायनिरतस्याप्रयासेनैव सिद्धा । तत्र किमनेन योगशास्त्रेण कृच्छ्रचान्द्रायणादिना तपसा वा । अत एवाभिज्ञा आहुः -
“अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान्यत्नमाचरेत् ॥” इति ।
एतत्सर्वमभिप्रेत्य मौद्गल्यस्तद्धि तपस्तद्धि तप इति प्रसिद्धिवाचकेन हिशब्देन वीप्सया च स्वाध्यायप्रवचनयोरत्यादरं दर्शयति । न च स्वाध्यायपाठमात्रेण यागानुष्ठानाभावान्न पुरुषार्थ इति शङ्कनीयम् । अयमध्येताऽग्निष्टोमवाजपेयराजसूयाश्वमेधादीनां मध्ये यंयं क्रतुं साङ्गमधीते, अस्याध्येतुः पुरुषस्य तेनतेन क्रतुनेष्टं भवति । त्रिविधो हि यागः । कायिको वाचिको मानसश्चेति, तत्राध्येतुर्वाचिकस्य निष्पत्तौ नास्त्येव विवादः । यद्यध्येताऽर्थमपि जानाति तदाऽध्ययनकाले तदनुसंधानान्मानसोऽपि निष्पद्यते । कायिकश्चेन्नास्ति, माऽस्तु नाम, द्रव्यार्जनरहितस्याधिकाराभावात् । यस्य त्वधिकारः कायिकमप्यसौ करोत्वितरस्य तु वाचिकेनैव तत्फलं लभ्यते । तस्मादयमध्येताऽग्न्यादीनां सायुज्यं गच्छति । तत्तस्मिन्वेदविदो माहात्म्ये काचिदृगभ्युक्ता । तामेतामृचं दर्शयति -
अर्वाङर्वाञ्चमिदानींतनमनुष्यमध्येतृरूपम्, उत वा पुराणेऽथवा पुरातनं व्यासवसिष्ठादिरूपम् । वेदं विद्वांसं पाठादर्थाच्च वेदतत्त्वाभिज्ञं महात्मानम् । ये मूर्खा अभितो वदन्ति तत्रतत्र निन्दन्ति ते मूर्खाः सर्वेप्यादित्यमेव निन्दन्ति । ततो द्वितीयमग्निं निन्दन्ति । ततस्तृतीयं हंसं गमनशीलं वायुं निन्दन्ति । अस्य वेदविदोऽग्निवाय्वादित्यसायुज्ययोग्यत्वादेतन्निन्दैव तेषां निन्दा, इत्यनेनैव मन्त्रेणाग्न्यादिरूपत्वलक्षणं वेदविन्माहात्म्यं दर्शितम् । अस्य मन्त्रस्य तात्पर्यं दर्शयति -
अग्निरवमो देवतानां विष्णुः परम इत्युक्तत्वादग्निप्रभृतयो विष्णुपर्यन्ता यावत्यो देवताः सन्ति ताः सर्वाः पाठतोऽर्थतश्च वेदविदि ब्राह्मणे वसन्ति । एकैकस्मिन्मन्त्र एकैको देवः प्रतिपाद्यते । ते च मन्त्राः सर्वेऽध्येतुर्वाचि वेदितुर्मनसि च वर्तन्ते, अतो वेदविदां ब्राह्मणानां सर्वदेवतात्मकत्वात्तेभ्यः प्रतिदिनं नमस्कुर्यात् । अश्लीलं तदीयमशुभं किमपि विद्यमानमविद्यमानं वा न कीर्तयेत् । एतेन वेदविदो ब्राह्मणस्य सत्कारेण सर्वा अप्येता देवताः परितोषयति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ॥१५॥अथ द्वितीयप्रपाठके षोडशोऽनुवाकः
अथ कस्यचिदयाज्यस्य याजने तथा कस्यचिदयोग्यस्य पुरुषस्य द्रव्यप्रतिग्रहे च प्रायश्चित्तत्वेन स्वाध्यायं विधत्ते -
यः पुमान्स्वयमापद्रहितोऽपि द्रव्यलोभादयाज्यं याजयति निषिद्धं द्रव्यं वा प्रतिगृह्णाति स पुमानिह लोके रिच्यत इव कीर्तिशून्य इव भवति । अहो दुरात्माऽयमेवं धनिकोऽपि सन्द्रव्यलोभादन्यायं करोतीति सर्वे जनास्तं निन्दन्ति तदिदमिह लोके रिक्तत्वम् । तथा प्रेव रिच्यते परलोकेऽपि प्ररकर्षेण रिक्त एव भवति, पुण्यलोकाभाव एव रिक्तत्वम् । याजनप्रतिग्रहयोर्जीविकारूपेण शास्त्रेऽभ्युपगतत्वान्निषिद्धयाजनप्रतिग्रहविषयमिदं द्रष्टव्यम् । अतो द्रव्यलोभाद्याजयित्वा प्रतिगृह्य वा भोजनरहितस्त्रिवारं स्वशाखाध्ययनरूपं वेदं जपेत् । तत्राशक्तस्य पक्षान्तरमाह -
गायत्रीच्छन्दस्कां सवितृदेवताकां तत्सवितुर्वरेण्यमित्येतामृचं भोजनरहितो दिनत्रयमनुष्ठाय रेचयति, पूर्वोक्तप्रकारेण रिक्तं स्वात्मानमरिक्तं करोति । अपकीर्तिं पुण्यक्षयं च निवर्तयेदित्यर्थः । पक्षद्वयेऽपि दक्षिणां विधत्ते -
गौर्वै वर इति सूत्रकारेणोक्तत्वाद्गौरेव दक्षिणा, वरेण श्रेष्ठेन गोद्रव्येण वरं श्रेष्ठं ब्राह्मणं स्पृणोति प्रीणयति । यस्माद्वरो गौरात्मैव तस्मात्स्वेन समानत्वात्तया दक्षिणया स्वात्मानमेव दत्तवानिति कृत्वा तत्पापनिवृत्तिर्युक्ता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके षोडशोऽनुवाकः ॥१६॥अथ द्वितीयप्रपाठके सप्तदशोऽनुवाकः
पूर्वमनापदि दुष्टयाजनस्य प्रायश्चित्तमुक्तम् । इदानीमापदि तद्याजनस्य पूर्वस्मादल्पं प्रायश्चित्तं विधत्ते -
यः पुमान्धनाभावे जीवनाभावात्प्राणरक्षणायायाज्यमपि पुरुषं याजयेत् । एतच्च वाजसनेयके दर्शितम् - “प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णाति” इति । ईदृशः पुमांश्छन्दांसि दुहे स्वकीयान्मन्त्रान्रिक्ती करोति फलरहितान्करोति । तत्परिहारार्थं येन यज्ञक्रतुना याजितवानेनमेव क्रतुभागं स्वाध्यायं स पुमानरण्ये गत्वा पठन्नासीत, तेन प्रायश्चित्तं सम्पाद्यते । तत्सम्भावनार्थं ध्यानार्थं वा तत्र यज्ञावयवान्सम्पादयति -
तस्य प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य तावन्त काले यो भोजनपरित्यागः सैव दीक्षा । यदेतच्छुद्धदेशरूपं स्थानं ता एवोपसदः, यत्तत्रोपवेशनं सैव सुत्या सोमाभिषवः, येयमस्य वाक्सेयं जुहूः, यन्मनः सैवोपभृत्, या धृतिरनुष्ठेयार्थावधारणा सैव ध्रुवा, यः प्राणस्तदेव हविः, यत्साम गीयमानं स एवाध्वर्युः । सोऽय भावनारूपो यज्ञः प्राणदक्षिणः, देहान्ते प्राणपरित्याग एव दक्षिणास्थानीयः, अतोऽनन्तरदक्षिणत्वादयं यज्ञोऽतिशयेन समृद्धः । उक्तयज्ञसमाप्तौ प्रभूतमन्नं देयमिति तात्पर्यार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥१७॥अथ द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः
प्रायश्चित्तार्थस्वाध्यायप्रसङ्गादवकीर्णिप्रायश्चित्तमुच्यते । तद्विधानार्थमादौ प्रस्तौति -
अवकीर्णं भग्नव्रतं ब्रह्मचारिणो रेतःस्कन्दनादिकं तद्यस्यास्ति सोऽवकीर्णी, तादृशः पुमान्स्वकीयैरेवावयवैर्देवान्प्रविशति देवास्तदीयानवयवान्विनाशयन्ति, तत्र कतिभिः प्रकारैर्देवान्प्रविशतीत्येवमनभिज्ञस्य प्रश्नः । तत्राभिज्ञा ब्रह्मवादिनश्चतुर्भिः प्रकारैरित्युत्तरमाहुः । त एव प्रकाराः स्पष्टीक्रियन्ते - स्वकीयैः प्राणैर्मरुतो देवान्प्रविशति । बलेनेन्द्रं प्रविशति । ब्रह्मवर्चसेन बृहस्पतिं प्रविशति । इतरेण सर्वेण वागादिनाऽग्निमेव प्रविशति । मरुदादयोऽस्य प्राणानपहरन्तीत्यर्थः । कश्यपस्य पुत्रः सुदेवाख्यः कश्चिदृषिस्तस्यैतस्य दोषस्य प्रायश्चित्तं निश्चितवान् । तदिदं प्रायश्चित्तं विधत्ते -
आज्यस्योपघातमाज्यमुद्धरन्वोपहत्य सकृत्सकृदादाय द्विर्जुहोति । तत्र प्रथममन्त्रस्यार्थः । हे कामदेवावकीर्णोऽस्मि त्वत्प्रेरणया व्रतभ्रंशलक्षणमवकरं प्राप्तोऽस्मि । पुनरुक्तिरनुतापप्रकटनार्था । अवकरपरिहारार्थं कामाय देवाय स्वाहुतमिदमस्तु । अभिद्रुग्धो व्रतभ्रंशलक्षणाभिद्रोहं कृतवानस्मि । अन्यत्प्रथममन्त्रवत् । आज्यप्रशंसनमत्राऽऽज्यस्य देवप्रियत्वेनामृतत्वात्तद्धोमेनावकरपरिहाररूपममृतं स्वात्मनि सम्पादयति । उत्तरं कर्तव्यं विधत्ते -
करयोः सम्पुटीकरणमञ्जलिः । तस्य प्रयतत्वं निश्छिद्रत्वम् । कवातिर्यगी(ङी)षत्तिरश्चीनशरीरो नात्यन्तमभिमुखो नापि पराङ्मुखोऽपि तु पार्श्वे स्थितः । अभिमन्त्रणे मन्त्रं दर्शयति -
मरुतो देवाः प्राणैर्विशीर्णं मामासिञ्चन्तु, पुनःसम्भूय सिक्तमाप्यायितं कुर्वन्तु । एवमिन्द्रादिषु योज्यम् । किंचाऽऽयुषा बलेन च संयोज्य संपूर्णायुर्यक्तं कुर्वन्तु । अनेनोपस्थानेन पूर्वोक्तदोषसमाधानं दर्शयति -
अस्मै यजमानार्थं मरुतो देवाः प्राणान्प्रतिदधति प्रतिष्ठापयन्ति । एवमिन्द्रादयोऽपि । ततोऽयं सर्वतनुः सम्पूर्णसर्वावयवो भूत्वा सम्पूर्णमायुः प्राप्नोति । अभिमन्त्रणस्याऽऽवृत्तिं विधत्ते -
त्रिवारानुष्ठाने सत्यमिदं न तु कपटरूपमिति विश्वासो येषां देवानां ते त्रिषत्याः । उक्तं प्रायश्चित्तं पापान्तरेऽप्यतिदिशति -
निश्चितस्यावकरस्याभावे कस्यापि पापस्य सम्भावनयाऽहमपूत इति यः शङ्कते सोऽपि पूर्वोक्तहोमाभिमन्त्रणे कुर्यात् । स पुमान्स्वात्मानं शोधयित्वा स्वात्मनि सर्वमायुः सम्पादयति । तत्रोभयत्र दक्षिणां विधत्ते -
पूर्ववद्व्याख्येयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ॥१८॥अथ द्वितीयप्रपाठक एकोनविंशोऽनुवाकः
इदानीं सर्वयागारम्भेष्वायुष्करं ब्रह्मोपस्थानं विधित्सुस्तन्मन्त्रमाह । अथवा सायंकालीनसंध्यावन्दनादूर्ध्वं ध्रुवमण्डले परब्रह्मोपस्थानार्थं मन्त्रमाह -
य एते पृथिव्यादयस्त्रयो लोका यश्चैषां लोकानां सङ्घस्तत्सर्वं प्रपद्ये प्राप्नोमि ब्रह्मशब्देन चतुर्मुखस्य शरीरमुच्यते । तस्य कोशस्थानीयो ब्रह्मलोकः । अमृतशब्देन विराट्कारणभूतः सूत्रात्मोच्यते, तस्य कोशस्थानीयमव्यक्तम् । एतच्चतुर्विधं प्रपद्ये भजामीत्यर्थः । चतुर्जालं चतुर्विधा अन्नमयप्राणमयमनोमयविज्ञानमयाः कोशा जालवदावरका यस्य पञ्चमकोशस्य तं चतुर्जालं परब्रह्मणः कोशं यमानन्दमयं मृत्युर्नावपश्यति नहि तस्य कारणरूपस्य कार्यवद्विनाशोऽस्ति, तादृशं कोशमहं प्रपद्ये । देवानिन्द्रादीन्, तेषां पुरं देवपुरं च प्रपद्ये । अहं तेन ब्रह्मणा वर्मणा कवचरूपेण परमात्मना परीवृतः परितो वेष्टितो वरीवृतः पुनःपुनर्वेष्टितस्तथा कश्यपस्य तेजसा कश्यपस्य प्रेक्षकस्य कश्यपः पश्यको भवतीति न्यायेन सर्वसाक्षिणा ईश्वरस्य तेजसा परिवृतः । अहमीदृशो रक्षकोऽयं ब्रह्मा तदुपस्थानेन मृत्युं तरामीत्यर्थः । ब्रह्मोपस्थानकाले सर्वात्मकस्य परमेश्वरस्य शिसुमाराख्यजलग्र(ग्रा)हरूपत्वं ध्यानार्थं दर्शयति -
यस्मै परब्रह्मणे नमः सर्वैर्नमस्कारः क्रियते तत्परं ब्रह्मात्र शिशुमाराख्यध्यातव्यस्य जलग्राहस्य शिर उत्तमाङ्गस्थानम् । योऽयमनुष्ठेयो धर्मः स मूर्धानं मूर्धस्थानीयः, शिरसो मूर्ध्नश्चैकस्मिन्नेवाऽऽयतन ऊर्ध्वाधोभागभेदेन भिधा । योऽयं चतुर्मुखो ब्रह्मा सोऽयं तस्य ग्र(ग्रा)हस्योत्तरा हनुः । यो यज्ञः सोऽधरा हनुः । यो विष्णुः सोऽयं हृदयस्थानीयः । यः संवत्सरः सोऽयं प्रजजननेन्द्रियस्थानीयः । यावश्विनौ तौ तस्य ग्र(ग्रा)हस्य पूर्वपादौ । योऽयमत्रिमुनिः सोऽयं मध्यशरीरम् । यौ मित्रावरुणौ देवौ तावपरपादौ । शिशुमारस्य पुच्छे बहवो भागाः । तत्राग्निः पुच्छस्य प्रथमं काण्डं प्रथमो भागः, ततस्तदूर्ध्वमिन्द्रो द्वितीयो भागः, ततोऽप्यूर्ध्वं प्रजापतिस्तृतीयो भागः, ततोऽपि परतोऽभयं भयरहितं परं ब्रह्म चतुर्थो भागः । एवं ध्यातव्यानवयवान्सम्पाद्यावयविनं दर्शयति -
यस्मै नमस्तच्छिर इत्यादिनाऽभयं चतुर्थमित्यन्तेन वाक्येन योऽयं निरूपितः स एष दिव्यो दिवि भवः, शाक्वरोऽत्यन्तशक्तिमान् शिशून्मारयति मुखेन निगिरतीति शिशुमारो जलग्र(ग्रा)हविशेषः, स हि जलमध्येऽत्यन्तविवृतेन मुखेन मनुष्यान्गृह्णातीति । एवं ध्यातव्यो ग्र(ग्रा)हो निरूपितः, तद्ध्यानं तत्फलं च दर्शयति -
यः पुमान्दिव्यं शिशुमारं वेद मनसा ध्यायति स पुनरपमृत्युं जयति मार्गादिमरणरूपोऽपमृत्युविशेषश्च न भवति, दुर्मरणं तस्य न भवतीत्यर्थः । (लब्धान्नो) लब्धान्नः सर्वत्र सुलभान्नो भवति । अथ ध्यानानन्तरमनुमन्त्रणमाह -
अनेन मन्त्रणोदङ्मुखो भूत्वा ध्रुवमण्डलं पश्यञ्शिशुमाररूपेण तमुपतिष्ठेत्(त) । हे शिशुमार त्वं ध्रुवोऽसि विनाशरहितोऽसि । तथा ध्रुवस्य जगत आकाशादेः क्षितं निवासस्थानमसि । भूतानां सर्वेषां प्रणिनां त्वमधिपतिरसि । अत एव भूतानां मध्ये श्रेष्ठोऽसि । भूतानि सर्वाणि त्वामुपेत्य परितः सेवन्ते । तस्मात्ते तुभ्यं नमोऽस्तु यत्सर्वं जगत्तवाधीनं तथा सति नमः सर्वं त्वदीयाय सर्वस्मै नमः । तथा ते नमः सर्वस्य स्वामिने तुभ्यमपि नमः । किं बहुना नमः शिशुकुमाराय नमः शिशुकुमारस्य जलग्र(ग्रा)हविशेषस्य कुमारो बालकस्तदाकारो यो ध्रुवस्तस्मै नमस्कारोऽस्तु । उभयतो नमस्कारोऽयं मन्त्रः, तच्च नमस्कारद्वयमादरार्थम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठक एकोनविंशोऽनुवाकः ॥१९॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयः प्रपाठकः समाप्तः ॥२॥