01 प्रश्नः-1

अत्र बौधायने कल्पे तत्प्रकारोऽभिहितः- “एतेनाऽऽरुणकेतुको व्याख्यातो यावन्मन्त्रबीष्टकाः । लोकंपृणाश्च स्वयमातृणाश्चाऽऽप एव” इति । पूर्वत्र सावित्रादिचयनानामभिहितत्वादेतेनेति तत्परामर्शः । अब्रूपा इष्टका अबीष्टकाः । नात्रेष्टका मृदादिना निष्पादनीयाः । किं त्वाप एवेष्टकाबुद्ध्योपधेया इत्यर्थः । उपधानेऽस्मिन्कल्प एवमभिहितः- “उत्तरवेद्यावपनकाले तूष्णीं जानुदघ्नं खात्वाऽन्यत्र मृदं निवपति विदेरग्निरित्यादिर्लुप्यते । ध्रुवाऽसीति प्रतिपद्यते । हस्तग्राभमबीष्टका उपदध्यात् । भद्रं कर्णेभिरिति द्वाभ्यां शान्तिं कृत्वा ताभ्यामुपदधाति” इति । (हस्तग्राभं) हस्तग्राहं हस्तेन गृहीत्वा जलमित्यर्थः । तत्र शान्त्यर्थां प्रथमामृचमाह - हे देवा इन्द्रादयो भद्रं कल्याणं श्रुतिस्मृतिवाक्यरूपं कर्णेभिराचार्यान्तेवासिरूपाणामृत्विग्यजमानरूपाणां वाऽस्माकं बहूनां कर्णैः युष्मत्प्रसादात्सर्वदा श्रोतुं समर्थाः स्याम । श्रुत्वा च यजत्रा यागक्षमा वयं भद्रं कल्याणं यज्ञादिकं कर्माक्षभिश्चक्षुरिन्द्रियैः साक्षात्पश्येम । स्थिरैरविकलैरङ्गैश्चक्षुरादिभिर्हस्तादिभिश्चावयवैस्तनूभिस्तथाविधशरीरैर्युक्ता वयं तुष्टुवांसो युष्मदीयां स्तुतिं कुर्वाणा यद्यस्मात्कारणाद्देवहितं देवेन प्रजापतिना समर्पितं सर्वमप्यायुर्व्यशेम विशेषेण प्राप्नवाम । तस्मादपमृत्योरभावाच्चिरं भद्रं शृणुयामेति पूर्वत्रान्वयः ।

अथ द्वितीयमाह- वृद्धैर्महात्मभिः सदा पुराणादिषु श्रूयत इति वृद्धश्रवाः । तादृश इन्द्रो नोऽस्माकं स्वस्ति दधात्वध्ययनश्रवणानुष्ठानार्थं क्षेमं सम्पादयतु । विश्वं वेत्ति जानातीति विश्ववेदाः । तादृशः पूषाऽपि नः स्नस्ति दधातु । अरिष्टमहिंसा तस्य नेमिस्थानीयः । यथा लोहमयी नेमिः काष्ठमयस्य चक्रस्य भङ्गाभावाय पालयत्येवमयंतार्क्ष्यो गरुडोऽपि सर्पादिकृतां हिंसां निवार्य तत्पालकत्वादरिष्टनेमिः । तादृशस्तार्क्ष्यो नः स्वस्ति दधातु ।

एतन्मन्त्रद्वयं शान्त्यर्थमादौ पठित्वा तन्मन्त्रद्वयेनाबीष्टकाद्वयमुपदध्यात् ।
कल्पः- “आपमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदकम्” इति । उपदधातीत्यनुवर्तते ।

तत्र प्रथममाह - अहं सर्वा अपः सर्वदेशवर्तीनि जलान्यापमापां पुनः पुनः प्राप्तवानस्मि । आपमित्यस्य वीप्सया पौनःपुन्यं लभ्यते । दीर्घस्य छान्दसत्वाद्द्वितीयोऽप्यापमित्येव शब्दः । जललाभाय स्थानविशेषा निर्दिश्यन्तेऽस्मादस्मादि(ति)दंशब्देन वीप्सायुक्तेन सर्वनाम्ना । जलस्थानानि गङ्गासरस्वतीयमुनागोदावरीकावेर्यादीनि विद्यन्ते तस्मात्सर्वस्माज्जलस्थानात्प्राप्तवानस्मीति पूर्वत्रान्वयः । इतोऽमुत इत्याभ्यां शब्दाभ्यां भूलोकस्वर्गलोकावभिधीयेते । तस्मादप्युभयस्माज्जलं प्राप्तवानित्यन्वयः । तामेतां सर्वजलप्राप्तिमग्निवायुसूर्याः संपादयन्त्विति शेषः । अहं तैर्देवैः सह ऋद्धिया समृद्धिनिमित्तं सञ्चस्कर ता अपः संस्करोमि ।

अथ द्वितीयामाह - वायव एवाश्वस्थानीया वोढारो यासामपां ता वाय्वश्वाः । आदित्यरश्मय एव पातारो यासामपां ता रश्मिपतयः । मरीचय एवाऽऽत्मा शरीरमाधारभूतं यासामपां ता मरीच्यात्मानः । अद्रुहः कस्यचिदपि द्रोहमकुर्वाणाः । देवीः स्वच्छत्वेन द्योतमानाः । भुवनसूवरीर्भूतजातस्य सवित्र्यः । ईदृश्य आपो याः सन्ति तथाविधा हे आपो यूयं मे मम पुत्रवत्वाय बहुपुत्रयुक्तत्वाय सुतानुजानीत ।

अथ तृतीयामाह - महदधिकं नाम यासामपां ता महानाम्न्यः । आप्नोतिधातोरुत्पन्नस्याप्शब्दस्य सर्वफलप्राप्तिवाचकत्वान्महानामत्वम् । महामाना अधिकपूजायुक्ताः । सर्वकर्मसु शुद्धिहेतुत्वेनाधिकपूज्यत्वम् । महसो महसस्तद्देवताविषयपूजायाः स्वः सवित्र्यः प्रवर्तिका इत्यर्थः । सति ह्युदकेऽर्घ्यपाद्यादिना देवाः पूज्यन्ते । देवीः स्वच्छत्वेन द्योतमानाः । पर्जन्यसूवरीर्मेघन प्रेरिताः । तादृश्यो या आपः सन्ति तथाविधा हे आपो मे मम पुत्रवत्वाय बहुपुत्रसंपत्तये सुत प्रेरयत । अथ चतुर्थीमाह -
अश्नाति भुङ्क्त इत्यश्निर्भोक्ता । ओषति दहतीत्युष्णिर्दाहकोऽग्निः । अश्नीनां भोक्तृणामुष्णिर्दाहको योऽग्निः सोऽयमश्न्युष्णिः । योऽग्निर्गृहान् दहति सोऽयं भोग्यवस्तुविनाशकत्वाद्भोक्तृदाहको भवति । तादृशमग्निमितोऽस्मात्पार्श्वाद्धे आपो यूयमपहितापहिनुत । वियोजयतेत्यर्थः । तथा रक्षो बाधकं राक्षसमपहित । तथाऽश्न्युष्णिं भोक्तृणां शरीरदाहकं ज्वरादिरूपमग्निमपहित । (रघं) ज्वरदाहकृतं शरीरशोषणं तद्धेतुभूतं पापं चापहित । अघ्रां प्राणादिज्ञानशक्त्यभावमपहित । अवर्तिं वृत्तिर्जीवनं तद्विरोधि दारिद्र्यमपहित । देवीः स्वच्छत्वेन द्योतमाना हे आपोऽन्यदपि प्रतिकूलं सर्वमितोऽस्मात्समीपादपहित ।

अथ पञ्चमीमाह - हे आपो यूयं देवीर्द्योतमानात्मिकाः सत्यो वज्रमिन्द्रायुधमूर्ध्वमुपरिदेशे द्युलोक उदीषतास्मद्रक्षार्थमुन्नयत । उपरि हि वज्रे दृश्यमाने शत्रूणां भीतत्वादस्माकं रक्षा भवतीत्यर्थः । अजीताञ्शत्रुभिरजितानस्मानप्युपरिदेशे रक्षार्थमुन्नयत । भुवनं भूतजातं गवादिकं चोदीषत । देवसूवरीर्देवानामपि सवित्र्यः प्रेरयित्र्यो यूयमादित्यानदितेः पुत्रान्सर्वान्देवानदितिं देवीं च योनिना कारणत्वेनोदीषत । सर्वेऽपि देवा अस्मद्रक्षायाः कारणा भवन्त्वित्यर्थः ।
कल्पः- “शिवा नः शन्तमे(मा) इति सौषध्योऽपोऽध्वर्यवे ददाति । स ताः प्रतिगृह्य शिवा न इत्युपदधाति” इति । पाठस्तु -
दिवि भवा या आपो याश्चौषधयो विद्यन्ते ताः सर्वा नोऽस्माकं शिवाः सुखहेतवः शंतमा अतिशयेन दुःखशान्तिहेतवश्च भवन्तु ।
कल्पः- “सुमृडीकेति भूमिवतीमुपदध्यादेताः पुरस्तात्” इति । पाठस्तु-
हे सरस्वति सरोयुक्तभूमिरूप इष्टके त्वं सुमृडीका सुष्ठु सुखहेतुर्भव । ते तव संबन्धि व्योम च्छिद्रमोषधिभिराच्छन्नत्वान्मा संदृशि दृष्टं मा भूत् ॥

इति श्रीमत्सायणमाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥१॥

अथ प्रथमप्रपाठके द्वितीयोऽनुवाकः
कल्पः- “स्मृतिः प्रत्यक्षमैतिह्यमित्यष्टौ मध्ये शुक्रं ते अन्यदिति च” इति । उपदध्यादित्यनुवर्तते । तत्र प्रथमामाह -
स्मृतिरनुमेयश्रुतिमूलं मन्वादिशास्त्रम् । प्रत्यक्षं सर्वपुरुषाणां श्रोत्रेण ग्राह्यं वेदवाक्यं च । ऐतिह्यमितिहासपुराणमहाभारतब्राह्मणादिकम् । अनुमानः शिष्टाचारः । तेन हि मूलभूतं श्रुतिस्मृतिलक्षणं प्रमाणमनुमीयते । तदेतत्स्मृत्यादिचतुष्टयमवगतिकारणभूतं प्रमाणम् । एतैः स्मृत्यादिभिः सर्वैरेव प्रमाणैरादित्यमण्डलं विधास्यते प्रमीयते, यादृशमिदं मण्डलं भवति यथा च प्रवर्तते यथा वा मन्वन्तरादिभेदभिन्नं कालं प्रवर्तयति यथा चोदकसृष्ट्यादिना विश्वमुत्पादयति तत्सर्वं स्मृत्यादिप्रमाणसिद्धम् । हेऽबिष्टके त्वं तथाविधमण्डलस्वरूपाऽसीति स्तुतिः । अथ द्वितीयामाह -
अयं सूर्यो जगदादौ मरीचिं सर्वव्यवहारहेतुभूतं कंचिद्रश्मिमादत्ते । कुत्राऽऽदत्त इति तदुच्यते - सर्वस्माद्भुवनादधि सर्वस्य भूतजातस्योपरि, रसवीर्यविकारादिभिः सर्वभूतजातमनुग्रहीतुमित्यर्थः । तस्या मरीचेः पाकविशेषेण तत्कृतेन पदार्थपरिपाकतारतम्येन कालविशेषणमस्माभिः स्मृतं भवति । प्रथमं तावद्बीजं मरीचिकृतेन केनचित्पाकेनाङ्कुरी भवति स चाङ्कुरः पाकान्तरेण काण्डी भवति तच्च काण्डं पाकान्तरेण पत्रपुष्पाण्युत्पादयति तच्च पुष्पं पाकान्तरेण फली भवत्येवं कालकृततत्तत्पदार्थावस्था दृष्टा । तदुचिताः क्षणमुहूर्तदिवसपक्षमासादिरूपाः कालविशेषा अस्माभिर्निश्चीयन्ते । ईदृशकालरूपा त्वमसीतीष्टकास्तुतिः । एवं सर्वं सर्वत्र द्रष्टव्यम् । अथ तृतीयमाह -
अत्र कालस्य दृष्टान्तोऽभिधीयते – प्रभवत्युत्पद्यते जलमस्मादिति गोदावर्याद्युत्पत्तिप्रदेशः प्रभवः स च निरन्तरजलोत्पत्तिदर्शनादक्षय्यः । तस्मादक्षय्यात्प्रभवादुत्पन्ना महानदी स्यन्दते प्रवहति । सा नदी यादृशी तादृशोऽयं संवत्सरः । यथा च तां महानदीमन्याः क्षुद्रा नद्योऽभिसमायन्त्याभिमुख्येन संयोगं प्राप्नुवन्ति सा च महानदी बहुक्षुद्रनदीमेलनादुरुर्विस्तीर्णा सती न निवर्तते कदाचिदपि न शुष्यति किंतु निरन्तरं प्रवहति । अथ चतुर्थीमाह -
अत्र दार्ष्टान्तिकोऽभिधीयते – यथा दृष्टान्ते क्षुद्रा नद्यः सर्वा महानदीमेकामभिसमायन्ति, एवमेव नानासमुत्थाना नानासमाकारा अणुशश्च महशश्च क्षणमुहूर्तादिरूपाः क्षुद्रकालाश्च दिवसपक्षादिरूपा महाकालाश्च संवत्सरं श्रिताः । ते क्षुद्रा महान्तश्च सर्वे समवयन्त्रि तम् । रेफस्य च्छान्दसत्वात्प्राप्नुवन्तीत्यर्थः । अथ पञ्चमीमाह -
स च संवत्सरस्तैरणुभिर्महद्भिश्च कालावयवैः सर्वैः सम्यगाविष्ट उरुर्विस्तीर्णः सन्न निवर्तते कदाचिदपि न विच्छिद्यते किंतु प्रभवविभवादिरूपेणानुवर्तत एव । तस्मादधिसंवत्सरं संवत्सरस्योपरि सर्वं कालाधीनं जगदाश्रितमिति विद्यात् । लक्षणे काललक्षणे निरूप्यमाणे सति तदेव संवत्सररूपमेव व्यावहारिककालस्य तत्वमवगम्यत इति शेषः । अथ षष्ठीमाह -
अणुभिश्च स्वल्पैः क्षणमुहूर्तादिभिरपि महद्भिश्च दिवसपक्षादिभिरप्यवयवैः समारूढः सम्यक्प्राप्तः संवत्सरः प्रत्यक्षेण प्रदृश्यते । आविपालगोपालं हि सार्वजनीनेनानुभवेन व्यवह्रियमाणत्वात् । अधिसत्वः सत्वात्सर्वप्राणिनामस्तित्वेन प्रतीयमानात्संवत्सररूपात्कालादधिको नित्यो निरवयवः परमात्मरूपो व्यावहारिककालस्याप्युत्पादकः कालात्माऽधिसत्वः । योऽयं शास्त्रदृष्टिमन्तरेण न प्रदृश्यते । अथ सप्तमीमाह -
योऽयमधिसत्वनामको व्यावहारिककालस्याप्युत्पादकः परमात्मरूपश्चैन्यात्मकः कालोऽस्ति “ज्ञः कालकालः” इति श्रुत्यन्तरात् । तस्य कालस्य शास्त्रदृष्टिवर्जितैरदर्शने कारणमुच्यते । पटो वस्त्रसदृशश्चर्मविशेषोऽस्यास्तीति पटरः । विक्लिधो विविधक्लेदनयुक्तः । पिङ्गः पिङ्गलवर्णः । एतच्छुक्लकृष्णादेरुपलक्षणम् । एतैः सर्वैर्विशेषणैर्मांसमयोऽक्षिगोलकविशेषो विभज्यते । अस्ति हि तस्य पक्ष्मा(क्ष्म)पटलाख्यश्चर्मखण्डः पटसदृशः । विक्लेदनमप्यस्ति यदा तदा चक्षुषि जलस्रवणात् । पिङ्गलः शुक्लादिवर्णः स्पष्ट एव । एतादृशं यदक्षिगोलकमेतदेव वरुणस्य पारमार्थिककालतत्वावरकस्य लक्षणं स्वरूपं वरुणलक्षणं, मांसदृष्टिरेव तत्वविषयां शास्त्रदृष्टिमावृणोतीत्यर्थः । यत्र यस्यां मांसदृष्टावेतज्जगत्प्रतीयते तत्र क्षणो मुहूर्तो दिवस इत्यादिरूपभेदेन कालभेदानां सहस्रं नीयते । व्यवह्रियतेऽवगम्यत इत्यर्थः । अथाष्टमीमाह -
एकमेवास्य व्यावहारिककालस्य शिरः संवत्सर एव शिरोवदुत्तमावयवस्थानीयः । मुखे तु नाना मुखस्थानीये दक्षिणोत्तरायणे द्विविधे । यच्छिरः स्थानीयस्य संवत्सरस्यैकत्वं यच्च मुखस्थानीययोर्दक्षणोत्तरायणयोर्द्वित्वं तत्कृत्स्नमपि ऋतुलक्षणमृतूनां ज्ञापनम् । सति हि संवत्सरे ततश्च तदंशयोर्दक्षिणोत्तरायणयोः पश्चात्तदंशत्वेनर्तवो ज्ञातुं शक्यन्ते । उभयतस्तयोरुभयोर्मुखस्थानीययोरनयोः सप्तेन्द्रियाणि सप्तसंख्याकेन्द्रियाधारशीर्षण्यच्छिद्रयुक्तानि शरीराण्युत्पद्यन्ते । तदेवं शास्त्रदृष्टिवर्जितानामेकः संवत्सरो द्वे अयने तदवयवा ऋतवस्तेषु च सर्वेषु कालेषु प्राणिशरीराप्युत्पद्यन्त इत्येवं भ्रान्तो व्यवहारः प्रवर्तते । परमार्थतस्तु शास्त्रदृष्ट्या पर्यालोच्यमानो जल्पितमेव दिह्यते संवत्सरायनादिनाममात्रमुपचीयते न त्वभिधेयः कश्चिदर्थोऽस्ति । अत एवोपनिषत्सु - “वाचाऽऽरम्भणं विकारो नामधेयम्”, “नेह नानास्ति किञ्चन”, “मायामात्रमिदं द्वैतम्” इति व्यवहारस्य मिथ्यात्वं बहुशश्चाऽऽम्नायते । एवमष्टौ मन्त्रा अभिहिताः । अथ ब्राह्मणमुच्यते -
संवत्सरस्य व्यावहारिकस्य मुख्यस्य कालस्य दक्षिणवामपार्श्वस्थानीययोरुभयोः शुक्लकृष्णे तथाविधवर्णयुक्ते अहोरात्रे विद्येते । तस्यैतस्यार्थस्य प्रतिपादिका काचिदृग्विद्यते । अथ तामृचमाह -
हे पूषञ्जगतः पोषक संवत्सर ते तवांशरूपं शुक्रं श्वेतवर्णमन्यदहराख्यं वस्तु पृथगेवास्ति । तथा ते तव यजतं यजनीयं निशितायां निर्वपेदित्यादियागोपलक्षितं रात्रिरूपमन्यत्पृथगेवास्ति तदेवं विषुरूपे परस्परविलक्षणरूपे अहनी अहोरात्रे वर्तेते तयोर्मध्ये द्यौरिव त्वमसि । तयोः प्रवर्तयिता वर्तसे । हे स्वधावोऽन्नवत्संवत्सर विश्वा मायाः सर्वाः पक्षमासादिकल्पितकालावयवाकृतरिवासि पालयसे । हे पूषन्निह कर्मणि ते तव रात्रिर्भद्राऽस्तु फलप्रदानं समीचीनमस्तु । इत्यनेन मन्त्रेण । पूर्वमन्त्रवदुपधानं कल्प एवोदाहृतम् । अथ ब्राह्मणमुच्यते -
अस्मिन्ब्राह्मणे पारमार्थिकतत्वं व्यावहारिककालश्च विविच्य प्रदर्श्यते - अत्र पारमार्थिकतत्वे भुवनं भूतजातं नास्ति । तथा सति सर्वस्माद्भुवनादधीति यदुक्तं तन्नोपपन्नम् । न वा कश्चिद्देवोऽस्ति । तेन भद्रा ते पूषन्नित्येतदयुक्तम् । न च पशवो द्विपादश्च चतुष्पादो वा सन्ति । तेनोभयतः सप्तेन्द्रियाणीत्येतदयुक्तम् । नाप्यादित्यः कश्चिदस्ति । तस्मादेतैरादित्यमण्डलमित्येतन्न युक्तम् । किं तर्हि विद्यत इति चेत्, उच्यते- संवत्सर एव निरस्तसमस्तक्षणमुहूर्ताद्यवयवविशेषोऽखण्ड एकाकारः कालतत्वमेव विद्यते । तर्हि तथाविध एव नित्यो निरवयवः संवत्सर एव परमार्थभूतः प्राणिभिरवबुध्यतामिति चेत् । मैवम् । प्रत्यक्षेण हि लोकसिद्धेन सर्वो जन्तुः प्रियतममेव रूपं विन्देन्न तु वस्तुतत्वम् । किं तर्हि प्रियतममिति चेत्तदुच्यते । क्षणमुहूर्तदिवसपक्षाद्यात्मकं काल्पनिकं संवत्सरे यद्रूपमेतदेव शास्त्रदृष्टिरहितानां प्रियतमम् । अस्य यजमानस्य योऽयमिष्टकोपधानपूर्वकः क्रतुरुत्पत्स्यमानो महानधिकोऽर्थः फलहेतुत्वेन पुरुषार्थो भवति तमेवाऽऽहरणमाहर्तव्यमनुष्ठेयमिष्टकोपधानपूर्वकं क्रतुं दद्याच्छिष्येभ्य उपदिशेत् । उपदेशप्रकार एवेदं पुण्यं कुरुष्वेतिवाक्येन स्पष्टं(ष्टी) क्रियते । नात्र भुवन इ(नमि)त्यादिपरमार्थतत्वं नोपदिशेत् । यद्यपि तत्वमेवोत्तमं तथाऽपि विवेकाभावान्नासावुपदेशार्ह इत्यभिप्रायः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥२॥अथ प्रथमे तृतीयोऽनुवाकः
कल्पः- “साकंजानामित्येकादश पुरस्तात्” इति । उपदधातीत्यनुवर्तते । तत्र प्रथमामाह -
साकंजानां सहोत्पन्नानामादित्यरश्मीनां मध्ये सप्तथं यः स सप्तमो रश्मिः “सूर्यो मरीचिमादत्ते” इति पूर्वत्रोक्तस्तं सप्तमं रश्मिमेकजमाहुरितररश्मिभ्यः पूर्वमेक एवोत्पन्न इत्यभिज्ञाः कथयन्ति । देवजा आदित्यदेवादुत्पन्ना इतरे षड्रश्मय उद्यमाः शिक्यस्योद्यमा इव सप्तमरश्मेरुपसर्जनभूता इत्यप्याहुः । ते च रश्मयः प्रकाशवत्वादृषिसमाः । तेषां षण्णां रश्मीनामिष्टान्यभिप्रेतानि धामशः स्थानानि विहितानि प्रजापतिना निर्मितानि । ते च रश्मय ऋत्वात्मका अत एकस्य वसन्तत्वेन प्राथम्यमन्यस्य तदनन्तरभावित्वं ततोऽप्यूर्ध्वभावित्वमन्यस्येत्येवं स्थानपिकल्पितानि स्थात्रे जगतः स्थित्यर्थं विकृतानि शीतोष्णादिरूपेण विलक्षणानि रूपशः स्वरूपाणि रेजन्ते कम्पन्ते प्रवर्तन्त इत्यर्थः । अथ द्वितीयामाह -
हे मर्या मरणशीला मनुष्या इदमेकं वचनं ब्रूतेति शेषः । को नु युष्माकं मध्ये कः खल्वमिथित इतरेणाबाधितः सखा तमबाधकं सखायमब्रवीत् । किमब्रवीदिति तदुच्यते - जहाको हानशीलोऽयमतोऽस्मत्सकाशादीषते भीतः पलायत इति । अयमर्थः । द्वयोः सख्योः परस्परविरोधे सत्येकेन बाधितः इतरः स्वयमपि तं बाधं बाधितुमिच्छन्निदं ब्रूतेऽयं परित्यागशीलो मत्तः पलायत इति । न त्वेतद्वचनं सख्योर्युक्तं ततो मनुष्या भवतां मध्ये सखा खलु सखायमन्यमेवं ब्रूते न कश्चिदप्येवं वक्तीति । अथ तृतीयामाह -
यः पुमान्स्वयं क्रूरहृदयः सन्स्वविषये सखिविदं मदीयोऽयं सखेति ज्ञातारमन्यं सखायं तित्याज परित्यजति । अयमर्थः । द्वयोः सख्योर्मध्ये सात्विक एकः पुमानितरं प्रति मदीय आप्तः सखाऽसावित्येवं विश्वासेऽवतिष्ठत इतरस्तु दुरात्मा तं परित्यजति । तस्य सखिद्रोहिणो वाच्यपि वेदशास्त्राध्ययनेऽपि भागो भाग्यं नास्ति क्वापि विश्वासाभावात् । किमु वक्तव्यमर्थज्ञानतदनुष्ठानयोर्नास्ति भाग्यमिति । यद्यप्ययं सखिद्रोही ईमिदं वेदवाक्यं शृणोति तथाप्यलकमलीकं मिथ्यैव शृणोति । सखिद्रोहिणस्तस्योपकारके वेदेऽपि प्रामाण्यबुद्ध्यभावात् । तस्मादयं वेदद्रोही सुकृतस्य पन्थां पुण्यमार्गं न हि प्रवेद सर्वथा न जानाति । ततो बुद्धिमान्पुरुषः सख्यौ वेदेऽतिविश्वासाभावरूपं द्रोहं परित्यज्याऽऽस्तिकः सन्नरुणकेतुकचयनमनुतिष्ठेदित्यभिप्रायः । इतिशब्दः शाखान्तरप्रदर्शनार्थः । इत्येष शब्दः शाखान्तरे पठ्यतेऽतः सखिद्रोहस्यान्याय्यत्वादेकः सखाऽन्यस्मिन्सख्यावुपलम्भं वक्तुं नार्हतीति पूर्वमन्त्रस्याभिप्रायः । चतुर्थीमाह -
अथ संवत्सरगर्भाणामृतूनां स्वभावोऽभिधीयते - ऋतुनैकेनान्य ऋतुर्नुद्यमानः प्रेर्यमाणोऽभिधाव आभिमुख्येन धावन्विननाद विशिष्टपदं चकार । अयमर्थः वसन्तर्ताव(र्तोर) नन्तरमेव ग्रीष्मर्तुः प्रवर्तते न त्वीषदपि व्यवधानमस्ति तदेतत्पूर्वेणोत्तरस्य प्रेर्यमाणत्वात् । स चावच्छिन्नाभिस्तिथिभिरभिनिष्पद्यते तदेतदभिधावनमित्युच्यते । उपरिष्टादेव “एता वाचः प्रयुज्यन्ते” इति तत्तदृत्वनुसारेण प्राणिनां वाच उदाहरिष्यन्ते । तदेतदृतुर्विननादेत्यनेन विवक्षतमिति । मुहूर्तानां त्रिंशत्संख्या यस्मिन्नहोरात्रे विद्यते सोऽयं त्रिंशकः । तादृशा बहवस्त्रिंशका अहोरात्रा वल्गा वर्गाः समूहरूपा भूत्वा, ऋतावेकस्मिन्षष्टिः संपद्यन्ते । षष्टिसंख्याकाहोरात्रात्मक ऋतुरित्यर्थः । चकारः पूर्वोक्तनुद्यमानत्वादिस्वभावेन समुच्चयार्थः । तस्याश्च षष्टिसंख्याया द्वौ भागौ तौ च शुक्लकृष्णात्मकौ । एकैकस्मिन्मासि शुक्लतिथयः पञ्चदश मिलित्वा त्रिंशत् । एवं कृष्णपक्षतिथयोऽपि । चकारः पूर्ववत् । सोऽयमृतूनां स्वभाव इति मन्त्राभिप्रायः । अथ पञ्चमीमाह -
समन्ताद्राग अरागस्तेन सहितानि सारागाणि तादृशानि च वस्त्राणि येषां ते सारागवस्त्रास्तैर्वसुभिः प्रजानां निवासहेतुभिर्देवताविशेषैः सहायं वसन्त ऋतुर्जरदक्षो जरे जले दक्षः कुशलः सन्सवितुर्ऋतूनां प्रेरकस्य संवत्सरस्य देवस्य प्रैषकृदाज्ञाकारी प्रथम ऋतूनां मध्ये मुख्य इत्यभिज्ञैः स्मृतः । ऋतूनां स्वामी संवत्सरो देवस्तस्याऽऽज्ञां सर्वऋतवः कुर्वन्ति तेषां मध्ये मुख्योऽयं वसन्तः । तदा वृष्टिकालवत्पङ्ककालुष्याभावेन जलं निर्मलं देवतानां वस्त्राणि च शृङ्गारार्थं हरिद्रादिद्रव्यरञ्जितानि भवन्ति सोऽयं वसन्तस्य विशेषस्वभाव इत्यर्थः । अथ षष्ठीमाह -
वसन्तप्रवृत्तौ ब्रह्मणानां यज्ञोपनयनादिप्रवृत्तेस्तत्र प्राणिभिरेता वाचः प्रयुज्यन्ते । काः पुनर्वाच इति ता उच्यन्ते - अमून्बन्धूनादयत यथोचितं भोजयतेत्येवमन्यान्स्वगृहवासिनः पुरुषान्प्रति यज्ञोपनयनादिकर्तारो वदन्ति । अमूंश्चैतानप्यागतान्वैदेशिकान्ब्राह्मणान्परिरक्षतो हे गृहवर्तिपुरुषा धनादिदानेन परितो रक्षां कुरुत । इत्येतद्वचनजातं यस्मिन्नृतौ दृश्यते सोऽयं वसन्त इत्यर्थः। अथ सप्तमीमाह -
सारागवस्त्रैरित्यादिमन्त्रद्वयेन वसन्तर्तोरसाधारणं यदुक्तमेतदेव, कालपर्यये ग्रीष्माद्यृतुभेदे प्रमाणं विजानीयात् । एतद्द्दृष्टान्तेनानुमातुं शक्यत्वात् । विमता ग्रीष्माद्यृतवोऽसाधारणस्वभावोपेता ऋतुत्वाद्वसन्तवदित्यनुमानम् । तेन च सामान्याकारेणास्ति कश्चिदसाधारणस्वभाव इत्यवगतम् । ऋतूनां ग्रीष्मादीनां विशेषणं तु तत्तत्स्वभावविशेषं तूत्तरेषु मन्त्रेषु वयं वक्ष्यामो हे बुभुत्सवस्तन्निबोधत । अथाष्टमीमाह -
योऽयमेकादशानां रुद्राणां गणः सोऽयं शुक्लवस्त्रोपेतः सन्ग्रीष्मेणर्तुना सह व(हाऽऽव)र्तते । स ग्रीष्मोऽतिप्र(प्रति)ख्येन निरुपमेनात्यधिकेन ज्योतिषा तापेन सर्वां पृथिवीं निजहन्नितरां धक्ष्यन्वर्तते । यत्रैतल्लक्षणं तं ग्रीष्मं विद्यादित्यर्थः । अथ नवमीमाह -
इत आरभ्य वर्षर्तोरसाधारणः स्वभाव उच्यते - संवत्सरीणमेकस्मिन्संवत्सरे सर्वस्मिन्नपि भोगयोग्यं कर्मफलं व्रीह्यादिरूपं कृष्यादिफलं यदस्ति तत्सर्वं वर्षाभिर्वर्षर्तुना सहावस्थाय ददतां प्रयच्छतामादित्यानां वासांसि वस्त्राणि विश्वरूपाणि विचित्रवर्णोपेतानि निबोधत वर्षर्तौ यत्कृष्यादिकर्म क्रियते तत्फलमागामिवर्षर्तुपर्यन्तं प्राणिभिर्भोक्तुं पर्याप्तं भवति । तच्च फलं वर्षर्तुस्वामिभिरादित्यैर्दीयते । ते च विचित्रवर्णवस्त्रोपेता इत्यर्थः । अथ दशमीमाह -
अयं वर्षर्तुरदुःखः स्वयं दुःखरहितोऽपि दुःखचक्षुरिव दृश्यते । तस्मिन्काले प्राणिनां चक्षूरोगोत्पत्तेः । तस्मिन्काले प्राणिनां कामि(म)लादिरोगोपेतत्वात् । अयमृतुः स्वयमपि तथा पीत इव प्राणिद्वारा तद्रोगवानिव दृश्यते । कामि(म)लरोगग्रस्तस्य पीतत्वाभासात् । किञ्च शीतेन वृष्ट्या वायुना च दिने यच्छीतं तेन शीतेनायमृतुरव्यथयन्निव पी़डामप्राप्नुवन्निव दृश्यते । सत्यपि तदा शीते प्रावरणाग्निसेवादिना शान्तस्य शीतस्य प्राणिभिः परिह्रियमाणत्वान्नास्ति व्यथा । किञ्च रुरुदक्ष इव रुरवो मृगविशेषास्तैर्दक्षः समृद्ध इवायमृतुर्दृश्यते । अरण्येषु तृणसमृद्ध्या तस्मिन्नृतौ पुष्टानां मृगयूथानां बहुलमुपलम्भात् । अथैकादशीमाह -
अयं वर्षर्तुः सर्वान्प्राणिनो ह्लादयते संतोषयते । अहो सुवृष्टो देवः संपत्स्यन्तेऽस्माकं शस्यानीत्येवं सर्वस्य लोकस्य परितोषः । तस्मिन्नृतौ बीजवापमकृत्वा या भ्रंश्यन्ते (भ्रश्यन्ति) ताः प्रजा न केवलं तस्मादृतोरेव भ्रष्टाः किंतु कृत्स्नादपि संवत्सराद्भ्रष्टाः । आगामिवर्षपर्यन्तमन्नस्य दुर्लभत्वात् । यास्तु प्रजास्तस्मिन्नृतौ क्षेत्रेषु बीजवापं कृत्वा प्रतिष्ठिता भवन्ति ताः प्रजा अन्नस्य सुलभत्वात्समृद्धा दृश्यन्ते । अस्यैवंविधस्य वर्षर्तोश्चक्षुषी ज्वलतश्चैव शाम्यतश्च । अनेन हि ऋतुना दृष्टाः पदार्थाः शक्तिविशेषलाभेनौज्वल्यं भजन्ते । अतस्तदीये चक्षुषी सर्वान्पदार्थानुज्ज्वलयतः । तथा तस्मिन्नृतौ सर्वे पदार्थाः शान्ता उपद्रवरहिता भवन्ति । अतस्तदीये चक्षुषी सर्वान्पदार्थानुपशमयतः । ईदृशेन लक्षणेन वर्षर्तुरवगन्तव्य इत्यर्थः । तैरेतैरेकादशभिर्मन्त्रैरिष्टका उपधेयाः । अथ ब्राह्मणमुच्यते- – इति
याः काश्चित्प्रजास्तस्मिन्नृतौ क्षेत्रेषु बीजावापमकृत्वा भ्रंश्यन्ते(भ्रश्यन्ति) ताः प्रजा न केवलं तस्मादृतोरेव भ्रष्टाः किन्तु कृत्स्नादपि संवत्सराद्भ्रष्टाः । आगामिवर्षर्तुपर्यन्तमन्नस्य दुर्लभत्वात् । यास्तु प्रजास्तस्मिन्नृतौ क्षेत्रेषु बीजावापं कृत्वा प्रतिष्ठिता भवन्ति ताः प्रजा अन्नस्य सुलभत्वात्कृत्स्नेऽपि संवत्सरे प्रतिष्ठिता भवन्ति । यद्यपि या भ्रश्यन्त इत्येतस्मिन्पूर्ववाक्ये भ्रंशस्यापादानवाचकं पञ्चम्यन्तं पदं किमपि नास्ति तथाऽपि वर्षर्तुप्रकरणबलेन तल्लाभाद्वर्षाभ्यो भ्रश्यन्त इति तस्य वाक्यस्यार्थः संपद्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके तृतीयोऽनुवाकः ॥३॥अथ प्रथमे चतुर्थोऽनुवाकः ।
कल्पः- “अक्षिदुःखोत्थितस्यैवेति षडिहेह वः स्वतपसः इति च” इति । अथ प्रथमामाह-
अत्र शरदृतुर्वर्ण्यते - अक्षिदुःखं नेत्ररोगः, त(स्मादुत्थित)स्य हि कनीनिके अक्षिमध्यवर्तिन्यौ तारके विप्रसन्ने नेत्रमलस्यापगतत्वाद्विशेषेण प्रसन्ने भवतः । वर्षर्तावुत्पन्ना नेत्रपीडा शाम्यति यथा कनीनिके प्रसन्ने एवं सर्वं जगदपि मेघपङ्कादिमालिन्याभावात्प्रसन्नं भवति । ततोऽक्षिदुःखोत्थितस्यैवेत्ययमेवकारः उपमार्थः । किञ्चाक्षिरोगाभावात्सर्वो जन आङ्क्ते चाञ्जनेन चक्षुषी संस्करोत्यपि । तस्मिन्नृतौ गणं ग्रहणं दृष्टिविरोधि नीहारादिकं नास्ति तत्सर्वमृतुदेवानामृभूणां सामर्थ्यमिति निबोधत । अथ द्वितीयामाह -
तेषामृभूणां देवानां वासांसि वस्त्राणि कनकाभानि सुवर्णसदृशानि । अहतानि नूतनत्वान्न क्वापि तेषु छिद्रं दृश्यते । हे बुभुत्सव एवं निबोधत । किञ्च शरत्काले वाच एतादृश्यः प्रवर्तन्ते । हे जना अन्नमश्नीतास्मिन्नृतौ शरीरपुष्टिहेतुत्त्वाद्भक्ष्यं भोज्यं च पुष्कलं भक्षयत । ततो मृज्मीत लेपाञ्शोधयत । अहं शरदाख्य ऋतुर्वो युष्माकं जीवनप्रदः सुखभोजनेन युक्तं जीवनं प्रयच्छामि । अथ तृतीयामाह -
यत्र यदा शरदाख्य ऋतुरुपदृश्यते तदानीमन्नमश्नीतेत्येता वाचः प्राणिभिः प्रयुज्यन्ते, अनेन लक्षणेन शरदाख्यमृतुं जानीयादित्यर्थः । अथ हेमन्त ऋतुर्वर्ण्यते - तस्मिन्नृतौ मरुद्गणा देवविशेषसङ्घा अभिधून्वन्तः सर्वतः कम्पयन्तोऽभिघ्नन्त आभिमुख्येन हननं कुर्वन्त इव वातवन्तस्तीव्रेण वायुना युक्ता भवन्ति । अथ चतुर्थीमाह -
अमुतो वायुलोकादागता वायव इषुमुखं योद्धृभिः शत्रुभिः प्रेरितं बाणाग्रं जेतुमिव सन्नद्धाः कवचादिभृतः सह ददृशे ह संघीभूता दृश्यन्त एव । हेमन्तेऽतिप्रबला वायवो युद्धार्थं संनद्धा इव सर्वतः प्रचरन्ति । अत एव प्राणिनोऽपि युद्धार्थिन इव शीतवातोपद्रवपरिहाराय कञ्चुकाद्यावृता दृश्यन्ते । अपध्वस्तैस्तिरस्कृतैर्मलिनैर्वस्तिवर्णैरिव वस्त्याकारैः कवचैरिव युक्ता विशिखासो विविधशाखायुक्ताः कपर्दिनः केशबन्धयुक्ताश्च प्राणिनो दृश्यन्ते । रजकैर्धौतानां घटितानां लिप्तानां वस्त्राणामतिशैत्येन परित्यज्य नूतनाः स्थूलतन्तवो मलिनाश्च पटा द्वित्रि(त्र?)गुणाः प्राव्रियन्त उष्णीषादिभिश्च शिरांसि वेष्ट्यन्त इत्यर्थः । अथ पञ्चमीमाह -
अक्रुद्धस्य क्रोधरहितस्यैव हेमतो हेमन्तर्तोश्चक्षुषी, लोहिनी रक्ताकारे विद्यात् । तत्र दृष्टान्तः- क्रुद्धस्य क्रोधाविष्टस्य परान्हन्तुं पुरुषं प्रेरयतोऽक्षिणी रक्ते तद्वत् । न चात्र क्रुद्धस्य योत्स्यमानस्येत्यनेन पुनरुक्तिः । उभयोरेकवाक्यत्वाङ्गीकारात् । क्रोधाविष्टपुरुषसाम्यं वक्तुमेक इवकारः । अक्षिसाम्यं वक्तुमपर इवकारः । अथ षष्ठीमाह -
पूर्वत्र यथा वाताभिघातादिकं हेमन्तस्य लक्षणमुक्तमेवमत्र शिशिरस्य लक्षणमुच्यते- देवलोकेष्वन्तरिक्षभागेषूदकं दुर्भिक्षं भिक्षितुमपि दुर्लभम् । तस्मिन्नृतौ वृष्टेरभावात् । मनूनां मनुष्याणां गृहे कूपादिसद्भावादुदकमल्पं विद्यते । तस्मादुदकार्थिभिर्गृहेषु गत्वा जलं ग्राह्यं न तु मार्गेषु । तदस्मिन्नेता एवंरूपा वाचः प्रवदन्तीरुच्चारयन्त्यः प्रजाः शैशिरीः शिशिरर्तौ विद्यमाना वैद्युतो विद्युत्सम्बन्धिन्यो विद्युदुपलक्षितसंतापयुक्ता यान्ति मार्गे गच्छन्ति, तदिदं शिशिरर्तोर्लक्षणम् । एभिः षड्भिर्मन्त्रैरिष्टका उपदध्यात् । अतः परं ब्राह्मणमुच्यते -
अग्निर्देव इह लोके प्राणिनां जीविकां जीवनहेतुमुदकमपरिपश्यन्पवमानाः शोधयन्तीर्निरुदकत्वं प्रकाशयन्तीर्मार्गे गच्छन्तीस्ताः प्रजा अन्वैक्षतानुसृत्यैवं विचारितवान् । एताः प्रजा एवं वदन्ति, इह चोदकं न पश्यामि किंवा प्राणिनां भविष्यतीति चिन्तितवानित्यर्थः । तस्याग्निविचारस्य प्रतिपादिकैषर्ग्विद्यते । तामृचमाह -
स्वतपसः स्वायत्ततपसः संतापोदकयोः स्वतन्त्रा इत्यर्थः । सूर्यत्वचः सूर्यसमानदीप्तयस्तादृशा हे मरुतो वो युष्मत्सकाशात्सप्रथा विस्तारयुक्तं शर्म सुखकारणमुदकमिहेहैतेषु सर्वेषु जलरहितप्रदेशेष्वावृणे प्राणिजीवनार्थमहमग्निः सर्वतः प्रार्थये । अनेनापि मन्त्रेण काञ्चिदिष्टकामुपदध्यात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥४॥अथ प्रथमप्रपाठके पञ्चमोऽनुवाकः
कल्पः – “अतिताम्राणीति चतस्रो मदन्तीस्तप्ताः प्रवर्ग्ययोराद्यन्तयोः शान्तिं कृत्वा " इति । यथा प्रवर्ग्यस्याऽऽदौ नमो वाच इति शान्तिः पठ्यतेऽन्ते शं नो वात इति शान्तिः पठ्यत एवमत्रापि चतसॄणामिष्टकानामादावन्ते च तच्छान्तिद्वयं पठेत् । इष्टका अपि पूर्वेष्टकावदन्या आपो न भवन्ति किन्तु मदन्तिकासंज्ञिकास्तप्ता आपस्ताश्चतसृभिरुपदध्यात् । तत्र प्रथमामाह -
यथा पूर्वत्र वसन्ताद्यृतुसहभाविनां वसुरुद्रादीनां सारागशुक्लवस्त्रादीन्येवमत्रापि शिशिरर्तुसहभाविनां विश्वेषां देवानामतिताम्राणि वस्त्राण्यायुधानि चाष्ट्यादीनि । ते च विश्वे देवास्तैरष्टिवज्रिशतघ्निनामकैरायुधविशेषैर्विविधं शत्रून्प्रहरन्ति । ततोऽग्निजिह्वा आरुणकेतुकाग्निरूपजिह्वायुक्ता असश्चत जयनिमित्तेनोत्साहेनात्युच्चं शब्दं कृतवन्तः । अथ द्वितीयामाह -
यदास्फोटनं विश्वेदेवैः कृतं तदत्र स्पष्टीक्रियते - क्वचन(कच्चन) कश्चन कोऽपि देवो मातृङ्मादृङ्मत्सदृशो न विद्यते । एवं न मर्त्य इत्यादिष्वपि योज्यम् । सोऽयं विश्वेदेवैरुद्घोषितः शब्दः । अथ तृतीयामाह -
अस्य विश्वे(श्व)देवजिह्वारूपस्याऽऽरुणकेतुकस्याग्नेरेका धनुरार्त्निर्धनुष ऊर्ध्वकोटिर्दिवि श्रिता । अपरात्वधस्तनी कोटिः पृथिव्यां श्रिता । वम्रयः पिपीलिकासमाना जन्तवः । यदीयवमनान्मृत्तिका द्रवीक्रियते । इन्द्रो यथोक्तधनुर्दर्शनेन भीतः सन्वम्रिरूपेणाधःकोटिसमीपे स्थाने स्थित्वा तस्याऽऽरुणकेतुकाग्नेर्धनुष्ववस्थितां ज्यां स्वयम(मे)वाच्छिनत्। अथ चतुर्थीमाह -
यस्य धनुषो ज्या छिन्ना तत्तदेतदभिज्ञा अभ्रवर्णेषु मेघस्थितप्रकाशेषु दृष्ट्वेन्द्रेण च्छिन्नत्वाज्ज्यारहितमिन्द्रधनुरित्याचक्षते । योऽयं बृहस्पतिपुत्रः शंयुस्तस्याप्येतदेव धऩुः । अनेनैव धनुषाऽसौ स्वकार्यं संपादयति । एतद्रुद्रस्य धनुस्तस्मादिदमुत्कृष्टम् । रुद्रो नामाऽऽत्रारुणकेतुकोऽग्निः । “रुद्रो वा एष यदग्निः” इति श्रुतेः । एताभिश्चतसृभिरुष्णोदकरूपाश्चतस्र (इष्टका) उपधेयाः । अथ ब्राह्मणम् -
यदेतदुच्छिन्नज्याकं धनुस्तस्येन्द्रवशं पुराणं धनुष्ट्वमित्येतावदेव न किन्तु ज्यायां छिन्नायामुत्पतन्ती धनुष ऊर्ध्वा कोटिर्यस्य रुद्रस्य गलमवष्टभ्य पूर्वमवस्थिता तस्य रुद्रस्य शिरश्छिन्दत्यूर्ध्वं नीत्वाऽधः पतन्ती पिपेष तच्छिरश्चूर्णीचकार । स च पिष्टार्धशिरोभागः प्रवर्ग्यरूपेणाऽऽविर्बभौ । यस्माद्रुद्रस्य शिर एव प्रवर्ग्यस्तस्मात्प्रवर्ग्यसहितेन यज्ञेन यो यजते सोऽयं रुद्रस्य तच्छिरः प्रतिदधाति पुनः समादधाति । यः पुमानेवं शिरःसमाधानप्रकारं वेद तमेनं रुद्र आरुको न भवति तस्य हिंसां न करोतीत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चमोऽनुवाकः॥५॥अथ प्रथमप्रपाठके षष्ठोऽनुवाकः ।
कल्पः - “अत्यूर्ध्वाक्ष इति त्रीण्यृतुमण्डलान्यवद्रप्स इति च” इति । ऋतुमण्डलशब्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तत्र प्रथमामृचमाह -
योऽयं शिशिर ऋतुः सोऽयं प्राणिषु प्रकर्षेण दृश्यते कीदृशः । शिशिरोऽत्यूर्ध्वाक्षः । तस्मिन्नृतौ यदा शीतबाहुल्यं भवति तदानीं कम्पमानाः प्राणिनो हस्ताभ्यामुर आच्छादयन्तो मुखेन सीत्कारं कुर्वन्तो द्वे भ्रुवावत्यूर्ध्वमुन्नमयन्ति तदिदं तस्यर्तोरत्यूर्द्वाक्षत्वम् । शीतपीडितत्वादेव दक्षिणतो वामतो वा तिर्यङ्न पश्यन्ति तदिदमतिरश्चादित्युच्यते । यत्तु शरीरस्य रूपं तदपि शीतवेलायां प्राणिभिर्नैव दृश्यते । वासांस्यपि नैव दृश्यन्ते । चक्षुरपि दर्पणादौ न प्रतिदृश्यते । रूपवस्त्रादिषु नात्यन्तमादरः किन्तु शीतपरिहारमेवान्विच्छन्तीत्यर्थः । अथ द्वितीयमाह -
यौ परस्परात्यन्तद्वेषिणौ युद्धार्थमुद्युक्तौ तावपि शिशिरर्तावन्योन्यं तु न हिंस्रातः शीतनिवारणाय प्रावरण एव प्रयत्नयुक्तौ सन्तौ परस्परं हिंसामपि न कुरुतः । यदेतदीदृशं प्राणिनां वर्तनं तदेतत्सतो वर्तमानस्य शिशिरर्तोर्देवलक्षणं देवेन सूर्येण सम्पादितं चिह्नम् । अनेन लक्षणेन शिशिरत्वं विद्यात् । किञ्च तस्यर्तोरभिमानिदेवताविग्रहेऽक्ष्णि चक्षुषि लोहितो वर्णो भवति, शीर्ष्णिः शिरसि शार सारिदा(का)याः शुकस्त्रिया यो वर्णः स वर्णो भवति । कस्मिन्कालेऽयं वर्णविशेष इत्युच्यते - सूर्यस्योदयनं प्रति सूर्योदयवेलायाम् । अत्र सर्वत्रोच्यमानेषु काललक्षणेषु यत्प्रजासु सम्भवति तत्प्रजाद्वारेण कालं लक्षयति । यत्तु प्रजासु न सम्भवति तत्साक्षादेव कालाभिमानिदेवतायां द्रष्टव्यम् । अथ तृतीयामाह -
हे शिशिरर्तो त्वमञ्जलिकां हस्ताग्रवर्तिनमञ्जलिं निकरोषि न्यग्भूतं करोषि । यथा जानुकां जानुप्रदेशमपि त्वं निकरोषि न्यग्भूतं करोषि सर्वे प्राणिनः शीतबाहुल्यादग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति । उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी अपि भूमिस्पर्शिनी यथा भवतस्तथा न्यग्भूते कुर्वन्ति । स्वयमेवं कुर्वन्तो बुद्धिमन्तोऽप्रबुद्धान्बालान्प्रत्येवमुपदिशन्ति । हे बाला अमी भवन्त ईदृशीं वाचमुपासताम् । कीदृशी वागिति तदुच्यते - मे मदीया जानुका न्यग्भूता भवतु, अञ्जलिकाऽपि न्यग्भूता भवत्विति । श्रौत इतिशब्द एवंविधलक्षणप्रदर्शनार्थः । अनुक्तमप्येतादृशं लोकव्यवहारं दृष्ट्वा तमृतुं जानीयात् । ऋतुमण्डलाख्यैरेतैर्मन्त्रैस्तिस्र इष्टका उपदध्यात् । अथ ब्राह्मणमाह -
यः पुमानेवमुक्तैरनुवाकैः प्रतिपादितमृतुस्वभावं वेद तस्मै पुरुषाय सर्व ऋतवो वसन्तादयो नमन्ते प्रह्वी भवन्ति स्वाधीना भवन्ति । किञ्च स ब्राह्मणः पुरोधां पुरतोऽवस्थितिं सर्वेषु ब्राह्मणेषु प्राधान्यं प्राप्नोति । ऋतूनां स्वाधीनत्वं दुःखानुत्पादकत्वम् । तस्मिन्स्वाधीनत्वे प्राधान्यप्राप्तौ च हेतुरुच्यते - मर्यादाकरत्वादिति । अयं हि विद्वान्पुरुषस्तेषां वसन्ताद्यृतूनां मर्यादां करोति यस्मिन्यस्मिन्नृतौ ये धर्मास्तत्र तान्प्रवर्तयति । मर्यादाकरत्वमेव कथमिति तदुपपाद्यते - स खलु विद्वान्ब्राह्मणो देहपातादूर्ध्वं संवत्सरो भूत्वा संवत्सरनिष्पादकादित्यरूपी भूत्वाऽऽरुणकेतुकाग्नितादात्म्यं प्राप्येतैः सेनानीभिः “वसन्तो वसुभिः सह” “शुक्लवासा रुद्रगणः” इत्यादिवाक्येषु प्रतिपादितैर्वसन्तादिदेवतासहवर्तिभिर्वस्वादिभिः सेनाधिपतिभिः सह वर्तमानः सन्निन्द्राय कर्मस्वामिने यजमानाय सर्वान्कामानभिवहत्याभिमुख्येन सम्पादयति । तस्मादारुणकेतुकाग्निप्राप्तियोग्यत्वादयं विद्वान्मर्यादाकरो भवत्येव । स च विदुषा प्राप्य आरुणकेतुको द्रप्स उदकस्वरूपो वृष्टिहेतुत्वात् । तस्य द्रप्सरूपस्याऽऽरुणकेतुकाग्नेः प्रतिपादिकेयं काचिदृग्विद्यते । अथ तामृचं दर्शयति -
द्रप्स उदकात्मकोऽयमारुणकेतुकः अंशुमतीमंशुशब्देन सोमलताखण्डवाचिना सर्वा ह्योषधय उपलक्ष्यन्ते तद्युक्तत्वादंशुमती पृथिवी तामवातिष्ठदवगम्य प्राप्य तत्रावस्थितः । कीदृशो द्रप्सः, दशभिः सहस्रैरनेकसहस्रसंख्याकैरादित्यरश्मिभिरियानः सञ्चरन् । “आदित्याज्जायते वृष्टिः” इति स्मृतेः । कृष्णः कृषिहेतुः । सति ह्युदके भूमिं कृषन्ति । हे आदित्यरूपाऽऽरुणकेतुकाग्न इन्द्रो वृष्टेरीश्वरस्त्वमावर्तं पुनः पुनरिहाऽऽवृत्य शच्या स्वकीयया शक्त्या तदा तदाऽपेक्षितकाले समागत्य धमन्तं गर्जनादिना शब्दयन्तं नृमणां नृभिर्मनुष्यैर्मननीयं सर्वदा प्रार्थनीयमथद्रामधोद्रवणशीलं तं द्रप्समुदकविशेषमुपस्नुहि भूमौ प्रस्रावय । इत्यनेन मन्त्रेण द्रप्सवतीमिष्टकामुपदध्यात् । अथ ब्राह्मणमुच्यते -
योऽयमिन्द्र आरुणकेतुको वृष्टिस्वामी सलावृक्या सलः सलिलं जलं तस्याऽऽवृक् आदानं तद्युक्ता भूमिः ससावृक्येतया सलावृक्या निमित्तभूतया सहासुरानसवः प्राणा रमन्ते क्रीडन्ते(न्ति) येषु मेघेषु सत्सु ते मेघा असुरास्तान्परिवृश्चति परितश्छिनत्ति । अयं देवो जलार्थी पृथिवीनिमित्तं मेघभेदं कृत्वा वर्षयतीत्यर्थः । पूर्वोक्तमन्त्रे येयमंशुमती कथिता सेयं पृथिवी विवक्षिता तां पृथिवीं, दिवं चानुसृत्यायं संवत्सरात्मक आरुणकेतुको देवो वह्निरूपेणाऽऽदित्यरूपेण वाऽवस्थितः । यः पुमानेवमारुणकेतुकाग्नेर्महिमानं जानाति तेनैवंविदुषा सहाऽऽचार्यान्तेवासिनावन्योन्यस्मै द्रोहं कर्तुं नार्हतः । आचार्योऽध्वर्युः, यज्ञे धर्मानाचरतीति व्युत्पत्तेः । यजमानोऽन्तेवासी, तस्याध्वर्योः समीपे निवासात् । यावध्वर्युयजमानावभिज्ञेन सह द्रोहयोग्यौ न भवतः । स्वयं द्रोह्यावपि न भवतो द्रोग्धारावपि न भवत इति वक्तुमन्योन्यस्मा इत्युक्तम् । तस्मै विदुषे स्वयं द्रोहमकृत्वा सोऽपि यथा न द्रुह्यति तथा वर्तितव्यम् । यो मूढस्तस्मै विदुषे स्वयं द्रुह्यति सोऽयं स्वर्गलोकाद्भ्रष्टो भवति । तस्मान्न द्रोहः कर्तव्यः । “स्मृतिः प्रत्यक्षम्” इत्यारभ्य पञ्चस्वनुवाकेषु प्रोक्तोऽर्थ उपसंह्रियते - इति एवमतीते ग्रन्थे “ऋतुर्ऋतुना नुद्यमानः” इत्यादिभिर्ऋतुमण्डलप्रतिपादकानि वाक्यान्युक्तानि, “एतैरादित्यमण्डलम्” इत्यादिभिः सूर्यमण्डलप्रतिपादकानि वाक्यान्युक्तानि, पूर्वोक्त एवार्थो दृढमाख्यायते यास्वृक्षूदाहृतासु ता आख्यायिकाः “शुक्रं ते अन्यत्” इत्यादयस्ता अप्युक्ताः । अत ऊर्ध्वमुपरितनेष्वनुवाकेषु सनिर्वचना निःशेषेण वचनं निर्वचनं ब्राह्मणं तेन सहिता आख्यायिकाः सनिर्वचनाः । पूर्वेष्वनुवाकेषु मन्त्रप्रतिपादितेऽर्थे संवादार्थमृच उदाहृता उत्तरेष्वनुवाकेषु ब्राह्मणप्रतिपादितेऽर्थे संवादार्थमृच उदाह्रियन्त इत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः ॥६॥अथ प्रथमप्रपाठके सप्तमोऽनुवाकः ।
कल्पः - “आरोग इत्यष्टौ पदशो यत्ते शिल्पमितिच” इति । तत्र ब्राह्मणमारोग इत्यादिपदप्रतिपादिकामृचमुदाहरति -
आरोगादीनि विभासान्तानि सप्त पदानि सप्तानां सूर्यविशेषाणां नामधेयानि । ते सप्तापि सूर्या अस्मै लोकार्थं दिवमाकाशमातपन्ति सर्वतः प्रकाशयन्ति । किं कुर्वन्तः ऊर्जं दुहाना वृष्टिद्वारेण क्षीरादिरसं सम्पादयन्तः । अनपस्फुरन्तः प्राणिनां प्रातिकूल्येन प्रकाशनमस्फुरणं तदकुर्वन्तः । अनुकूल्येन प्रकाशनं सर्वदा कुर्वन्तीत्यर्थः । श्रौत इति शब्द उपधानप्रदर्शनार्थः । उदाहृतायामस्यामृच्युक्तैरारोगादिनामभिः सप्तभिरिष्टका उपदध्यादित्यर्थः । आरोगस्तया देवतयाऽङ्गिरस्वद्ध्रुवाऽऽसीदेत्येवमुपधानमन्त्रा उन्नेयाः । अथाष्टमं नामधेयं दर्शयति -
पूर्वोक्तारोगादिसप्तसूर्यापेक्षया योऽयमष्टमः सूर्यस्तस्य कश्यप इति नामधेयम् । तेन नाम्नेष्टका उ(मु)पदध्यात् । सच कश्यपो मेरुपर्वतं न कदाचिदपि परित्यजति मेरुस्थानमेव सर्वदा प्रकाशं करोति । तस्य कश्यपस्य प्रतिपादिका काचिदृग्विद्यते । अथ तामृचं दर्शयति -
हे कश्यपाष्टमसूर्य यत्ते तव शिल्पं जगत्प्रकाशलक्षणं चित्रं कर्म यस्मिन्स्वकीये प्रकाशरूपे चित्रकर्मण्यारोगादयः सप्त सूर्याः साकमर्पितास्त्वया सह स्थापितास्तस्मिन्शिल्पे प्रकाशलक्षण इमं यजमानं राजानं दीप्तियुक्तं कृत्वाऽधिविश्रय सर्वेषामुपरि विशिष्टत्वेन स्थापय । कीदृशं शिल्पम्, रोचनावत्प्रकाशयुक्तम् । इन्द्रियावदिन्द्रियसामर्थ्ययुक्तम् । पुष्कलं सम्पूर्णम् । चित्रभानु विविधरश्मियुक्तम् । इत्येषा कश्यपप्रतिपादिकाऽभिहिता । कश्यपस्य शिल्पे सप्तसूर्याणामर्पितत्वं स्पष्टीकरोति -
ते सर्वे सप्तापि सूर्या अस्मै जगत्प्रकाशनार्थं कश्यपात्सकाशाज्ज्योतिर्लभन्ते । यद्यपि सूर्याः पूर्वमेव ज्योतिष्मन्तस्तथाऽपि तान्सूर्यान्सोमो देवः कश्यपात्सकाशादधिनिर्धमत्यधिकत्वेन निस्तमस्का यथा भवन्ति तथा शोधयति । सोमो हि तानाहूय कश्यपसमीपं प्रापितवान् । तस्य कश्यपस्यानुग्रहादेतेषां प्रकाशाधिक्यं संपन्नमित्यर्थः । भ्रस्तेत्यादिस्तत्र दृष्टान्तः । रेफस्य व्यत्यये सति भस्त्राशब्दो धनसाधनमित्याचष्टे । यथा चर्ममय्या दृत्या वायुमुत्पाद्य ज्वलिताग्निना सुवर्णादेः किट्टादिकमपनीय भस्त्राकर्मकृत्सुवर्णकारः शोधयत्येवं कश्यपसम्बन्धकारी सोमस्तान्सूर्यानशोधयत् । तेषां सप्तसूर्याणांस्वरूपे मतभेदं दर्शयति -
मुखनासिकयोः सञ्चारी यः प्राणः स एव सप्तभिर्वृत्तिभेदैः सप्त सूर्या इत्येवं केचिदाचार्या आहुः । जीवानि जीवननिमित्तभूतानि महदहङ्कारपञ्चतन्मात्ररूपाणि तत्वानि सप्त सूर्या इत्येवमन्य आचार्याः प्रचक्षते । इन्द्रियजीवानि चक्षुरादीनि पञ्चेन्द्रियाणि मनोबुद्धिसहितानि जीवननिमित्तभूतानि सप्त सूर्या इत्येवमपरे प्रचक्षते । शिरस्यवस्थितानि यानि सप्त च्छिद्राणि तेषु संचरन्तः प्राणाः सप्त सूर्या इत्यन्ये । एते सर्वेऽप्याचार्याः सप्तसूर्यबुद्ध्या स्वैरुपास्यानि तत्वान्याहुरतो नैते मुख्याः सप्त सूर्याः । अथ मुख्यानां सप्तसूर्याणां द्रष्टारावृषी उदाहरति -
पञ्चकर्णनामकः कश्चिद्वत्सस्य पुत्रो महर्षिरेतानारोगादीन्सप्त सूर्यान्प्रत्यक्षेणैवाहमपश्यमित्युवाच । तथा सप्तकर्णनामकः कश्चित्प्लक्षस्य पुत्रो महर्षिरप्यहमपश्यमित्युवाच । अतो मनुष्यैः सन्निहितत्वादेक एव सूर्योऽवलोक्यते न तु व्यवहितत्वादितरे षट्सूर्या अवलोक्यन्ते । किञ्च तावुभावपि पञ्चकर्णसप्तकर्णाख्यौ महर्षी वेदयिते इत्थं वेदयतः प्राणिनः सर्वान्बोधयतः । किमिति तदुच्यते- कश्यपाख्योऽष्टमः सूर्यो नावावयोरुभयोरानुश्रविक एव नतु प्रत्यक्षः । गुरूपदेशमनु श्रूयत इत्यनुश्रवो वेदस्तत्रैवावगत आनुश्रविकः । “यत्ते शिल्पं कश्यप” इत्यादिमन्त्रादेवागम्यत इत्यर्थः । प्रत्यक्षादर्शने हेतुमप्याहतुः- महामेरुं कश्यपश्य स्थानं गन्तुमावां न हि शेकुमिव न शक्तौ भवाव एव, तस्माद्वेदादेव जानीवः । अथ कश्यपदर्शिनमृषिमुदाहरति -
गर्गस्य पुत्रः प्राणत्रातनामकः कश्चिन्महर्षिस्तौ पञ्चकर्णसप्तकर्णौ प्रत्येवमुवाच । महामेरावेव परिवर्तमानमेतत्कश्यपाभिधं सूर्यमण्डलं प्रत्यक्षेणैवा(हम)पश्यम् । अतो हे मुनी युवामपि महामेरुं गच्छन्त योग्येन मार्गेण गच्छतम्, अजहतं मेरुं कदाचिदप्यपरित्यजन्तमेकं कश्यपाख्यं सूर्यं च गच्छतम् । अथ मेरुगमने मार्गं दर्शयति -
य एते सप्त सूर्यास्तेषां मध्य आरोगाख्यस्यास्माभिर्दृश्यमानस्य सूर्यस्य गतिः प्रसिद्धा । तदनन्तरभाविनो भ्राजादयस्त्रयस्ते निहने मेरुमार्गस्य निहतप्रदेशेऽधोभागे तिष्ठन्नातपन्ति अवस्थिताः सन्तो रश्मिभिरधोमुखैर्मेरुमार्गादधोवर्तिनः प्राणिनः सर्वतः प्रकाशयन्ति । यस्मादेषामधोमुखा रश्मयस्तस्मादिह लोके तप्त्रितपास्तपनशीलरश्मियुक्ताः । इतरे तु भ्राजपटरपतङ्गेभ्योऽन्ये स्वर्णरज्योतिष्मद्विभासास्त्रयः सूर्यास्तेऽमुत्र मेरुमार्गादुपरिभागे वर्तन्ते । यस्मात्तेषां रश्मय ऊर्ध्वमुखास्तस्मात्त इहाधोलोकेष्वतप्त्रितपास्तपनशीलरश्मियुक्ता न भवन्ति । भ्राजादीनामधोमुखरश्मित्वात्स्वर्णरादीनामूर्ध्वमुखरश्मित्वाच्च वर्गद्वयमध्ये तापाभावाच्छीतलेन मार्गेण मेरुं गन्तुं शक्यत इत्यर्थः । अथ सूर्याणां मध्यवर्तिमार्गप्रतिपादिकामृचमवतारयति -
तेषां सप्तसूर्याणं सम्बन्धिनी मेरुमार्गप्रतिपादिकेऽयमृग्विद्यते । तामृचं दर्शयति -
आरोगादयः सप्तसूर्या दिवमन्तरिक्षमनुप्रविष्टा अनुक्रमेण व्याप्ताः । दक्षिणावाञ्शास्त्रोक्ताविष्टकादक्षिणायुक्तोऽनुष्ठितारुणकेतुकाग्निः प्रयुक्तान्सप्त सूर्याननुसृत्य पथिभिः सूर्यवर्गद्वयवर्तिभिः शीतैर्मार्गैरेति मेरुं गच्छति । ते सूर्या सर्वेऽप्यस्मै यजमानाय घृतमातपन्ति मेरुमार्गरूपमाकाशं घृतादिभोग्यवस्तुसम्पूर्णं यथा भवति तथा प्रकाशयन्ति । किं कुर्वन्तः, ऊर्जं दुहाना भोग्यं क्षीरादिकं सम्पादयन्तः, अनपस्फुरन्तः सन्तापमकुर्वन्तः, हे यजमानेहाऽस्यतामिह भुज्यतामित्येवं प्रियोक्तिं वदन्ति । यथा चाऽऽथर्वणिका आमनन्ति- “एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति प्रियां वाचमभिवदन्त्योऽर्चयन्ते” इति । इत्येषा सप्तसूर्या इत्यादिका मार्गप्रतिपादिका, तयेष्टकामुपदध्यात् । तथा च बौधायनः- “सप्त सूर्या सप्त दिशो नाना यद्द्यावश्चित्रं देवानामिति चतस्रः सौरीः पुरस्तात्” इति । इदानीं सूर्यस्वरूपे पक्षान्तरमुपन्यस्यति -
य एते यज्ञे होत्रादयः सप्तर्त्विजस्त एव सप्त सूर्या इति केचिदाचार्याः प्रचक्षते । अस्मिन्नर्थे कांचिदृचमवतारयति -
तेषामृत्विग्रूपाणां सप्तसूर्याणां प्रतिपादनार्थेऽयमृग्विद्यते । तामेतामृचं दर्शयति -
अष्टसु दिक्षु मध्ये या प्राची सा सूर्यवतीति सर्वेषां प्राणिनां प्रसिद्धा । यास्त्वन्या आग्नेयाद्याः सप्त दिशस्ता अपि नानाविधसूर्योपेताः । ते च सप्तसु दिक्ष्ववस्थिताः । तत्स्वामिनः सूर्या इह कर्मणि होत्रादय ऋत्विजो भूत्वा चरन्ति । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येते सप्त होतारः । य एतेऽत्र होत्रादय ऋत्विजो देवा भूत्वा सप्ताऽऽदित्या इत्युच्यन्ते, हे सोम यागाधिपते तेभिर्होतृरूपैरादित्यैर्नोऽस्मानभिरक्ष । इत्यनयाऽपीष्टकामुपदध्यात् । ( ननु सूर्या ऋत्विग्रूपा इत्यस्मिन्नर्थ इयमृगाहृता । दिशो नानासूर्या इत्येतदप्रस्तुताभिधानमित्याशङ्क्योत्तरमाह) -
यदुक्तं दिशां नानासूर्योपेतत्वं तदप्याम्नायः, शाखान्तरे कश्चिन्मन्त्रो ब्रूते । अतो वेदान्तरसिद्धत्वादेतदपि वक्तव्यमेव न त्वप्रस्तुतम् । किञ्च तस्मिन्नर्थे युक्तिरप्यस्ति । दिग्भ्राजस्तां तां दिशं प्राप्यावस्थिताः सूर्या ऋतून्वसन्तादिसूचितानृतुधर्मान्करोति तस्यां तस्यां दिशि कुर्वन्ति । न हि ऋतुनिष्पादकसूर्यव्यतिरेकेण तत्तदृतुधर्माः सम्भवन्ति, तस्मात्सन्त्येव दिक्षु विभिन्नाः सूर्याः । अथ कैमुतिकन्यायेन दिशां बहुसूर्यत्वं दृढीकरोति- —- इति
एतयैवावृता अने(वृताऽने)नैव प्रकारेणर्तुधर्मा यत्र सन्ति तत्र तत्सम्पादकः सूर्योऽस्तीति न्यायेनाऽऽसहस्रसूर्यतायाः सहस्रसंख्याकसूर्योपेतत्वपर्यन्तं दिक्षु सूर्यभेदाः कल्पनीयाः, तत्र सप्तसूर्यत्वे किमाश्चर्यमिति वैशम्पायन आचार्यो मन्यते । सहस्रमित्युपलक्षणम्, अनन्ताः सूर्या इत्यर्थः । अनन्तसूर्यप्रतिपादिकामृचमवतारयति- – इति ।
तस्य सहस्रसूर्यवत्वस्य प्रतिपादिकेऽयमृग्विद्यते । तामेतामृचं दर्शयति -
यद्यदि हे इन्द्र ते तव शतं द्यावः स्युर्बहुभिः शतसंख्याकाभिर्युक्ता द्युलोकाः सम्भवेयुः, उतापि च शतं भूमीः स्युर्बह्वीभिः शतसंख्याकाभिर्युक्ता भूमयोऽपि यदि सम्भवेयुः, हे वज्रिंस्तदानीमपि रोदसी जातं द्यावापृथिव्योर्मध्ये समुत्पन्नं त्वां सहस्रसू(स्रंसू)र्याः सहस्रोपलक्षिता अनन्ताः सूर्या (न) नान्वष्ट (न) नान्वश्नुवते त्वामनु न व्याप्नुवन्ति । एतावत्सु द्युलोकेषु भूलोकेषु च सत्स्वपि तत्र तत्र स्थितं त्वामनु सूर्यव्याप्तेरपर्याप्ता देशाः, सूर्याणामनन्तत्वादित्यर्थः । इत्यनयाऽपीष्टका उ(मु)पदध्यात् । मन्त्रोक्तमनन्तसूर्यत्वं युक्त्योपपादयति- —- इति ।
यद्येक एव सूर्यः स्यात्तदानीं वसन्ताद्यृतूनां नानालिङ्गत्वं न स्यात्, न हि कारणभेदमन्तरेण कार्यभेदः सम्भवति । तस्मादृतुधर्मवैलक्षण्यसिद्धये बहुसूर्यत्वमभ्युपेयम् । कथं तर्हि पूर्वत्र कश्यपोऽष्टम इत्येवं सूर्याणामष्टसंख्या स्वीकृतेत्याशङ्क्य तदभिप्रायं दर्शयति- — इति ।
बाढम् । सन्त्येव तत्तल्लिङ्गकल्प्या अनन्ताः सूर्याः किन्तु तत्रास्ति कश्चिद्विशेषो व्यवसिता निश्चिताः सूर्या अष्टावित्येवंविधः, पञ्चकर्णसप्तकर्णाभ्यां सप्तानां सूर्याणां प्रत्यक्षेण दृष्टत्वात्प्राणत्रातेनाष्टमस्यापि दृष्टत्वात् । अष्टसंख्यां निगमयति -
यस्मादृषिभिर्दृष्टत्वेनाष्टौ सूर्या निश्चिता अतः कारणादस्माभिरदृश्यमानान्यप्यूर्ध्वमाकाशे सूर्यमण्डलान्यष्ट विद्यन्त इत्यभ्युपेयम् । तत्र सन्निहितत्वादेकमेवास्माभिर्दृश्यते । बहुमण्डलप्रतिपादिकामृचमुदाहरति -
तेषामनेकसूर्यमण्डलानां प्रतिपादिकेयमृग्विद्यते । तामेतामृचं दर्शयति -
चित्रं बहुमण्डलरूपत्वेन विचित्रं देवानामनीकमन्धकाररूपवृत्रशरीरात्मकस्य शत्रोर्विनाशकत्वेन देवसैन्यरूपमादित्यमण्डलमुदगात्पूर्वस्यां दिश्युदेति । तच्च मण्डलजातं मित्रादीनां चक्षुःस्वरूपम् । अन्धकारनिवारणेन चक्षुषोऽनुग्रहात् । तादृशं सैन्यं द्यावापृथिवी अन्तरिक्षं चाऽऽप्रा लोकत्रयं स्वकीयप्रकाशेनाऽऽपूर्य वर्तते । तथाविधमण्डलसमूहस्वामी सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चाऽऽत्मा स्वरूपम् । इत्यनेनेष्टकामुपदध्यात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके सप्तमोऽनुवाकः ॥७॥अथ प्रथमेऽष्टमोऽनुवाकः ।
कल्पः- “पुरस्तात्क्वेदमभ्रमित्येकाम्” इति । पाठस्तु -
अपो बिभ्रती(भर्ती)त्यभ्रं मेघस्वरूपं तच्चाऽऽकाशे निरालम्बत्वेनास्माभिर्दृश्यतेऽतः कुत्राऽऽधारे निवसतीति प्रश्नः । न ह्यालम्बनमन्तरेण निर्देष्टुं शक्यम् । एतच्चोपलक्षणम्, कारणमपि किमिति प्रष्टुरभिप्रायः । एवं संवत्सराहोरात्रमासर्तवः कस्मिन्नाश्रयेऽवस्थिताः किं वा तेषां कारणमिति हे देव जगत्कर्तः कथय । संवत्सरस्य बह्ववयवसमष्टित्वं द्योतयितुं मिथ इत्युक्तम् । बहवः कालावयवाः सम्भूय वसन्ति यत्र सोऽयं संवत्सरः । कल्पः “अर्धमासा इत्युपरिष्टात्” इति ।
अर्धमासमुहूर्तनिमेषाः प्रसिद्धाः । कालपरमाणुद्वयात्मकः कालद्व्यणुकस्त्रुटिः, तथाविधैस्त्रुटिभिः सहार्धमासादयः कुत्राऽऽधारे स्थिताः कुतश्चोत्पन्नाः । भूमौ वर्तमाना आपो याः सन्ति ता यदि घर्मकाल इतो भूमेः सकाशाद्यान्ति । दृश्यते हि तस्मिन्काले सर्वत्र जलशोषः । सम्प्रति तदानीमिमा आपः क्व निविशन्ते चाऽऽसामाधारः कः । कल्पः- “काला अप्सु निविशन्ते(न्त)(इति द्वे) इति” । तत्र प्रथमामाह -
पूर्वमन्त्रद्वयोक्तानां प्रश्नानामिदमुत्तरम् । संवत्सरादयस्त्रुट्यन्ताः कालाः पृष्टास्ते सर्वे काला अप्सु निविशन्ते । “आपो वा इदमग्रे सलिलमासीत्” इत्यपां जगत्कारणत्वेनाम्नातत्वात् । तत्रैव कालानामवस्थानमुत्पत्तिश्च । तथा हि मनुना तावदेवं स्मर्यते -
“आप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ॥” इति ।
परमेश्वरेण प्रथमं सृष्टास्वप्सु घनीभावसामर्थ्ये प्रक्षिप्ते सति ब्रह्माण्डं निष्पन्नं, तच्च ब्रह्माण्डमभिन्नं सद्यावदवस्थितं तावतः कालस्य संवत्सर इति नाम सम्पन्नम् । तथा च वाजसनेयिनो बृहदारण्यके समामनन्ति- “तद्यद्रेत आसीत्संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस” इति । एवं ब्रह्माण्डेन सहाप्सु संवत्सरे समुत्पन्ने सति तदवयवाः कालविशेषाः सर्वेऽप्यद्भ्य एवोत्पन्ना अप्स्वेव निविशन्ते, तदिदं कालप्रश्नस्योत्तरम् । या एता आपो भूमौ शुष्यन्ति ताः सर्वा रश्मिद्वारा सूर्ये समाहिता भवन्ति । घर्मकाले हि तीक्ष्णैः सूर्यरश्मिभिर्जलशोषः सर्वैः प्राणिभिर्दृश्यते । अत एव बुद्धिमद्भिरुक्तम्- “सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः” इति । इदं च क्वेमा आपो निविशन्त इत्यस्योत्तरम् । तेभ्यः सूर्यरश्मिभ्यः सकाशादभ्राणि जलं प्राप्नुवन्ति । रश्मयो हि स्वनिष्ठजलं धूमज्योतिमरुतां मेलनेनाभ्राकारमापादयन्ति, अतोऽभ्रस्य रश्मिगता आप एवोत्पत्तिकारणमाधारश्च । इदं च क्वेदमभ्रमितिप्रश्नस्योत्तरम् । येयं विद्युन्मेघेषु दृश्यते येयं सूर्ये समाहिता । सूर्यरश्मेरेव विद्युदाकारेण परिणतत्वात् । एतदुत्तरसामर्थ्यात्क्वेयं विद्युन्निविशत इत्यपि प्रश्नोऽत्र द्रष्टव्यः । अथ द्वितीयामाह -
वर्णो रूपविशेषस्तद्राहित्यमवर्णत्वं कुरूपत्वम् । केनापि कुरूपत्वेन रहितत्वमनवर्णत्वं सुरूपत्वम् । इमे भूमी उभे अनवर्णे सुरूपे दृश्यते । अत्र द्विवचनान्तभूमिशब्देन विवक्षितमर्थं श्रुतिरेव ब्रूते । इयं च भूमिरप्यसौ च द्यौरप्येते रोदसी द्यावापृथिव्यौ भूमिशब्देन विवक्षिते इत्यर्थः । द्यावापृथिव्योः सुरूपत्वं नाम बहुविधदेवपरिपूर्णत्वम् । कल्पः- “किंस्विदत्रेति पञ्च वैष्णवीः” इति । तत्र प्रथमामाह -
येन वस्तुनेमे द्यावापृथिव्यावुभे अपि विधृते विशेषेण सर्वजगदाधारत्वेन धृते अत्रान्तराऽनयोर्द्यावापृथिव्योर्मध्ये किंस्विद्भूतं किं नाम वस्तु तादृशं विधारकमभूत्, इति प्रश्नः । विष्णुना व्यापिना परमेश्वरेण भूमी द्यावापृथिव्यौ विधृते इत्येवं वत्साख्यस्य महर्षेर्वेदना विज्ञानम् । वत्सो हि स्मृतिकर्ता स च विष्णुमेव द्यावापृथिव्योर्विधारकं स्मरति । इदं च कंस्विदत्रेतिप्रश्नस्योत्तरम् । अथ द्वितीयामाह -
मनुषे मनुष्यार्थमेते द्यावापृथिव्याविरावती अन्नवत्यौ बह्वन्नयुक्ते धेनुमती धेनुमत्यौ सूयवसिनी शोभनैर्यवसैर्भक्ष्यैर्युक्ते दशस्ये दातुमर्हे भूतमन्नादिदानशक्ते भवतः । रोदसी द्यावापृथिव्यावेतादृशौ व्यष्टभ्नाद्विष्णुर्विशेषेण धृतवान् । हे विष्णो त्वं पृथिवीमेतां द्युलोकसहितामभितोऽध उपरि च मयूखैः शङ्कुस्थानीयैर्रश्मिभिर्दाधर्थ धृतवानसि । अथ तृतीयामाह -
यद्देवो यो विष्णुरेक एव रेजती राजमाने रोदसी द्यावापृथिव्यावुभे धारयद्धृतवांस्तस्य विष्णोः किं तद्बलं तादृशीशक्तिः कुत आगता, यैर्मयूखैर्धृतवान्सा दीप्तिः का कुत्रत्या, किं च परायणं तस्य सहायभूतं वस्तु, इति प्रष्टार आहुः । अथ चतुर्थीमाह -
विष्णुर्हि वातरूपं सूत्रात्मानमुत्पाद्य तेन सूत्रेण सर्वं जगद्धारयति । तथा च वाजसनेयिन आमनन्ति- “वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति” इति । तस्माद्विष्णोर्बलं धारणसामर्थ्यं वातादागतमित्यभिज्ञा उत्तरमाहुः । दीप्तिर्जगदवभासकं ज्योतिः, तच्च विष्णोरक्षराद्विनाशरहितात्स्वकीयात्परमपदाद्भवतीत्यभिज्ञैरुच्यते । विष्णोर्हि जगत्सृष्ट्यादिनिर्वाहकमुपासकैरुपास्यमिदमपरं यच्च ज्ञानिभिर्वेद्यं परमं पदम्, अत एवाऽऽम्नायते- “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति । तत्र परविद्यागम्यं स्वरूपं विनाशराहित्यादक्षरम् । अत एवाऽऽथर्वणिका आमनन्ति- “अथ परा यया तदक्षरमधिगम्यते” इति । तस्मादक्षराज्जगदवभासिका चैतन्यरूपा दीप्तिर्लभ्यते । “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति श्रुतेः । इदं च का दीप्तिरित्यस्योत्तरम्- पुरुषसूक्ते- “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” इत्याम्नायते । सर्वमप्येतज्जगदस्य परमेश्वरस्य चतुर्थोंऽशः । अवशिष्टमंशत्रयं व्यवहारातीतत्वादमृतमविनश्वरं सद्द्योतनात्मके स्वस्वरूपे सर्वदाऽवतिष्ठते । तादृशात्त्रिपात्स्वरूपाद्ब्रह्मणो लब्धसामर्थ्यो देवो विष्णुर्धारयत्सर्वं जगद्धारयति । यत्त्रिपाद्वस्तु विष्णोरेकमेवोत्तमं स्वरूपं तस्मात्त्रिपादादिति पूर्वत्रान्वयः । अथ वैतदुत्तरवशात्पूर्वत्रैको यद्धारयदिति वाक्ये कथमेको धृतवानिति प्रश्न उन्नेयः । अथ पञ्चमीमाह -
य एतेऽग्नयः सावित्रादय आरुणकेतुकान्ताः, ये च तत्सखिभूता वायवः चकाराद्येऽप्यादित्याः, एतत्सर्वं देवताजातमस्य विष्णोः परायणं सहकारिभूतम् । इदं च किं परायणमित्यस्योत्तरम् । कल्पः- “पृच्छामि त्वा परं मृत्युमिति चतस्रो मृत्युमतीः” इति । तत्र प्रथमामाह -
अत्र कश्चिन्मुनिर्जिज्ञासुरभिज्ञमन्यं मुनिं पृच्छति- हेऽभिज्ञ मुने त्वां प्रति चतुर्विधान्मृत्यून्पृच्छामि । परोऽवमो मध्यमश्चतुर्थश्चेत्येते मृत्यवस्तेषां स्वरूपं ब्रूहि । चतुर्थ इत्येतस्मिन्नर्थे चतुः (तु)शब्दः । तथा पुण्यकृतां पापिनां च लोकं ब्रूहि । एतत्सर्वमिदानीं पृच्छामि । अथ द्वितीयामाह -
इदमभिज्ञस्योत्तरम् - योऽसावादित्योऽमुमेव परं मृत्युं पूर्वे महर्षय आहुः । आदित्यस्य परिस्पन्दबाहुल्येनाऽऽयुषः क्षये सति मृत्योरलङ्घनीयत्वात् । पवमानं वायुं मध्यमं मृत्युमाहुः । प्राणवायोर्नाडीष्वन्यथा सञ्चारे सति तत्क्लेशेन समाधातुं शक्यते, तस्मान्मध्यमो मृत्युः । जाठराग्निर्यदा मन्दो भवति तदा व्याधिद्वारा मृत्युः प्राप्नोति स च चिकित्सकैरल्पप्रयासेन समाधातुं शक्यते तस्मादग्निरवमो मृत्युः । चन्द्रमा ओषधीनामधिपतिः, तदनुग्रहाभावे सत्यन्नाभावान्मृत्युः प्राप्नोति, तस्मादसौ चतुर्थो मृत्युः । अथ तृतीयामाह -
पापाः श्रुतिस्मृत्युल्लङ्घनेन पापमेवाऽऽचरन्तः पुरुषा अनाभोगाः सुखलेशेनापि हीनाः कृमिकीटादयः सन्तः सर्वदा परं मृत्युं संयन्ति कतिपयैरेवाऽऽदित्यपरिस्पन्दैरल्पायुषः सन्तः पुनः पुनर्जायन्ते म्रियन्ते च । सेयं सर्वदा परमृत्युप्राप्तिः । ये तु श्रुतिस्मृतिमार्गवर्तिनस्ते सर्वेऽप्याभोगाः सम्पूर्णाः सर्वभोगयुक्ताः सन्तस्तादृशं स्थानं प्राप्नुवन्ति । यत्र यस्मिन्स्वर्गे पूर्वे पुण्यकृतो जना देवा वर्तन्ते तत्र गच्छन्ति । एतत्तु लोकं च पुण्यपापानामित्यस्योत्तरम् । अथ चतुर्थीमाह -
ततः पूर्वोक्तेभ्योऽत्यन्तपापकृद्भ्योऽत्यन्तपुण्यकृद्भ्यश्चान्ये ये पुरुषा मित्राणि पुण्यपापान्याचरन्ति ते सम्प्रति मनुष्यजन्मनि मध्यमाधमचतुर्थमृत्युं च तदा प्राप्य प्रतीकारैः समादधते । एतदपि पुण्यपापलोकप्रश्नस्योत्तरम् । कल्पः- “पृच्छामि त्वा पापकृतश्चतस्रो निरयवतीः” इति । तत्र प्रथमामाह -
हे ब्रह्मन्स्त्वामिदं पृच्छामि । किं पृच्छसीति तदुच्यते- पापकृतः प्राणिनो यमो यत्र स्थाने यातयते क्लेशयति तत्स्थानं नोऽस्मभ्यं त्वं प्रब्रूहि । यद्यसतः पापिनो जन्तोर्गृहानायतनानि वेत्थ तर्हि शुश्रूषवे मह्यं ब्रूहि । अथ द्वितीयामाह -
योऽयं कश्यपाख्योऽष्टमः सूर्यो महामेरौ नित्यं वसति तस्मादुत्पन्ना आरोगादयः सप्त सूर्यास्तदीयमूर्तिविशेषा अन्ये सहस्रसंख्याकास्ते सर्वेऽपि रोदस्योरन्तर्द्यावापृथिव्योर्मध्य(ध्ये)देशेषु रौरवादिनरकप्रदेशेषु, पापान्पापिनः प्राणिनः सर्वदा निर्घ्नन्ति निःशेषेण मारयन्ति । मारिताश्च ते पापिनो वासवैर्निवासहेतुभिः सूर्यरश्मिरूपैर्देवैस्तत्र न्यस्यन्ते तेष्वेव नरकप्रदेशेषु पुनरपि बाधिता उत्पाद्य स्थाप्यन्ते । अथ तृतीयामाह -
ते पापिनस्तेषु नरकस्थानेष्वशरीराः सम्पूर्णावयवसमीचीनावयवरहिताः प्रपद्यन्ते जन्म प्राप्नुवन्ति, अपुण्यस्य कर्मणो यथा योग्यं तथा प्राप्नुवन्ति । तत्र कश्चित्पापी पाणिशून्यः कुणिर्भवति । अपरः पादहीनः पङ्गुर्भवति । अपरः केशहीनः खलतिर्भवति । एवमपाण्यपादकेशासो विकृतशरीरा जायन्ते । किञ्च तत्र तेषु नरकस्थानेषु केचिदयोनिजा जन्तवो भवन्ति । तन्मध्ये केचित्स्वेदजाः कृमिदंशाद्या अपर उद्भिदस्तरुगुल्माद्या भवन्ति । अत एव वाजसनेयिनः पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गरहितानां पापिनामीदृशं जन्माऽऽमनन्ति- “अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्” इति । छन्दोगाश्चैवमामनन्ति - “तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति” इति । अथ चतुर्थीमाह -
तेषु नरकस्थानेषूत्पन्नाः प्राणिनः सकृन्मृत्वा पुनरुत्पद्यन्ते मृत्युं प्राप्नुवन्ति, जन्ममरणसहस्राणि प्रतिपद्यन्त इत्यर्थः । ते च स्वकर्मभिः स्वकीयैः पापैरद्यमाना भक्ष्यमाणाः, कर्मपरवशा इत्यर्थः । तेषामेव मध्येऽस्मत्प्रत्यक्षसिद्धो दृष्टान्त उदाह्रियते- आशातिका आगत्य शात्यमाना अस्माभिरेव बाध्यमानाः शिरोवस्त्रखट्वादिषु वर्तमानाः क्रिमय इव यूका मत्कुणादय इव । यूकादयः पापिनो यथाऽस्माभिः प्रतिक्षणं मार्यन्त एवमन्येऽपि पापिनो देवैर्मार्यन्त इत्यर्थः । अथ ब्राह्मणम् -
यः पुमानेवं कश्यपादुदिताः सूर्या इत्याद्युक्तप्रकारेण कश्यपमहिमानं जानाति, असावेतमपमृत्युं कृमिकीटादिकेषूक्तमपकृष्टमृत्युं जयति । विदुषः पापेष्वप्रवृत्तेर्युक्तो मृत्युजयः । किं च स खलु ब्राह्मण एवंवित्कश्यपमहिमाभिज्ञः सन्दीर्घश्रुत्तमो भवति, दीर्घं चिरकालं कश्यपेन श्रूयते सम्यगनुष्ठाताऽयमिति, ततोऽप्यतिशयो बहूनां देवानां मुखाच्छ्रवणं बहवोऽपि देवाः कश्यपसमीपं गत्वा ब्राह्मणोऽयमारुणकेतुकं सम्यगनुतिष्ठतीति पुनः पुनः कथयन्त्यतोऽयं दीर्घश्रुत्तमः । परलोके कश्यपस्यातिथिरिव पूज्यो भवति । किञ्च स ब्राह्मणः स्वेच्छया कश्यपसमीपगमनागमनयोः समर्थो भवति । अथ ब्राह्मणोक्तार्थस्य प्रतिपादिकामृचमवतारयति- — इति ।
तामेतामृचं दर्शयति -
यस्मिन्कश्यपे सप्तसंख्याका आरोगादयः सूर्या आ रोहन्ति कश्यपादेवोत्पद्य स्थितिं लभन्त इत्यर्थः । कीदृशाः सप्त सूर्याः, वासवा जगन्निवासहेतवः, पूर्व्या रुहः सृष्ट्यादावुत्पन्नत्वेन प्रथमाङ्कुरभूताः, तस्येन्द्रस्य परमैश्वर्ययुक्तस्य कश्यपस्य दीर्घश्रुत्तमनामकः कश्चिदृषिर्घर्मो दीप्यमानः सन्नतिथिः सम्पन्नः । इत्यनयेष्टकामुपदध्यात् । अत एव बौधायनः- “मा यस्मिन्नग्ने नयेति द्वे” इति । अथ ब्राह्मणमुच्यते -
योऽयमष्टमः सूर्यो रूढ्या कश्यप इति नाम्नाऽभिधीयते स एवावयवार्थपर्यालोचनायामाद्यन्तयोरक्षरयोर्व्यत्यासेन पश्यको भवति । यद्यस्मात्कारणादत्यन्तसूक्ष्मत्वेन दिव्यदृष्ट्या सर्वमतीतानागतादिकं परितः पश्यति । तदेवं कश्यपप्रकरणं समाप्याग्निप्रकरणमारभते -
अथ कश्यपमहिमकथनानन्तरमष्टपुरुषस्याष्टसंख्याकमूर्तियुक्तस्याग्नेर्महिमा कथ्यत इति शेषः । तस्याग्नेर्महिमप्रतिपादिकेयमृग्विद्यते । तामेतामृचं दर्शयति -
हेऽग्ने राये धनप्राप्त्यर्थमस्मान्सुपथा नय शोभनेन मार्गेण प्रापय । हे देव त्वं विश्वानि वयुनानि सर्वान्मार्गाञ्जानन्सन्वर्तसे । जुहुराणं कुटिलमेनः पापमस्मद्युयोध्यस्मत्सकाशाद्वियोजय । ते तुभ्यं भूयिष्ठामत्यधिकां नमउक्तिं नमस्कारप्रतिपादकं वाक्यं विधेम कुर्यास्म । इत्यनयेष्टकामुपदध्यात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठकेऽष्टमोऽनुवाकः ॥८॥अथ प्रथमे नवमोऽनुवाकः ।

कल्पः- “अग्निश्च जातवेदाश्चेत्यष्टौ” इति । पाठस्तु -
अग्न्यादयः शब्दा मूर्तिविशेषाणां नामधेयानि । तत्र यः पङ्क्तिराधाः सोऽग्नीनां मूर्तिविशेषाणां मध्ये सप्तमो ज्ञेयः । विसर्पच्छ(र्पेवश)ब्देन विसर्पीति नाम विवक्ष्यते । सोऽयमग्नीनां मध्येऽष्टमः । एतेऽग्न्यादयोऽष्टौ मूर्तिविशेषा वसवः सर्वेषां प्रणिनां निवासहेतवः, स्वयं च क्षिताः सुखेन निवासं प्राप्ताः । इतिशब्द उपधानप्रदर्शनार्थः । अस्यामृच्यभिहितानि नामान्येवोपधानमन्त्राः । अग्निस्तया देवतयाङ्गिरस्वध्रुवाऽऽसीदेत्येवं सर्वत्रोपधानम् । अथ ब्राह्मणमुच्यते -
ऋतूननतिक्रम्य यथर्तुः, यस्यर्तोर्यादृशो वर्णविशेषस्तस्मिन्नृतावग्नेरपि वर्णविशेषस्तादृगेव भवति । एवं सति क्वचिदृतौ नीलार्चिः क्वचिच्च पीतार्चिरित्यादिकं द्रष्टव्यम् । कल्पः- “प्रभ्राजमाना इत्येकादश रुद्राः प्रभ्राजमान्य इत्येकादश रुद्राण्यः” इति । तदेतदुभयविधं विधत्ते -
अथाग्नेरष्टविधस्य मन्त्रस्य कथनादनन्तरम्, एकादशभिः पुरुषमूर्तिभिरेकादशभिः स्त्रीमूर्तिभिश्च युक्तस्य वायोरिष्टका उपधेयाः । तत्र पूर्ववन्नामधेयरूपान्मन्त्रान्दर्शयति -
अत्रापि प्रभ्राजमानास्तया देवतयाऽङ्गिरस्वध्रुवाऽऽसीदेत्यादिकं द्रष्टव्यम् । याश्चेत्युपन्यासार्थमुच्यते न तु नामान्तःपाती । वैद्युतपर्यन्ता या(य) उक्तास्ता (स्त) इतिशब्देन परामृश्यन्ते । इत्येकादश वायुसम्बन्धिपुरुषगणाः । एकैकस्मिन्गणे पुरुषबाहुल्यात्प्रभ्राजमाना इत्यादिबहुवचननिर्देशः । एकादशस्त्रीकस्येति विहितत्वादनाम्नाता अपि स्त्रीनाममन्त्रा अत्रोन्नेयाः । तथा च प्रभ्राजमान्यस्तया देवतयाऽङ्गिरस्वध्रुवाऽऽसीदेति मन्त्रपाठः सम्पद्यते । उक्तवायुगुणवेदनं प्रशंसति -
यः पुमान्वायुगुणमाहात्म्यं वेदैनं वैद्युतोऽग्निरशनिरूपो न हिनस्ति । एतस्योत्तमफलत्वं द्योतयितुं वैद्युतवधस्य कष्टतां दर्शयति -
पराशरस्य पुत्रो व्यासाख्यो महर्षियोऽस्ति स खल्वेवमुवाच, विद्युताऽशनिना क्रियमाणो यो वधस्तमेवाहं मृत्युमैच्छं तस्य मरणस्यातिकष्टत्वात्स एव वध एको मृत्युशब्दस्य मुख्यार्थः । तदपेक्षयाऽन्येषां पापिष्ठत्वाभावादितरे वधा मृत्यव एव न भवन्तीत्यहं मन्ये । विद्युद्वधस्यातिकष्टत्वं प्रदर्श्य वेदितुस्तद्वधराहित्यलक्षणं फलं पूर्वोक्तमुपसंहरति -
एवं वेदितुर्विद्युद्वधपरिहारार्थित्वाद्विद्युद्वधे कामरहितं वेदितारं स वैद्युतोऽशनिर्नैव हन्ति । कल्पः- “स्वानभ्राडित्येकादश गन्धर्वाः पदशः पश्चात्” इति । तदेतद्विधत्ते - – इति ।
वायुगुणानन्तरं गन्धर्वगणा उपधेयाः । गन्धर्वाणां नाममन्त्रान्दर्शयति -
स्वानादीनि गणनामधेयानि । स्वानत(स्त)या देवतयाऽङ्गिरस्वध्रुवाऽऽसीदेत्येवमुपधानं कर्तव्यम् । एकादशसंख्याका य एते गन्धर्वगणास्तान्प्रशंसति -
देवाः स्वयं द्योतमानाः, महादेवा इतरेषु देवेषु मध्ये गुणैर्महान्तः रश्मयो दीप्तिमन्तः, देवा इतरेषामपि द्योतयितारः, गरगिरो विषमपि निगीर्य जरयन्ति । एतद्वेदनं प्रशंसति -
वेदितुर्विषबाधा नास्ति । कल्पः- “गौरी मिमायेत्येका” इति ।
गौरी शुक्लवर्णा सरस्वती या शब्दब्रह्मात्मिका सा मिमाय मिमीते स्वकीयैः शब्दैरभिधेयं सर्वं जगत्परिच्छिनत्ति । किं कुर्वती, सलिलान्युदकजन्यानि सर्वाणि भूतजातानि तक्षती स्वव्याप्त्या नाना कुर्वती । एकैकस्य हि पदार्थस्य बहूनि नामधेयानि, वृक्षो महीरुहः शाखीत्येवं पर्यायबहुत्वदर्शनात् । यद्यप्यत्र प्रवृत्तिनिमित्तभूता अवयवार्था भिद्यन्ते तथाऽपि देशभेदेन भिन्नभाषासु नास्ति प्रवृत्तिनिमित्तभेदः । अतः शब्दप्रपञ्चस्य बाहुल्यादर्थप्रपञ्चोऽपि स्वल्पो भवति । सा च सरस्वती छन्दोभेदादेकपद्यादिरूपेण वर्धमाना सहस्राक्षरा सहस्रशब्दस्यानन्तपर्यायत्वादनन्ताक्षरा, अत्र बभूवुषी भवितुमिच्छां कृतवती परमे व्योमन्विविधरक्षके परमे जगत्कारणे ब्रह्मणि स्थिता । इत्यनयेष्टकामुपदध्यात् । अस्या ऋचस्तात्पर्यं दर्शयति -
वाग्देवतायाः स्तुतिरस्यामृचि क्रियत इत्यर्थः । कल्पः- “वराहव इति सप्त वाताः पदशः” इति तदेतद्विधत्ते -
अथ सारस्वतेष्टकोपधानानन्तरं निगदव्याख्याता उपधेयाः । निगद्यमानेनैव मन्त्रपाठेनैव तेषां वायूनां महिमा विस्पष्टमाख्यातो भवति । तानेतान्मन्त्नाननुक्रमेण कथयिष्यामः । प्रतिज्ञातान्मन्त्रादर्शयति -
अत्र वराहव इत्यारभ्य गृहमेधा इत्यन्तैः षड्भिः पदैः पर्जन्यप्रवर्तका वायुविशेषा उच्यन्ते । तेषां गणरूपत्वादेकैकगणस्थान्बहून्विवक्षित्वा वराहव इत्यादिबहुवचननिर्देशः । वरं श्रेष्ठं वर्षमाह्वयतीति वराहः (हुः), ते च बहवो वराहवः । ये वायवः स्वतपसः स्वयमेव तपन्ति न तु तापार्थमग्निमादित्यं वाऽपेक्षन्ते स्वतपसः । विद्युत्समानं मदस्तेजो येषां ते विद्युन्महसः धूपयो गुग्गुलदशाङ्गादिद्रव्यान्तरैरन(न्तरान)पेक्षेण स्वशरीरगतसुगन्धेनैव सर्वान्पदार्थान्धूपयन्तो वासितान्कुर्वन्तो वर्तन्ते । श्वापयः । शुशब्द आशुशब्दपर्यायस्ततः शीघ्रव्यापिन इत्युक्तं भवति । गृहेषु मेधार्हा गृहमेधाः । चकारः षण्णां समुच्चयार्थः । इत्येत इतिशब्दद्वयेन यथोक्तनिर्वचनप्रख्यातमहिमत्वं प्रदर्श्यते । एवं षड्विधा वायुगुणा एकदेशवर्तिनो निर्दिष्टाः । गणान्तरं तु देशान्तरवर्तित्वापृथङ्निर्दिश्यते । शिमिः कर्म कृष्यादिकं तस्य विघातकाः शिमिविद्विषः, तद्विपरीता अशिमिविद्विषः कृष्याद्यनुकूलप्रवृत्तयो वायव इत्यर्थः । तादृशा ये च सन्ति तेऽपि पूर्वोक्तषड्गणवन्निगदेनैव व्याख्यातमहिमान इत्यभिप्रायः । अत्र नामान्येव मन्त्राः । तथा सति वराहवस्तया देवतयाऽङ्गिरस्वध्रुवाऽऽसीदेत्येवमुपधानं सम्पद्यते । तत्तच्छब्दैरेव व्याख्यापितो यो महिमा तं महिमानं संगृह्य पुनः प्रकटयति -
पूर्वोक्तैः सप्तभिर्वायुगुणैः प्रवर्तिताः सप्तविधा मेघा वृष्टिभिरस्माभिर्दृश्यमानाभिः पृथिवीमभिलक्ष्य वर्षन्ति, इत्येषां वायूनां महिमा । निराधारेऽन्तरिक्षे मेघान्सम्पाद्य बहुविधजलसंग्रहो योऽस्ति यस्य देशविशेषस्य यावदपेक्षितं तत्र तावदेव वर्षणं यच्चास्ति स सर्वोऽप्यचिन्त्यत(स्त)न्महिमेति दर्शयितुमितिशब्दप्रयोगः । यया रीत्या भूमावभिवर्षणमेतयैव रीत्याऽमून्सर्वाल्ँ लोकान्पर्जन्या अभिवर्षन्ति । इयांस्तु विशेषः यद्विभक्तिवैपरीत्यम् । विशिष्टं भजनं विभक्तिः । भूमिं प्रति पर्जन्यानामधोमुखत्वम्, उपरितनाल्ँ लोकान्प्रत्यभिवर्षणार्थमूर्ध्वमुखत्वमिति वैपरीत्यम् । न चोर्ध्वाभिवर्षणमयुक्तमिति शङ्कनीयम्, यस्मादेते पर्जन्याः पूर्वोक्तैः सप्तभिर्वायुगुणैरुदीरिता ऊर्ध्वं प्रेरिताः, दृश्यते हि वायूनां सर्वतः प्रेरणसामर्थ्यम् । तस्मादधोवर्षणवद्वायुवशादूर्ध्ववर्षणमपि सम्भवत्येव । तेषां पूर्वोक्तवायूनामूर्ध्वाधोवर्षणसामर्थ्यप्रतिपादिकेयमृग्विद्यते । तामेतामृचं दर्शयति -
यदुदकं भूमौ वृष्टं यच्चोर्ध्वलोकेषु तत्सर्वं समानं द्रवस्वभावमेव तथाऽप्यहभिः कैश्चिदहोभिर्दिनैरुदेति चोर्ध्वमपि गच्छति पुनरपि कैश्चिद्दिनैरवैति चाधोऽपि गच्छति । तत्राऽऽगतेनोदकेन पर्जन्या भूमिं जिन्वन्ति प्रीणयन्ति । यथाऽग्नय ऊर्ध्वज्वाला एवमूर्ध्वाभिमुखाः पर्जन्या ऊर्ध्वगतिसामान्यादग्नय इत्युच्यन्ते । ते चोर्ध्वाभिवर्षणेन दिवं प्रीणयन्ति । इत्यनयेष्टकामुपदध्यात् । तथा च बौधायन आह- “समानमेतदिति वृष्टिमतीम्” इति । इष्टकाविशेषस्य वृष्टिमतीति नामधेयम् । एवमुत्तरैस्त्रिभिर्मन्त्रैर्लोकाप्यायितशंयुनामकानामिष्टकाविशेषाणामुपधानं स एवाऽऽह- “यदक्षरमिति लोको जगदग्निरित्याप्ययितस्तच्छंयोरिति शंयुः” इति । तत्र प्रथमं मन्त्रमाह -
न क्षरति न विनश्यति कदाचिदपीत्यक्षरं यत्परं ब्रह्म वस्तु भूतकृतमाकाशादि भूतरूपेण निष्पन्नम् । अत एवोपनिषद्याम्नायते- “तदात्मानं स्वयमकुरुत” इति । तादृशं विश्वे सर्वेऽपि देवा उपासते । अस्याक्षरस्य गोप्तारं रक्षितारं जमदग्न्याख्यं महर्षिमकुर्वत । देवा इन्द्रादयः स्वपुरुषार्थसिध्यर्थं स्वयमुपासते मनुष्याणामनुग्रहार्थं जमदग्निप्रभृतिकं महर्षिसङ्घमस्याक्षरस्योपदेष्टारमकुर्वत । ऋषयो हि तत्तद्वेदप्रवर्तनेन मनुष्येभ्योऽक्षरमुपदिश्य तत्सम्प्रदायं परिपालयन्ति । अथ द्वितीयं मन्त्रमाह -
स च जमदग्निश्चतुरुत्तरैरक्षरचतुष्टयादुत्तरभाविभिर्गायत्र्यादिभिश्छन्दोभिः स्वेनोपदिष्टैर्मन्त्रैर्वाऽऽप्यायते प्राणिनोभिवर्धयति । ते च प्राणिनो वीर्यवता शक्तिमता ब्रह्मणा मन्त्रेण राज्ञो राजमानस्य सोमस्य लतात्मकस्य पातारो भूत्वा तृप्तासः कृतकृत्यत्वबुध्या तृप्ता भवन्ति । सैव तृप्तिः स्पष्टीक्रियते - नोऽस्माकं प्रदिशः प्राच्याद्या मुख्या दिश आग्नेयाद्या अवान्तरदिशश्च शिवाः शान्ताः सम्पन्नाः, सर्वदिग्वर्तिप्रजासुखहेतवः सम्पन्ना इत्यर्थः । अथ तृतीयं मन्त्रमाह -
शं प्राप्तानां रोगादीनामुपशमनकारणम् । योः, आगामिनां रोगादीनां वियोगकारणम्, तत्कर्माऽऽरुणकेतुकाख्यमावृणीमह आभिमुख्येन प्रार्थयामहे । यज्ञाय तस्मिन्नारुणकेतुकेऽनुष्ठीयमानस्योत्तरक्रतोर्गातुं गतिमावृणीमहे प्रार्थयामहे । यज्ञपतये यजमानस्य च गातुं गतिं फलप्राप्तिमावृणीमहे । नोऽस्माकं दैवी स्वस्तिर्देवैः सम्पादितः क्षेमोऽस्तु । मानुषेभ्यः पुत्रादिभ्यश्चस्वस्तिः क्षमोऽस्तु । इत ऊर्ध्वं सर्वदा भेषजं सर्वानिष्टनिवारणं जिगातु प्राप्नोतु । स नोऽस्मदीयाय द्विपदे मनुष्याय च शं सुखमस्तु चतुष्पदे पशवेऽपि शं सुखमस्तु । अथ ब्राह्मणवाक्यमुच्यते -
अथ निगदव्याख्याता इति यदुपक्रान्तं तदत्रोपसंह्रियते- वराहव इत्यादिषु शं चतुष्पद इत्यन्तेषु मन्त्रेषु ये सोमपा देवा ये चासोमपास्ते सर्वेऽप्यभिहिताः । प्लुतिद्वयमाख्यानार्थम् । " (अनन्त्यस्यापि) प्रश्नाख्यानयोः” इति सूत्रेण प्रश्नवन्निश्चिताख्यानेऽपि प्लुतस्य विहितत्वात् । त एते सर्वे देवा निगदव्याख्याताः । मन्त्रपाठेनैव तदर्थपर्यालोचनायां तत्तन्महिम्नः प्रतीयमानत्वात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके नवमोऽनुवाकः ॥९॥अथ प्रथमे दशमोऽनुवाकः ।
कल्पः- “सहस्रवृदियमित्यष्टौ संयानीः” इति । तत्र प्रथमामाह -
इयं दृश्यमाना भूमिः सहस्रवृदुपकारकतया सहस्रसंख्याकैः पुरुषैर्व्रियमाणा प्रार्थ्यमाना । भवति तथा परं व्योमोत्कृष्टं स्वर्गस्थानमपि सहस्रवृत्सहस्रसंख्याकैर्देवैः प्रार्थ्यमानं भवति । ते एते द्यावापृथिव्यावश्विनावश्विसदृशौ, यथाऽश्विनौ सर्वेषामुपकुरुत एवमेते द्यावापृथिव्यावपीत्यर्थः । कीदृशावश्विनौ, प्राणिनां रोगनिवर्तनेन भुज्यू भोगहेतू, नासत्यौ, कदाचिदप्यसत्यरहितौ, अत एव विश्वस्य जगतः पती पालयितारौ । अथ द्वितीयामाह -
पूर्वमन्त्रे द्यावापृथिव्यावश्विरूपेण स्तुते, इह तु मिथुनरूपेण स्तूयेते - येयं भूमिः सा जाया, जायतेऽस्यां प्राणिजातमिति व्युत्पत्तेः । यत्तु व्योम स पतिः, देवानां विविधरक्षकत्वेन पालयतीति पतिरिति व्युत्पत्तिसम्भवात् । तस्माद्द्यावापृथिव्यौ ते उभे मिथुनं यथा भवति तथाऽतुर्यथुः, परस्परं गच्छथः । तुरी गताविति धातुः । तथासङ्गतयोर्द्यावापृथिव्योरुत्सङ्गवर्ती बृहस्पतिरेकः पुत्रः । रुद्रोऽग्निः, “रुद्रो वा एष यदग्निः” इति श्रुतेः । सोऽयमपरः पुत्रः । सरमा वेदिः, सरः सरणमनुष्ठानप्रवृत्तिः सा च मीयते परिच्छिद्यतेऽत्रेति सरमा सा च तयोर्दुहिता । इत्येवं स्त्रीपुममेका स्त्री द्वौ पुमांसावित्यपत्यत्रयं सम्पन्नम् । अथ तृतीयामाह -
पूर्वत्र द्यापृथिव्यौ दम्पतिरूपेण स्तुते, इह त्वहोरात्ररूपेण स्तूयते - हे द्यावापृथिव्यौ वां युवयोर्मध्येऽन्यत्परं स्वरूपं शुक्रं शुक्रवर्णं भास्वरमहः । अन्यदितरत्स्वरूपं र(य)जतं निश्यनुष्ठितयागोपलक्षितकृष्णवर्णोपेता रात्रिः । इत्येवं युवां विषुरूपे विलक्षणरूपयुक्ते अहनी अहोरात्रे स्थः । ते युवां द्यौरिव द्युलोकस्यादित्य इव सर्वस्योपकुरुत(थ) इति शेषः । हे स्वधावन्तावन्नवन्तौ युवां देवौ हि यस्माद्विश्वा मायाः सर्वा अपि मतीरवथो रक्षथः । सति ह्यन्ने सर्वेषां बुद्धिः प्रसीदति । तस्माद्धे पूषणौ पोषकौ देवौ वां युवयोरिह कर्मणि रातिर्भद्राऽस्तु, अन्नादिदानं कल्याणं भवतु । अथ चतुर्थीमाह -
अहोरात्ररूपेण स्तुतयोः पुनः सखिद्वयरूपेण स्तुतिः क्रियते - हे द्यावाभूमी द्यावापृथिव्यौ युवां सखायौ सखिद्वयमिव सञ्चरथः सम्भूय वर्तेथे । कीदृशौ सखायौ, वासात्यौ वसतिमर्हतः, देवानां मनुष्याणां च निवासं प्रयच्छथ इत्यर्थः । चित्रौ विलक्षणभोगप्रदत्वेन नानाविधौ, जगतो निधानौ सर्वस्यापि प्राणिजातस्य निधानस्थानीयौ, रासभाश्वा रासभौ गर्दभावेवाश्वस्थानीयौ ययोरश्विनोर्देवतयोस्तौ रासभाश्वाख्यौ, तथाविधावश्विनावश्विसदृशौ तौ देवौ युवां शुभस्पती शोभनस्य कर्मणः पालकौ सन्तौ सूर्ययोषसा सह (द्यावापृथिव्या सह) हवं मदीयं यज्ञं प्रत्या(आ)गच्छतम् । अथ पञ्चमीमाह -
हेऽश्विनावुदमेघ उदकसहितमेघेऽवस्थितं भुज्युं पालकं तमुदकसङ्घमूहथुर्वहथः सम्पादयथः । कीदृशमुदकसङ्घम्, नौभिः, तरणीयमिति शेषः । कीदृशीभिर्नौभिः, आत्मन्वतीभिर्दृढस्वरूपयुक्ताभिः । अन्तरिक्षप्रुड्भिर्भूमिस्पर्शमन्तरेण जलस्योपर्यन्तरिक्षे प्लवनशीलाभिः । अपोदकाभिरुदकप्रदेशरहिताभिः, निश्छिद्राभिरित्यर्थः । अश्विनोरुदकस्य वहने दृष्टान्तः - त्युग्रोऽत्युग्रो मूर्खः कश्चित्पुमान्ममृवान्मरणं प्राप्यमाणोऽपि रयिं धनं न प्रयच्छति किन्त्ववाहा आवहत्येव । यद्वा स्वयमेवावहरति(हति) । यथा स लुब्धोऽत्यादरेण धनं सम्पादयत्येवमश्विनावप्यादरेण वृष्टिं सम्पादयत इत्यर्थः । अथ षष्ठीमाह -
नासत्याऽसत्यरहितावश्विनौ देवौ तिस्रः क्षपा(पो) रात्रित्रयं त्रिरहाऽहस्त्रयं च नैरन्तर्येणातिव्रजद्भिरतिशयेन गच्छद्भिः पतङ्गैः पक्षिसदृशैरितस्ततः सञ्चारिभिर्मेघैर्भुज्युं पालकं जलसमूहमूहथुर्युवां वहथः । कुत्र देश इति तदुच्यते - आर्द्रस्य जलपूर्णस्य समुद्रस्य पारे परभागे धन्वन्निर्जले मरुदेशे । कीदृशैर्मेघैः, त्रिभिस्तत्तद्देशमनुसृत्योत्तममध्यमाधमभावेन त्रिविधैः । रथैः रथसदृशैः । यथा रथा उपरि महान्तं भारं वहन्ति तथा बहुजलभारवाहिन इत्यर्थः । शतपद्भिः शतसंख्याकाः पदा(दो) जलधाराः पादसदृशा येषां तादृशैः, अनन्तधारैरित्यर्थः । षडश्वैः षट्प्रकारव्याप्तियुक्तैः । उत्तमादीनां त्रयाणामागमनार्थास्तिस्रो व्याप्तयः पुनर्गमनास्तिस्र इत्येवं षड्विधव्याप्तयः । अथ सप्तमीमाह -
शम्बरमुदकं तस्योदकस्य धारको मेघः शाम्बरः स च वितन्वन्तं वृष्ट्यर्थं रश्मीन्विस्तारयन्तं सवितारमादित्यमनुबध्नाति स्वानुग्रहार्थमाश्रयति आपपूरापशब्दो जलवाची तेन जलेन पूर्णः श(ष)म्बरः पूर्वोक्तः शाम्बरो मेघो यः सोऽप्यरेपसः पापरहितायाः सर्वानुग्राहिकाया वृष्टेः सविता भवदेवोत्पादयिता भवत्येव । अथाष्टमीमाह -
सुतृप्तं सुष्ठु तृप्तियुक्तमुदकपूर्णमित्यर्थः । बहुसोमगिरं बहवः (सोमाः) सो(सौ)म्या गिरः शब्दा स्तनितरूपा यस्यासौ बहुसोमगीः, बहुविधगर्जनयुक्त इत्यर्थः । तादृशं तं पूर्वोक्तं मेघं विदित्वा वशी स्वाधीनमेघः । तुग्र आदित्यः, तुग्रशब्दो रश्मिनाम तद्वांस्तुग्रः स च वक्रियां वक्रं कुटिलं वृष्टिविमुखं तं मेघमन्वेति वर्षयितुमनुगच्छति । किं कुर्वन्, सोमतृप्सुष्वायसूयान् । सोमेन तृप्यन्तीति सोमतृप्सवो यजमानास्तेषु निमित्तभूतेषु वृष्टेरागमनमायस्तस्य प्रेरणमायसूस्तत्प्रेरणं यान्प्राप्तुवन्नायसूयान्, वृष्टिं प्रेरयितुमुद्यमं कुर्वन्नित्यर्थः । एतैरष्टभिर्मन्त्रैरिष्टका उपदध्यात् । कल्पः- “स सङ्ग्राम इति द्वे” इति । तत्र प्रथमामाह -
स आदित्यो गा गवादीन्पशूंस्तदप्सूदकं पिपाति पाययति । कीदृशीर्गाः, वाचः शब्दयन्तीः । पूर्वमुदकाभावात्तृषार्ताः सत्यो जलपानार्थं हम्भारवं कुर्वन्तीत्यर्थः । कीदृशः स आदित्यः - सङ्ग्रामः, समूहवाची ग्रामशब्दोऽत्र रश्मिशब्दमाचष्टे । सम्प्राप्तो ग्रामो रश्मिसङ्घो येनासौ सङ्ग्रामः, रश्मिभिः पूर्ण इत्यर्थः । तमो द्यति खण्डयतीति तमोद्यः, अत्यैरश्वैरुतो रक्षितो धृत इत्यत्योतः । “अश्वोऽसि हयोऽस्यत्योऽसि नरोऽसि” इत्यश्वनामस्वत्यशब्द आम्नातः । आदित्यो ह्यश्वैः स्वकीयरथे स्थितः स आदित्यस्तत्तदा गोभिर्वृष्ट्या परितुष्टानां प्राणिनां वाग्भिः स्तवा स्तूयमानः सन्नन्येऽन्यान्देवानत्येत्यतिक्रामति, सर्वदेवाधिकत्वेन भासत इत्यर्थः । ये च दिव्या जना रक्षसा रक्षसो जात्याऽनन्विता असम्बद्धा देवपक्षपातिनस्तैः सर्वैः स्तूयत इति शेषः । अथ द्वितीयामाह -
अस्तः क्षिप्त आदित्येन प्रेरितो मेघः परिवृत्य पुनरपि वृष्ट्यर्थं पर्यागत्यान्वेत्यानुकूल्येन गच्छति, वर्षतीत्यर्थः । हेऽश्विना(नौ) ते एते यथोक्तवृष्टियुक्ते द्यावापृथिव्यौ ये विद्येते तयोरेवमुक्तेन प्रकारेणोपकुर्वन्तावेतौ युवां स्थो वर्तेथे । कथमुपकार इति तदेव स्पष्टीक्रियते - द्युः पृथिव्योर्द्यावापृथिव्योरहरहः प्रतिदिनं गर्भं दधाथे जलद्वारा तत्तत्प्राण्युत्पत्तिबीजं सम्पादयथः । एवमेताभ्यां मन्त्राभ्यामिष्टके उपदध्यात् । अतः परं ब्राह्मणवाक्यमुच्यते । तत्र द्यावापृथिव्यौ बहुधा प्रशस्येते । तत्रैकां प्रशंसामाह -
तयोर्द्यावापृथिव्योरेतावहोरात्ररूपौ कालौ वत्सस्थानीयौ, तत्रोत्पन्नत्वात् । तयोर्मध्ये पृथिव्या गोस्थानीयाया अहर्वत्सस्थानीयं दिवश्च रात्रिर्वत्सस्थानीया । प्रशंसारूपत्वान्नात्र विभागे कारणमन्वेष्टव्यम् । तावेतावहोरात्ररूपौ वत्सौ परस्परमविसृष्टौ दम्पती एव भवत इति । अथ द्वितीयां प्रशंसामाह -
तयोर्द्यावापृथिव्योर्यौ वत्सावहोरात्ररूपौ पूर्वमुक्तौ तयोरहोरात्रयोरग्न्यादित्यौ वत्सौ । योऽयं श्वेत आदित्यः सोऽयं रत्रेर्वत्सस्थानीयः, रात्रेः परभागे तदाविर्भावात् । योऽयं ताम्रोऽरुणश्चाग्निरीषद्रक्तस्ताम्रोऽत्यन्तरक्तोऽरुणः सोऽयमह्नो वत्सस्थानीयः, अहनि पाकाद्यर्थमग्निः प्राणिभिः प्रज्वाल्यते । अन्यत्पूर्ववत् । तृतीयां प्रशंसामाह -
तयोरग्न्यादित्ययोः । वृत्र आवरको धूमः । वैद्युत आतपः । अन्यत्पूर्ववत् । अथ चतुर्थीं प्रशंसामाह -
तयोर्वृत्रवैद्युतयोः । वृत्रस्याऽऽवरकस्य धूमस्योष्मा वत्सस्थानीयः । सति हि धूमेऽत्रोष्मा भवति । उष्णत्वमूष्मा । वैद्युतस्यातपस्य नीहारो वत्सस्थानीयः । नीहारो हिमम् । तावूष्मनीहारौ तावेव स्वकारणभूतौ वृत्रवैद्युतावेव प्रतिपद्येते कारणयोरेवलीयते न तु कार्यान्तरं जनयतः । एवं साक्षात्परम्परया च द्यावापृथिव्यौ प्रशस्ते । अथ रात्रिं तद्वत्समादित्यं च विशेषेण प्रशंसति -
येयं रात्रिरादित्यवत्सस्य मातृत्वेन निरूपिता सेयं रात्रिर्गर्भरूपमादित्यं धारयन्ती तेनाऽदित्येन पुत्रेण सह निवसति । अत एव रात्रावादित्यो नास्माभिर्दृश्यते । आदित्यस्य रश्मयः उल्बणस्थानीयाः । यथा लोके गर्भिण्या गोरुल्बो गर्भेण सहान्तर्वर्तत एवमादित्यस्य रश्मयोऽपि रात्रावादित्येन सहावस्थितत्वान्नास्माभिर्दृश्यन्ते । यथोक्तरात्र्यादित्ययोर्वेदनं प्रशंसति -
यो रात्रिमाहात्म्यं वेद सोऽयं प्रजापशूत्पादको भवति । आदित्यमहिमवेदनादुदयास्तमययुक्तमादित्यं प्राप्नोति । उदयस्थानेऽस्तमयस्थाने च स्वेच्छया गन्तुं समर्थो भवति । किञ्चाऽऽदित्यवत्पुण्यस्य वत्सो धर्मदेवतापुत्रो भवति । वक्ष्यमाणानुवाकतात्पर्यं संगृह्य दर्शयति -
संयान्यादीष्टकामन्त्रकथनानन्तरं पवित्रभूता अङ्गिरोनामाङ्किता इष्टकामन्त्रा वक्ष्यन्त इति शेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके दशमोऽनुवाकः ॥१०॥अथ प्रथमप्रपाठक एकादशोऽनुवाकः
कल्पः - “पवित्रवन्तः पवित्रं ते ब्रह्मा देवानामसतः सदिति चतस्रः पवित्रवत्य उत्तरस्मिन्” इति । तत्र प्रथमामाह -
पवित्रवन्तो दशापवित्रयुक्ता ऋत्विग्यजमाना वाजमन्नं पर्यासते परितः सेवन्ते । अन्नमुद्दिश्य सोमयागं कुर्वन्तीत्यर्थः । एषां सोमयाजिनां पिता पालकः प्रत्नः पुरातनो ब्रह्मा व्रतमेतत्कर्माभिरक्षति । महो महाप्रौढं समुद्रं समुद्रस्य सदृशमन्तरिक्षं वरुणो जलाधिपतिर्देवस्तिरोदधे कर्मफलत्वेन वृष्टिं दातुं मेघैराच्छादयति । धीरा इद् बुद्धिमन्त एव धरुणेष्वग्निधारकेषु यागगृहेष्वारभं कर्माऽऽरब्धुं शेकुः शक्ताः । अथ द्वितीयामाह -
हे ब्रह्मणस्पतेऽन्नस्य मन्त्रस्य वा पालक सोम ते त्वदर्थं पवित्रं शोधकमिदं दशापवित्रं विततं विस्तारितम् । प्रभुस्तेन पवित्रेण शोधितत्वात्त्वं कर्मणे समर्थः सन्विश्वतः सर्वतो गात्राणि यज्ञाङ्गानि पर्येषि व्याप्नोषि । पवित्रेणाशोधितस्य यज्ञाङ्गत्वं नास्ति शोधितस्य तु सोमस्य यज्ञाङ्गत्वमस्तीत्यत्र हविरन्तरं दृष्टान्तत्वेनोपन्यस्यते । अतप्ततनूरतप्ता तनूः स्वरूपं यस्य पुरोडाशादेः सोऽयमतप्ततनूस्तादृशः पुरोडाश आमोऽपक्वः संस्तद्यज्ञाङ्गत्वं नाश्नुते न व्याप्नोति “यो विदग्धः स नैर्ऋतो योऽशृतः स रौद्रः” इति श्रुतेः । शृतास इत्यपक्वा एव पुरोडाशादयो वहन्तो यज्ञं निर्वहन्तस्तद्यज्ञाङ्गत्वं समाशत सम्यक्प्राप्तवन्तः “यः शृतः स देवः” इति श्रुतेः । अपक्वस्य पुरोडाशादेर्यज्ञाङ्गत्वं यथा नास्ति पक्वस्य तु यथा विद्यते, तथापवित्रेणाशोधितस्य सोमस्य यज्ञाङ्गत्वं नास्ति शोधितस्य तु विद्यत इत्यभिप्रायः । अथ तृतीयमन्त्रप्रतीकं दर्शयति -
ब्रह्मा देवानां पदवीः कवीनामित्ययं मन्त्रस्त्वमग्ने बृहद्वय इत्यनुवाके व्याख्यातः । अथ चतुर्थमन्त्रमाह -
असच्छब्देन जगत्कारणमव्यक्तावस्थापन्नमुच्यते । सच्छब्देन व्यक्तदशापन्नं जगत् । ये सप्त ऋषयो मरीचिवसिष्ठप्रमुखास्तन्मध्ये मुख्योऽत्रिश्च यद्यो विद्यते ते सर्वेऽसतो जगत्कारणादव्यक्तात्सकाशात्सद्व्यक्तं जगत्ततक्षुस्तत्क्षणोपलक्षितं निष्पादनं कृतवन्तः । एते हि पूर्वस्मिन्कल्पे सृष्ट्यधिकारार्थं तपस्तप्त्वा वर्तमानकल्पे जगत्कारणादव्यक्तात्सकाशात्स्वस्वाधिकारोचितं व्यक्तं जगदुत्पादितवन्तः । अव्यक्ताद्व्यक्तमुत्पन्नमित्ययमर्थं उपनिषद्यप्याम्नायते - “असद्वा इदमग्र आसीत्, ततो वै सदजायत” इति । एवं सति सप्तर्षिवद्ये पुरुषा अस्मिञ्जन्मन्यारुणकेतुकमग्निं चिन्वन्ति ते सर्वेऽप्यागामिजन्मन्यत्र्यगस्त्यसमानाश्च भवन्ति । द्युलोके नक्षत्ररूपेणोत्पद्यन्त इत्यर्थः । तथा चान्यत्राम्नायते - “यो वा इह यजते । अमुं स लोकं नक्षते । तन्नक्षत्राणां नक्षत्रत्वम्” इति । एतैश्चतुर्भिर्मन्त्रैरुपदध्यात् । अथैकं ब्राह्मणवाक्यमाह -
पूर्वमथ पवित्राङ्गिरस इत्यङ्गिरो नाम्नो महर्षेः सम्बन्धिन इष्टकामन्त्रान्प्रतिज्ञाय ते दर्शिताः, अथ तेभ्योऽनन्तरं श्यावाश्वस्य श्यावाश्वनाम्नः कस्यचिन्महर्षेः सम्बन्धिन इष्टकामन्त्रा उच्यन्त इति शेषः । कीदृशस्य सवितुः प्रेरकस्य, मन्त्रसम्प्रदायप्रवर्तकस्येत्यर्थः । अवर्तिकामस्य, वर्तिर्वर्तनं लोकव्यवहारे साधनं धनं तद्राहित्यमवर्तिर्दारिद्र्यं तेन वैराग्यमुपलक्ष्यतेऽतो वैराग्यकामस्येत्युक्तं भवति । कल्पः - “अमी य इति सप्त मध्ये” इति । तत्र प्रथमामाह -
ऋक्षा नक्षत्रविशेषाः, अमी अस्माभिर्दृश्यमानाः, उच्चोच्चस्थाने दिवि निहितासः प्रजापतिनाऽवस्थापिताः । ते नक्षत्रविशेषा नक्तं रात्रौ ददृशे विस्पष्टं दृश्यन्ते । दिवाऽहनि कुहचित्क्वापि गताः, अस्माभिर्न दृश्यन्त इत्यर्थः । वरुणस्य नक्षत्रज्योतिषामावरकस्य सौर्यतेजसः, व्रतान्यदब्धानि व्यापाराः केनाप्यहिंसिताः । तस्मात्तेजोन्तराभिभावकस्य सूर्यतेजसः केनाप्यहिंसितत्वादहनि तेनाभिभूतानि नक्षत्राणि न भासन्त इत्यर्थः । चन्द्रमास्तु विचाकशद्विशेषेण प्रकाशमानं नक्षत्रमेति प्राप्नोति न तु सूर्यवन्नक्षत्राण्यभिभवति । तस्माद्रात्रौ दृश्यन्त इत्यर्थः । अथ द्वितीयामाह -
वरेण्यं वरणीयं श्रेष्ठं सवितुः प्रेरकस्य सूर्यस्य तत्प्रसिद्धं भर्गस्तेजो धीमहि ध्यायामः । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रकर्षेण प्रेरयति, तस्य सवितुरिति पूर्वत्रान्वयः । अथ तृतीयामाह -
वयं यजमानाः सवितुर्देवस्य तत्तेजो वृणीमहे प्रार्थयामहे । कीदृशं तेजः, भोजनं भोगसाधनं, श्रेष्ठमतिशयेन प्रशस्तं, सर्वधातमं सर्वस्य जगतोऽतिशयेन धारयितृ, तुरं तूर्णं भगस्य सौभाग्ययुक्तस्याऽऽदित्यस्य, धीमहि तत्तेजो ध्यायामः । अथ चतुर्थीमाह -
सविता सूर्यो नक्षत्रप्रकाशस्याऽऽवरणेनाऽऽन्ध्यापादकान्सर्वांस्तृभीन्रश्मीन्दिवोऽन्तरिक्षात्सकाशादपागूहतावगूहति रात्रौ गुप्तत्वेन स्थापयति । तस्मात्कारणात्तानि नक्षत्रज्योतींषि नक्तं रात्रौ दृशे दर्शनीयान्यभवन्द्रष्टुं योग्या(नि) भवन्ति । अयमर्थः । अहनि सूर्यरश्मिष्वाविर्भूतेषु तैरभिभूतत्वान्नक्षत्रज्योतींष्यन्धानि भवन्ति प्रकाशरहितानि भवन्ति रात्रौ तु सूर्यः स्वकीयान्रश्मीनुपसंहरत्यत आच्छादकाभावान्नक्षत्रज्योतींषि प्रकाशन्त इति । अहनि नक्षत्रज्योतिषामभावे दृष्टान्त उच्यते - यथा वयमस्थि शरीरगतमत्स्नाऽसृजा रक्तेन सम्भविष्याम एवमिदमपि द्रष्टव्यम् । अथ पञ्चमीमाह -
यथा पूर्वेषु मन्त्रेषु सूर्यनक्षत्रादिरूपेणेष्टकां स्तोतुं तत्तद्वस्तुमहिमा वर्णितः, एवमत्रापि परमात्मरूपेण स्तोतुं परमात्मनः स(सा)र्वात्म्यमुच्यते तदेतन्मन्त्रद्रष्टुर्ब्रह्मविदो वचनम् । अत्राऽऽद्यौ द्वौ नामशब्दौ नकारान्तौ नामधेयमाचक्षाते । तृतीयो नामशब्दः प्रसिद्धिवाचकमव्ययम् । तत्र ब्रह्मवित्पुमान्स्वानुभवं प्रकटयति - मे मम ब्रह्मात्मभूतस्य पूर्वमज्ञानदशायां देवो मनुष्यो गौरश्व इत्येवं तत्तज्जन्मसु यन्नाम व्यवह्रियते तत्सर्वं नामैव नामशब्दमात्रमेव खलु, न तु तत्र परस्परविलक्षणः कश्चिदर्थोऽस्ति । अत एव च्छन्दोगा उपनिषद्येवमामनन्ति - “वाचाऽऽरम्भणं विकारो नामधेयम्” इति । योऽयं विकारः शरीरादिर्दृश्यते स सर्वोऽपि वाङ्निष्पाद्यं नाममात्रमेव न तु वास्तवः कश्चिद्विकारोऽस्तीति तस्यार्थः । देवतिर्यङ्मनुष्यादिशरीरभेदस्य तत्तन्नामव्यतिरेकेण वास्तवत्वाभावे सति किं तद्वास्तवं स्वरूपमिति चेत्तदुच्यते, सर्वेष्वपि वस्तुषु यदनुगतं सर्वाधिष्ठानकारणरूपं ब्रह्म तदेव ब्रह्मविदो वास्तवं स्वरूपमित्यभिधीयते । लोके यन्नपुंसकं शरीरं यश्च पुमान्या च स्त्री तत्सर्वमहमेवास्मि । यश्च स्थावरो वृक्षादिर्योऽपि जङ्गमो मनुष्यपश्वादिस्तदुभयमप्यहमेवास्मि । तथा वर्तमानयजमानरूपेण यजे यजनं करोमि, अतीतयजमानरूपेणायक्षि यागं कृतवानस्मि, भविष्यद्यजमानरूपेण यष्टा(हे) यागं करिष्यामि । सर्ववस्तुष्वनुगतं सच्चिदानन्दरूपमेकाकारं यद्ब्रह्म वस्तु तदेवाहमित्येवं स्वानुभवो मन्त्रदर्शिना प्रकटीकृतः । अथ षष्ठीमाह -
मया मद्रूपेणैव भूतानि सर्वे प्राणिनोऽयक्षत यागं कृतवन्तः, अहमेव यजमानशरीरेषु जीवरूपेण प्रविश्य तं तं यागमकार्षमित्यर्थः । मम भूतानि मया सृष्टत्वेन मदीयानि पृथिव्यादीनि पञ्च भूतानि पशवो द्विपादश्चतुष्पादः सम्पन्नाः । अहं ब्रह्मचैतन्यरूपेण विभुर्व्याप्त एव सन्ननुबन्ध्योऽस्मि तत्तच्छरीरेषु प्रविश्य तदात्मत्वाभिमानं कृत्वाऽनुबन्ध्य(न्ध)वान्सम्बन्धवानस्मि । अथ सप्तमीमाह -
या लोके प्रसिद्धाः स्त्रियः सतीः सद्रूपा गुरुकटाक्षेण “सदेव सौम्येदमग्र आसीत्” इत्यादिश्रुत्युक्तं सद्वस्तु बुद्ध्वा तदनुभवेन तद्रूपा वर्तन्ते ता उ ता अपि स्त्रियो मे मते पुंस आहुर्ब्रह्मविदः पुरुषान्कथयन्ति । यद्यपि शरीरे स्तनवृध्यादि स्त्रीलक्षणं दृश्यते, तयाऽपि पुरुषस्योचितं तत्वज्ञानमस्तीति पुरुषलक्षणसद्भावात्पुरुषत्वं तासामभिज्ञाः कथयन्ति । ये तु शरीरे श्मश्रुप्रभृतिभिः पुरुषलक्षणैर्युक्ता अपि पुरुषस्योचितं तत्वज्ञानं न सम्पादन्ति, ते स्त्रीणामुचितेन मोहेनोपेतत्वात्स्त्रिय एवेत्यभिप्रायः । यथा स्त्रीपुरुषविभागो लोकविपरीत एवमन्धानन्धविभागोऽपि द्रष्टव्यः । अक्षण्वांश्चक्षुरिन्द्रिययुक्तः पश्यन्नीलपीतादिरूपं पश्यन्नपि न विचेतद्विवेकेन सद्वस्तुतत्वं न जानाति चेत्सोऽयमन्ध एव । मांसदृष्टिरहितोऽपि स्वरूपतत्वाभिज्ञश्चेत्सोऽयं चक्षुष्मानेवेत्यपि द्रष्टव्यम् । यथाऽयमलौकिकान्धानन्धविभागः एवं पितृपुत्रविभागोऽप्यलौकिकः कश्चिद्द्रष्टव्यः । लोके यत्र पिता न जानाति पुत्रस्तु कविर्वेदशास्त्रपारङ्गतस्तत्र स पुत्र इमा, एतानि दृश्यमानानि सर्वाणि भूतानि विवेकेन स्वात्मत्वेन जानाति, तदानीं यः पुत्रस्ता विजानात्तानि सर्वाणि भूतानि स्वात्मतया जानाति स पुत्रः सवितुरुत्पादकस्यापि पिता सत्पिता भवति । ज्ञानोपदेशेन पालयितुं समर्थत्वात् । किं बहुना तत्वज्ञानमेव प्रशस्तमज्ञानं निकृष्टमिति तात्पर्यार्थः । कल्पः - “अन्धो मणिमिति पञ्च वैश्वदेव्य उत्तरतः” इति । तत्र प्रथमामाह -
लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिरादाय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति, चिद्रूप आत्मा तु चक्षुरङ्गुलिग्रीवाजिह्वावर्जित एव सन्नचिन्त्यशक्तित्वात्तान्सर्वान्व्यापारान्करोति । तथा च श्वेताश्वतरा बाह्यसाधनरहितस्यैव सर्वव्यापारकर्तृत्वमामनन्ति - “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इति आत्मा ह्युपाधिभेदाद्द्विविधः, जीव ईश्वरश्चेति । तथा च सिद्धान्तरहस्याभिज्ञा आहुः - “कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः” इति । कार्यं देहेन्द्रियादिसङ्घातरूपं, कारणमचिन्त्यशक्तिः । तत्र कार्योपाधिर्जीवः स्वतो निरुपाधित्वेन सर्वसाधनशून्य एव सन्नज्ञानेन देहेन्द्रियतादात्म्यं स्वस्मिन्नारोप्य भ्रान्त्या सर्वमिदं करोतीति लक्ष्यते, ईश्वरस्तु भ्रान्तिरहितोऽप्यचिन्त्यशक्तियुक्तत्वाच्चक्षुरादिसाधनहीन एव सन्सङ्कल्पमात्रेण सर्वव्यापारं करोति, तदुभयमभिप्रेत्यायं मन्त्रः प्रवृत्तः । अथवा योगाभ्यासेन चक्षुरादीन्द्रियं निरुह्य नीलपीतादिष्वन्धः सन्मणिमिव स्वयंप्रकाशमात्मानं समाधिना पश्यति । तस्य च दृष्टस्य वस्तुनः स्वस्वरूपत्वेन निश्चयः स्वीकारः । (अतोऽङ्गुलिव्यापाररहितोऽपि स्वीकरोतीत्युच्यते । तस्मिन्वस्तुनि स्थैर्यं प्रत्यमुञ्चदित्युच्यते । कृतकृत्योऽस्मीत्यादि भाषणं जिह्वया प्रशंसेत्युच्यते) । अथ द्वितीयामाह -
लौकिकस्य हि वृक्षस्याधोभागे मूलमूर्ध्वभागे शाखाश्च । संसारवृक्षस्य तद्वैपरीत्यम् । ऊर्ध्वं सर्वोत्कृष्टं ब्रह्म मूलम्, अवाञ्चोऽधमा ब्रह्मादिस्तम्भान्ता देहाः शाखाः, अयं च संसारो व्रश्चनयोग्यत्वाद्वृक्षः । तत्वज्ञानेन हि सोऽयमज्ञानजन्यो वृक्षश्छिद्यते । तमीदृशं वृक्षं यः पुमान्गुरुशास्त्रमुखाद्वेद स जनः सम्प्रति तदानीमेव न श्रद्दध्यान्न विश्वस्यात् । किंविषयोऽयमविश्वास इति तदुच्यते - जातु कदाचिदपि मृत्युर्मा मारयान्मां हन्यादिति । अयमर्थः । सर्वो ह्यज्ञानेन जन्तुः कदाचिन्मृत्युर्मां मारयिष्यतीति विश्वासं कृत्वैव वर्तते, अयं तु ब्रह्मज्ञानी ब्रह्मरूपस्य स्वस्य जन्ममरणाभावं निश्चित्य तस्मिन्नेव क्षणे स्वकीयमरणविश्वासं परित्यजति । आत्मनो मरणाभावाद्देहस्य च स्वव्यतिरिक्तत्वान्मृत्योर्न बिभेतीत्यर्थः । अथ तृतीयामाह -
अत्र शरीरस्याऽऽत्म(त्व)शङ्कां वारयितुं तदीया विकारा उपन्यस्यन्ते - हसितं कदाचिन्मुखे हासो दृश्यते, कदाचिद्रोदनम्, कदाचिदुत्साहेन गानं कदाचिद्धस्ते वाद्यमाना वीणा, कदाचित्पणवस्य मृदङ्गस्य लासितं वादनरूपो विनोदः, कदाचिच्छरीरं मृतं दृश्यते, कदाचिज्जीवनोपेतम्, एवमन्यदपि यत्किञ्चिद्विकारजातमस्ति तत्सर्वमङ्गानि स्नेव विद्धि, यथा हस्तपादाद्यङ्गानि शरीरगतानि स्नाशब्देन स्नायवोऽभिधीयन्ते यथा वा स्नायवः शरीरगता एवमेता हसितादिविकाराः शरीरादिगता न त्वात्मनो योग्या इति हे विवेकिंस्त्वं विजानीहि । अथ चतुर्थीमाह -
अत्र पूर्वोक्तेन हसितादिगुणयुक्तेन शरीरादिना सह चिदात्मनस्तादात्म्याध्यासो वर्ण्यते । अयं चिदात्मा स्वयमतृष्यन्नेव(तृष्य) तृष्यंस्तृषां प्राप्नोति, तृषाया जडधर्मत्वेन स्वस्मिन्नसम्भवेऽपि जडतादात्म्यभ्रमेण तृषां प्राप्नोतीव लक्ष्यते । तथा ध्यायध्यायतीव, स्वयं ध्यानरहितोऽपि ध्यानयुक्तेन मनसा सह तादात्स्यभ्रमात्स्वयं ध्यायतीव लक्ष्यते । अस्माद्दृश्याज्जडदेहाज्जाता हसितादिविकारा मे मदीया इति भ्रान्त्या ध्यायतीति शेषः । मिथूशब्दो मिथः शब्दपर्यायः संश्चिज्जडयोः परस्परमेलनं ब्रूते, तेन मेलनेन चरन्मदीयमिति वृथाभिमन्यते । कोऽसावेवमभिमन्यत इति तदुच्यते - निर्ऋत्या निर्ऋतिवत्प्रतिकूलाया मायायाः । पुत्रोऽहङ्कारो विदेहस्य शरीररहितस्य चिदात्मनः सम्बन्धी वैदेहश्चैतन्यच्छायायुक्त इत्यर्थः । तदेव स्पष्टीक्रियते योऽहङ्कारोऽवेताः स्वयमचेतनः, संश्चेतनश्च चैतन्यच्छायायोगेन चेतनोऽपि भवति, तादृशः पदार्थः । देहेन्द्रियादिधर्मानात्मन्यारोप्य तदारोपेण सुखध्यानादिधर्मा आत्मनि प्रतिभासन्ते । अथ पञ्चमीमाह -
यः पूर्वोक्तश्चेतनाचेतनयोरन्योन्यतादात्म्याध्यासेन निष्पन्नः संसारी स एव तं मणिम्, अतीतेऽन्धो मणिमित्यादिमन्त्रे प्रोक्तं मण्याद्युपलक्षितमाभरणं चक्षुषा दृष्टवान् । स एव स्वतोऽङ्गुलिरहितोऽपि देहतादात्म्याध्यासेन तदीयैरङ्गुलिभिरावयत्स्वीकृतवान् । तथा स्वतो ग्रीवारहितोऽपि शरीरगतायां ग्रीवायां प्रत्यमुञ्चत् । तथा स एव स्वतो जिह्वारहितोऽपि शरीरगतया जिह्वयासश्चत प्रशंसां कृतवान् । अथ ब्राह्मणमाह -
एतमृषिं पूर्वोक्तं विवेकप्रतिपादकं मन्त्रसङ्घं विदित्वा मन्त्रप्रतिपाद्यं परमार्थतत्वमवगत्य नगरं जनसम्मर्दयुक्तं न प्रविशेत् । यद्वा नगरोपलक्षितं देहं न प्रविशेत्, देहे तादात्म्यभ्रमं न कुर्यादित्यर्थः । यदि कथञ्चित्पूर्ववासनाबलात्प्रविशेद्देहे तादात्म्यबुद्धिं कुर्यात्तदानीं मिथौ चरित्वा शास्त्रार्थपर्यालोचनया मिथ्येदमिति निश्चित्य प्रविशेत्तादात्म्यभ्रमरहितेन देहेन प्रारब्धभोगाय लोकव्यवहारं कुर्यात् । तदेतत्सम्भवनाम्न ऋषेर्व्रतमाचारः, स ह्येवमाचरितवान् । कल्पः - “आ तमग्ने रथमिति तिस्रः” इति । तत्र प्रथमामाह -
हेऽग्न आरुणकेतुकेह कर्मण्यागमनाय तं तादृशं रथमातिष्ठाऽऽरोह । कीदृशम् । एकाश्वमेक एव प्रबलोऽश्वस्तं वहति, एकयोजनं निमिषमात्रेण योजनरूपं(प)(मध्वानं) गच्छति, एकचक्रं लौकिकरथवच्चक्रद्वयं नापेक्षते किंत्वेकचक्रेण वर्तते, एकधुरमश्वस्यैकत्वात्तद्योजनाय धूरप्येकैव, वातध्राजिगतिं ध्राजिशब्दोऽपि गमनवाची वातस्य ध्राजिर्वातध्राजिस्त(द्व)द्गतिर्यस्यासौ वातध्राजिगतिस्तादृशम्, यथोक्तरथस्यालौकिकत्वात्तेन गमनायाचिन्त्यशक्तिमग्नेर्द्योतयितुं विभुशब्देन सम्बोधनम् । अथ द्वितीयामाह -
अयमेकचक्रो रथो न रिष्यति न विनश्यति न नि(वि)षीदति, इतस्ततश्चलति, अस्य रथस्याक्षो यातु याने गमनवेलायां न सज्जति क्वापि पाषाणवृक्षादौ सक्तो न भवति, यद्यस्मात्कारणादग्नेरयमग्निः श्वेतान्रोहितांश्च प्रसिद्धान्प्रबलानश्वान्पर्यायेणास्मिन्रथे युक्त्वा तं रथमधितिष्ठति तस्मादश्वसामर्थ्याद्रथस्य न कोऽपि बाध इत्यर्थः । अथ तृतीयामाह -
नियुच्छब्दो वायुसम्बन्धिनीरश्वयोषित आचष्टे । हे वायो, इष्टयेऽस्मत्सम्बन्धियागार्थं स्वभूते स्वाधीने रथे, एकादिसंख्यायुक्ताभिर्नियुद्भिस्तं रथं योजयित्वा वहसेऽस्मत्समीपं प्रापयसि । अश्वादिविषयाः षट्प्रकाराः संख्याविकल्पिताः । हे वायो, इहाऽऽगत्य ता नियुतो विमुञ्च ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकादशोऽनुवाकः ॥११॥अथ प्रथमे द्वादशोऽनुवाकः
कल्पः - “आतनुष्वेति चतस्रः” इति । तत्र प्रथमामाह -
हे इन्द्र त्वमातनुष्व समन्तादात्मानं विस्तारय, स्वरूपं प्रदर्श्य सर्वाननुगृहाण । प्रतनुष्व प्रकर्षेण क्रतुषु स्वात्मानं विस्तारय, क्रतुष्वागत्य संनिहितो भव । उद्धमोत्कर्षेण शब्दय, अहमागत इत्येवमुच्चैः कथय । आधमाऽऽभिमुख्येन शब्दय । संधम सम्यगानुकूल्येन शब्दय । ततस्त्वं चन्द्रवर्णानां हिरण्यवर्णानामपां गर्भमादित्ये धेहि, आदित्यरश्मिषु जलं सङ्गृहाणेत्यर्थः । यस्त्वं पुमान्पुंस्त्वशक्तियुक्तः स तं गर्भमाधेहि । अथ द्वितीयामाह -
इतः कर्मणः सकाशात्सिक्तमाज्याद्याहुतिद्रव्यं सूर्यगतं कृत्वा चन्द्रमसे चन्द्रवृध्यर्थं रसं कृधि कुरु । अग्नौ प्रक्षिप्तं द्रव्यमादित्यं प्राप्य जलं भूत्वा दिवि चन्द्रं भूमावोषधीश्चाभिवर्धयति, तत्सर्वमिन्द्र त्वं कुरु । ततो वारादं वरणीयस्य फलस्याऽऽसमन्ताद्दातारमग्निमारुणकेतुकरूपमग्रेऽस्माकं पुरतो जनयोत्पादय । योऽग्निरेको रुद्र इति सर्वत्रोच्यते । तथा चान्यत्राऽऽम्नातम्, - “एक एव रुद्रो न द्वितीयाय तस्थे” इति । “रुद्रो वा एष यदग्निः” इति च । अथ तृतीयामाह -
एकस्य रुद्रस्य मूर्तीनां सहस्राणि, असंख्याता असंख्यातानि, गणयितुं न शक्यन्ते । स च रुद्रः स्वयं स्मर्यते श्रुतिदृङ्मुखादवगत्य स्मर्तुं शक्यते, स रुद्रो न द्रष्टुं शक्यः । एतं रुद्रमग्निमेवमुक्तप्रकारेण निबोधत हे यजमाना अवगच्छत । अथ चतुर्थीमाह -
हे इन्द्र मन्द्रैर्मदनीयैर्हर्षहेतुभिर्मयूररोमभिर्मयूरसदृशरोमयुक्तैर्हरिभिरश्वैरायाहि, अस्मिन्कर्मण्यागच्छ । आयान्तं त्वां केचिदपि जना मा न्येमुर्मा नियमयन्तु, प्रतिबन्धं मा कुर्वन्त्वित्यर्थः । पाशिन इत्, अश्वानां पाशधारिणः सारथयोऽपि न न्येमुर्नियमनं विलम्बरूपं न कुर्वन्तु । दधन्वेव सर्वाभिमतानां दातेव ता इहि ता अस्मद्युक्तभुव इहि गच्छ । कल्पः - “आ (मा) मन्द्रैरित्येकां यजमान उपदध्यात्” (इति) । पाठस्तु -
मेत्येवं शब्दः प्रथमैकवचनमुपलक्षयति तस्मादहमित्यर्थः सम्पद्यते । मन्द्रैरित्यादि पूर्ववद्योजनीयम् । हे इन्द्र त्वया सहाहमपि त्वदीये लोके यामि गच्छामि, त्वामिव मामपि जनाः पाशिनो मा प्रतिबध्नन्तु, ततोऽहं निधन्वेव निधानवानिव लब्धनिधिरिव तुष्टः संस्तानुत्तमलोकानिमि, एमि प्राप्नवानि । कल्पः - “अणुभिश्चेति द्वे” इति । तत्र प्रथमामाह -
हे इन्द्र त्वं कालैः कालविशेषैः सहाऽऽयाहि, आगच्छ । कीदृशैः कालैः । अणुभिश्च क्षणमुहूर्ताद्याकारेण सूक्ष्मरूपैः, महद्भिश्च संवत्सरयुगादिरूपेण प्रौढैरपि, निघृष्वैर्नितरां दीप्यमानैः, यद्यपि कालस्य नीरूपत्वान्नास्ति दीप्तिस्तथाऽपि तदभिमानिनां देवानामस्त्येव दीप्तिः । असमायुतैः परस्परमसङ्गतैः, न ह्येकस्मिन्काले वर्तमाने कालान्तरं सह प्रवर्तते । हरित्वमापन्नैर्हरिनामकत्वदीयाश्वत्वं प्राप्तैः, कालाभिमानि देवा एव तवाश्वा इत्यर्थः । कीदृश इन्द्रः । सहस्रयुगक्षिसहस्रेण युक्तः । अथ द्वितीयामाह -
हे इन्द्राग्निर्वायुः संवत्सरश्च ये त्रयः सन्ति ते त्रयोऽपि तव नित्या अनुचराः । कदाचिदप्यनपायिनो नित्याः । कीदृशोऽग्निः, विभ्राष्टिवसनो विशेषेण भ्राजमानवसनयुक्तः । कीदृशो वायुः, श्वेतसिकद्रुकः श्वेतानां सिकतानां द्रोग्धा । तदेतदुपलक्षणम्, नानाविधां धूलिमुत्पादयतीत्यर्थः । कीदृशः संवत्सरः, विषूवर्णैर्नानाविधैर्वर्णैर्युक्तः । वसन्ताद्यृतुभेदाः पूर्वमेवोक्ताः । कल्पः - “सुब्रह्मण्योमित्येकाम्” इति । पाठस्तु -
शोभनं ब्रह्म सुब्रह्म वेदस्तस्मै हितः सुब्रह्मण्य इन्द्रः । ओमिति सम्बोधनार्थः । हे सुब्रह्मण्येति । त्रिरभिधानमादरार्थम् । तद्गुणकथनेन स्तुत्यर्थमिन्द्रादिपदैः सम्बोधनम् । हे इन्द्र परमैश्वर्ययुक्त, इह कर्मण्यागच्छ । हरिवो हरिनामकावश्वावस्य विद्येते इति हरिवांस्तस्य सम्बोधनम्, शुक्लकृष्णपक्षदेवावेव तदीयाश्वत्वं प्राप्य हरिशब्देनोच्येते, तादृश हे हरिव इह कर्मण्यागच्छ । मेधातिथेर्मेधातिथिर्नामकः कश्चिदृषिः कण्वस्य पुत्रस्तत्सम्बन्धिन्, हे मेषरूप । वृषणश्वो नाम कश्चिन्मुनिस्तस्य सम्बन्धिनी या मेनकाख्या दुहिता तां मन्यमाने तस्मिन्नर्थे वृषणश्वस्य मेने, इति सम्बुध्यन्तं प्रयुक्तम् । गौरावस्कन्दिन्गौरमृगो भूत्वा यागमध्ये समागत्य सोमं पीत्वा हे विनाशक । तदेतत्सर्वं शाखान्तरब्राह्मणे समाम्नातम् - “हरिव आगच्छेति पूर्वपक्षापरपक्षौ वा इन्द्रस्याश्वौ ताभ्यां ह्येष सर्वं हरतीति, मेधातिथेर्मेषेति मेधातिथिं काण्वायनिं मेषो भूत्वा जहार, वृषणश्वस्य मेन इति वृषणश्वस्य मेनका इति नाम दुहिता । तामिन्द्रश्चकमे, गौरावस्कन्दिन्निति गौरमृगो भूत्वा राजानं पिबहि(ति)” इति । अहल्यायै जार, अहल्या गौतमस्य भार्या तस्या इन्द्रो जार इति पुराणे प्रसिद्धम् । कौशिकब्राह्मण कौशिकनामा कश्चिन्महर्षिस्तस्य समीपे ब्राह्मणवेषेण समागतवान् । गौतमब्रुवाण गौतमो महर्षिस्तं प्रसादयितुं स्तुतिं कृतवान् । तथाविध हे इन्द्राऽऽगच्छेत्यन्वयः । कल्पः - “अरुणाश्वा इति चतस्रः” इति । तत्र प्रथमामाह -
अष्टावग्नय इह कर्मणि, आगताः, कीदृशाः । अरुणाश्वा अरुणवर्णैरश्वैर्युक्ताः, वसवो जगतो निवासहेतवः, पृथिविक्षितो भूमिनिवासिनः, दिग्वाससो दिश एतेषामग्नीनां वासांसि । के तेऽष्टावग्नयइति तदुच्यते - अग्निश्च जातवेदाश्च, इत्यस्मिन्मन्त्रे ये पूर्वमभिहिता एतेऽग्नयो वेदितव्याः । अथ द्वितीयामाह -
ये रुद्राः सन्ति त इतः स्थानात्पृथिवीरूपात्परां दिवं गताः । कीदृशा रुद्राः - ताम्रवर्णैरश्वै रथैश्च युक्ताः, स्वयं च तथा ताम्रवर्णाः, असिता ईषदपि सितं श्वैत्यं येषां नास्ति ते तादृशाः, दण्डहस्ता गदापाणयः, खादग्दतः खादयन्तो भक्षयन्तो दन्ता येषां तादृशाः, एवंविधा हे रुद्रा युष्माकं स्थानमुक्तं शास्त्रेषु प्रसिद्धम् । तथा तस्य स्थानस्य प्रमाणं चेयत्तानिश्चयः शास्त्रसिद्धः, तस्मात्पुरो भवदीयाः पुरीरित गच्छत । अथ तृतीयामाह -
योऽयं बृहस्पतिर्यश्च सविता तावुभौ विश्वरूपैर्नानाविधरूपैरश्वैरिह कर्मण्यागतामागच्छताम् । केन साधनेन । उदकवर्त्मना रथेन, उदकस्येव वर्त्म मार्गो यस्य रथस्य सोऽयमुदकवर्त्मा यथा वृष्टिजलस्यान्तरिक्षमेवमार्ग एवमेतदीयरथस्याप्यन्तरिक्षमेव मार्गः । कीदृशावेतौ, अप्सुषा, अपां सवितारौ । इति, एवमुक्तप्रकारेण द्वयोः सवितृबृहस्पत्योरुभयोः, तत्स्वरूपमुक्तमिति शेषः । एवं त्रयो मन्त्रा उक्ताः, चतुर्थस्तूपरिष्टादुदाहरिष्यते ।
कालावयवानां वसन्ताद्यृतूनामितोऽस्मादनुवाकात्प्रतीच्येष्वतीतेष्वनुवाकेषु साकञ्जानामित्यादिषु वेष आकारविशेष उक्तः, वासांसि च वस्त्राण्यप्युक्तानि । “ऋतुर्ऋतुनानुद्यमानः । विननादाभिधावः । षष्ठिश्च त्रिंशका वल्गाः” इत्यादिना यत्स्वरूपमृतूनामभिहितं सोऽयं वेष इत्युच्यते । “सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिः सह” इत्यादिना वस्त्राण्युक्तानि । तथा वासात्यौ चित्रावित्यादिनाऽश्विनोर्देवयोर्वेष उक्तः । यद्यप्येतद्ब्राह्मणं न सन्निहितमन्त्रोपयुक्तं तथाऽप्युक्तं स्थानमिति वचनेन बुद्धिस्थमर्थं प्रसङ्गाद्ब्रूते । अथ चतुर्थमन्त्रोदाहरणार्थमिदमुच्यते - वासिष्ठो वसिष्ठगोत्रोत्पन्नः, रौहिणः, रोहिणाश्वस्यमुनेः पुत्रः, सोऽयमाकाशे कञ्चिद्ध्वनिं श्रुत्वा मीमांसां चक्रे विचारितवान् । किमिति । को नामान्तरिक्षे शब्दं करोति, न ह्यूर्ध्वमवलोक्यमाने कश्चिदपि पुमानुपलभ्यते शब्दश्चायं भेरीवादनादप्यधिकः श्रूयते । तस्माद्विस्मयं प्राप्तस्य को नाम शब्दकर्तेति विचारः । तस्य विचारस्यैषा निर्णयवादिनी काचिदृग्विद्यते । तस्या ऋचः प्रतीकं दर्शयति -
वाश्रेव विद्युन्मिमातीत्ययं मन्त्रोऽग्निना रयिमश्नवदित्यनिवाके व्याख्यातः । वाश्रा वासनशीला गौर्यथा वत्सं प्रति शब्दं करोत्येवमियं विद्युत्सूर्यतेजोरूपमेघवर्तिनी मिमाति शब्दं निर्मिमीत इत्यर्थः । कल्पः - “ब्रह्मण उदरणमसीति चतस्रो ब्रह्मसदनाः” इति । पाठस्तु -
हे इष्टके त्वं ब्रह्मणो हिरण्यगर्भस्योदरणमुदीरणत्वहेतुरसि । उदीरणमुदीर्णत्वहेतुरसि । उदीरणत्वं लोभराहित्यम् । उदीर्णत्वं गुणान्तरैरन्येभ्य आधिक्यम् । आस्तरणमासनम् । उपस्तरणमुपर्याच्छादनम् । एतैश्चतुर्भिर्यजुर्मन्त्रैश्चतस्र इष्टका उपदध्यात् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके द्वादशोऽनुवाकः ॥१२॥अथ प्रथमे त्रयोदशोऽनुवाकः
कल्पः - “अष्टयोनीमित्यष्टौ दिश्याः” इति । तत्र प्रथमामाह -
अष्टावष्टसंख्याकानि मूलपृकृतिसहितानि महदहङ्कारपञ्चतन्मात्ररूपाणि तत्वानि योनयः कारणानि यस्याः पृथिव्याः सेयमष्टयोनी ताम् । अष्टसंख्याका वक्ष्यमाणा मित्रावरुणादयः पुत्राः यस्याः पृथिव्याः सेयमष्टपुत्रा ताम् । अष्टसंख्याका इन्द्रादयो दिग्वर्तिनः पतयः पालका यस्याः पृथिव्याः सेयमष्टपत्नी ताम् । तथोक्तगुणयुक्तामिमां महीं पृथिवीमहं मन्त्रद्रष्टा वेद जानामि, अतो ज्ञानप्रभावेन मे मृत्युर्नास्ति, किं त्वमृतो मुक्त एव भविष्यामीति शेषः । किञ्च । अमृत्युः परममृत्योरन्योऽपमृत्युरित्यर्थः । सोऽघा पापानि दुःखानि न चाहरज्ज्ञानप्रभावादेव नैव सम्पादयिष्यामि । अथ द्वितायां तृतीयां चाऽऽह -
अष्टपदष्टपतिः, अष्टसंख्याका (क) पालका इ(कमि)त्यर्थः । अन्यत्पूर्ववत् । अथ चतुर्थपञ्चममन्त्रयोः प्रतीके दर्शयति -
सुत्रामाणं पृथिवीं द्यामित्येको मन्त्रः । महीमूषु मातरमित्यपरो मन्त्रः । एतौ चोभौ वैश्वानरो न ऊत्येत्यनुवाके व्याख्यातौ । अथ षष्ठीमाह -
अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते - माता पृथिवी, अतो लोकत्रयात्मकांशदेवताविशेषोऽदित्याख्यः सर्वस्य जगतः पिता स एव पुत्रश्च । ये विश्वेदेवाः सर्वेऽपि देवाः, ये च पञ्चजना निषादपञ्चमा ब्राह्मणक्षत्रियवैश्यशूद्रास्ते सर्वेऽप्यदितिरेव, जातं यत्पूर्वमुत्पन्नं जगत्, जनित्वं जननरूपो व्यापारस्तत्सर्वमप्यदितिरेव । अथ सप्तमीमाह -
अदितेर्देवताया अष्टौ पुत्रासोऽष्टसंख्याकाः पुत्रा विद्यन्ते, ये पुत्रास्तन्वः परि शरीरस्योपरि जाता औरसा इत्यर्थः । तेषां मध्ये सप्तभिः पुत्रैः सह देवानुपप्रैत्समीपे प्राप्तवती, मार्ताण्डमष्टमं पुत्रं परास्यत्परात्कृतवती । तमेकं परित्यज्यान्यैरेव सप्तभिः सह देवलोकं गता । अथाष्टमीमाह -
अस्यामृच्यदितिदेवतायाः सप्तपुत्रस्वीकारे मार्ताण्डपरित्यागे च कारणमुच्यते - इयमदितिर्देवी सप्तभिः पुत्रैर्निमित्तभूतैस्तदुत्पादनार्थं पूर्व्यं युगं तदुत्पत्तेः पूर्वकालीनं पतिसंयोगं प्रजायै प्रजोत्पत्यर्थमुपप्रैत्प्रीतिपूर्वकं प्राप्तवती । एतेषु सप्तसु पुत्रेषूत्पन्नेषु तद्द्वारा प्रजावृद्धिर्भवतीत्यभिप्रेत्य तैः सह देवलोके गमनम् । मार्ताण्डाख्यमष्टमं पुत्रं पराभरत्परित्यक्तवतीति यत्तन्मृत्यवे मृत्युनिमित्तम्, मार्ताण्डो हि मृत्योरेव हेतुर्न प्रजाभिवृद्धेः । मार्ताण्डो ह्यादित्यः, स चाण्डभेदेनोत्पद्यते । तथा हि च्छन्दोगाः - “तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामदायत । तन्निरभिद्यत” इत्युपक्रम्यान्ते समामनन्ति - “यत्तदजायत सोऽसावादित्यः” इति । शब्दनिर्वचनमपि तादृशमेव, मृतमण्डं यदीयजन्मना स मार्ताण्ड इति । तथा च स्मर्यते - “मृतेऽण्डे जायते यस्मान्मार्ताण्डः स उदाहृतः” इति । अतोऽयं मृत्यवे मृत्युप्रीत्यर्थमेवोपयुज्यते न त्वभिवृध्यर्थमित्यदितेस्तत्परित्यागो युक्तः । इति शब्दो मन्त्रसमाप्तिद्योतनार्थः । अथ ब्राह्मणवाक्यमुच्यते -
अष्टपुत्रामिति ये पुत्राः सूचितास्तान्पुत्राननुक्रमेण वक्ष्यामः । कल्पः - “मित्रश्च वरुणश्चेत्यष्टौ दिश्याः” इति । पाठस्तु -
मित्रादिनामान्येवात्र मन्त्राः । मित्रस्तया देवतयाऽऽङ्गिरस्वध्रुवाऽऽसीदेत्येवमुपधानं द्रष्टव्यम् । इत्येते मित्रावरुणादयोऽष्टौ पुत्रा उक्ताः । अथ मन्त्रचतुष्टयस्य प्रतीकानि दर्शयति -
हिरण्यगर्भ इत्ययं मन्त्र ऊर्ध्वा अस्येत्यनुवाके व्याख्यातः । हँसः शुचिषदित्ययं मन्त्र इन्द्रस्य वज्रोऽसीत्यनुवाके व्याख्यातः । ब्रह्मजज्ञानमित्ययं मन्त्रोऽभ्यस्थाद्विश्वा इत्यनुवाके व्याख्यातः । तदित्पदमित्ययं मन्त्र उदस्ताप्सीत्सवितेत्यनुवाके व्याख्यातः । तत्र हिरण्यगर्भ इति मन्त्रो हिरण्मयपुरुषोपधानार्थः । हँसः शुचिषदिति मन्त्रः पुष्करपर्णोपधानार्थः । ब्रह्मजज्ञानमिति मन्त्रो रुक्मोपधानार्थः । तदित्पदमिति मन्त्रः कूर्मोऽपधानार्थः । एतदेवाभिप्रेत्य कल्पेऽभिहितम् - “पुष्करपर्णं रुक्मं हिरण्मयं पुरुषं कूर्मम्” इति । इतिशब्दः प्रतीकसमाप्त्यर्थः । अथ ब्राह्मणमुच्यते -
प्रजापतेरयं प्राजापत्यः, तादृशो गर्भः पूर्वमुक्तः, हिरण्यगर्भ इति मन्त्रे प्राजापत्यगर्भाभिधानात् । अथानन्तरमुत्तरेणानुवाकेन पुरुष आदित्याख्यः प्रतिपाद्यते । स च कीदृशः, सप्तपुरुषः सप्त पुरुषाः किङ्करस्थानीया नक्षत्रमासार्धमासर्तुसंवत्सराहोरात्राख्यपुरुषा यस्यासौ सप्तपुरुषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके त्रयोदशोऽनुवाकः ॥१३॥अथ प्रथमप्रपाठके चतुर्दशोऽनुवाकः
योऽसावित्यनुवाकस्योपधाने विनियोगादर्शनाल्लिङ्गानुसारेणाऽऽयुष्काम एतेनाऽऽदित्यमुपतिष्ठेत्(त) । तस्मिन्ननुवाके प्रथमं मन्त्रमाह -
योऽसावादित्यः प्रातःकाले प्राच्यामुदेति स आदित्यः सर्वेषां प्राणिनां प्राणानादाय स्वीकृत्योदेति । आयुःक्षयापादनेन प्राणानपहरति । सूर्योदये सति पूर्वदिनस्य समाप्तत्वादेकदिनमात्रमायुः क्षीणं भवति । तस्मादेवं प्रार्थयामहे, आदित्य मदीयानां प्रजानां पशूनां च मम च प्राणानादायोदयं मा गा माऽऽप्नुहि । प्राणापहारहेतुमायुःक्षयं मा कुर्वित्यर्थः । अथ द्वितीयं मन्त्रमाह -
योऽसावादित्यः सायङ्कालेऽस्तं प्राप्नोति सोऽप्येकमहः समाप्य तावन्मात्रमायुः क्षपयति । अन्यत्पूर्ववत् । अथ तृतीयं मन्त्रमाह -
उदेतुं प्रक्रान्तः सूर्यः क्रमेण यावद्यावद्रश्मि(भि)रापूर्यते तावत्तावत्प्राणिनामायुः क्षीयते । अन्यत्पूर्ववत् । अथ चतुर्थमाह -
अस्तं प्राप्तुमुपक्रान्तः सूर्यो यावद्याद्रश्मिभिः क्रमेण क्षीणो भवति तावत्तावत्प्राणिनामायुःक्षयः । अन्यत्पूर्ववत्सर्वत्र योज्यम् । अथ पञ्चममाह -
अमून्येतानि नक्षत्राणि दिवि सञ्चरन्ति तानि सर्वाण्यहन्यप(प्र)सर्पन्ति, अपगतज्योतींषि भूत्वा प्रवर्तन्ते । तस्मिन्नुभयस्मिन्नपि काले प्राणिनां प्राणैः सहैव प्रवर्तन्ते । यावद्यावत्कालातिक्रमस्तावत्तावदायुषा(षां) क्षीयमाणत्वात् । ततो हे नक्षत्राणि प्रजादीनां प्राणैः सह माऽप(प्र)सृपताहन्यपसर्पणं मा कुरुत, मोत्सृपत रात्रावुत्सर्पणमपि मा कुरुत । भवदीयप्रजारक्षणनिमित्तमायुःक्षयो मा भूदित्यर्थः । अथ षष्ठसप्तममन्त्रावाह -
नक्षत्रवाक्यवद्व्याख्येयम् । अथाष्टममाह -
अत्र संवत्सरशब्दस्यैकवनान्तत्वा(दु)त्सर्प प्रसर्पेति चैकवचनम् । अन्यत्पूर्ववत् । अथ नवमदशमौ मन्त्रावाह -
एतद्वाक्यद्वयं संवत्सरवाक्यवद्व्याख्येयम् । अथैकादशं मन्त्रमाह -
योऽयं प्रणवप्रतिपाद्यः परमात्मा स एव लोकत्रयरूप इत्यर्थः । अथ द्वादशमाह -
नक्षत्रमासार्धमासर्तुसंवत्सराहोरात्ररूपा हे सप्त पुरुषाः प्रणवप्रतिपाद्यपरमात्मरूपेणाऽदित्येन सहावस्थानं यदस्त्येतद्वो युष्माकं मिथुनं सम्बन्ध उपकार्योपकारलक्षणः, एतस्य ध्यानेनास्माकमपि मिथुनं स्त्रीपुंसलक्षणं मा रीढ्वं हिंसितं मा कुरुत ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥अथ प्रथमप्रपाठके पञ्चदशोऽनुवाकः
कल्पः “वसूनां रुद्राणामित्यष्टावुत्तरतः” इति । तदेतद्ब्राह्मणवाक्येन सङ्ग्रहरूपे प्रतिजानीते -
अष्टयोनीमित्यनुवाकोक्तैर्मन्त्रैरिष्टकोपधानानन्तरं वस्वाद्यष्टविधपुरुषेणावस्थितस्याऽऽदित्यस्य सम्बन्धिभिर्मन्त्रैरिष्टका उपदध्यादिति शेषः । तत्र प्रथमं मन्त्रमाह -
पूर्वमृतुप्रकरणे - “वसन्तो वसुभिः सह” “शुक्लवासा रुद्रगणः” इत्यादिना ये च रुद्रादयो निर्दिष्टास्ते सर्वेऽप्यादित्यस्यैवावतारविशेषाः, ते चात्र मन्त्रेषु क्रमेण निर्दिश्यन्ते । अष्टवसुरूपेणावतीर्णा य आदित्यमूर्तिविशेषाः, तेषां स्थाने तिष्ठन्नहं तत्प्रसादलभ्येन स्वकीयेन तेजसा भानि भासमानो भूयासम् । अथ द्वितीयमाह -
एकादशरुद्ररूपेणावतीर्णा आदित्यमूर्तिविशेषाः । अन्यत्पूर्ववत्सर्वत्र व्याख्येयम् । अथ तृतीयमाह -
द्वादशादित्यरूपेणावतीर्णाः परमात्मरूपादित्यस्य मूर्तिविशेषाः । अथ चतुर्थमाह -
सन्तः सत्पुरुषा निजावतारेण सर्वलोकसम्प्रतिपन्ना महर्षयः, ते च सत्याः सर्वदा सत्यवादिनः, तादृशाः केचिदादित्यावतारविशेषाः । अथ पञ्चममाह -
ऋतुप्रकरणे - “अभिधून्वन्तोऽभिघ्नन्तः” इत्यादिना मरुद्गणा उक्तास्ते चाभितो धून्वन्ति वृष्टिजलं चालयन्ति, इतस्ततः कम्पयन्ति । मार्गे गच्छतः पुरुषानभिघ्नन्ति, आभिमुख्येन ताडयन्ति । ते च वातवन्तस्तीव्रवायुयुक्ता भवन्ति, ते च मरुद्गणा आदित्यावतारविशेषाः । अथ षष्ठमाह -
“ऋभूणां तन्निबोधत” इत्यत्र य ऋभवो देवविशेषा उक्तास्तेऽप्यादित्यावतारविशेषाः । अथ सप्तममाह -
ये प्रसिद्धा विश्वेदेवास्तेऽप्यादित्यावतारविशेषाः । अथाष्टममाह -
ऋतुप्रकरणे - “स खलु संवत्सर एतैः” इति संवत्सरोऽभिहितः स चाऽऽदित्यस्यावतारविशेषः । अथ सर्वमन्त्रेष्वनुषञ्जनीयं वाक्यद्वयमाह -
प्रणवप्रतिपाद्यस्य लोकत्रयात्मकस्याऽऽदित्यस्य सम्बन्धिनो हे रश्मयो वो युष्माकं स्वामिनाऽऽदित्येन सह मिथुनं मिथुनवदुपकार्योपकारकभावोऽस्ति, अतस्तादृशा यूयं नोऽस्माकं स्त्रीपुरुषलक्षणमिथुनं मा रीढ्वं हिंसितं मा कुरुत ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके पञ्चदशोऽनुवाकः ॥१५॥अथ प्रथमप्रपाठके षोडशोऽनुवाकः
कल्पः - “आरोगस्येत्यष्टावुपरिष्टात्” इति । “आरोगो भ्राजः पटरः पतङ्गः” इत्यादीन्यष्ट सूर्यनामानि मन्त्ररूपाणि पूर्वमाम्नातानि, इदानीं तेनैव क्रमेणाष्टौ मन्त्रान्तराण्यत्राम्नायते । तानि दर्शयति -
आरोगनामको यः प्रथमः सूर्यस्तस्य स्थाने तिष्ठन्नहं तत्प्रसादलभ्येन स्वकीयेन तेजसा भासमानो भूयासम् । प्रणवप्रतिपाद्यो लोकत्रयात्मको यः सूर्यस्तेन सहाऽपो वो युष्माकमुपकार्योपकारकभावोऽस्ति, अतस्तथाविधा यूयमस्मदीयं मिथुनं हिंसितं मा कुरुत । एतच्च वाक्यद्वयं पूर्ववत्सर्वमन्त्रशेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके षोडशोऽनुवाकः ॥१६॥अथ प्रथमप्रपाठके सप्तदशोऽनुवाकः
कल्पः - “प्रभ्राजमानानामित्येकादश प्रभ्राजमानीनामिति चैकादश मध्ये” इति । तेषां मन्त्राणां सङ्ग्रहरूपेण ब्राह्मणवाक्येन प्रतिज्ञां दर्शयति -
एक एव वायुः प्रभ्राजमानाद्येकादशरुद्रमूर्तिरूपेण प्रभ्राजमान्याद्येकादशस्त्रीमूर्तिरूपेणाप्यवतीर्णः, तस्य सम्बन्धिनो मन्त्रा उच्यन्त इति शेषः । तान्मन्त्रान्दर्शयति -
प्रभ्राजमाननामको वायुसम्बन्धी यो रुद्रविशेषस्तस्य बहवो मूर्तिविशेषाः । अतः प्रभ्राजमानानामिति बहुवचनम् । एवं सर्वत्र द्रष्टव्यम् । रूपाणि स्त्रीपुरुषविशेषाः, हे रूपाणि वो युष्माकं सम्बन्धि यन्मिथुनं तत्प्रसादादस्मदीयमपि मिथुनमहिंसितं भवतु । अयं च सर्वमन्त्रशेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके सप्तदशोऽनुवाकः ॥१७॥अथ प्रथमप्रपाठकेऽष्टादशोऽनुवाकः
कल्पः - “अग्नेः पूर्वदिश्यस्येत्यष्टौ दिश्याः” इति । तत्र सङ्ग्रहरूपेण ब्राह्मणवाक्येन मन्त्रान्प्रतिजानीते -
अग्निजातवेदप्रभृतयः पुरुषा मूर्तिविशेषा यस्याग्नेः सन्ति सोऽयमष्टपुरुषः, तस्याग्नेः सम्बन्धिनो मन्त्राः पूर्वोक्तवायुसम्बन्धिद्विविधैकादशरुद्रमन्त्रानन्तरमुच्यन्ते । तान्मन्त्रान्दर्शयति -
पूर्वा दिक्प्राची तस्यां भवः पूर्वदिश्यः, तथाविधोऽग्निनामको यो मूर्तिविशेषस्तस्य स्थाने तिष्ठन्नहं तत्प्रसादाल्लब्धेन स्वतेजसा भासमानो भूयासम् । उपदिगाग्नेयी तस्यां भव उपदिश्यो जातवेदोनामकः । एवं सर्वत्र योज्यम् । हे दिशो वो युष्माकमग्निना स्वामिना सहोपकार्योपकारकभावः । अतो युष्मत्प्रसादेनास्मदीयं मिथुनमहिंसितं भवतु । सोऽयं सर्वमन्त्रशेषः । अथवा, ओमित्यादिः सर्वत्र यजमानाभिमन्त्रणमन्त्रो द्रष्टव्यः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठकेऽष्टादशोऽनुवाकः ॥१८॥अथ प्रथमप्रपाठक एकोनविंशोऽनुवाकः
कल्पः - “दक्षिणपूर्वस्यामिति चतस्रो नरकवतीर्यथालिङ्गम्” इति । तत्र प्रथमं मन्त्रमाह -
दक्षिणस्याः पूर्वस्याश्चान्तरालवर्तिनी दिगाग्नेयी तस्यां विसर्पिनामको नरको विद्यते, इष्टके तस्मान्नरकान्नोऽस्मान्परिपाहि । अथ द्वितीयमाह -
नैर्ऋती दक्षिणापरा तस्यामविसर्पी नाम नरकः । पूर्वत्र वेदनातिशयाद्विविधमितस्ततः सर्पन्ति जन्तवो यत्रेति व्युत्पत्या विसर्पी, इह तु दुःखस्यात्यन्तमाधिक्याद्विसर्पितुमपि न क्षमन्ते तस्मादविसर्पी । शेषं पूर्ववत् । अथ तृतीयमाह -
ऐशानी दिगुत्तरपूर्वा, तत्र हि विषादिसंज्ञको नरकः किमर्थमस्माभिः पापं कृतमिति जन्तवो विषादं कुर्वन्ति तस्मादयं विषादी । अन्यत्पूर्ववत् । अथ चतुर्थमाह -
वायवी दिगुत्तरापरा तत्राविषादीनरकः, दुःखातिशयाज्जन्तवो विषादमपि कर्तुं न क्षमन्ते तस्मादविषादी । शेषं पूर्ववत् । कल्पः - “आ यस्मिन्निन्द्रियाणि शतक्रतविति द्वे” इति । तयोर्मन्त्रयोः प्रतीके दर्शयति -
इत्येते ये ऋचौ ताभ्यामिष्टके उपदध्यादित्यर्थः । एतच्चोभयमिन्द्रं वो विश्वतस्परीत्यनुवाके व्याख्यातम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकोनविंशोऽनुवाकः ॥१९॥अथ प्रथमप्रपाठके विंशोऽनुवाकः
कल्पः - “इन्द्रघोषा वः संज्ञानमिति षड्दिश्याः” इति । पाठस्तु -
हेऽब्रूपा इष्टका वो युष्मान्पुरस्तान्पूर्वस्यां दिशि वसुभिर्देवैः सहिता इन्द्रघोषनामका देवा उपदधताम् । पितृभिः सहिता मनोजवसो देवा वो युष्मान्दक्षिणस्यां दिश्युपददताम् । एवं सर्वत्र योज्यम् । संज्ञानं समीचीनज्ञानयुक्तं देवतास्वरूपं वो युष्मान्पश्चात्, उपदधतामिति शेषस्य सूचनार्थ इतिशब्दः प्रयुक्तः । त एते षण्मन्त्राः । कल्पः - “आदित्यः सर्व इति पञ्च दिश्याः” इति । पाठस्तु -
आदित्यात्मकः सर्वोऽप्यग्निः पृथिव्यामुपदधातु । एवं वाय्वादिषु योज्यम् । कल्पः - “एवा ह्येवेति षड्दिश्याः” इति । पाठस्तु -
ई गताविति धातोरुत्पन्न एवशब्दः, हे एव, अयनशीलाऽऽदित्य, एवा एतव्याः प्राप्तव्याः कामास्ते सर्वे त्वमसीति शेषः । हिशब्देनाऽऽदित्यस्य सर्वकामहेतुत्वप्रसिद्धिरुच्यते । एवमुत्तरत्रापि योज्यम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके विंशोऽनुवाकः ॥२०॥अथ प्रथमप्रपाठक एकविंशोऽनुवाकः
कल्पः - “आपमापामिति नवोपरिष्टात्” इति । पाठस्तु -
अत्र केतव इति मन्त्रं विहायान्येऽष्टौ मन्त्राः प्रथमानुवाके व्याख्याताः । पुनरप्युपधानार्थं मन्त्रपाठः । केत्वरुणवातरशनशब्दा ऋषिसङ्घानाचक्षते । ते सर्वेऽपि ऋषिसङ्घाः समाहितासोऽप्रमत्ताः सन्तः, शतधा हि शतसंख्याकेनापि प्रकारेण प्रतिष्ठां स्थैर्यहेतुं सहस्रधायसं सहस्रसंख्याकस्य फलस्य धारयित्रीम्, इष्टकामुपदधत्विति शेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकविंशोऽनुवाकः ॥२१॥अथ प्रथमप्रपाठके द्वाविंशोऽनुवाकः
एतावत्स्वनुवाकेषूपधानमन्त्राः प्रायेणाभिहिताः, अतः परमिष्टकानां ब्राह्मणमुच्यते । तत्राऽदौ तावदापो बहुधा प्रशस्यन्ते । तत्र प्रथमां प्रशंसामाह -
अमृतमयं हि चन्द्रमण्डलम् । अतो जलकार्यत्वादपां पुष्पस्थानीयम् । एतस्य वेदिता स्वयं भोगार्थं चम्पकबकुलादिपुष्पैः पुत्रादिप्रजया गवादिपशुभिश्च समृद्धो भवति । वेदने प्ररोचनार्थमादौ फलकथनम्, उपसंहारार्थं पुनः कथनम् । अथ द्वितीयां प्रशंसामाह -
सृष्टिश्रुतौ “अग्नेरापः” इत्यग्नेर्जलकारणत्वाभिधानादग्निरपामाश्रयः । अत्रापि प्ररोचनार्थमादौ फलकथनम्, उपसंहारार्थं पुनरप्यायतनवानित्यभिधानम् । तत्र य एवं वेदेत्यध्याहरणीयम् । महासृष्टावपामग्निकार्यत्वेऽपि ब्रह्माण्डाद्यवान्तरसृष्टौ “आपो वा इदमासन्सलिलमेव” इत्यादिवाक्येनापां सर्वकारणत्वाभिधानाद्ब्रह्माण्डान्तःपातिनोऽस्मद्दृश्यस्याग्नेर्जलकार्यत्वादपामग्न्याधारत्वम् । अत्रापि प्ररोचनार्थमुपसंहारार्थं द्विः फलकथनम् । सेयं जलाग्न्योः परस्पराधारोक्तिर्द्वितीया प्रशंसा । एवमुत्तरत्र द्रष्टव्यम् । अथ तृतीयां प्रशंसामाह -
महासृष्टौ “वायोरग्निः । अग्नेनापः” इति श्रुतेरग्निद्वारा वायोरप्कारणत्वादायतनत्वम् । अपां त्ववान्तरसृष्टौ पूर्वोक्तन्यायेन वाय्वाधारत्वम् । अन्यत्पूर्ववद्व्याख्येयम् । अथ चतुर्थीमाह -
योऽसावादित्यस्तपन्नुपलभ्यते सोऽयमपामाधारः । “आदित्याज्जायते वृष्टिः” इति जलकारणस्मृतेः । अपां च पूर्ववदादित्याधारत्वं द्रष्टव्यम् । अथ पञ्चमीमाह -
तुहिनरूपाणां किरणानां चन्द्रजन्यत्वाच्चन्द्रमसो जलाधारत्वम् । अथ षष्ठीमाह -
पुष्याश्लेषादिषु महानक्षत्रेषु वर्तमानेषु वृष्ट्याधिक्यदर्शनान्नक्षत्राणामबाधारत्वम् । अथ सप्तमीमाह -
वृष्टिद्वारा पर्जन्याख्यस्य मेघस्य जलाधारत्वं प्रसिद्धम् । अथाष्टमीमाह -
वर्षर्तुद्वारा संवत्सरस्य जलाधारत्वम् । अथ नवमीमाह -
यः पुमानप्सु प्रतिष्ठितां स्थैर्येणावस्थितां नावं वेद स स्वयं लोके प्रतिष्ठायुक्तो भवति । काऽसौ प्रतिष्ठिता नौरिति सेयमुच्यते - इमे वै दृश्यमाना एव भूरादयो लोका अप्सु स्थैर्येणावस्थिता नौस्थानीयाः । अतः सर्वलोकाधारभूता आप इति वेदनेन प्रतिष्ठाप्राप्तिः । नद्यादिषु परतीरगमनाय जनैर्या नौः सम्पाद्यते सा जले प्रतिष्ठिता न भवति । गमनागमनाभ्यां चञ्चलत्वात् । सर्वलोकसङ्घरूपा तु नौर्न कदाचिदपि चलति किंत्वप्सु स्थैर्येणावतिष्ठते । आवरणसहितं ब्रह्माण्डं घनोदाख्ये महाजलेऽवतिष्ठत इति हि पौराणिकप्रसिद्धिः । तत्तस्मिन्सर्वजगदाधारभूता आप इत्येवंरूपेऽर्थे काचिदृगभ्यनूक्ता शाखान्तरे समाम्नाता । तामेतामृचं दर्शयति -
योऽयमपां रसः सारस्तं रसमभिलक्ष्योदयंसन्सर्वे लोका उद्गताः । तस्मादेव रसादुत्पद्यन्तेऽस्मिन्नेवावतिष्ठन्त इत्यर्थः । कीदृशं रसम्, सूर्य आदित्यमण्डले वृष्टिजननाय समाभृतं सम्पादितम्, अत एव शुक्रं निर्मलम् । अपां रसस्य त्रैलोक्यरूपस्योदकसारस्य तदु(य उ)त्तमो रसः सोमरूपः, हे, आपो युष्मदीयं तमुत्तमं रसं गृह्णामि तेषु तेषु स्वीकरोमि । इतिशब्दो मन्त्रसमाप्त्यर्थः । अनेन मन्त्रेण काचिदिष्टकोपधेया । तथा च बौधायन आह - “अपाँ रसमित्येका” इति । मन्त्रस्य तात्पर्यं दर्शयति -
य एते पृथिव्यादयो लोकास्ते सर्वेऽप्यपां मध्ये सारभूताः सर्वलोकगर्भिताः । ब्रह्माण्डगोलकरूपा पृथिवी क्षीरमध्ये मण्डमिव जलमध्ये घनीभूता । तथा च वाजसनेयिन आमनन्ति - “यदपां शर आसीत्तत्समाहन्यत सा पृथिव्यभवत्” इति । ते चोदकसारभूता लोका अमुष्मिन्दृश्यमान आदित्यमण्डले समाभृताः सम्यगाश्रिताः । आदित्यस्य वृष्टिद्वारेण सर्वलोकस्थितिहेतुत्वात् । तदेवं योऽपां पुष्पमित्यारभ्यामुष्मिन्नादित्ये समाभृता इत्यन्तेन ग्रन्थेनेष्टकोपधानार्थमपां बहुधा प्रशंसा कृता । अथ प्रयोगं विधत्ते -
तत्र सावित्रवचनवद्रथचक्रं परिलिख्य तत्र जानुप्रमाणामुत्तरवेदीं खात्वा तां खातामुत्तरवेदीं गुल्फदघ्नं यथा भवति तथा जलैः पूरयित्वा तज्जलमादौ पद्मपत्रैः संच्छाद्य ततोऽप्युपरि मूलदण्डपत्रसहितैः कृत्स्नैः पद्मैः संछाद्य तस्मिन्विहायसे तत्र स्थापितस्य मञ्चकस्योपरि कर्मानुगुणमग्नेः प्रणयनं कृत्वा तं चाग्निमुपसमाधाय तस्याग्नेः परित इष्टका उपदध्यादिति वक्ष्यमाणेनान्वयः । अथाऽऽक्षेपसमाधानाभ्यां तमिमं प्रयोगं समर्थयते -
अग्न्यन्तरेभ्योऽस्य वैलक्षण्यं दर्शयितुं ब्रह्मवादिनोऽत्र पर्यनुयोगमाहुः । इतरत्र हि चयने सम्पूर्णे सति पश्चादग्निः प्रणीयते, अत्र तु कस्मात्कारणान्मञ्चकस्योपरि वह्नौ प्रणीते सति पश्चादिष्टकाभिरयमारुणकेतुकोऽग्निश्चीयते । मञ्चकं तु बौधायनेन दर्शितम् - “दीर्घदारुभिर्मञ्चकं कृत्वा पृष्टो दिवीति पुरीषव्यूहनम्” इति । अतोऽस्य मञ्चकस्योपर्याकाशेऽग्निप्रणयनादूर्ध्वं पुनरिष्टकोपधानमितरचयनाद्वैलक्षण्यादयुक्तमिति ब्रह्मवादिनामाक्षेपाभिप्रायः । तस्याऽऽक्षेपस्योत्तरं साप्प्रणीत इत्यादिनोच्यते । अद्भिः सह वर्तत इति साप्, यस्मादयं जलसहितस्तस्मादयमिष्टकाचयनरूपोऽग्निरङ्गाररूपे वह्नौ प्रणीते सति पश्चाच्चेतव्यः । अप्सु ह्ययं चीयत इत्यनेन जलसहितत्वमेव स्पष्टीक्रियते । आदावुत्तरवेद्यामद्भिः पूरणम्, ततः पुष्करपर्णादिसंछादनम्, ततो मञ्चकस्योपरि वह्निप्रणयनम्, एवं सत्यप्स्वेवायं प्रणीतो भवति । इतरस्त्वग्निर्नाप्सु प्रणीयते तस्मादितरवैलक्षण्यात्प्रणयनादूर्ध्वमबीष्टकोपधानं कर्तव्यम् । पश्चात्प्रणयने सत्ययमग्निः परितो रक्षकाभावेन भुवने देवयजनाद्बहिर्भूते लोकेऽपि गत्वाऽनाहिताग्निः सन्नेता गमिष्यति । इतराग्नयो जलभयाभावाद्देवयजन एव तिष्ठन्ति, अयं तु जलाद्भीतः सन्बहिरपि गमिष्यति । एता इति शब्दो लुडन्तो गमिष्यतीत्यस्मिन्नर्थे वर्तते । अतो बहिर्गमनं मा भूदित्येवमर्थं तं प्रणीतमग्निमभितः सर्वतो रक्षार्थमेता अबीष्टका उपदध्यात् । तदेवमाक्षेपसमाधानाभ्यामग्निं प्रणीयोपसमाधाय तमभित एता अबीष्टका उपदधातीत्ययमर्थ उपपादितः । अथायमारुणकेतुकोऽग्निः कस्मिन्कर्मण्यङ्गभूत इत्याकाङ्क्षायामङ्गीनि कर्माणि दर्शयति -
अग्निहोत्रादिविषयत्वेन संकोचो मा भूदिति सोमयागविषयमप्यभिप्रेत्य पक्षान्तरोपन्यासः । अथ प्रश्नोत्तरपर्यायैः सप्तभिरारुणकेतुकस्याग्नेरधिकफलत्वं वक्तुं प्रथमं प्रश्नोत्तरपर्यायं दर्शयति -
शण्डिलो नाम कश्चिन्महर्षिस्तस्य वंशे समुत्पन्नाः सर्वे शण्दिलाः, ते चैतदारुणकेतुकफलं निश्चेतुं परस्परमेवमाहुः स्म “ह स्म वै” इति निपातत्रयस्याप्येक एवार्थः । तत्र कैश्चिदेवं पृच्छ्यते - सत्रियं सत्रे भवमग्निं यश्चिनुते सोऽयं कमग्निं किंफलमग्निं चिनुत इति । तत्राभिज्ञैरुत्तरमुच्यते - प्रत्यक्षेण मुख्यया वृत्या, संवत्सरं संवत्सरप्राप्तिफलकमग्निं चिनुत इत्युत्तरम् । अथ द्वितीयं पर्यायं दर्शयति -
अनुपचारेणाऽऽदित्यप्राप्तिफलकः सावित्रोऽग्निः । तृतीयं पर्यायं दर्शयति -
यथा सावित्रस्याऽऽदित्यरूपत्वम् “एष वाव सावित्रो य एष तपति” इति श्रुत्याऽवगतम्, एवम् “अयं वाव यः पवते सोऽग्निर्नाचिकेतः” इति श्रुत्या नाचिकेतस्य वायुरूपत्वावगमात्तच्चयनेन वायुरूपप्राणप्राप्तिः । चतुर्थं पर्यायं दर्शयति -
“ब्रह्म वै चतुर्होतारः” इत्युक्तत्वाद्ब्रह्मप्राप्तिः । ब्रह्मशब्देन वेदपुरुष उच्यते । पञ्चमं पर्यायं दर्शयति -
शरीरं हिरण्यगर्भस्य देहम् । षष्ठं पर्यायं दर्शयति -
“यदेकेन सँस्थापयति” इत्यादिकमुपानुवाक्यकाण्डं तत्र प्रोक्तोऽग्निरप्युपानुवाक्यः स चाऽऽशुः शीघ्रं(घ्रो) महानित्यर्थः । अत एव तच्चयनेन सर्वलोकप्राप्तिः । सप्तमं पर्यायं दर्शयति -
इमं चामुं च लोकं व्यतीत्यातिक्रम्य हित्वा यो न गच्छति सोऽयमव्यतीपाती सूर्यः, तं सूर्यं प्राप्नोति । आद्य इतिशब्दः प्रश्नसमाप्त्यर्थः, द्वितीय उत्तरसमाप्त्यर्थः । आरुणकेतुकाग्नेरपां च सम्बन्धरूपो यो मिथुनीभावस्तद्वेदनं प्रसंसति -
मिथूया मिथुनगमनाः । मिथुनवान्मिथुनशक्तिमान् । वेदनफलस्य पुनर्वचनमुपसंहारार्थम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके द्वाविंशोऽनुवाकः ॥२२॥अथ प्रथमप्रपाठके त्रयोविंशोऽनुवाकः
अथास्मिन्नप्यनुवाके सृष्ट्युपन्यासमुखेनाऽरुणकेतुकमग्निं तदङ्गभूता अपश्च प्रशंसति । तत्र सृष्ट्यादौ कामोत्पत्तिं दर्शयति -
यदिदं जगदिदानीमस्माभिर्दृश्यते तदिदमुत्पत्तेः पूर्वमाप एवाऽऽसन्, न तु देवतिर्यङ्मनुष्यादिकं किंचिदपि भौतिकमासीत् । पृथिव्यादिभूतान्तरमपि वारयितुं सलिलमेवेत्युच्यते । तास्वप्सु मध्ये कस्मिंश्चित्पुष्करपर्णे जगदीश्वरः स प्रजापतिः समभवत्सम्यगाविर्भूयावस्थितः । तस्य प्रजापतेर्मनसोऽन्तर्मध्ये सर्वमिदं जगत्सृजेयमित्येवं काम उदपद्यत । तस्मात्प्रजापतेर्वाक्शरीरप्रभृतिभ्यां पूर्वं सर्वप्रवृत्तिहेतुः कामो मनस्याविरभूत्तस्मात्प्रजापतिसंततावुत्पन्नः सर्वः पुरुष इदं कार्यं करिष्यामीत्यादौ मनसा चिन्तयति तत्तथैव वाचा वदति कर्मणा शरीरव्यापारेणापि तथैव करोति । तत्तस्मिन्कामस्य प्रथमोत्पत्तिलक्षणेऽर्थे काचिदृक्शाखान्तरेऽभ्यनूक्ता । तामेतामृचं दर्शयति -
तत्तदानीं सृष्टिकाले प्रजापतेः सकाशादग्रे प्रथमं कामः सर्वं सृजेयमित्यभिलाषः अधि समवर्तताऽऽधिक्येन सम्यगुत्पन्नः । यद्यदा मनसः प्रथमं रेतः कार्यमासीत् । तदेति पूर्वत्रान्वयः । पूर्वसृष्टौ लीनायामव्यक्ते जगत्कारणे स्रक्ष्यमाणप्राणिकर्मोद्भवे सति यदा प्रजापतेर्मानसं प्रथमं कार्यमुत्पन्नं तदा तत्कार्यं सृष्टिविषयेच्छारूपेण निष्पन्नमित्यर्थः । मनीषा मनस ईशितारः कवयो विद्वांसस्तत्तत्सृष्टिगताः प्रजापतयो हृदि स्वचित्ते प्रतीष्य प्रत्येकं निश्चित्य सतो विद्यमानस्य व्यक्तस्य जगतो बन्धुं बन्धकमुत्पत्तिहेतुं काममसत्यव्यक्ते कारणे निरविन्दन्निष्कृष्य लब्धवन्तः । न केवलमेतस्यामेव सृष्टौ किं तु सर्वास्वपि सृष्टिषु प्रवृत्ताः प्रजापतयः काममेव प्रथमं लभन्त इत्यर्थः । इतिशब्दो मन्त्रसमाप्तौ । अनेन मन्त्रेणैकामिष्टकामुपदधायात् । तथा च बौधायन आह - “कामस्तदग्र इति सङ्कल्पवतीम्” इति । यथोक्तकाममाहात्म्यवेदनं प्रसंसति -
यः पुमान्काममाहात्म्यं वेद स पुमान्यत्कामो यद्विषयकामनावान्भवति तद्वस्तु, एनं वेदितारमुपनमति प्राप्नोति । देशकालयोः सामीप्यविवक्षया द्वावुपशब्दावुक्तौ । कामानन्तरभाविनीं सृष्टिं दर्शयति -
स प्रजापतिः सृष्टिं कामयित्वा तपः कृतवान् । नात्र तप उपवासादिरूपं किंतु स्रष्टव्यं वस्तु कीदृशमिति पर्यालोचनरूपम् । अत एवाऽऽथर्वणिका आमनन्ति - “यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः” इति । स प्रजापतिः, तपः पर्यालोचनरूपं कृत्वा स्रष्टव्यविशेषं निश्चित्य स्वकीयं शरीरमधूनुत कम्पितवान् । तस्य कम्पनस्य शरीरस्य यन्मांसमस्ति, तस्मान्मासादरुणादिनामकास्त्रिविधा ऋषय उदपद्यन्त । प्रजापतेः सत्यसङ्कल्पत्वात्तत्सङ्कल्पानुसारेण तत्तद्वस्तूत्पद्यते । तस्य शरीरस्य ये नखा आसंस्ते वैखानसनामका मुनयोऽभवन् । ये च शरीरे वालाः केशास्ते वालखिल्यनामका मुनयोऽभवन् । यः शरीरस्य रसः सारांशः सोऽपां मध्ये कश्चित्कूर्मोऽभूदिति शेषः । तेन कर्मेण सह प्रजापतेः संवादं दर्शयति -
अन्तरतो जलस्य मध्ये कूर्माकारेण निष्पन्नं तत्रैव सञ्चरन्तं तं पुरुषं प्रजापतिरब्रवीत्, हे कूर्म मम वै त्वङ्माँसा त्वचो मांसस्य च सम्बन्धिनो रसात्समभूत्वं समुत्पन्नोऽसीति । तदा स कूर्मो नेत्यब्रवीत्, यत्त्वयोक्तं तन्न त्वदीयशरीररसान्नाहमुत्पन्नः । किंतु कूर्माकारं शरीरमेव निष्पन्नम्, अहं तु सर्वगतनित्यचैतन्यस्वरूपत्वात्पूर्वमेवेहास्मिन्स्थाने स्थितोऽस्मीत्येतत्कूर्मस्य वचनम् । यस्मात्पूर्वमासमित्युवाच तस्मात्पुरुष इति परमात्मनो नाम सम्पन्नम् । एवमुक्त्वा स कूर्मशरीरवर्ती परमात्मा स्वसामर्थ्यप्रकटनाय विराड्रूपं कृत्वा सहस्रसंख्याकैः शिरोभिरक्षिभिः पादैश्च युक्तो भूत्वा प्रादुरभूत् । तदानीं प्रजापतिस्तं विराड्रूपं दृष्ट्वा तत्रत्यं परमात्मानमेवमब्रवीत् । भोः परमात्मन्मच्छरीरात्पूर्वं त्वमेव सर्वदा विद्यमानोऽतो मत्तः पूर्वभावी संस्त्वमेवेदं सर्वं जगत्कुरुष्वेति । तेन प्रजापतिनैवमुक्तस्य परमेश्वरस्य सृष्टिप्रकारं दर्शयति -
स परमेश्वरः स्वयमारुणकेतुकरूपः सन्नितः सृष्टेरपि पूर्वसिद्धात्सलिलमेवाऽऽसीदित्युक्तान्महाजलात्कियतीरपः स्वकीयेनाञ्जलिना समादाय पूर्वस्यां दिशि तामबीष्टकामुपधत्तवान् । केन मन्त्रेण, एवा ह्येवेति, अनेन मन्त्रेण । तस्य मन्त्रस्याऽऽदित्यपरत्वं पूर्वमेव दर्शितम् । ततः समन्त्रकोपधानादादित्य उत्पन्नः । स यस्यां दिश्युत्पन्नः सा प्राची दिगभूत् । अनेन प्रकारेण क्रमात्सर्वदिगुत्पत्तिं दर्शयति -
एतेषु मन्त्रेषु एवा एतव्याः प्राप्तव्याः कामाः । हिशब्दः प्रसिद्धौ । सर्वेषां देवानां कामप्रदत्वेन तत्कामरूपत्वं प्रसिद्धमिति पूर्वं व्याख्यातम् । एवाहीतिशब्द आगच्छेत्येतस्मिन्नर्थे वा व्याख्येयः । सेयमित्यधोदिगुच्यते । अन्यत्पूर्ववद्व्याख्येयम् । देवसृष्टिमभिधायासुरसृष्टिं दर्शयति -
अञ्जलिनोपधीयमानानामपां सम्बधिन्यो या विप्रुषो बिन्दवो विविधा भूत्वा तस्मादुपधानप्रदेशाद्बहिः परापतंस्ताभ्यो विप्रुड्भ्योऽसुरादय उत्पन्नाः । ते चावान्तरजातिभेदात्त्रिविधाः । यस्मात्ते पराभवन्तीभ्यो विप्रुड्भ्य उत्पन्नास्तस्मात्पराभूताः, अधमाः सन्तो विनष्टा इत्यर्थः । अपां सकाशाद्येयं सृष्टिः प्रपञ्चिता, तस्याः सङ्ग्रहरूपामृचमवतारयति -
तत्तस्मिन्नद्भ्यः सर्वं समुत्पन्नमित्यस्मिन्नर्थे काचिदियमृक्शाखान्तरेऽभ्यनूक्ता । तामेतामृचं दर्शयति -
अत्राद्भ्यो वा इति वाक्यं ब्राह्मणरूपमपि तृतीयपादतात्पर्यप्रदर्शनाय मन्त्रमध्ये समाम्नातम् । बृहतीः प्रौढाः आपो यं गर्भं जगद्रूपमायन्प्राप्तवत्यः । कीदृश्य आपः । दक्षं वृद्धिशीलं गर्भं दधाना धारयन्त्यः, स्वयम्भुं कूर्मरूपं परमात्मानं जनयन्तीर्जनयितुकामाः, ततस्तस्माद्विराड्रूपादपां गर्भादिमे भूरादयः सर्गाः सृज्यमाना लोका अध्यसृज्यन्त, सृष्ट्यर्हानेतान्सृष्टवानित्यर्थः । अद्भ्य एवेदं सर्वं जगदुत्पन्नमिति कृत्वा पादत्रयेणोक्तोऽर्थो युक्त एव । यस्मात्कारणात्कूर्मरूपं ब्रह्मैव सर्वं सृष्टवांस्तस्मात्कारणादिदं सर्वं जगत्स्वयम्भु स्वतःसिद्धं ब्रह्मैव । इति अनेन मन्त्रेणैकामिष्टकामुपदध्यात् । तथा च बौधायन आह - “आपो ह यदित्योघवतीम्” इति । कार्यत्वं जगतो युक्त्योपपादयति -
यस्माच्छिथिलाभ्योऽद्भ्यो जातम्, आपो हि शिथिला न तु पाषाणवद्दृढाः, तस्मात्कारणादिदं सर्वं जगच्छिथिलमिव दृश्यते । तस्यैव व्याख्यानमध्रुवमिवेति । अनित्यत्वमध्रुवत्वम् । अथास्य जगतो दार्ढ्योपायं दर्शयति -
केवलकार्यत्वे समुत्पन्नं शिथिलं भवेन्न तु तदस्ति । किंतु तज्जगत्प्रजापतिरेव । यथा घटो मृदंशः पृथुबुध्नोदराकारांशश्चेत्यंशद्वयमेवं जगत्यपि सच्चिदानन्दरूपप्रजापत्यंशो नामरूपांशश्चेत्यंशद्वयम्, तत्र नामरूपयोरेव कार्यत्वेन शैथिल्येऽपि सच्चिदानन्दप्रजापत्यंशस्य दार्ढ्यमस्ति । स हि प्रजापतिरात्मना साधनान्तरनिरपेक्षेण स्वसामर्थ्येनाऽऽत्मानं स्वस्वरूपं जगदाकारेण विधाय तदेव जगदनुसृत्य शरीरेषु स्वयं चिद्रूपेण प्राविशत् । अस्मिन्नर्थ ऋचमुदाहरति -
तत्तस्मिन्स्वयमेव सृष्ट्वा प्रविष्ट इत्यस्मिन्नर्थे काचिदृक्शाखान्तरेऽभ्यनूक्ता । तामेतामृचं दर्शयति -
ऋतस्य सत्यस्य परब्रह्मणः सकाशात्प्रथममुत्पन्नः प्रजापतिर्लोकान्भूरादीन्विधाय भूतानि प्राणिनश्च विधाय प्राच्याद्या मुख्यदिश आग्नेयाद्या विदिशश्च विधायाऽऽत्मना स्वकीयेन चैतन्येनाऽऽत्मानं स्वशरीररूपं जगदभितः सम्यक्प्रविवेश । इत्यनेन मन्त्रेण काचिदिष्टकोपधेया । तथा च बौधायन आह - “विधाय लोकानिति स्तम्भनवतीम्” इति । यथोक्तसृष्टिवेदनं प्रशंसति -
यः पुमानेवं प्रजापतिसृष्टिप्रकारं विजानाति स पुमान्सर्वमेव जगति विद्यमानमिदं फलं प्राप्य तच्च सर्वं वशीकृत्य तदेव जगदनुप्रविशति । सर्वात्मको भवतीत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके त्रयोविंशोऽनुवाकः ॥२३॥अथ प्रथमप्रपाठके चतुर्विंशोऽनुवाकः

अतीतेनानुवाकद्वयेनापां प्रशंसामुक्त्वाऽस्मिन्ननुवाकेऽबीष्टकानामनुष्ठानविशेष उच्यते । तत्राऽऽदौ सामान्येनापां ग्रहणं विधत्ते -
उपधानार्थं चतुर्विधा आपो ग्रहीतव्याः, अपां रूपाणि निरूपकाणि वस्तूनि मेघादीनि चत्वारि एव । ततः स्तनयित्नुशब्देन गर्जनं विवक्षितम् । अपां चतुर्विधत्वेन मेघादिचतुष्टयमपि स्वाधीनं भवति । तेषु चतुर्विधेषु जलेषु प्रथमं जलविशेषं विधत्ते -
आतपयुक्ते प्रदेशे वर्षेण सम्पन्ना या आपस्ताः पात्रेण केनचिद्गृह्णीयात्, ताश्च गृहीताश्चयनक्षेत्रे पूर्वस्यां दिश्युपदध्यात् । एता आपयुक्ते देशे वृष्टा आप एव प्रकाशोपेतत्वाद्ब्रह्मवर्चसयोग्याः, तासां पुरस्तादुपधानेनाग्नेर्मुख एव ब्रह्मवर्चसमवरुद्धं भवति । यस्मादेवं तस्माल्लोकेऽपि वेदशास्त्रपाठरूपस्य ब्रह्मवर्चसस्य जिह्वावर्तित्वात्पुमान्मुखप्रदेश एवातिशयेन ब्रह्मवर्चसयुक्तो भवति । द्वितीयं जलविशेषं विधत्ते -
कूपे भवाः कूप्याः । तासां बहुविधगृहकृत्योपयोगित्वेन तेजस्विनीत्वम् । तासां दक्षिणदिश्युपधाने सत्यग्नेर्दक्षिणभागे तेजः सम्पादयति । यस्मादेवं तस्माल्लोकेऽपि शरीरे दक्षिणभागोऽतिशयेन तेजस्वी शक्तिमान्भवति । तृतीयं जलविशेषं विधत्ते -
नदीषु क्वचिदगाधो ह्रदो दृश्यते, तत्राऽऽपो न प्रवहन्ति किन्तु स्थिरावस्थितिशीलास्तासां प्रतिष्ठितस्वभावानां पश्चिमदिश्युपधानेन स्वकीयानां सर्वेषां प्रतिष्ठां कृत्वा पश्चात्स्वस्य प्रतिष्ठां करोति । चतुर्थं जलविशेषं विधत्ते -
नद्यां प्रवहन्त्यो या आपस्ता गृहीत्वोत्तरस्यां दिश्युपदध्यात् । एता आपो यदा धावन्ति तदानीमोजसा स्वकीयेन बलेन प्रवाहमध्यपतितान्काष्ठादिपदार्थान्वहन्तीरिवाऽऽकर्षयन्त्य इव भवन्ति, उद्गतीरिव पाषाणादिषु लग्नाः स्वबिन्दुभिरूर्ध्वं गच्छन्त्य इव, आकूजतीरिव तत्र तत्र निम्नोन्नतप्रदेशेषु सञ्चाराच्छब्दं कुर्वन्त्य इव भवन्ति । तस्यैतस्य वहनस्योद्गमनस्याऽऽकूजनस्य चौज एव कारणम्, अत उत्तरस्यां दिश्योज एवाऽऽस्थापयति । यस्मादेवं तस्माल्लोकेऽपि शरीरस्योत्तरो भाग ओजस्वितरः । पूजाहोमादिकार्येषु दक्षिणहस्तस्य तेजस्वित्वं पूर्वमुक्तं पादप्रक्षालनादिषु वामहस्तस्यौजस्वित्वमत्रोच्यते । चतुष्टय्य इत्यस्याः संख्याया उपलक्षणत्वात्षड्विधा आपो द्रष्टव्याः । तत्र पञ्चमं जलविशेषं विधत्ते -
गृहे घटेषु सम्पादनीया आपः सम्भार्याः, ता गृहीत्वा चतसृणां दिशां मध्य उपदध्यात् । सम्भार्याणां घटेष्ववस्थितत्वेन भूमिसदृशत्वादुपधानेन भूम्यामेव प्रतिष्ठितो भवति । षष्ठं जलविशेषं विधत्ते -
यत्र कदाचिदपि जलशोषो नास्ति द्रवमात्रानुवृत्तिः सर्वदा दृश्यते तत्पल्वलं तत्रोत्पन्ना अपो गृहीत्वा मध्ये स्थापितानामिष्टकानामुपरिष्टादुपदध्यात् । पल्वल्यानां कूपादिवत्खननमन्तरेण भूमेरुपर्येव वर्तनात्तदुपधानेन द्युलोके प्रतिष्ठितो भवति । यथोक्तं दिक्षूपधानं प्रशंसति -
दिक्ष्वपां जातत्वादद्भ्यश्चान्नोत्पत्तेर्दिक्षूपधानेनान्नं प्राप्नोति । अस्य चितस्याग्नेरारुणकेतुकनाम निर्वक्ति -
अरुणादिभिस्त्रिविधैर्मुनिभिश्चितत्वात्तत्सम्बन्धेनाऽऽरुणकेतुकत्वम् । यद्यपि वातरशनैरप्ययं चितस्तथाऽप्यरुणानां केतूनां च मुख्यत्वात्तन्नाम्नैव व्यवहारः । उक्तार्थप्रतिपादिकामृचमवतारयति -
तत्तस्मिन्नारुणकेतुकसम्बन्धोऽयमग्निरित्यस्मिन्नर्थे काचिदृक्शाखान्तरे पठिता । तामेतामृचं दर्शयति -
एषा चाऽऽपमापामित्यनुवाके व्याख्याता । इत्यनेन मन्त्रेणापि काञ्चिदिष्टकामुपदध्यात् । तथा च बौधायन आह - “केतव इत्येका” इति । चयनवेदने प्रशंसति -

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके चतुर्विंशोऽनुवाकः ॥२४॥अथ प्रथमप्रपाठके पञ्चविंशोऽनुवाकः
अबीष्टकाः पूर्वानुवाकेऽभिहिताः । तत्र पुष्करपर्णाद्युपधानं विधत्ते । तत्राऽऽदावुत्तरवेदिखननं पूर्वमेव विहितं प्रशंसति -
जानुपरिमाणेन खातायामुत्तरवेद्यां गुल्फपरिमाणेन पूरितमुदकं यदस्ति तेनापां सर्वत्वं सम्पादितं भवति । यस्मात्खातस्याप्युदकमयत्वमपेक्षितं तस्मादितरस्य वस्तुनो जलमयत्वं किमु वक्तव्यमित्यभिप्रायः ।
पुष्करपर्णस्य पवित्रत्वेन तपोरूपत्वाद्रुक्मस्याग्निसंयोगेऽपि विनाशाभावेन सत्यत्वाद्धिरण्मयपुरुषस्याप्यत एवामृतत्वात्त्रयाणामुपधानेन यावत्सारमस्ति तत्सर्वं प्राप्तं भवति । उक्तत्रितयादनन्तरं कूर्मोपधानं विधत्ते -
अपां सम्बन्धी मेघः सारः कूर्मस्तदुपधानेन सारं प्राप्नोति । किञ्च स्वर्गोऽपि प्राप्यते । अथाबीष्टकाविधिं सूचयितुं तन्मन्त्रान्पूर्वमेवाऽऽम्नातान्प्रदर्शयितुं लेशतः पठति -
आपमापामित्यारभ्य वाय्वश्वा इत्यादिभिरबीष्टका उपधेया इति तात्पर्यार्थः । लोकंपृणेष्टकोपधानमन्त्रं दर्शयति -
हे इष्टके लोकं पूर्वमुपधानरहितं स्थानं पृण पूरय, तत्पूरणेन चित्याग्नेश्छिद्रं पृण पूरय । यास्तिस्रः स्वयमातृण्णाः प्रथममध्यमोत्तरचितिषूपधेयतया परमजाः प्रकृष्टमुत्पन्नाः, ता अपि पूरय । मन्त्रान्तरमपि पूर्वमाम्नातमेवोपधानविध्यभिप्रायेण पुनः प्रदर्शयति -
इन्द्रघोषा व इत्यादयो मन्त्रा एवा ह्येवेत्यादयश्च ये मन्त्रा इतिशब्दप्रदर्शिता अन्ये च ये मन्त्रास्तैः सर्वैरुपदध्यादित्यर्थः । चितीनां संख्यां विधत्ते -
जानुप्रमाणेन खातस्य मध्ये पञ्चसंख्याकाश्चितीरुपदध्यात् । गुल्फदघ्नमुदकं पूरयित्वा पर्णैर्दण्डैः कृत्स्नपुष्करैश्च सञ्छाद्य मृन्मयपात्रेष्वपो धृत्वा ता अबीष्टका उपदध्यात् । तत उपर्यपि पूर्ववत्पत्रैर्दण्डैः कृत्स्नपुष्करैश्च च्छादयित्वा पुनरप्यबीष्टका उपदध्यात् । एवं पञ्चकक्ष्याभिरुत्तरवेद्यां पूरितायां तत्र पञ्च चितयः सम्पद्यन्ते । तत्रोर्ध्वैः काष्ठैर्मञ्चकं कृत्वा तस्योपरि पुरीषं प्रसार्य पुरीषस्योपर्यग्निं प्रणीयोपसमाधाय तस्याग्नेश्चतुर्दिक्षु तत्तन्मन्त्रैरबीष्टका उपदध्यात् । एवं कृतेऽग्निः पञ्चचितियुक्तो भवति । आहवनीयगार्हपत्यदक्षिणाग्निसभ्यावसथ्यरूपेण पञ्चसंख्यायोगात्पाङ्क्तोऽग्निः सर्वोऽपि चितो भवति । द्विचितौ विशेषं विधत्ते -
येयं द्वितीया चितिः सेयं लोकंपृणयैवेष्टकोपधेया, सर्वपूरकत्वादियं लोकंपृणा विराड्देहरूपी(पा) । सा च विराण्मूर्तिः पञ्चपादोपेता । लोकत्रयञ्च दिशश्च पादचतुष्टयम् । रजोगुणात्मकस्य संसारस्य परस्ताद्बाह्ये योऽयं चिदात्मा वर्तते परोरजाः, स च पञ्चमः पादः, एवं प्रशस्ता लोकंपृणा । तच्चयनवेदने प्रशंसति -
विराज्येवान्न एव, विराड्देह एव वा ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ॥२५॥अथ प्रथमप्रपाठके षड्विंशोऽनुवाकः
पूर्वानुवाके पुष्करपर्णाद्युपधानमुक्तम् । इह फलविशेषा व्रतविशेषाश्चोच्यन्ते । पूर्वं विहितमेवार्थं पुनर्विशेषकथनायाऽऽदावनुवदति -
एतत्सर्वं योऽपां पुष्पं वेदेत्यनुवाके व्याख्यातम् । अस्याऽऽरुणकेतुकस्य स्वातन्त्र्येण क्रत्वङ्गत्वमाक्षेपसमाधानाभ्यामुपपादयितुं मतद्वयमुपन्यस्यति -
स्वयम्भुवः पुत्रः कश्चिदरुणनामको मुनिरेवमाह स्म । काठकेषु यो यो विहितोऽग्निः सावित्रादिरारुणकेतुकान्तः स सर्वोऽपि सावित्र एव, उत्तरोत्तरेषु पूर्वपूर्वानुषङ्गस्य विद्यमानत्वात् । यो नाचिकेतः स सावित्रपूर्वक एवानुष्ठेयः । चातुर्होत्री(त्रि)यस्तदुभयपूर्वकः । वैश्वसृजस्तत्त्रितयपूर्वकः । आरुणकेतुकस्तच्चतुष्टयपूर्वकः । एवमनुषङ्गे सत्यारुणकेतुकस्येतरनिर(सा)पेक्षस्य स्वातन्त्र्यं नास्ति । सावित्रस्य तु तद्विद्यते । तस्मात्सर्वेष्वनुषक्तत्वात्सर्वोऽपि सावित्र इत्येव व्यवहार्यः । अतस्तस्यैव क्रत्वङ्गत्वं न त्वारुणकेतुकस्य (स्या)स्वतन्त्रस्येत्यरुणस्य मुनेर्मतं तदिदं दूष्यते । ब्रह्मवादिनो वदन्ति सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामह इति, न कोऽप्यग्निरितरत्रानुषज्जति । एतेषामग्नीनां वीर्याणि फलानि नाना पृथगुक्तान्येव । तानि च योऽपां पुष्पमित्यनुवाके संवत्सरं प्रत्यक्षेणामुमादित्यं प्रत्यक्षेणेत्यादिना निरूपितानि । तदेतत्फलनानात्वं प्रपञ्चेन प्रदर्श्यते -
द्वादशाहादिसत्राङ्गत्वेन चीयमानो योऽयं महाग्निः सोऽयं सत्रियः, तं चिन्वानः पुमान्कमग्निं किंफलकमग्निं चिनुत इत्येवं भो अरुणाख्यमुने त्वं विचारय । संवत्सरदेवताप्राप्तिस्तस्य फलम्, इतरेषां त्वन्यदेव पृथक्पृथक्फलमादित्यप्राप्त्यादिरूपम्, अतो नैकफलस्य सम्भावनाऽऽप्यस्तीति किंशब्दस्याभिप्रायः । एवमुत्तरत्रापि योज्यम् । उपानुवाक्यमाशुमग्निमित्यत्र यदेकेनेत्याद्युपानुवाक्यकाण्डोक्तो महानग्निर्विवक्षितः । यद्यसौ सत्रियमिति वाक्येनैव गतार्थस्तर्हि शाखान्तरप्रसिद्धं किञ्चिदग्न्यन्तरमस्तु । तदेव फलनानात्वमतिस्पष्टमिति ब्रह्मवादिनामभिप्रायः । सावित्राग्नेरनुषङ्गपक्षे बाधं दर्शयति -
योऽयमग्न्युपलक्षितोऽग्निचित्सोऽयं वृषा सेक्ता रेतःसेचनेन प्रजामुत्पादयितुं समर्थः, तादृशो यद्यनुषङ्गं कुर्यात्तदानीमस्याग्निचितो वृषणद्वयं कश्चिद्वैरी संस्फालयेत्पीडयेत् । अस्य यज्ञोऽपि विनश्येत् । तस्मात्सावित्राग्निरितरत्र नानुषञ्जनीयः, स्वतन्त्रा एवैते सर्वेऽग्नयः । तस्मादारुणकेतुकस्य स्वातन्त्र्येणैव क्रत्वङ्गत्वं युक्तमित्यर्थः । क्रतुविषये तत्सम्बन्धं विधत्ते -
उत्तरवेदिसहिता ये क्रतवः पशुबन्धादयस्तेष्वेवाऽऽरुणकेतुकमग्निं चिन्वीत न तूत्तरवेदिरहितेष्वग्निहोत्रादिषु । यस्मादयमग्निरुत्तरवेदिस्थाने चीयते तस्मात्तद्रहिते तच्चयनं न युक्तम् । एवं च सत्यस्मादग्निनिषेधात्पूर्वोक्तादग्निहोत्रे दर्शपूर्णमासयोरित्यादिविधानाच्चाग्निहोत्रादावारुणकेतुकस्य विकल्पो द्रष्टव्यः । अथास्य चयनस्य काम्यप्रयोगाः । तत्रैकं काम्यं दर्शयति -
अग्नेः प्रजानां च प्रजापतिसृज्यत्वात्प्राजापत्यत्वं तेन साम्येन प्रजाफलकत्वमग्नेः । अथ द्वितीयं काम्यं दर्शयति -
हे तृषार्ताः पशवो यत्र क्वाप्यपोऽन्विष्य जानन्ति तस्मादापः पशूनां सम्यग्ज्ञानसाधनमतोऽप्सु चयने सति पशूनां ज्ञानसाधन एवाग्निश्चितो भवति । अथ तृतीयं दर्शयति -
चतुर्थं दर्शयति -
तापशान्तिकरत्वादपां भेषजत्वम् । पञ्चमं दर्शयति -
उपरिष्टात्ता आपो वज्री भूत्वेत्येयं वक्ष्यते तस्मादपां वज्रत्वम् । अत्रापामेवोपधेयत्वात्सर्वतः फलसाधनत्वेनापामेव प्रशंसनम् । षष्ठसप्तमाष्टमनवमफलानि दर्शयति -
एतत्प्रजापश्वादिकं स्वर्गान्तं यावत्फलमुक्तमेतावदेव लोकेऽपि विद्यमानमुत्तमं फलम् । अतो यावदुत्तमं फलमस्ति तत्सर्वमनेन चयनेन प्राप्नोति । अथाऽऽरुणकेतुकाग्निचितो नियमविशेषं विधत्ते -
पर्जन्ये वर्षति सति यदा मार्गे गच्छति तदा क्लेदनभीत्या धावनं न कुर्यात् । तत्र करणे चामृतरूपाणामपां परित्यागेन स्वर्गसुखरूपममृतमन्तरितं भवेत्, तन्मा भूदिति न धावेत् । नियमान्तराणि विधत्ते -
एष आरुणकेतुकोऽग्निरबीष्टकाभिर्निष्पाद्यत्वादप्सु गूढो वर्तते । तादृशो मूत्रादिकारिणमतिशयेन दहति । स दाहो मा भूदिति मूत्रादिकं न कुर्यात् । पुरुषार्थत्वेन शास्त्रेषु निषिद्धस्याप्यत्र पुनर्निषेधः श्रौतप्रायश्चित्तार्थः । नियमान्तरं विधत्ते -
पुष्करपर्णस्य हिरण्यस्य वा पादेनाऽऽक्रमणे सति तमग्निमारूढवान्भवेत् । अतस्तदुभयं नाधितिष्ठेत् । नियमान्तरं विधत्ते -

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके षड्विंशोऽनुवाकः ॥२६॥अथ प्रथमप्रपाठके सप्तविंशोऽनुवाकः
कल्पः - “इमा नुकमिति चतस्रः” इति । तत्र प्रथमामाह -
इन्द्रश्च विश्वे देवाश्च वयं चेमा भुवनानि नुकं सीषधेम । सुखनामसु नुकमिति पठितं सुखं यथा भवति तथा साधयाम । अथ द्वितीयामाह -
अयमिन्द्र आदित्यैः सह नोऽस्माकं यज्ञं शरीरं प्रजां च साधयतु । अथ तृतीयामाह -
आदित्यैर्मरुद्भिश्च युक्तत्वात्सगणोऽयमिन्द्रोऽस्माकं तनूनामविता भूतु रक्षिता भवतु । कल्पः - “आप्लवस्वेति सप्तदश क्षपण्यः” इति । तत्र प्रथमामाह -
जशब्देन जन्मवान्यजमान उच्यते । आप्लवनमागमनं जन्म, प्रप्लवनं प्रायणम्, हे यजमान जन्मोपेत मा मुहुराप्लवस्व पुनः पुनर्जन्मलक्षणमागमनं मा कुरु मुहुर्मा प्रप्लवस्व पुनः पुनर्मरणलक्षणं प्रप्लवनं मा कुरु । मा मुहुराण्डी भव आण्डो ब्रह्माण्डमध्य(भव) इत्यर्थः । आण्डीत्यभूततद्भाव उच्यते । पूर्वमनाण्ड इदानीमाण्डीभव त(भूतस्य)स्य निषेधो माशब्देनोच्यते, पुनः पुनर्ब्रह्माण्डवर्तित्वं तव मा भूदित्यर्थः । शेषं स्पष्टार्थम् । अथ द्वितीयामाह -
स्वायम्भुवाः स्वयम्भूः सवितृमण्डलवर्ती परमात्मा तस्येमे स्वायम्भुवाः, ये मरीचयो रश्मयः शरीराण्यात्मोपासकदेहानकल्पयन्कृतवन्तस्ते मरीचयस्ते तव देहं कल्पयन्तु जनयन्तु स्मशब्देनाऽऽवश्यकत्वं द्योतयति । संसारोत्तरणविषया न ते ख्यातिः सर्वथा विनश्यत्वित्यर्थः । अथ तृतीयामाह -
हे ऋत्विजो यूयमुत्तिष्ठतोत्थिता भवत, उत्साहं कुरुतेत्यर्थः । मा स्वप्त स्वप्नं मा कुरुत, अलसा मा भूतेत्यर्थः । भारता हविरादिभरणशीलाः सन्तोऽग्निमारुणकेतुकमिच्छध्वम् । कीदृशा ऋत्विजः । राज्ञो राजमानस्य सोमस्य पानेन तृप्तासस्तृप्ताः, सूर्येण सयुजोषसः समानप्रीतयः । यद्यप्येवंविधा मन्त्रा अनुष्ठेयार्थस्येष्टकोपधानस्य प्रकाशका न भवन्ति तथाऽप्येतदर्थानुस्मरणेन कश्चिददृष्टातिशयो द्रष्टव्यः । अथ चतुर्थ्याः प्रतीकं दर्शयति -
सोऽयं मन्त्रोऽञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातः । अथ पञ्चमीमाह -
पूरिति शरीरमुच्यते । देवानामिन्द्रादीनां पूरष्टाचक्रा । चक्रवदावरणभूतास्त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रौजोरूपा अष्टौ धातवो यस्याः सोयमष्टाचक्रा । शिरोवर्तिभिः सप्तभिर्द्वारैरधोवर्तिभ्यां द्वाराभ्यामुपेता नवद्वारा । अयोध्या कर्मगतिमन्त्रेण केनापि प्रहर्तुमशक्या । तस्यां पुरि हिरण्मयः सुवर्णनिर्मितपदार्थसदृशः कोशोऽवकाशरूपः स्वर्गः सुखमयो लोकः स्थानविशेषो ज्योतिषा भासकेन जीवचैतन्येनाऽऽवृतः परिवेष्टितो वर्तते । अथ षष्ठीमाह -
ब्रह्मणः सत्यं ज्ञानमनन्तमित्यादिश्रुतिप्रतिपादितस्य वस्तुनः सम्बन्धिनीममृतेन परमानन्देनाऽऽवृतां तां पुरीं यो वै यः कोऽपि पुमान्वेद तस्मै विदुषे ब्रह्म च परमात्माऽपि ब्रह्मा च प्रजापतिरपि, चकाराभ्यामन्येऽपि सर्वे देवा आयुरादिकं प्रयच्छन्ति । अथ सप्तमीमाह -
ब्रह्मा प्रजापतिः पुरं शरीरं विवेश प्रविष्टवान् । कीदृशीं पुरम्, विभ्राजमानां विशेषेण राजमानाम्, हरिणीं पापहरणशीलाम्, यशसा जगत्स्रष्टृत्वलक्षणया कीर्त्या सम्परीवृतां सम्यक्परिवेष्टिताम्, हिरण्मयीं सुवर्णनिर्मिताम्, (अपराजिता)कदाचिदपि पराजयरहिताम् । अथाष्टमीमाह -
विद्वान्परब्रह्मतत्ववित्, पराङ्पुनरावृत्तिरहितः, एति ब्रह्मतत्वं प्राप्नोति । कीदृशो विद्वान् । अज्यामयी ज्या वयोहानिः, आमयो व्याधिः, तद्वाञ्ज्यामयी तदुभयराहित्यादयमज्यामयी, नाशकोऽपमृत्युर्बन्धकं कर्म वा तद्योगान्नाशकी तद्राहित्यादनाशकी । देहतादात्म्यभ्रमाभावाद्वयोहानिव्याध्यपमृत्युरहितः पुनरावृत्तिशून्यः सन्ब्रह्म प्राप्नोति । इह चामुत्र च लोकद्वयेऽपि देवासुरानुभयानन्वेति, अनुगच्छति, सर्वात्मको भवतीत्यर्थः । अथ नवमीमाह -
कुमारी विवाहरहिता स्त्री यत्पापं पुरुषसम्भोगरूपमुद्दिश्य मन्द्रयते हर्षं करोति, योषिद्युवतिश्च यत्पापं पुरुषसम्भोगरूपमुद्दिश्य मन्द्रयते हृष्टा भवति, पतिव्रताऽपि स्वभर्तृसंयोगाभावेन क्लिष्टा सती यत्पापं देहत्यागरूपमुद्दिश्य मन्द्रयते । यच्चान्यदपि किञ्चिदरिष्टं दानादिना रेष्टुं विनाशयितुमशक्यं महत्पापमस्य यजमानस्य येन केनापि क्रियते तत्सर्वमयमारुणकेतुकोऽग्निरनुवेधति, अनुक्रमेण विनाशयति । अथ दशमीमाह -
अशृतासोऽपक्वचित्ताः शृतासश्च पक्वचित्ता अपि, यज्वानः श्रुतिस्मृतिविहितकर्मानुष्ठायिनः, येऽप्य(यज्वनो)यज्वानस्तद्विपरीताः, तेषां मध्ये ये पुरुषा इन्द्रं परमैश्वर्ययुक्तं परमात्मानमग्निमारुणकेतुकं च विदुर्याथात्म्येन जानन्ति । ते ज्ञानिनः स्वर्यन्तः स्वर्गं मोक्षं वा प्राप्नुवन्तो ज्ञानव्यतिरिक्तसाधनान्तरं नापेक्षन्ते । अथैकादशीमाह -
यथा लोके वायुना प्रेरिताः सिकताः क्वचित्परस्परं संयन्ति राशिरूपेण संगच्छन्ते, तद्वदेते जीवा रश्मिभी रज्जुस्थानीयैः कर्मभिः समुदीरिताः प्रेरिताः सन्तः कर्मार्जनस्थानीयादस्माल्लोकात्कर्मफलभोगादमुष्माच्च लोकात्तदा तदा निर्गत्य क्वचित्क्वचित्संयन्ति । तेषां सर्वेषामनुग्रहाय परमेश्वरः पृश्निभिः शुक्लैस्तत्वप्रकाशकैर्ऋषिभिर्मन्त्रैरदात्, ज्ञानं प्रयच्छति । अथ द्वादशीमाह -
यमेन नियुक्ताः पुरुषाः पुरातना नूतनाश्च सर्वस्यां भूमौ व्याप्य वर्तन्ते तान्सम्बोध्येदमुच्यते - हे यमदूता ये यूयं पुराणा अत्राग्निक्षेत्रे ये पूर्वं स्थिताः, ये च नूतना ये चात्र स्थ ते सर्वे यूयमपेतास्मात्स्थानातदपगच्छत, वीत परस्परं वियुज्य गच्छत । किंचातो विसर्पतास्मात्स्थानाद्विदूरं गच्छत । अहोभिर्दिवसैरक्तुभी रात्रिभिश्च, अद्भिरबीष्टकाभिर्व्यक्तं विशेषेण सम्बद्धमवसानमिदं स्थानमस्मै यजमानाय यमो ददातु, यमेन दत्ते सति केषुचिदहोरात्रेष्वत्राबीष्टकोपधानं कुर्म इत्यर्थः । अथ त्रयोदशीमाह -
अविभक्तितो नृशब्दो मनुष्यजातिमात्रे ज्ञेयः । परपीडादिना परभृत्यभावादिना जीवन्तो गर्हिताः पुरुषास्ते जातिमात्रान्वयवन्तो नृशब्देनात्र विवक्षिताः । तादृशाः पुरुषा मुणन्तु, अस्मात्स्थानादपगच्छन्तु नृ तादृशानां मनुष्याणामर्यः स्वामी च पातु, इतः स्थानादपेत्यास्मान्पातु । अकृष्टा अकर्मयोग्या दुष्कृतप्रसूताः, ये च कृष्टजा विशुद्धवंशजाता एव सन्तोऽकर्मयोग्या अन्धादयः पातकिनो वा, ते सर्वेऽप्यस्मात्स्थानादपयन्तु । तथा कुमारीषु विवाहरहितासु स्त्रीषु ये हिता गर्भत्वेन स्थापिताः, कनीनीषु कुमार्याः पुत्रीषु, विवाहयुक्तास्वपि ये गर्भत्वेन स्थापिताः, तथा जारिणीषूपपतियुक्तासु स्त्रीषु ये हिता गर्भत्वेन स्थापिताः, ते दुष्टक्षेत्रजाः सर्वेऽप्यस्मादुपधानस्थानादपगच्छन्तु । अथ चतुर्दशीमाह -
रेतःपीताः पीतरेतस्काः पुरुषाः, आण्डपीता अण्डस्पृष्टोदकपायिनः, एवमाद्यभक्ष्यभक्षणाः सर्वेऽपीतोऽपगच्छन्तु । तथाऽङ्गारेषु ये पश्वादयोऽशास्त्रीयमार्गेण हुताः पिपीलिकादयो वा पिशाचादिभावेन जगति वर्तन्ते(ते) सर्वेप्यस्मात्स्थानादपगच्छन्तु । तथा पुत्रपौत्रकाञ्श्रुतवृत्तहीनताकुत्सितान्पुत्रान्पौत्रांश्चोभयानहं युवेऽस्मात्स्थानात्पृथक्करोमि । तथा यमराजगान्यमेन पातयितुं योग्यान्सर्वानप्यपनयामि । अथ पञ्चदश्याः प्रतीकं दर्शयति -
इयं च शाखान्तरीया वैश्वदेवकाण्डे योगे योग इत्यनुवाके समाम्नाता । तत्पाठस्तु “शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषताऽऽयुर्गन्तोः” इति । हे देवा शतमिन्नु शतमपि शरदः संवत्सरा अन्ति अस्माकमन्तिकस्था एव । स्वल्पा एव शतायुः पुरुष इति श्रुत्या शतं शरद आधिक्येन तत्र तत्र प्रशस्यन्ते, अस्माकं तु न पर्याप्ताः । तत्र हेतुरुच्यते - यत्रैषु शतसंवत्सरेषु नोऽस्मदीयानां तनूनां जरसं शरीराणां वयोहानिलक्षणं शैथिल्यं चक्रा हे देवा यूयं कृतवन्तः । किंच यत्र यस्यां जरायां पुत्रासः पुत्राः स्वकीयोदरजाताः स्वेन रक्षिता एव पितरो भवन्ति प्रत्युत पालका भवन्ति । तादृशमायुः कथं पर्याप्तं भवेत् । आस्तां तावदायुषः पर्याप्तिः । हे देवा यूयमायुर्गन्तोस्तादृशमप्यायुः सर्वं प्राप्तुमिच्छा विद्यते तस्मान्मध्या तस्याऽऽयुषो मध्ये नोऽस्मान्मा रीरिषत हिंसितान्मा कुरुत । इति शाखान्तरीयमन्त्रस्यार्थः । अथ षोडशीमाह -
पूर्वोक्तं जगत्कारणमस्ति, अदो ब्रह्म पित्रादीनां सर्वेषां विलबं विशेषेणाऽऽलम्बनम् । विहायसामित्यनेनाऽऽकाशवर्तिनो यक्षगन्धर्वादय उच्यन्ते । अथ सप्तदशीमाह -
प्रकर्षेण यवनं मिश्रीकरणं प्रयवणं कामानां प्रयवणं येन ब्रह्मणा भवति तत्कामप्रयवणम्, मे मम ब्रह्म प्रकामप्रापकमस्तु । हि यस्मात्, अतः सनातनोऽनादिसिद्धः स एव परमात्मैवास्मि । इत्यतः कारणान्नाको दुःखरहितस्थानविशेषो ब्रह्मिश्रवो ब्रह्मविषयवाक्यश्रवणं रायो हिरण्यादयो धनं प्रीतिसाधनं स्त्रीपुत्रादि चेत्येतत्सर्वं ममास्त्विति शेषः । देवीर्देवनशीला आपो यूयमबीष्टका इहास्मिन्कर्मणि पुत्रानाहिताऽऽधत्त सम्पादयत ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके सप्तविंशोऽनुवाकः ॥२७॥अथ प्रथमप्रपाठकेऽष्टाविंशोऽनुवाकः
कल्पः - “विशीर्णीमिति द्वे” इति । तत्र प्रथमामाह -
हेऽग्ने विशीर्णीं शिरोरहितां गृध्रशीर्ष्णीं च गृध्रसमानशिरोयुक्तां च निर्ऋतिं राक्षसीमलक्ष्मीमितोऽस्मात्स्थानादपहथोऽपजहि । परिबाधादिनामकान्निर्ऋतिसम्बन्धिनः पुरुषानप्यपजहि । परिबाधं परितो बाधकं श्वेतकुक्षं श्वेतवर्णकुक्षियुक्तं निजङ्घन्यग्भूतजङ्घायुक्तं शबलोदरं शुक्लवर्णमिश्रितोदरयुक्तम् । अथ द्वितीयामाह -
वाच्यानि जनैर्निन्द्यानि पूर्वोक्तपरिबाधादिरूपाण्यपत्यानि तान्यात्मन इच्छतीति वाच्याया परिबाधादीनां माता काचिदलक्ष्मीः । अस्मदुपद्रवोपायं सम्यक्पश्यन्तीति संदृशः परिबाधादयः । हेऽग्ने स त्वं तान्परिबाधादीन्वाच्यायया मात्रा सह विनाशय । किंच ये विद्वेषिणोऽस्माकमीर्ष्यादीन्दीधिरे दीपयन्ति । अस्मद्गुणानामसहनमीर्ष्या, तेषु दोषारोपोऽसूया, अन्नाभावेन बाधा बुभुक्षा, मन्युरस्मद्विषयः क्रोधः, कृत्याऽस्मद्विषयोऽभिचारः, एतेषामीर्ष्यादीनां दीपनमभिवृद्धिं कुर्वन्तो ये विद्वेषिणोऽस्मान्मारयितुं सम्यक्पश्यन्ति तान्सर्वान्रथेन तदीयेन सह नाशय । कीदृशेन रथेन, किंशुकावता कुत्सिताः शुकाः किंशुकाः प्राण्युपद्रवकारिणः पक्ष्याकारा राक्षसविशेषास्तैर्युक्तेन ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठकेऽष्टाविंशोऽनुवाकः ॥२८॥अथ प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः
कल्पः - “पर्जन्यायेति तिस्रः” इति । तत्र प्रथमामाह -
हे ऋत्विग्यजमानाः पर्जन्याय वृष्ट्यभिमानिदेवार्थं प्रगायत प्रकर्षेण स्तुतिं कुरुत । कीदृशाय दिवस्पुत्राय दिव्युत्पन्नत्वात्पुत्रत्वम् । मीढुषे वृष्टिरूपेण जलस्य सेचकाय । स पर्जन्यदेवो नोऽस्माकं यवसमन्नादिरूपं भक्ष्यं सम्पादयितुमिच्छतु । अथ द्वितीयामाह -
स्वराजे स्वत एव राजमानाय पर्जन्याय पर्जन्यदेवार्थमस्माभिरुक्तमिदं स्तुतिरूपं वचो हृदोऽन्तरमस्तु तदीयचित्ते प्रविष्टमस्तु । तदस्मदीयं वचो युयोत तच्चित्ते हे ऋत्विजो मिश्रयत । वातो वायुरस्मे अस्मासु मयोभूः सुखस्य भावयिता भवतु । विश्वकृष्टयः सर्वेऽपि मनुष्या अस्मासु मयोभुवः सन्तु । ओषधीर्व्रीहियवाद्याः सुपिप्पलाः शोभनफलोपेताः, देवगोपा हविर्द्वारा देवानां पालयित्र्यः सन्तु । अथ तृतीयामाह -
यः पर्जन्यो देवो व्रीहियवाद्योषधीनां गवामश्वानां मनुष्यस्त्रीणां च गर्भं कृणोति करोति । नोऽस्माकं मयोभूरिति शेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः ॥२९॥अथ प्रथमप्रपाठके त्रिंशोऽनुवाकः
कल्पः - “पुनर्मा प्रैत्विति च” इति । तत्र प्रथमामाह -
यदिन्द्रियं भोगेन नष्टं तत्पुनरपि मां प्रत्यैत्वागच्छतु । आयुरपि पुनरैतु । ब्रह्मण इदं ब्राह्मणं ब्रह्मवर्चसं तदपि पुनर्मामैतु । द्रविणं धनमपि पुनर्मामैतु । एतत्सर्वं मम पुनर्वर्धतामित्यर्थः । अथ द्वितीयामाह -
अथा(द्या)स्मिन्दिने मे मदीयं यद्रेतः पृथिवीं प्रत्यस्कान्प्रमादेन स्कन्नमासीत् । ओषधीरपि मदीयं यद्रेतोऽसरत्प्राप्नोत्, ओषधीषु स्कन्नमित्यर्थः । यच्च रेत आपोऽसरदप्सु स्कन्नं, तदिदं रेतः पुनरप्यहमाददे । किमर्थम्, दीर्घायुत्वाय वर्चसे, आयुर्वृद्धये ब्रह्मवर्चसाय च । अथ तृतीयामाह -
मे मदीयं यद्रेतो गर्भाशये प्रकर्षेण सिच्यते मे मदीयं यद्रेतः पुनरप्याजायतेऽपत्यरूपेणोत्पद्यते, तेनापत्येन मां यजमानममृतं सुखयुक्तं कुरु । तेनापत्यरूपेण रेतसा मां सुप्रजसं शोभनपुत्रपौत्रादिप्रजायुक्तं कुरु ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके त्रिंशोऽनुवाकः ॥३०॥अथ प्रथमप्रपाठक एकत्रिंशोऽनुवाकः
अथ वैश्रवणयज्ञमन्त्रा उच्यन्ते । तत्र चतसृभिर्वैश्रणमावाहयेत् । तासु प्रथमामाह -
अत्रानादिसिद्धः कुबेरः सम्बोध्योच्यते - हे कुबेर त्वया गृहीतो यो वैश्रवणो विश्रवसोऽपत्यं स खलु सदा तवाद्भ्यस्तिरोधाऽजायत, अनु(बु)पलक्षितानां त्वदीयकर्मणां तिरोधायक आसीत् । अतो वैश्रवणस्य कर्मतिरोधायकत्वं निवार्य तन्मुखेन नोऽस्मदीयाञ्शत्रूंस्तिरो धेहि विनाशय । ये केचनान्येऽपि अपोऽस्मदीयानि कर्माण्यश्नन्ति तिरो दधति नाशयन्ति तानपि सर्वांस्त्वं तिरो धेहि । अथ द्वितीयामाह -
हे कुबेर वैश्रवणसहितस्त्वं रथमास्थाय नो बलिमस्मदीयां पूजां प्रत्यायाह्यागच्छ । कीदृशं रथम्, सहस्रवन्धुरमराणां सहस्रं यस्मिंश्चक्रे तच्चक्रं सहस्रवत्तद्युक्ता धूर्यस्य रथस्य सोऽयं सहस्रवन्धुरस्तादृशम्, पुरुश्चक्रं बहुचक्रोपेतम्, सहस्राश्वं सहस्रसंख्याकैरश्वैरुपेतम् । तस्य रथस्योपमानमुच्यते - त्वाष्ट्रीं मायां यथा त्वष्ट्रा निर्मिता मायाऽऽश्चर्यकरी तद्वदाश्चर्यकरम् । अथ तृतीयामाह -
यस्मै कुबेराय भूतानि सर्वे प्राणिनो बलिं पूजामावहन्ति सम्पादयन्ति । कीदृशं बलिम्, धनादिरूपम् । धनं मणिमुक्तादिकम् । हस्तिभिः सहितं हिरण्यं हस्तिहिरण्यम् । यज्ञियस्य बलिना पूजनीयस्य तस्य कुबेरस्य सुमतावनुग्रहबुद्धावसामावस्थिता भूयास्म । कीदृशस्य कुबेरस्य, अन्नमुखीमन्नप्रधानां विराजं विविधं राजमानां श्रियं सम्पदं बिभ्रतो धारयतः । अथ चतुर्थीमाह -
सुदर्शनादिनामकास्त्रयः पर्वतास्तस्मिन्नेकैकस्मिन्महागिरौ यत्तव नगरं तत्संहार्यम् । तत्परित्यज्यास्मदनुग्रहार्थमत्रागच्छेत्यर्थः । कीदृशं नगरम्, सतद्वाट्टारगमन्ता । सतं शतं द्वा द्वाराण्यट्टारः(राः) कक्ष्याविशेषा गमन्ता गमनयोग्या रथ्याविशेषाः, शतसंख्याका द्वारविशेषाः कक्ष्याविशेषा रथ्याविशेषाश्च यस्मिन्नगरे तन्नगरं सतद्वाट्टारगन्ता । श्रोतृबुद्धिसमाधानार्थं पूर्वोत्तरग्रन्थौ विभजते -
इत्येवमुक्ता अद्भ्यस्तिरोधेत्यादयो नगरं तवेत्यन्ता मन्त्रा द्रष्टव्याः । अत ऊर्ध्वं यदि बलिं हरेदित्यादिग्रन्थः कल्पः अनुष्टानविधायकब्राह्मणरूपः । तद्विधां दर्शयति -
यदिशब्दप्रयोगाद्बलिहरणं वैकल्पिकमिति गम्यते । तस्मिन्बलिहरणपक्षे हिरण्येत्यादिमन्त्रेण बलिं हृत्वा वक्ष्यमाणमन्त्रेणोपस्थानं कुर्यात् । कुबेरस्य सम्बन्धी वैश्रवणः कौबेरः । हिरण्यं नाभौ यस्यासौ हिरण्यनाभिः, सर्वाभरणभूषित इत्यर्थः । हिरण्यं दुर्लभं कुर्वन्सर्वप्राणिनो विशेषेण तुदति व्यथयतीति वितुदिः । यथोक्तगुणयुक्ताय वैश्रवणायायं बलिर्मया दत्तः, सर्वप्राणिनामधिपतये तस्मै वैश्रवणाय नमोऽस्तु । इत्युक्तो बलिहरणमन्त्रः ।
अत्रैकः क्षत्रशब्दः क्षतात्त्रायत इति व्युत्पत्या पालकत्वं ब्रूते । द्वितीयः क्षत्रशब्दो जातिवाची । अयं वैश्रवणः क्षत्रं क्षत्रं पालकः क्षत्रियजातियुक्तश्च । वयं तु यजमाना ब्राह्मणजातियुक्तास्तेन पालनीयाः स्मः, अतस्ते वैश्रवणाय नमोऽस्तु मा मा हिँसीः हिंसितं मा कुरु । यस्माद्वयं ब्राह्मणत्वेन नमस्कर्तृत्वेन च त्वया पालनीया अस्मात्कारणादत्र बलिस्थाने प्रविश्यान्नमस्माभिर्दत्तं बलिरूपमद्धि । भक्षय इति, असावुपस्थानमन्त्रः । अग्निस्थापनं विधत्ते -
यस्मिन्नग्नौ वैश्रवणबल्याख्यमेतत्कर्म प्रयुज्यते तमग्निं पूर्वोक्तोपस्थानानन्तरं बूमौ स्थापयेत् । स्थापनीयं मन्त्रं दर्शयति -
हेऽग्ने भूस्तिरोधा भूर्लोकं स्वतेजसाऽऽच्छादय, एवं भुवर्लोकस्वर्लोकावेकैकशः, समुदायरूपेणापि सर्वान्व्याप्नुहि । व्याप्य च सर्वेषामेतेषां लोकानामाधिपत्येऽधिकपालननिमित्तं सीदात्रोपविश । इति अयमग्निस्थापनमन्त्रः । समिन्धनं विधत्ते -
पूर्ववद्व्याख्येयम् । समिन्धनमन्त्रान्दर्शयति -
स्वाहा समिदियं स्वाहुतमस्तु । अन्यत्पूर्ववत् । अस्य वैश्रवणयज्ञस्य कालविशेषं दर्शयति -
अस्याऽऽरुणकेतुकस्य सम्बन्धिनो(न्यो) ब्राह्मणमुखीनाः “रुद्रो वा एष यदग्निः स एतर्हि जातः” इत्यादिब्राह्मणप्रतिपादिताः शतरुद्रीयादयः सर्वा अप्याहुतयो यस्मिन्काले हुता भवेयुः, तदहःसम्बन्धिनि तस्मिन्काले वैश्रवणयज्ञं प्रयुञ्जीत । वेपि, अपि वा सुप्तजनात्परः सर्वेषु जनेषु सुप्तेषूत्तरस्मिन्काले । एतदीयग्रन्थाध्ययने नियमं दर्शयति -
प्रमाद्यन्तं प्रमादयुक्तं दुर्वृत्तं पुरुषम् । इदं वैश्रवणबलिकर्म गुरुमुखादजानतां पुरुषाणां क्षुध्यन्क्षुध्यतामन्नाभावेन दरिद्राणां न केऽपि कामाः सिध्यन्ति, अन्नमपि तैर्न लभ्यते कुतोऽन्यत्का(का)मप्राप्तिरित्यर्थः । अथ बलिहरणमन्त्रं दर्शयति -
हे कुबेर विघातुकः सर्वेषां हिरण्यलाभविघ्नकरणशीलस्ते तव यो भ्राता वैश्रवणः सोऽयं ममान्तर्हृदये ध्येयत्वेनाश्रितः । तस्मै वैश्रवणायेममग्रपिण्डं श्रेष्ठपिण्डं जुहोमि । स वैश्रवणो मेऽर्थान्मदीयान्हिरण्यलाभादीन्पुरुषार्थान्मा विवधीन्मा विनाशयतु, किंतु मयि सम्पादयतु तदर्थमिदं स्वाहुतमस्तु । अथोपस्थानमन्त्रमाह -
राज्ञां सर्वेषामधिकत्वेन यो राज्य(जा)स्वामी सोऽयं राजाधिराजस्तस्मै, बलात्कारेण सर्वेषां लाभानां योऽभिभविता प्रतिबन्धकः स प्रसह्यसाही तस्मै, वैश्रवणाय वयं यजमाना नमस्कुर्महे । कामेश्वरः सर्वेषां कामानां स्वामी स वैश्रवणः कामकामाय बलभोगार्थिने मह्यं मे कामान्मदपेक्षितान्सर्वान्भोगान्ददातु । कुबेररूपाय महाराजाय वैश्रवणाय नमोऽस्तु केतव इत्यादिकं (तै. आ. अ. २१) व्याख्यातम् । अस्य च वैश्रवणयज्ञस्याऽऽरुणकेतुकान्तः प्रयोगो बहिश्च स्वातन्त्र्येण प्रयोग इत्युभयप्रकारो विद्यते । तच्च सर्वाहुतिहोमान्ते बौधायनेन दर्शितम् - “वैश्रवणयज्ञो ब्राह्मणेन व्याख्यातोऽन्नकामस्य सर्वकामस्य वा पर्वणि पर्वणि वैश्रवणयज्ञः । सोत्तरवेदिषु क्रतुषु चिन्वीतेति यथाब्राह्मणम्” इत्यादि ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ॥३१॥अथ प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः
अथाऽरुणकेतुकचयनाङ्गव्रतं विधत्ते -
यो ह्यारुणकेतुकमग्निं चेतुमिच्छति सोऽधिकारसिध्यर्थमादौ संवत्सरं वा मासद्वयं वा वक्ष्यमाणं व्रतमनुतिष्ठेत् । व्रतशब्दार्थमाह -
योऽयं नियमस्वीकारः, तदेव व्रतम् । एतच्च समासेन संक्षेपेण दर्शितम् । अथ विस्तारं प्रतिज्ञापूर्वकं दर्शयति -
नियमो व्रतमित्येवं सामान्यलक्षणमुक्तं तस्मिन्व्रतेऽनुष्ठेया नियमविशेषाः क्रमेणोच्यन्ते - सूयते सोमोऽत्रेति सवनं तत्त्रिविधं प्रातर्मध्यन्दिनसायंकालभेदात् । तस्मिन्सवनत्रय उदकमुपस्पृशेत्, स्नायादित्यर्थः । पानं क्षीरादिविषयं भक्तमन्नं तदुभयमपि प्रतिदिनं कालद्वये स्वीक्रियते । तस्माद्द्विरह्नो मनुष्येभ्य उपह्रियते । प्रातश्च सायं चेत्याम्नातत्वात् । तथा प्रातर्भुक्तवतः सायं द्वितीयः कालः, परेद्युः प्रतःकालस्तृतीयः, तत्रैव सायं चतुर्थः कालः, मध्यवर्तिनौ द्वितीयतृतीयकालौ परित्यज्य तस्मिंश्चतुर्थकाले पानं भक्तं च यस्यासौ चतुर्थकालपानभक्तः, तथाविधो भवेत् । अथवा प्रतिदिनं भिक्षित्वा तदन्नं भुञ्जीत, सोऽयं पक्षोऽशक्तविषयः । उदुम्बरवृक्षजन्याभिः समिद्भिरग्निपरिचर्यां कुर्यात् । तस्मिन्समिदाधाने मन्त्राः “पुनर्मा मैत्विन्द्रियम्” इत्येतेनानुवाकेनोक्ताः । स चानुवाकः पूर्वमेव व्याख्यातः । आपो नदीतडागादिभ्यः पात्रेणोद्धृता वस्त्रेण शोधिताश्च ताभिः पादप्रक्षालनाचमनादिकं कुर्यान्न तु नद्यादौ । यत्किञ्चित्संचयो भिक्षापात्रादन्यत्र भक्ष्यादिवस्तुसङ्ग्रहः, तद्युक्तो न भवेत् । प्रतिदिनमग्न्यादिभ्यो देवताभ्यो होमं कुर्यात् । व्रतहोमनियुक्तत्वात्स्वाहाकारोऽर्थलभ्यः । ततोऽग्नये स्वाहा वायवे स्वाहेत्यादयो मन्त्राः सम्पद्यन्ते । आदिश्यते विधीयत इत्यादेशोऽनुष्ठेयोऽर्थः, स च प्रवर्ग्यवदत्रावगन्तव्यः, प्रवर्ग्यादध्ययनादौ ये धर्मास्तेऽत्राप्यनुष्ठेयाः । ते च प्रवर्ग्यधर्मा आपस्तम्भेन सूत्रिताः - “संवत्सरमेतद्व्रतं चरेदेतस्मिन्संवत्सरेऽधीयीत यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्संवत्सरेऽखिले छदिर्देशेऽग्निमुपसमाधाय सम्परिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य” इत्यादयः । तानेतान्धर्मानाचरेत् । अरुणाख्या (ये) अत्र काण्ड ऋषयस्तेऽपि होतव्या इत्यर्थः । अथाऽऽरुणकेतुकचयनप्रतिपादकस्य ग्रन्थस्याध्ययने नियमान्मिधत्ते -
सोऽयं ग्रन्थोरण्य एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्यर्थं भद्रं कर्णेभिरिति द्वे ऋचौ जपेत् । आपामापामित्येताभिर्महानाम्नीभिर्ऋग्भिरध्येतारं माणवकमुदकं स्पर्शयेत् । ततस्तं माणवकमाचार्यो दद्यात्, व्रताय नियुञ्जीत । शिवा न इति मन्त्रेणौषधीः स्पृशेत् । सुमृडीका सरस्वतीति मन्त्रेण भूमिं स्पृशेत् । यथाऽध्ययनस्योपक्रमे सर्वमेतदनुष्ठितमेवमध्ययनस्यावसानेऽपि सर्वमेतदनुतिष्ठेत् । कृत्स्नाध्ययनस्य समाप्तावाचार्याय धेनुर्दक्षिणा देया, भोजनार्थं कांस्यपात्रं देयम्, प्रावरणार्थं क्षौमं वस्त्रं देयम्, तदशक्तावन्यत्कार्पासमयं शुक्लं वस्त्रं देयम्, अत्यन्तमशक्तेन यथाशक्ति किमपि देयम्, एवमेवमुक्तेनाध्ययनधर्मेण युक्तः सन्नरण्ये गुरुमुखाद्ग्रन्थमधीयीत । एवमधीयानो व्रतनियमानुष्ठानात्तपोयुक्तो भवति । अभ्यासोऽयं मङ्गलार्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक द्वात्रिंशोऽनुवाकः ॥३२॥

इति श्रीमद्वीरबुक्कणसाम्राज्यधुरन्धरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये प्रथमः प्रपाठकः समाप्तः ॥१॥