प्रश्ने२एगळु १ रिन्द ६
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
आरण्यके प्रथमः प्रश्नः १
० भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑
। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥
१ ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑
। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आप॑मापाम॒पः
सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ॥ ०। १। १। १॥
२ अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह सं॑चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑
रश्मि॒पत॑यः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ।
दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ ०। १। १। २॥
३ अ॒पाश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णिम॒पारघम्॑ । अपा॑घ्रा॒मप॑
चा॒वर्ति॑म् । अप॑दे॒वीरि॒तो हि॑त । वज्रं॑ दे॒वीरजी॑ताग्श्च । भुव॑नं
देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त । शि॒वा नः॒
शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒
व्यो॑म सं॒दृशि॑ ॥ ०। १। १। ३॥ अ॒मुतः॑ सु॒तौष॑धयो॒ द्वे च॑ ॥ १॥
४ स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्य॑म् । अनु॑मानश्चतुष्ट॒यम् । ए॒तैरादि॑त्यमण्डलम्
। सर्वै॑रेव॒ विधा॑स्यते । सूऱ्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा॑द्भुव॑नाद॒धि ।
तस्याः पाकवि॑शेषे॒ण । स्मृ॒तं का॑लवि॒शेष॑णम् । न॒दीव॒ प्रभ॑वात्का॒चित् ।
अ॒क्षय्या॑त्स्यन्द॒ते य॑था ॥ ०। १। २। ४॥
५ तान्नद्योऽभिस॑माय॒न्ति । सो॒रुस्सती॑ न नि॒वर्त॑ते । ए॒वन्ना॒नास॑मुत्था॒नाः
। का॒लास्सं॑वत्स॒रँ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑
समव॒यन्त्रि॑तम् । सतै॑स्स॒र्वैः स॑मावि॒ष्टः । ऊ॒रुस्स॑न्न नि॒वर्त॑ते ।
अधिसंवत्स॑रं वि॒द्यात् । तदेव॑ लक्ष॒णे ॥ ०। १। २। ५॥
६ अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । संवत्सरः
प्र॑त्यक्षे॒ण । ना॒धिस॑त्त्वः प्र॒दृश्य॑ते । प॒टरो॑ विक्लि॑धः पि॒ङ्गः ।
ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ।
एकँहि शिरो ना॑ना मु॒खे । कृ॒त्स्नं त॑दृतु॒लक्ष॑णम् ॥ ०। १। २। ६॥
७ उभयतस्सप्ते॑न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते । शुक्लकृष्णे संव॑त्सर॒स्य
। दक्षिणवाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं
ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः
। भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । नात्र॒ भुव॑नम् । न पू॒षा ।
न प॒शवः॑ । नादित्यस्संवत्सर एव प्रत्यक्षेण प्रियत॑मं वि॒द्यात् । एतद्वै
संवत्सरस्य प्रियत॑मँ रू॒पम् । योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति ।
इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ ०। १। २। ७॥ य॒था॒ ल॒क्ष॒ण
ऋ॑तु॒लक्ष॑णं॒ भुव॑नँ स॒प्त च॑ ॥ २॥
८ सा॒कं॒जानाँ॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः
। को नु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते ।
यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑यम् । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति ॥ ०। १। ३। ८॥
९ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ । ऋ॒तुरृ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिँश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒
षाष्टि॑कौ । सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिस्स॒ह
। सं॒व॒त्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॑तः ।
अ॒मूना॒दय॑तेत्य॒न्यान् ॥ ०। १। ३। ९॥
१० अ॒मूग्श्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रैत॑दुप॒दृश्य॑ते
। ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒पर्य॑ये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः ।
ऋ॒तूनां॑ तन्नि॒बोध॑त । शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह ।
नि॒जह॑न्पृथि॑वीँ स॒र्वाम् ॥ ०। १। ३। १०॥
११ ज्यो॒तिषा॑ऽप्रति॒ख्येन॑ सः । वि॒श्व॒रू॒पाणि॑ वासाँ॒सि । आ॒दि॒त्यानां॑
नि॒बोध॑त । संवत्सरीणं॑ कर्म॒फलम् । वर्षाभिर्द॑दताँ॒ सह । अदुःखो॑
दुःखच॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना॑व्यथ॑यन्नि॒व ।
रु॒रुद॑क्ष इव॒ दृश्य॑ते । ह्लादयते॑ ज्वल॑तश्चै॒व । शा॒म्यत॑श्चास्य॒
चक्षु॑षी । या वै प्रजा भ्रँ॑श्य॒न्ते । संवत्सरात्ता भ्रँ॑श्य॒न्ते । याः॒
प्रति॑तिष्ठ॒न्ति । संवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य॑ इत्य॒र्थः ॥
०। १। ३। ११॥ शृ॒णो॒त्य॒न्यान्स॒र्वामे॒व षट्च॑ ॥ ३॥
१२ अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑णं ना॒स्ति ।
ऋ॒भूणां॑ तन्नि॒बोध॑त । क॒न॒का॒भानि॑ वासाँ॒सि । अ॒हता॑नि नि॒बोध॑त
। अन्नमश्नीत॑ मृज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः । ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒दृश्य॑ते ॥ ०। १। ४। १२॥
१३ अभिधून्वन्तोऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः । अमुतो जेतुमिषुमु॑खमि॒व
। सन्नद्धास्सह द॑दृशे॒ ह । अपध्वस्तैर्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑
कप॒र्दिनः । अक्रुद्धस्य योत्स्य॑मान॒स्य । क्रु॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी
वि॒द्यात् । अ॒क्ष्णयोः॑, क्षिप॒णोरि॑व ॥ ०। १। ४। १३॥
१४ दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः
प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः । ता अ॒ग्निः पव॑माना॒ अन्वै॑क्षत
। इ॒ह जी॑वि॒कामप॑रिपश्यन् । तस्यै॒षा भव॑ति । इ॒हेह व॑स्स्वत॒पसः ।
मरु॑त॒स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ ०। १। ४। १४॥ दृश्य॑त
इ॒वाऽऽवृ॑णे ॥ ४॥
१५ अति॑ता॒म्राणि॑ वासाँ॒सि । अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च । विश्वे देवा
विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त । नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒
विभुः । नाग्निर्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्चन॒ विद्य॑ते । दि॒व्यस्यैका॒
धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ ०। १। ५। १५॥
१६ तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑मछि॒नत्स्व॑यम् । तदि॑न्द्र॒धनु॑रित्य॒ज्यम् ।
अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शंयोर्बार्ह॑स्पत्य॒स्य । ए॒तद्रु॑द्रस्य॒ धनुः
। रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ऽभवत् ।
तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति
। नैनँ॑ रु॒द्र आरु॑को भवति । य ए॒वं वेद॑ ॥ ०। १। ५। १६॥ श्रि॒ता यज॑ते॒
त्रीणि॑ च ॥ ५॥
१७ अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूपं न॑
वासाँ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते । अ॒न्योन्यं॒ तु न॑ हिँस्रा॒तः ।
स॒तस्त॑द्देव॒लक्ष॑णम् । लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒नं
प्र॑ति । त्वं करोषि॑न्यञ्ज॒लिकाम् । त्वं॒ करो॑षि नि॒जानु॑काम् ॥ ०। १। ६। १७॥
१८ निजानुका मे॑न्यञ्ज॒लिका । अमी वाचमुपास॑तामि॒ति । तस्मै सर्व ऋतवो॑ नम॒न्ते ।
मर्यादाकरत्वात्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द । स खलु संवत्सर
एतैस्सेनानी॑भिस्स॒ह । इन्द्राय सर्वान्कमान॑भिव॒हति । स द्र॒प्सः । तस्यै॒षा
भव॑ति ॥ ०। १। ६। १८॥
१९ अव॑द्र॒प्सो अँ॑शु॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभिः॑
स॒हस्रैः॑ । आव॒र्तमिन्द्रः॒ शच्या॒ धम॑न्तम् । उपस्नुहि तं नृमणामथ॑द्रामि॒ति ।
एतयैवेन्द्रः सलावृ॑क्या स॒ह । असुरान्प॑रिवृ॒श्चति । पृथि॑व्यँ॒शुम॑ती
। ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ । नैवं विदुषाऽऽचार्या॑न्तेवा॒सिनौ ।
अन्योन्यस्मै॑ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गाल्लो॒कात् । इत्यृतुम॑ण्डला॒नि
। सूर्यमण्डला॑न्याख्या॒यिकाः । अत ऊर्ध्वँ स॑निर्व॒चनाः ॥ ०। १। ६। १९॥ नि॒
जानु॑कां॒ भव॑ति द्रुह्या॒तां पञ्च॑ च ॥ ६॥
२० आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमा॑न् विभा॒सः । ते अस्मै
सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । कश्य॑पोऽष्ट॒मः । स
महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति । यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥
०। १। ७। २०॥
२१ तस्मिन्राजानमधिविश्रये॑ममि॒ति । ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते । तान्त्सोमः
कश्यपादधि॑ निर्ध॒मति । भ्रस्ताकर्मकृ॑दिवै॒वम् । प्राणो जीवानीन्द्रिय॑जीवा॒नि ।
सप्त शीर्ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः । अपश्यमहमेतान्स्थप्त सू॑र्यानि॒ति ।
पञ्चकर्णो॑ वात्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ ०। १। ७। २१॥
२२ आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते । न हि शेकुमिव महामे॑रुं
ग॒न्तुम् । अपश्यमहमेतत्सूर्यमण्डलं परिव॑र्तमा॒नम् । गा॒र्ग्यः प्रा॑णत्रा॒तः
। गच्छन्त म॑हामे॒रुम् । एकं॑ चाज॒हतम् । भ्राजपटरपत॑ङ्गा नि॒हने ।
तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ ०। १। ७। २२॥
२३ अ॒मुत्रे॒तरे । तस्मा॑दि॒हातप्त्रि॑तपाः । तेषा॑मेषा॒ भव॑ति । स॒प्त सूर्या॒
दिव॒मनु॒प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावा॑न् । ते अस्मै सर्वे
घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः ।
तेषा॑मेषा॒ भव॑ति । स॒प्त दिशो॒ नाना॑सूर्याः ॥ ०। १। ७। २३॥
२४ स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त । तेभिः सोमाभीरक्ष॑ण इ॒ति
। तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू॑न् करो॒ति । एत॑यैवा॒वृता सहस्रसूर्यताया इति
वै॑शम्पा॒यनः । तस्यै॒षा भव॑ति । यद्द्याव॑ इन्द्र ते श॒तँश॒तं भूमीः॑ ।
उ॒त स्युः । नत्वा॑ वज्रिन्त्स॒हस्रँ॒ सूर्याः॑ ॥ ०। १। ७। २४॥
२५ अनुनजातमष्ट रोद॑सी इ॒ति । नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् । अष्टौ
तु व्यवसि॑ता इ॒ति । सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् । तेषा॑मेषा॒ भव॑ति ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ ०। १। ७। २५॥
सा॒कं प्ला॒क्षिस्तप्त्रि॑तपा॒ नाना॑सूर्याः॒ सूर्या॒ नव॑ च ॥ ७॥
२६ क्वेदमभ्र॑न्निवि॒शते । क्वायँ॑ संवत्स॒रो मि॑थः । क्वाहः क्वेयन्दे॑व रा॒त्री
। क्व मासा ऋ॑तवः॒ श्रिताः । अर्धमासा॑ मुहू॒र्ताः । निमेषास्त्रु॑टिभि॒स्सह । क्वेमा
आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति । काला अप्सु नि॑विश॒न्ते । आ॒पस्सूर्ये॑
स॒माहि॑ताः ॥ ०। १। ८। २६॥
२७ अभ्रा॑ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युत्सूर्ये॑ स॒माहि॑ता । अनवर्णे इ॑मे भू॒मी ।
इ॒यं चा॑सौ च॒ रोद॑सी । किँस्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे
। वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑त्सस्य॒ वेद॑ना । इरा॑वती धेनु॒मती॒
हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये॑ ॥ ०। १। ८। २७॥
२८ व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑
। किन्तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् । एको॑ य॒द्धार॑यद्दे॒वः
। रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षरा॑द्दीप्ति॒रुच्य॑ते ।
त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥ ०। १। ८। २८॥
२९ अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् । पृच्छामि त्वा प॑रं मृ॒त्युम्
। अ॒वमं॑ मध्य॒मञ्च॑तुम् । लो॒कञ्च॒ पुण्य॑पापा॒नाम् । ए॒तत्पृ॑च्छामि॒
सम्प्र॑ति । अ॒मुमा॑हुः प॑रं मृ॒त्युम् । प॒वमा॑नं तु॒ मध्य॑मम् । अ॒ग्निरे॒वाव॑मो
मृ॒त्युः । च॒न्द्रमा॑श्चतु॒रुच्य॑ते ॥ ०। १। ८। २९॥
३० अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् । पा॒पास्सं॑यन्ति॒ सर्व॑दा । आभोगास्त्वेव॑
संय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः । ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुम॑ग्निं
च॒ सम्प्र॑ति । पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः । त्वं
नस्तद्ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे॑त्थास॒तो गृ॑हान् ॥ ०। १। ८। ३०॥
३१ क॒श्यपा॑दुदि॑तास्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा । रोदस्योरन्त॑र्देशे॒षु ।
तत्र न्यस्यन्ते॑ वास॒वैः । तेऽशरीराः प्र॑पद्य॒न्ते । य॒थाऽपु॑ण्यस्य॒ कर्म॑णः ।
अपा॑ण्य॒पाद॑केशा॒सः । त॒त्र ते॑ऽयोनि॒जा ज॑नाः । मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते
। अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ०। १। ८। ३१॥
३२ आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः । अपै॑तं मृ॒त्युं ज॑यति
। य ए॒वं वेद॑ । स खल्वैवं॑ विद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति ।
कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः । तस्यै॒षा भव॑ति । आ
यस्मि॑न्त्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ ०। १। ८। ३२॥
३३ ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति । कश्यपः पश्य॑को
भ॒वति । यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् । अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा
भव॑ति । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान्
। यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं वि॑धेमे॒ति ॥ ०। १।
८। ३३॥ स॒माहि॑ता दश॒स्ये॑ उत्त॑म॒मुच्य॑ते गृहान्त्स्व॒कर्म॑भिः पू॒र्व्या॑
रुह॑ इ॒ति ॥ ८॥
३४ अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च ।
प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् । एतेऽष्टौ वसवः,
क्षि॑ता इ॒ति । यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः । नीलार्चिश्च पीतका॑र्चिश्चे॒ति ।
अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमाना व्य॑वदा॒ताः ॥ ०। १। ९। ३४॥
३५ याश्च वासु॑किवै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः । ऊर्ध्वा
अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश । नैनं वैद्युतो॑ हिन॒स्ति । य ए॑वं
वे॒द । स होवाच व्यासः पा॑राश॒र्यः । विद्युद्वधमेवाहं मृत्युमै॑च्छमि॒ति ।
न त्वका॑मँ ह॒न्ति ॥ ०। १। ९। ३५॥
३६ य ए॑वं वे॒द । अथ ग॑न्धर्व॒गणाः । स्वान॒भ्राट् । अङ्घा॑रि॒र्बम्भा॑रिः
। हस्त॒स्सुह॑स्तः । कृशा॑नुर्वि॒श्वाव॑सुः । मूर्धन्वान्त्सू॑र्यव॒र्चाः ।
कृतिरित्येकादश ग॑न्धर्व॒गणाः । देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑
गर॒गिरः ॥ ०। १। ९। ३६॥
३७ नैनं गरो॑ हिन॒स्ति । य ए॑वं वे॒द । गौ॒रीमि॑माय सलि॒लानि॒ तक्ष॑ती
। एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ ।
सहस्राक्षरा परमे व्यो॑मन्नि॒ति । वाचो॑ विशे॒षणम् । अथ निगद॑व्याख्या॒ताः ।
ताननुक्र॑मिष्या॒मः । व॒राहव॑स्स्वत॒पसः ॥ ०। १। ९। ३७॥
३८ वि॒द्युन्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा॑श्चेत्ये॒ते । ये॒
चेमेऽशि॑मिवि॒द्विषः । पर्जन्यास्सप्त पृथिवीमभिव॑र्ष॒न्ति । वृष्टि॑भिरि॒ति ।
एतयैव विभक्तिवि॑परी॒ताः । स॒प्तभि॒र्वातै॑रुदी॒रिताः । अमून् लोकानभिव॑र्ष॒न्ति ।
तेषा॑मेषा॒ भव॑ति । स॒मा॒नमे॒तदुद॑कम् ॥ ०। १। ९। ३८॥
३९ उ॒च्चैत्य॑व॒चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्त्यग्न॑य इ॒ति
। यदक्ष॑रं भू॒तकृ॑तम् । विश्वे॑ देवा उ॒पास॑ते । म॒हर्षि॑मस्य गो॒प्तार॑म्
। ज॒मद॑ग्नि॒मकु॑र्वत । ज॒मद॑ग्नि॒राप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः ।
राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ॥ ०। १। ९। ३९॥
४० ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ । तच्छं॒योरावृ॑णीमहे
। गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॑स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे॑ । शं
चतु॑ष्पदे । सोमपा३ असोमपा३ इति निगद॑व्याख्या॒ताः ॥ ०। १। ९। ४०॥ व्य॒व॒दा॒ता
ह॒न्ति ग॑र॒गिरस्त॒पस उद॑कं तृ॒प्तास॒श्चतु॑ष्पद॒ एकं॑ च ॥ ९॥
४१ स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं व्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑
नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती । जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता
अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् । शु॒क्रं
वा॑म॒न्यद्य॑ज॒तं वा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ०। १। १०। ४१॥
४२ विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ । भ॒द्रा वां॑ पूषणावि॒ह रा॒तिर॑स्तु ।
वासा॑त्यौ चि॒त्रौ जग॑तो नि॒धानौ॑ । द्यावा॑भूमी च॒रथः॑ सँ॒ सखा॑यौ
। ताव॒श्विना॑ रा॒सभा॑श्वा॒ हवं॑ मे । शु॒भ॒स्प॒ती॒ आ॒गतँ॑ सू॒र्यया॑
स॒ह । त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे । र॒यिन्न कश्चि॑न्ममृ॒वां २ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ०। १।
१०। ४२॥
४३ ति॒स्रः, क्षप॒स्त्रिरहा॑ऽति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः
पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भीरथैः॑
श॒तप॑द्भिः॒ षड॑श्वैः । स॒वि॒तारं॒ वित॑न्वन्तम् । अनु॑बध्नाति शाम्ब॒रः ।
आपपूरुषम्ब॑रश्चै॒व । स॒विता॑ऽरेप॒सो॑ भवत् । त्यँ सुतृप्तं वि॑दित्वै॒व
। ब॒हुसो॑म गि॒रं व॑शी ॥ ०। १। १०। ४३॥
४४ अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्त्सोम॑तृप्सु॒षु । स सङ्ग्रामस्तमो॑द्योऽत्यो॒तः
। वाचो गाः पि॑पाति॒ तत् । स तद्गोभिस्स्तवा॑ऽत्येत्य॒न्ये । र॒क्षसा॑ऽनन्वि॒ताश्च॑
ये । अ॒न्वेति॒ परि॑वृत्या॒स्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑पृथि॒व्योः
। अह॑रह॒र्गर्भ॑न्दधाथे ॥ ०। १। १०। ४४॥
४५ तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑
। ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ।
अ॒ग्निश्चा॑दि॒त्यश्च॑ । रा॒त्रेर्व॒त्सः । श्वे॒त आ॑दि॒त्यः । अह्नो॒ऽग्निः ॥ ०।
१। १०। ४५॥
४६ ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ
। वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ । ता
अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ॥ ०। १। १०। ४६॥
४७ उ॒ष्मा च॑ नीहा॒रश्च॑ । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ
तावे॒व प्रति॑पद्येते । सेयँ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति । तस्या॒
वा ए॒तदु॒ल्बण॑म् । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण॑म् ।
ए॒वमे॒तस्या॑ उ॒ल्बण॑म् । प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति । य ए॑वं
वे॒द । एतमुद्यन्तमपिय॑न्तं चे॒ति । आदित्यः पुण्य॑स्य व॒त्सः । अथ पवि॑त्राङ्गि॒रसः
॥ ०। १। १०। ४७॥ स्थोऽपो॑दकाभिर्वशी दधाथे अ॒ग्निस्तयो॑रे॒तौ व॒त्सौ भ॒वति
च॒त्वारि॑ च ॥ १०॥
४८ प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां॑ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम्
। म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ॑म् ।
प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते॑ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑
। अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत । ब्र॒ह्मा
दे॒वाना॑म् । अस॑तस्स॒द्ये तत॑क्षुः ॥ ०। १। ११। ४८॥
४९ ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च । नक्ष॑त्रैः॒
शङ्कृ॑तोऽवसन् । अथ॑ सवितुः॒ श्यावाश्व॒स्यावर्ति॑कामस्य । अ॒मी य ऋक्षा॒
निहि॑तास उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य
व्र॒तानि॑ । वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति । तत्स॑वि॒तुर्वरे॑ण्यम् ।
भर्गो॑ दे॒वस्य॑ धीमहि ॥ ०। १। ११। ४९॥
५० धियो॒ यो नः॑ प्रचो॒दया॑त् । तत्स॑वि॒तुर्वृ॑णीमहे । व॒यन्दे॒वस्य॒ भोज॑नम्
। श्रेष्ठँ॑सर्व॒धात॑मम् । तुरं॒ भग॑स्य धीमहि । अपा॑गूहत सविता॒ तृभी॑न्
। सर्वा॑न्दि॒वो अन्ध॑सः । नक्त॒न्तान्य॑भवन्दृ॒शे । अस्थ्य॒स्थ्ना सम्भ॑विष्यामः ।
नाम॒ नामै॒व ना॒म मे॑ ॥ ०। १। ११। ५०॥
५१ नपुँस॑कं॒ पुमा॒ग्स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः ।
य॒जेऽयक्षि॒ यष्टा॒हे च॑ । मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि
। अनूबन्ध्योऽस्म्य॑हं वि॒भुः । स्त्रिय॑स्स॒तीः । ता उ॑ मे पुँ॒स आ॑हुः ।
पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः । क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत ॥ ०। १। ११। ५१॥
५२ यस्ता वि॑जा॒नात्स॑वि॒तुः पि॒ता स॑त् । अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒राव॑यत्
। अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्वा अ॒सश्च॑त । ऊर्ध्वमूलम॑वाक्छा॒खम् ।
वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒ध्यात् । मृ॒त्युर्मा॑
मार॒यादि॑तिः । हसितँ रुदि॑तङ्गी॒तम् ॥ ०। १। ११। ५२॥
५३ वीणा॑पणव॒लासि॑तम् । मृ॒तञ्जी॒वं च॑ यत्किं॒चित् । अ॒ङ्गानि॑ स्नेव॒
विद्धि॑ तत् । अतृ॑ष्यँ॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चर॑न् ।
पुत्रो निरृत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः । स॒ तं मणिम॑विन्दत् ।
सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ०। १। ११। ५३॥
५४ सोऽजि॑ह्वो अ॒सश्च॑त । नैतमृषिं विदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत्
। मि॒थौ चरि॑त्वा प्र॒विशेत् । तत्सम्भव॑स्य व्र॒तम् । आ॒तम॑ग्ने र॒थन्ति॑ष्ठ
। एका॑श्वमेक॒योज॑नम् । एकचक्र॑मेक॒धुरम् । वा॒तध्रा॑जिग॒तिं वि॑भो । न॒
रि॒ष्यति॑ न व्य॒थते ॥ ०। १। ११। ५४॥
५५ ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता॑न्रोहि॑ताग्श्चा॒ग्नेः । र॒थे
यु॑क्त्वाऽधि॒तिष्ठ॑ति । एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्यामिष्टये
विँ॑शत्या॒ च । तिसृभिश्च वहसे त्रिँ॑शता॒ च । नियुद्भिर्वायविहिता॑
विमु॒ञ्च ॥ ०। १। ११। ५५॥ तत॑क्षुर्धीमहि ना॒म मे॑ चिकेत गी॒तं
प्रत्य॑मुञ्चद्व्य॒थते स॒प्त च॑ ॥ ११॥
५६ आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाऽऽध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम्
। गर्भ॒माधे॑हि॒ यः पुमा॑न् । इ॒तस्सि॒क्तँ सूर्य॑गतम् । च॒न्द्रम॑से॒
रस॑ङ्कृधि । वारादञ्जन॑याग्रे॒ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते ।
अ॒सं॒ख्या॒तास्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ०। १। १२। ५६॥
५७ ए॒वमे॒तन्नि॑बोधत । आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒हि म॒यूर॑रोमभिः ।
मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि । मा म॒न्द्रैरि॑न्द्र॒
हरि॑भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्नियेमुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒
तां २ इ॑मि । अणुभिश्च म॑हद्भि॒श्च ॥ ०। १। १२। ५७॥
५८ नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒त्स॒रो वि॑षू॒वर्णैः॑
। नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योँ सुब्रह्मण्योँ सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ ०। १। १२। ५८॥
५९ गौरावस्कन्दिन्नहल्या॑यै जा॒र । कौशिकब्राह्मण गौतम॑ब्रुवा॒ण । अ॒रु॒णाश्वा॑
इ॒हाग॑ताः । वस॑वः पृथिवि॒क्षितः॑ । अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नयः॑ । अग्निश्च
जातवेदा॑श्चेत्ये॒ते । ताम्राश्वा॑स्ताम्र॒रथाः । ताम्रवर्णा॑स्तथा॒ऽसिताः । दण्डहस्ताः॑
खाद॒ग्दतः । इतो रुद्राः॑ परा॒ङ्गताः ॥ ०। १। १२। ५९॥
६० उक्तँ स्थानं प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ ।
वि॒श्वरू॑पैरि॒हाग॑ताम् । रथे॑नोदक॒वर्त्म॑ना । अ॒प्सुषा॑ इति॒ तद्द्व॑योः ।
उक्तो वेषो॑ वासाँ॒सि च । कालावयवानामितः॑ प्रती॒च्या । वासात्या॑ इत्य॒श्विनोः ।
कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठो रौहिणो मीमाँ॑साञ्च॒क्रे । तस्यै॒षा
भव॑ति । वा॒श्रेव॑ वि॒द्युदिति॑ । ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि
। ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ०। १। १२। ६०॥ दृश्य॑ते॒
च मे॒ने प॑रा॒ङ्गताश्च॒क्रे षट् च॑ ॥ १२॥
( अप॑क्रामत गर्भि॒ण्यः॑ )
६१ अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां मही॑म् । अ॒हं वेद॒
न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो॑न्य॒ष्टपु॑त्रम्
। अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् । अ॒हं वेद॒ न मे॑ मृत्युः ।
नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मून्दिव॑म्
॥ ०। १। १३। ६१॥
६२ अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽऽह॑रत् । सु॒त्रामा॑णं
म॒हीमू॒षु । अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् । अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः॑ । अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् । अ॒ष्टौ
पु॒त्रासो॒ अदि॑तेः । ये जा॒तास्त॒न्वः॑ परि॑ । दे॒वां २ उप॑प्रैत्स॒प्तभिः॑ ॥
०। १। १३। ६२॥
६३ प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् । स॒प्तभिः॑ पु॒त्रैरदि॑तिः । उप॒प्रैत्पू॒र्व्यं॑ युग॑म्
। प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ । ताननुक्र॑मिष्या॒मः
। मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा॑र्य॒मा च॑ । अँश॑श्च॒ भग॑श्च
। इन्द्रश्च विवस्वाग्॑श्चेत्ये॒ते । हि॒र॒ण्य॒ग॒र्भो हँ॒सः शु॑चि॒षत्
। ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑ । ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑षः
स॒प्तपुरु॑षः ॥ ०। १। १३। ६३॥ अ॒मून्दिवँ॑ स॒प्तभि॑रे॒ते च॒त्वारि॑ च ॥ १३॥
( य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ )
६४ योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दायो॒देति॑ । मा मे॑
प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः । अ॒सौ यो॑ऽस्त॒मेति॑ ।
स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः । अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां॑
प्रा॒णैरा॒पूर्य॑ति ॥ ०। १। १४। ६४॥
६५ मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः । अ॒सौ
यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑क्षीयति । मा मे॑ प्र॒जाया॒
मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑क्षेष्ठाः । अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां
भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम्
। मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ॥ ०। १। १४। ६५॥
६६ इ॒मे मासा॑श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒
चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒
मोत्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पन्ति॒
चोत्स॑र्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒
मोत्सृ॑पत । अ॒यँ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒
चोत्स॑र्पति च ॥ ०। १। १४। ६६॥
६७ मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प
। इ॒दमहः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च ।
मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
इ॒यँरात्रिः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति च
। मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
ओं भुर्भुव॒स्स्वः॑ । एतद्वो मिथुनं मानो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १४। ६७॥
प्रा॒णैरा॒पूर्य॑ति॒ मोत्सृ॑पत॒ चोत्स॑र्पति च॒ मोत्सृ॑प॒ द्वे च॑ ॥ १४॥
६८ अथादित्यस्याष्टपु॑रुष॒स्य । वसूनामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ।
रुद्राणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । आदित्यानामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ।
सताँ॑सत्या॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । अभिधून्वता॑मभि॒घ्नताम् ।
वातव॑तां म॒रुताम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । ऋभूणामादित्यानाग् स्थाने
स्वतेज॑सा भा॒नि । विश्वेषा॑न्देवा॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि ।
संवत्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑
। रश्मयो वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १५। ६८॥ ऋभूणामादित्यानाग्
स्थाने स्वतेज॑सा भा॒नि षट् च॑ ॥ १५॥
६९ आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने
स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि । स्वर्णरस्य स्थाने स्वतेज॑सा
भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि । विभासस्य स्थाने स्वतेज॑सा भा॒नि
। कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो
मिथु॑नँ री॒ढ्वम् ॥ ०। १। १६। ६९॥ आरोगस्य दश॑ ॥ १६॥
७० अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमानानाँ रुद्राणाग् स्थाने
स्वतेज॑सा भा॒नि । व्यवदातानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतानाँ
रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । रजतानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाँ रुद्राणाग् स्थाने स्वतेज॑सा
भा॒नि । कपिलानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितानाँ रुद्राणाग् स्थाने
स्वतेज॑सा भा॒नि । ऊर्ध्वानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ ०। १। १७। ७०॥
७१ अवपतन्तानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतानाँ रुद्राणाग्
स्थाने स्वतेज॑सा भा॒नि । प्रभ्राजमानीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतीनाँ रुद्राणीनाग् स्थाने
स्वतेज॑सा भा॒नि । रजतानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । परुषाणाँ
रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि
। कपिलानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितीनाँ रुद्राणीनाग् स्थाने
स्वतेज॑सा भा॒नि । ऊर्ध्वानाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अवपतन्तीनाँ
रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि
। ओं भुर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १७। ७१॥
ऊर्ध्वानाँ रुद्राणाग् स्थाने स्वतेज॑सा भा॒न्यतिलोहितीनाँ रुद्राणीनाग् स्थाने स्वतेज॑सा
भा॒नि पञ्च॑ च ॥ १७॥
७२ अथाग्ने॑रष्टपु॑रुष॒स्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस
उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि
। अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । वैश्वानरस्यापरदिश्यस्य स्थाने
स्वतेज॑सा भा॒नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्क्तिराधस
उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि
। ओं भुर्भुव॒स्स्वः॑ । दिशो वो मिथुनं मा नो मिथु॑नँ री॒ढ्वम् ॥ ०। १। १८। ७२॥
स्व॑रेक॑ञ्च ॥ १८॥ एतद्रश्मय आपो रूपाणि दिशः पञ्च॑ ॥
७३ दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ।
दक्षिणाऽपरस्यान्दिश्यविस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरपूर्वस्यान्दिशि
विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरापरस्यान्दिश्यविषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि । आयस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ०। १। १९।
७३॥ दक्षिणपूर्वस्यां नव॑ ॥ १९॥
७४ इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् । मनो॑जवसो
वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् । प्रचे॑ता वो रु॒द्रैः
प॒श्चादुप॑दधताम् । वि॒श्वक॑र्मा व आदि॒त्यैरु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् । सञ्ज्ञानं वः प॑श्चादि॒ति ।
आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूऱ्यो॑ दि॒वि । च॒न्द्रमा॑
दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा
ही॑न्द्र । ए॒वा हि पू॑षन् । ए॒वा हि दे॑वाः ॥ ०। १। २०। ७४॥ दि॒क्षु स॒प्त च॑ ॥ २०॥
७५ आप॑मापाम॒पः सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी॑च्यात्मानो॒ अद्रु॑हः
। दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्वः॑ ॥ ०। १। २१। ७५॥
७६ दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
अ॒पाऽश्न्यु॑ष्णिम॒पारक्षः॑ । अ॒पाऽश्न्यु॑ष्णिम॒पारघम्॑ ।
अपा॑घ्रा॒मप॑चा॒ऽवर्ति॑म् । अप॑दे॒वीरि॒तो हि॑त । वज्र॑न्दे॒वीरजी॑ताग्श्च ।
भुव॑नन्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिन्दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ॥ ०। १।
२१। ७६॥
७७ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑
। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । के॒तवो॒
अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाँ श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒
ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। २१। ७७॥
स्व॑रु॒दीष॑त॒ वात॑रश॒ना षट्च॑ ॥ २१॥
७८ यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति । च॒न्द्रमा॒
वा अ॒पां पुष्प॑म् । पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान्भवति । यो॑ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ७८॥
७९ आ॒यत॑नवान्भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं
वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान्भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥ ०। १। २२। ७९॥
८० आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवान्भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ०। १। २२। ८०॥
८१ आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान्भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै च॒न्द्रम॑स
आ॒यत॑नम् । आ॒यत॑नवान्भवति ॥ ०। १। २२। ८१॥
८२ य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । नक्ष॑त्राणि॒
वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान्भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान्भवति । य
ए॒वं वेद॑ ॥ ०। १। २२। ८२॥
८३ यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान्भवति । यः प॒र्जन्य॑स्या॒ऽऽयत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति
। आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ८३॥
८४ आ॒यत॑नवान्भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति
। यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै
सं॑वत्स॒रस्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽप्सु नावं॒
प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ०। १। २२। ८४॥
८५ इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू॑क्ता । अ॒पाँ
रस॒मुद॑यँ सन् । सूर्ये॑ शु॒क्रँ स॒माभृ॑तम् । अ॒पाँ रस॑स्य॒
यो रसः॑ । तं वो॑ गृह्णाम्युत्त॒ममिति॑ । इ॒मे वै लो॒का अ॒पाँ रसः॑
। ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः । जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा ।
अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ०। १। २२। ८५॥
८६ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सँस्ती॒र्य ।
तस्मि॑न्विहा॒यसे । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा॑त्प्रणी॒तेऽयम॒ग्निश्ची॒यते॑ । साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते॑ ।
अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति
। अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ०। १।
२२। ८६॥
८७ अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः ।
कम॒ग्निञ्चि॑नुते । स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । सं॒व॒त्स॒रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते । सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ॥ ०। १। २२। ८७॥
८८ ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः । प्रा॒णान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते ।
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ॥ ०। १। २२। ८८॥
८९ इ॒मान् लो॒कान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न
इति॑ । य ए॒वासौ । इ॒तश्चा॒मुत॑श्चाऽव्यतीपा॒ती । तमिति॑ । यो॑ऽग्नेर्मि॑थू॒या
वेद॑ । मि॒थु॒न॒वान्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान्भ॑वति ।
य ए॒वं वेद॑ ॥ ०। १। २२। ८९॥ वेद॑ भवत्या॒यत॑नमा॒यत॑नवान्भवति॒ वेद॒
य ए॒वं वेद॒ वेद॑ तिष्ठति गुल्फद॒घ्नं चा॑तुर्मा॒स्येष्व॒मुमा॑दि॒त्यं
प्र॒त्यक्षे॑ण॒ कम॒ग्निञ्चि॑नुत उपानुवा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नो
मि॑थू॒या मि॑थुन॒वान्भ॑व॒त्येक॑ञ्च ॥ २२॥ पुष्प॑म॒ग्निर्वा॒युर॒सौ वै
तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्य॑स्संवत्त्स॒रस्ति॑ष्ठति सत्रि॒यँ
सं॑वत्स॒रँ सा॑वि॒त्रम॒मुन्ना॑चिके॒तं प्रा॒णाग्श्चा॑तुर्होत्रि॒यं ब्रह्म॑
वैश्वसृ॒जँ शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् लो॒कानि॒ममा॑रुनकेतुकं॒
य ए॒वासौ ॥
९० आपो॒ वा इ॒दमा॑सन्त्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे
सम॑भवत् । तस्यान्त॒र्मन॑सि कामः॒ सम॑वर्तत । इ॒दँ सृ॑जेय॒मिति॑ ।
तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति ।
तदे॒षाऽभ्यनू॑क्ता । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं
यदासी॑त् ॥ ०। १। २३। ९०॥
९१ स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ।
उपै॑न॒न्तदुप॑नमति । यत्का॑मो॒ भव॑ति । य ए॒वं वेद॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन्माँ॒समासी॑त् । ततो॑ऽरु॒णाः
के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ ०। १। २३। ९१॥
९२ ये नखाः॑ । ते वै॑खान॒साः । ये वालाः॑ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑ऽपाम् ।
अ॒न्त॒र॒तः कू॒र्मं भू॒तँ सर्प॑न्तम् । तम॑ब्रवीत् । मम॒ वैत्वङ्माँ॒सा
। सम॑भूत् ॥ ०। १। २३। ९२॥
९३ नेत्य॑ब्रवीत् । पूर्व॑मे॒वाहमि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वम् । स
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् ।
तम॑ब्रवीत् । त्वं वै पूर्वँ॑ सम॑भूः । त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ । स
इ॒त आ॒दायापः॑ ॥ ०। १। २३। ९३॥
९४ अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् । ए॒वाह्ये॒वेति॑ । तत॑ आदि॒त्य उद॑तिष्ठत् ।
सा प्राची॒ दिक् । अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वाह्यग्न॒ इति॑ । ततो॒
वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।
ए॒वाहि वायो॒ इति॑ ॥ ०। १। २३। ९४॥
९५ ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् । अथा॑रु॒णः के॒तुरु॑त्तर॒त
उ॒पाद॑धात् । ए॒वाहीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक्
। अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् । ए॒वाहि पूष॒न्निति॑ । ततो॒ वै
पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ ०। १। २३। ९५॥
९६ अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् । ए॒वाहि देवा॒ इति॑ । ततो॑
देवमनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् । सोर्ध्वा दिक् । या
वि॒प्रुषो॑ वि॒परा॑पतन् । ताभ्योऽसु॑रा॒ रक्षाँ॑सि पिशा॒चाश्चोद॑तिष्ठन् ।
तस्मा॒त्ते परा॑भवन् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् । तदे॒षाऽभ्यनू॑क्ता ॥ ०। १।
२३। ९६॥
९७ आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भ॒माय॑न् । दक्ष॒न्दधा॑ना ज॒नय॑न्तीः
स्वयं॒भुम् । तत॑ इ॒मेऽद्ध्यसृ॑ज्यन्त॒ सर्गाः॑ । अद्भ्यो॒ वा इ॒दँ सम॑भूत्
। तस्मा॑दि॒दँ सर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ । तस्मा॑दि॒दँ सर्वँ॒
शिथि॑लमि॒वाद्ध्रुव॑मिवाभवत् । प्र॒जाप॑ति॒र्वाव तत् । आ॒त्मना॒त्मानं॑ वि॒धाय॑
। तदे॒वानु॒प्रावि॑शत् । तदे॒षाऽभ्यनू॑क्ता ॥ ०। १। २३। ९७॥
९८ वि॒धाय॑ लो॒कान्, वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च
। प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑
। सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुद्ध्य॑ । तदे॒वानु॒प्रवि॑शति । य ए॒वं
वेद॑ ॥ ०। १। २३। ९८॥ आसी॑दतिष्ठन्नभू॒दपो॒ वायो॒ इति॒ सेयन्दिग॒भ्यनू॑क्ता॒ऽ
भ्यनू॑क्ता॒ऽष्टौ च॑ ॥ २३॥
९९ चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाँ रू॒पाणि॑ । मेघो॑ वि॒द्युत्
। स्त॒न॒यि॒त्नुर्वृ॒ष्टिः । तान्ये॒वाव॑रुन्धे । आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ।
ताः पु॒रस्ता॒दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व
ब्र॑ह्मवर्च॒समव॑रुन्धे । तस्मा॑न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ०। १। २४। ९९॥
१०० कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑
। तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः ।
स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति । वह॑न्तीर्गृह्णाति ॥ ०। १। २४। १००॥
१०१ ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व
धाव॑न्तीः । ओज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः ।
सं॒भा॒र्या गृ॑ह्णाति । ता मध्य॒ उप॑दधाति । इ॒यं वै सं॑भा॒र्याः । अ॒स्यामे॒व
प्रति॑तिष्ठति । प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ ०। १। २४। १०१॥
१०२ अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति । दि॒क्षूप॑दधाति । दि॒क्षु
वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वद्भ्योऽन्न॒ञ्जाय॑ते
। तदव॑रुन्धे । तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑योऽचिन्वन् ।
तस्मा॑दारुणके॒तुकः॑ ॥ ०। १। २४। १०२॥
१०३ तदे॒षाऽभ्यनू॑क्ता । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः
। प्र॒ति॒ष्ठाँ श॒तधा॑हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ।
श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य
उ॑चैनमे॒वं वेद॑ ॥ ०। १। २४। १०३॥ ब्र॒ह्म॒व॒र्च॒सित॑रो॒ वह॑न्तीर्गृह्णाति॒
ता उ॒परि॑ष्टादु॒पाद॑धात्यारुणके॒तुको॒ऽष्टौ च॑ ॥ २४॥
१०४ जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । अ॒पाँ स॑र्व॒त्वाय॑ ।
पु॒ष्क॒र॒प॒र्णँ रु॒क्मं पुरु॑ष॒मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम्
। स॒त्यँ रु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वावा॑स्ति । याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ ॥ ०। १। २५। १०४॥
१०५ तदव॑रुन्धे । कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो॑
स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आप॑मापाम॒पस्सर्वाः॑ । अ॒स्माद॒स्मादि॒तोऽमुतः॑
। अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । वा॒य्वश्वा॑
रश्मि॒पत॑यः । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ ०। १। २५। १०५॥
१०६ यास्ति॒स्रः प॑रम॒जाः । इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ ।
पञ्च॒चित॑य॒ उप॑दधाति । पाङ्क्तो॒ऽग्निः । यावा॑ने॒वाग्निः । तञ्चि॑नुते ।
लो॒कम्पृ॑णया द्वि॒तीया॒मुप॑दधाति । पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं
पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑
। वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑
॥ ०। १। २५। १०६॥ अस्ति॑ पृणा॒न्तरि॑क्षं॒ पादः॒ षट्च॑ ॥ २५॥
१०७ अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति
। अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः॑ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । अथ॑ हस्माहारु॒णः स्वा॑यं॒भुवः॑ ।
सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे । नाना॒ वा ए॒तेषां॑ वी॒र्या॑णि ।
कम॒ग्निञ्चि॑नुते ॥ ०। १। २६। १०७॥
१०८ स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः
। कम॒ग्निञ्चि॑नुते । ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते
। चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ॥ ०। १। २६। १०८॥
१०९ उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न इति॑ । वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒
सँस्फा॑लयेत् । ह॒न्येता॑स्य य॒ज्ञः । तस्मा॒न्नानु॒षज्यः॑ । सोत्त॑रवे॒दिषु॑
क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याग् ह्य॑ग्निश्ची॒यते॑ । प्र॒जाका॑मश्चिन्वीत ॥
०। १। २६। १०९॥
११० प्रा॒जा॒प॒त्यो वा ए॒षो॑ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा॑न्भवति ।
य ए॒वं वेद॑ । प॒शुका॑मश्चिन्वीत । सं॒ज्ञानं॒ वा ए॒तत्प॑शू॒नाम् । यदापः॑
। प॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निञ्चि॑नुते । प॒शु॒मान्भ॑वति । य ए॒वं वेद॑
॥ ०। १। २६। ११०॥
१११ वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्षु॑को भवति । य
ए॒वं वेद॑ । आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् । भे॒ष॒जमे॒वास्मै॑
करोति । सर्व॒मायु॑रेति । अ॒भि॒चरग्ग्॑श्चिन्वीत । वज्रो॒ वा आपः॑ ॥ ०। १। २६। १११॥
११२ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति । स्तृ॒णु॒त ए॑नम् । तेज॑स्कामो॒
यश॑स्कामः । ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत । ए॒ताव॒द्वा वा॑स्ति
। याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे । तस्यै॒तद्व्र॒तम् । वर्ष॑ति॒
न धा॑वेत् ॥ ०। १। २६। ११२॥
११३ अ॒मृतं॒ वा आपः॑ । अ॒मृत॒स्यान॑न्तरित्यै । नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् । न
निष्ठी॑वेत् । न वि॒वस॑नस्स्नायात् । गुह्यो॒ वा ए॒षो॑ऽग्निः । ए॒तस्या॒ग्नेरन॑तिदाहाय
। न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे॑त् । ए॒तस्या॒ग्नेरन॑भ्यारोहाय ।
न कूर्म॒स्याश्नी॑यात् । नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒
आपः॑ । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ०। १। २६। ११३॥ चि॒नु॒ते॒
चि॒नु॒ते॒ प्र॒जाका॑मश्चिन्वीत॒ य ए॒वं वेदापो॑ धावे॒दश्नी॑याच्च॒त्वारि॑
च ॥ २६॥
११४ इ॒मानु॑कं॒ भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु ।
आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् । आप्ल॑वस्व॒
प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑खनि॒धनाम् । प्रति॑मुञ्चस्व॒
स्वां पु॒रम् ॥ ०। १। २७। ११४॥
११५ मरी॑चयः स्वायम्भु॒वाः । ये श॑री॒राण्य॑कल्पयन् । ते ते॑ दे॒हङ्क॑ल्पयन्तु
। मा च॑ ते॒ ख्या स्म॑ तीरिषत् । उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒
भार॑ताः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः । युवा॑ सु॒वासाः॑
। अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ०। १। २७। ११५॥
११६ दे॒वानां॒ पूर॑यो॒ध्या । तस्याँ॑ हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को
ज्योति॒षाऽऽवृ॑तः । यो वै तां॑ ब्रह्म॑णो वे॒द । अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् ।
तस्मै॑ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑मानाँ॒
हरि॑णीम् । य॒शसा॑ सम्प॒रीवृ॑ताम् । पुरँ॑ हिरण्म॑यीं ब्र॒ह्मा ॥ ०। १। २७। ११६॥
११७ वि॒वेशा॑ऽप॒राजि॑ता । पराङेत्य॑ज्याम॒यी । पराङेत्य॑नाश॒की । इ॒ह
चा॑मुत्र॑ चान्वे॒ति । वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् । यत्कु॑मा॒री म॒न्द्रय॑ते ।
य॒द्यो॒षद्यत्प॑ति॒व्रता॑ । अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते॑ । अ॒ग्निस्तदनु॑वेधति
। अ॒शृता॑सः शृ॑तास॒श्च ॥ ०। १। २७। ११७॥
११८ य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे॑क्षन्ते । इन्द्र॑म॒ग्निञ्च॑
ये वि॒दुः । सिक॑ता इव सं॒यन्ति॑ । र॒श्मिभि॑स्समु॒दीरि॑ताः ।
अ॒स्माल्लो॒काद॑मुष्मा॒च्च । ऋ॒षिभि॑रदात्पृ॒श्निभिः॑ । अपे॑त॒
वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् ॥ ०। १। २७। ११८॥
११९ य॒मो द॑दात्वव॒सान॑मस्मै । नृ मु॑णन्तु नृ पा॒त्वर्यः॑ । अ॒कृ॒ष्टा
ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः ।
रेतः॑पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया॑न्पुत्र॑पौत्र॒कान् ।
यु॒वे॒ऽहं य॒मराज॑गान् । श॒तमिन्नु श॒रदः॑ । अदो॒ यद्ब्रह्म॑ विल॒बम् ।
पि॒तृ॒णाञ्च॑ य॒मस्य॑ च । वरु॑ण॒स्याश्वि॑नोर॒ग्नेः । म॒रुता॑ञ्च
वि॒हाय॑साम् । का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति
नाको ब्रह्मिश्रवो॑ रायो॒ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ ०। १। २७। ११९॥
पु॒रन्नव॑द्वारा ब्र॒ह्मा च व्य॑क्तँ श॒रदो॒ऽष्टौ च॑ ॥ २७॥
१२० विशी॑र्ष्णीं॒ गृध्र॑शीर्ष्णीञ्च । अपेतो॑ निरृ॒तिँ ह॑थः । परिबाधँ
श्वे॑तकु॒क्षम् । नि॒जङ्घँ॑ शब॒लोद॑रम् । स॒ तान्, वा॒च्याय॑या स॒ह ।
अग्ने॒ नाश॑य सं॒दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्युं कृ॒त्याञ्च॑
दीधिरे । रथे॑न किँशु॒काव॑ता । अग्ने॒ नाश॑य सं॒दृशः॑ ॥ ०। १। २८। १२०॥
१२१ प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ । स नो॑ य॒वस॑मिच्छतु
। इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ । हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत ।
म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः
। यो गर्भ॒मोष॑धीनाम् । गवा॑ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा॑म् ॥ ०।
१। २९। १२१॥ विशी॑र्ष्णीं प॒र्जन्या॑य॒ दश॑दश ॥ २९॥
१२२ पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र्ब्राह्म॑णमैतु
मा । पुन॒र्द्रवि॑णमैतु मा । यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्का॑न् ।
यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । इ॒दन्तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्त्वाय॒
वर्च॑से । यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ । तेन॑
माम॒मृत॑ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ ०। १। ३०। १२२॥ पुन॒र्द्वे च॑ ॥ ३०॥
१२३ अ॒द्भ्यस्तिरो॒धाऽजा॑यत । तव॑ वैश्रव॒णस्स॑दा । तिरो॑धेहि सप॒त्नान्नः॑
। ये अपो॒ऽश्नन्ति॑ केच॒न । त्वा॒ष्ट्रीं मा॒यां वै॑श्रव॒णः । रथँ॑
सहस्र॒वन्धु॑रम् । पु॒रु॒श्च॒क्रँ सह॑स्राश्वम् । आस्था॒याया॑हि नो ब॒लिम् ।
यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वा॑न् ॥ ०। १।
३१। १२३॥
१२४ असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज॑म्
। सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ ।
स॒तद्वा॒ट्टार॑गम॒न्ता । सँ॒हार्य॒न्नग॑रं॒ तव॑ । इति मन्त्राः॑ ।
कल्पो॑ऽत ऊ॒र्ध्वम् । यदि॒ बलिँ॒ हरे॑त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑
कौबे॒राया॒यं ब॑लिः ॥ ०। १। ३१। १२४॥
१२५ सर्वभूताधिपतये न॑म इ॒ति । अथ बलिँ हृत्वोप॑तिष्ठे॒त । क्ष॒त्त्रं
क्ष॒त्त्रं वै॑श्रव॒णः । ब्राह्मणा॑ वयँ॒स्मः । नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
अस्मात्प्रविश्यान्न॑मद्धी॒ति । अथ तमग्निमा॑दधी॒त । यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ ०। १। ३१। १२५॥
१२६ ति॒रोधा॒स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ । सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति
। अथ तमग्नि॑मिन्धी॒त । यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त । ति॒रोधा॒ भूस्स्वाहा॑ ।
ति॒रोधा॒ भुव॒स्स्वाहा॑ । ति॒रोधा॒ स्व॑स्स्वाहा॑ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा॑
। यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः ॥ ०। १। ३१। १२६॥
१२७ अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युञ्जी॒त । परः॑ सु॒प्तज॑नाद्वे॒पि
। मास्म प्रमाद्यन्त॑माध्या॒पयेत् । सर्वार्थाः॑ सिद्ध्य॒न्ते । य ए॑वं वे॒द ।
क्षुध्यन्निद॑मजा॒नताम् । सर्वार्था न॑ सिद्ध्य॒न्ते । यस्ते॑ वि॒घातु॑को भ्रा॒ता ।
ममान्तर्हृ॑दये॒ श्रितः ॥ ०। १। ३१। १२७॥
१२८ तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि । समे॑ऽर्था॒न्मा विव॑धीत् । मयि॒ स्वाहा॑ ।
रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने॑ । नमो॑ व॒यं वै॑श्रव॒णाय॑ कुर्महे । स मे॒
कामा॒न्काम॒कामा॑य॒ मह्य॑म् । का॒मे॒श्व॒रो वै॑श्रव॒णो द॑दातु । कु॒बे॒राय॑
वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो
वात॑रश॒नाः । प्र॒ति॒ष्ठाँ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। ३१। १२८॥ अश्वा॑न्बलि॒र्भुवो॑ भवे॒युः श्रितश्च॑
स॒प्त च॑ ॥ ३१॥
१२९ संवत्सरमेत॑द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ । नियमस्स॑मासे॒न ।
तस्मिन्नियम॑विशे॒षाः । त्रिषवणमुदको॑पस्प॒र्शी । चतुर्थकालपान॑भक्त॒स्स्यात्
। अहरहर्वा भैक्ष॑मश्नी॒यात् । औदुम्बरीभिः समिद्भिरग्निं॑ परि॒चरेत् । पुनर्मा
मैत्त्विन्द्रियमित्येतेनाऽनु॑वाके॒न । उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त ॥ ०।
१। ३२। १२९॥
१३० अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे
न॑क्षत्रे॒भ्यः । ऋतुभ्यस्संव॑त्सरा॒य । वरुणायारुणायेति व्र॑तहो॒माः ।
प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का॑ण्डर्॒षयः । अरण्ये॑ऽधीयी॒रन् । भद्रं
कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ ०। १। ३२। १३०॥
१३१ महानाम्नीभिरुदकँ सँ॑स्प॒र्श्य । तमाचा॑ऱ्यो द॒द्यात् । शिवा नः
शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा
। कँसं वास॑श्च क्षौ॒मम् । अन्य॑द्वाशु॒क्लम् । य॑थाश॒क्ति वा । एवँ
स्वाध्याय॑ धर्मे॒ण । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो
भ॒वति ॥ ०। १। ३२। १३१॥ कु॒र्वी॒त ज॑पि॒त्वा स्वाध्याय॑धर्मे॒ण द्वे च॑
॥ ३२॥ भ॒द्रँ स्मृति॑स्साक॒ञ्जाना॒मक्ष्यति॑ ता॒म्राण्य॑त्यूर्ध्वा॒क्ष
आरोगः क्वेदमग्निश्च स॑हस्र॒वृत्प॒वित्र॑वन्त॒ आत॑नुष्वा॒ष्टयो॑नीं॒
योऽसा॒वथादित्यस्यारोगस्याथ वायोरथाग्ने॒र्दक्षिणा पूर्वस्यामि॑न्द्रघो॒षा व॒
आप॑मापां॒ यो॑ऽपामापो॒ वै चतु॑ष्टय्यो जानुद॒घ्नीम॒ग्निं प्र॒णीये॒मा नु॑कं॒
विशी॑र्ष्णीं प॒र्जन्या॑य॒ पुन॑र॒द्भ्यः संवत्सरं द्वात्रिँ॑ शत् ॥
३२॥ भ॒द्रं ज्यो॒तिषा॒ तस्मिन्राजानङ्क॒श्यपा॑त्सहस्र॒वृदि॑य॒न्नपुँ
स॑कम॒ष्टयो॑नी॒मवपतन्तानामा॒यत॑नवान्भवति स॒तो बन्धुं॒ ता उ॑त्तर॒तो
वज्र॑मे॒व पुन॑र्मामैतु त्रिँ॒शदु॑त्तरश॒तम् ॥ १३०॥ भ॒द्रं तपस्वी पुण्यो
भवति तपस्वी पु॑ण्यो भ॒वति ॥
० भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाँस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑
। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥
आरण्यके द्वितीयः प्रश्नः २
० नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ओं शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥
१ सह॒ वै दे॒वाना॒ञ्चासु॑राणाञ्च य॒ज्ञौ प्रत॑तावास्तां व॒यँ
स्व॒र्गं लो॒कमे॑ष्यामो व॒यमे॑ष्याम॒ इति॒ तेऽसु॑राः सं॒नह्य॒
सह॑सै॒वाच॑रन्ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्तेऽसु॑रा अमुह्यँ॒स्ते न
प्राजा॑नँ॒स्ते परा॑भव॒न्ते न स्व॒र्गं लो॒कमा॑य॒न्प्रसृ॑तेन॒ वै य॒ज्ञेन॑
दे॒वास्स्व॒र्गं लो॒कमा॑य॒न्नप्रसृ॑ते॒नासु॑रा॒न् परा॑ऽभावय॒न् प्रसृ॑तो ह॒
वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञोऽप्र॑सृ॒तोऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो
य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत्तस्मा॑द्यज्ञोपवी॒त्ये॑वाधी॑यीत
या॒जये॒द्यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑नं॒ वासो॑ वा
दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बा॒हुमुद्ध॑र॒तेऽव॑धत्ते स॒व्यमिति॑
यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तँ सं॒वीतं॑ मानु॒षम् ॥ ०। २।
१। १॥ ॥ १॥
२ रक्षाँ॑सि॒ हवा॑ पुरोनुवा॒के तपोग्र॑मतिष्ठन्त॒
तान्प्र॒जाप॑तिर्व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒
इति॒ तान् प्र॒जाप॑तिरब्रवी॒द्योध॑य॒ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्तँ॒
हवा॒ तानि॒ रक्षाग्॑स्यादि॒त्यं योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्तानि॑ ह॒ वा
ए॒तानि॒ रक्षाँ॑सि गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा
ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्यायां॑ गायत्रि॒याऽभि॑मन्त्रिता॒
आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि
म॒न्देहाऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत्प्र॑दक्षि॒णं प्रक्र॑मन्ति॒ तेन॑
पा॒प्मान॒मव॑ धून्वन्त्यु॒द्यन्त॑मस्तं॒ यन्त॑मादि॒त्यम॑भि ध्या॒यन् कु॒र्वन्
ब्रा॑ह्म॒णो वि॒द्वान्त्स॒कलं॑ भ॒द्रम॑श्नुते॒ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व
सन्ब्रह्मा॒प्येति॒ य ए॒वं वेद॑ ॥ ०। २। २। २॥ ॥ २॥
३ यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा
मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त । देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म
। तस्मा॑न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः । ऋ॒तेन॑
द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒
यत्किञ्चानृ॑तमूदि॒म । इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑
। ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒शँ॒सादु॒त
जा॑मिशँ॒साज्ज्याय॑सः॒ शँसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टं
दे॒वकृ॑तं॒ यदेन॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ॥ ०। २। ३। ३॥
४ यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याँ॑ शि॒श्नैर्यदनृ॑तं
चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म
यानि॑ दुष्कृ॒ता । येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्यं॒ तम॑सो
निर्मु॒मोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न
आ॑क्षि । यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि
। ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि । यन्मयि॑
मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्षं॒ यदा॒शसाति॑क्रामामि त्रि॒ते दे॒वा दि॒वि
जा॒ता यदाप॑ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒
त्वम॑ग्ने अ॒यासि॑ ॥ ०। २। ३। ४॥ मु॒मु॒ग्धि॒ स॒प्त च॑ ॥ ३॥
५ यददी॑व्यन्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा सञ्ज॒गर॒ जने॑भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च संविदा॒नौ प्रमु॑ञ्चताम् । यद्धस्ता॑भ्यां
च॒कर॒ किल्बि॑षाण्य॒क्षाणां॑ व॒ग्नुमु॑प॒जिघ्न॑मानः । उ॒ग्रं॒प॒श्या
च॑ राष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ । उग्रं॑पश्ये॒
राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् । नेन्न॑
ऋ॒णानृ॒णव॒ इत्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑ । अव॑ ते॒
हेळ॒ उदु॑त्त॒म मि॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं
नो॑ अग्ने । सङ्कु॑सुको॒ विकु॑सुको निरृ॒थो यश्च॑ निस्व॒नः । तेऽ २ऽ॒
स्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीचतम् । निर्य॑क्ष्ममचीचते कृ॒त्यां
निरृ॑तिं च । तेन॒ योऽ २ऽ॒ स्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ।
दु॒श्शँ॒सा॒नु॒शँ॒साभ्यां॑ घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योऽ
२ऽ॒ स्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि । सं वर्च॑सा॒ पय॑सा॒
सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँशि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु
रा॒योऽनु॑मार्ष्टु त॒न्वो २ऽ॒ यद्विलि॑ष्टम् ॥ ०। २। ४। ५॥ कृ॒त्यां निरृ॑तिं च॒
पञ्च॑ च ॥ ४॥
६ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒
यक्ष्मँ॑ सुवामि ते । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको
घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑
पु॒त्रम॒भिर॑क्षतादि॒मम् । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑
वरुण॒ सँशि॑शाधि । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒
जर॑दष्टि॒र्यथाऽस॑त् । अग्न॒ आयूँ॑षि पवस॒ आसु॒वोर्ज॒मिष॑ञ्च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् । अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् ।
दध॑द्र॒यिं मयि॒ पोष॑म् ॥ ०। २। ५। ६॥
७ अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ।
अग्ने॑ जा॒तान्प्रणु॑दानस्स॒पत्ना॒न्प्रत्य जा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि
सु॒मना॒ अहे॑ळ॒ञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ । सह॑सा जा॒तान्प्रणु॑दानः
स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ
स्या॑म॒ प्रणु॑दानः स॒पत्ना॑न् । अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒
जिघाँ॑सति । ताग्स्त्वं वृ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒माभ॑र । अग्ने॒ यो
नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ । तं व॒यँ स॒मिधं॑ कृ॒त्वा
तुभ्य॑म॒ग्नेऽपि॑दध्मसि ॥ ०। २। ५। ७॥
८ यो नः॒ शपा॒दश॑पतो॒ यश्च॑ नः॒ शप॑तः॒ शपा॑त् । उ॒षाश्च॒
तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पँ समू॑हताम् । यो न॑स्स॒पत्नो॒ यो रणो॒
मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न
। यो मां द्वेष्टि॑ जातवेदो॒ यं चा॒हं द्वेष्मि॒ यश्च॒ माम् । सर्वा॒ग्स्तान॑ग्ने॒
सन्द॑ह॒ याग्श्चा॒हं द्वेष्मि॒ ये च॒ माम् । यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒
द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा॑च्च॒ सर्वा॒ग्स्तान्म॑ष्म॒षा कु॑रु ।
सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यां २ऽ॒ बल॑म् । सँशि॑तं क्ष॒त्त्रं
मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः । उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒
बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वां २ अ॒हम् । पुन॒र्मनः॒
पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ आगा॒त्पुनः॑ प्रा॒णः
पुन॒राकू॑तं म॒ आगा॒त्पुन॑श्चि॒त्तं पुन॒राधी॑तं म॒ आगा॑त् । वै॒श्वा॒न॒रो
मेऽद॑ब्धस्तनू॒पा अव॑बाधतां दुरि॒तानि॒ विश्वा॑ ॥ ०। २। ५। ८॥ पोषं॑ दध्मसि
पु॒रोहि॑तश्च॒त्वारि॑ च ॥ ५॥
९ वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णँ स॑ङ्ग॒रो दे॒वता॑सु
। स ए॒तान्पाशा॑न्प्र॒मुच॒न्प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ।
वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यत्स॑ङ्ग॒रम॒भिधावा॑म्या॒शाम् ।
अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तत्सु॑वामि । अ॒मी ये सु॒भगे॑
दि॒वि वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् ।
विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒
गर्भ॒स्सर्वा॑न्प॒थो अ॑नुष्व । स प्र॑जा॒नन्प्रति॑गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः
प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒
तन्तु॑मनु॒सञ्च॑रेम ॥ ०। २। ६। ९॥
१० त॒तं तन्तु॒मन्वेके॒ अनु॒सञ्च॑रन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नवत् ।
अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातुं॒ चेच्छ॒क्नवाँ॒सस्स्व॒र्ग ए॑षाम् ।
आर॑भेथा॒मनु॒सँर॑भेथाँ समा॒नं पन्था॑मवथो घृ॒तेन॑ । यद्वां॑
पू॒र्तं परि॑विष्टं॒ यद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सँर॑भेथाम् ।
यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिँसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ उन्नो॑ नेषद्दुरि॒ता यानि॑ चकृ॒म
। भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒ऽन्तरि॑क्षम॒भिश॑स्त एनः ।
द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑वित्सि लो॒कात् ।
यत्र॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वा २ऽ॒ ग्॒ स्वाया॑म्
। अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तरं॑ च पु॒त्रम् ।
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त वा॑ करि॒ष्यन् । यद्दे॒वानां॒
चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णं
कृ॑णोतु । यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ वासो॒ हिर॑ण्यमु॒त गाम॒जामवि॑म्
। यद्दे॒वानां॒ चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒
तस्मा॑दनृ॒णं कृ॑णोतु । य॒न्मया॑ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन
। सर्वस्मा॑त्तस्मा॑न्मेळि॑तो मो॒ग्धि॒ त्वँ हि वेत्थ॑ यथात॒थम् ॥ ०। २। ६। १०॥
च॒रे॒म॒ पु॒त्रँ षट्च॑ ॥ ६॥
११ वात॑रशना ह॒ वा ऋष॑यः श्रम॒णा ऊ॒र्ध्वम॑न्थि॒नो
ब॑भूवु॒स्तानृष॑यो॒ऽर्थमा॑यँ॒स्ते नि॒लाय॑मचरँ॒स्तेऽनु॑प्रविशुः
कूश्मा॒ण्डानि॒ ताग्स्तेष्वन्व॑विन्दञ्छ्र॒द्धया॑ च॒ तप॑सा च॒
तानृष॑योऽब्रुवन्क॒था नि॒लायं॑ चर॒थेति॒ त ऋषी॑नब्रुव॒न्नमो॑ वोऽस्तु
भगवन्तो॒ऽस्मिन्धा॑म्नि॒ केन॑ वस्सपर्या॒मेति॒ तानृष॑योऽब्रुवन्प॒वित्रं॑
नो ब्रूत॒ येना॑रे॒पस॑स्स्या॒मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न्
यद्दे॑वा देव॒हेळ॑नं॒ यद्दी॑व्यन्नृ॒णम॒हं ब॒भुवायु॑ष्टे
वि॒श्वतो॑ दध॒दित्ये॒तैराज्यं॑ जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम॒
इत्युप॑तिष्ठत॒ यद॑र्वा॒चीन॒मेनो॑ भ्रूणह॒त्याया॒स्तस्मा॑न्मोक्ष्यध्व॒
इति॒ त ए॒तैर॑जुहुवु॒स्तेऽरे॒पसो॑ऽभवन् कर्मा॒दिष्वे॒तैर्जु॑हुयात् पू॒तो
दे॑वलो॒कान्त्सम॑श्नुते ॥ ०। २। ७। ११॥ ॥ ७॥
१२ कू॒श्मा॒ण्डैर्जु॑हुया॒द्योऽपू॑त इव॒ मन्ये॑त॒ यथा॑ स्ते॒नो यथा॑
भ्रूण॒हैवमे॒ष भ॑वति॒ योऽयोनौ॒ रेत॑स्सि॒ञ्चति॒ यद॑र्वा॒चीन॒मेनो॑
भ्रूणह॒त्याया॒स्तस्मा॑न्मुच्यते॒ याव॒देनो॑ दी॒क्षामुपै॑ति दीक्षि॒त ए॒तैस्स॑त॒ति
जु॑होति संवत्स॒रं दी॑क्षि॒तो भ॑वति संवत्स॒रादे॒वात्मानं॑ पुनीते॒ मासं॑
दीक्षि॒तो भ॑वति॒ यो मास॒स्स सं॑वत्स॒रः सं॑वत्स॒रादे॒वात्मानं॑ पुनीते॒
चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒साः
सं॑वत्स॒रः सं॑वत्स॒रादे॒वात्मानं॑ पुनीते॒ द्वाद॑श॒ रात्री॑र्दीक्षि॒तो
भ॑वति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रादे॒वात्मानं॑
पुनीते॒ षड्रात्री॑र्दीक्षि॒तो भ॑वति॒ षड्वा ऋ॒तवः॑ संवत्स॒रः
सं॑वत्स॒रादे॒वात्मानं॑ पुनीते ति॒स्रो रात्री॑र्दीक्षि॒तो भ॑वति त्रि॒पदा॑
गाय॒त्री गा॑यत्रि॒या ए॒वात्मानं॑ पुनीते॒ न माँ॒सम॑श्नीया॒न्न
स्त्रिय॒मुपे॑या॒न्नोपर्या॑सीत॒ जुगु॑प्से॒तानृ॑ता॒त्पयो॑ ब्राह्म॒णस्य॑
व्र॒तं य॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्याथो॑ सौ॒म्येऽप्य॑ध्व॒र
ए॒तद्व्र॒तं ब्रू॑या॒द्यदि॒ मन्ये॑तोप॒दस्या॒मीत्यो॑द॒नं धा॒नाः
सक्तू॑न्घृ॒तमित्यनु॑व्रतयेदा॒त्मनोऽनु॑पदासाय ॥ ०। २। ८। १२॥ ॥ ८॥
१३ अ॒जान् ह॒ वै पृश्नीग्॑स्तप॒स्यमा॑ना॒न्ब्रह्म॑ स्वय॒म्भ्व॑भ्यान॑र्ष॒त्त
ऋष॑योऽभव॒न्तदृषी॑णामृषि॒त्वं तां दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञका॑मा॒स्त
ए॒तं ब्र॑ह्मय॒ज्ञम॑पश्य॒न्तमाऽह॑र॒न्तेना॑यजन्त॒ यदृ॒चोऽध्यगी॑षत॒
ताः पय॑ आहुतयो दे॒वाना॑मभव॒न् यद्यजूँ॑षि घृ॒ताहु॑तयो॒ यत्सामा॑नि॒
सोमा॑हुतयो॒ यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतयो॒ यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒
कल्पा॒न्गाथा॑ नाराशँ॒सीर्मे॑दाहु॒तयो॑ दे॒वाना॑मभव॒न्ताभिः॒, क्षुधं॑
पा॒प्मान॒मपा॑घ्न॒न्नप॑हतपाप्मानो दे॒वास्स्व॒र्गं लो॒कमा॑य॒न्ब्रह्म॑णः॒
सायु॑ज्य॒मृष॑योऽगच्छन् ॥ ०। २। ९। १३॥ ॥ ९॥
१४ पञ्च॒ वा ए॒ते म॑हाय॒ज्ञाः स॑त॒ति प्रता॑यन्ते सत॒ति सन्ति॑ष्ठन्ते
देवय॒ज्ञः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ इति॒
यद॒ग्नौ जु॒होत्य॒पि स॒मिधं॒ तद्दे॑वय॒ज्ञः सन्ति॑ष्ठते॒ यत्पि॒तृभ्यः॑
स्व॒धाक॒रोत्यप्य॒पस्तत्पि॑तृय॒ज्ञः सन्ति॑ष्ठते॒ यद्भू॒तेभ्यो॑ ब॒लिँ
हर॑ति॒ तद्भू॑तय॒ज्ञः सन्ति॑ष्ठते॒ यद्ब्रा॑ह्म॒णेभ्योऽन्नं॒ ददा॑ति॒
तन्म॑नुष्यय॒ज्ञः सन्ति॑ष्ठते॒ यत्स्वा॑ध्या॒यमधी॑यी॒तैका॑मप्यृ॒चं
यजु॒स्साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञः सन्ति॑ष्ठते॒ यदृ॒चोऽधी॑ते॒ पय॑सः॒
कूल्या॑ अस्य पि॒तॄन्त्स्व॒धा अ॒भिव॑हन्ति॒ यद्यजूँ॑षि घृ॒तस्य॑
कूल्या॒ यत्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गि॒रसो॒ मधोः॑ कूल्या॒
यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर्मेद॑सः॒
कूल्या॑ अस्य पि॒तॄन्त्स्व॒धा अ॒भिव॑हन्ति॒ यदृ॒चोऽधी॑ते॒ पय॑
आहुतिभिरे॒व तद्दे॒वाग्स्त॑र्पयति॒ यद्यजूँ॑षि घृ॒ताहु॑तिभि॒र्यत्सामा॑नि॒
सोमा॑हुतिभि॒र्यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतिभि॒र्यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्
पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर्मे॑दाहु॒तिभि॑रे॒व
तद्दे॒वाग्स्त॑र्पयति॒ त ए॑नं तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा
ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ॥ ०। २। १०। १४॥ ॥ १०॥
१५ ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒ प्राच्यां॑ दि॒शि ग्रामा॒दछ॑दिर्द॒र्श
उदी॑च्यां प्रागुदी॒च्यां वो॒दित॑ आदि॒त्ये द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒
हस्ता॑वव॒निज्य॒ त्रिराचा॑मे॒द्द्विः प॑रि॒मृज्य॑ स॒कृदु॑प॒स्पृश्य॒
शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॒ यत्त्रिरा॒चाम॑ति॒
तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः प॑रि॒मृज॑ति॒ तेन॒ यजूँ॑षि॒
यत्स॒कृदु॑प॒स्पृश॑ति॒ तेन॒ सामा॑नि॒ यत्स॒व्यं पा॒णिं पा॒दौ
प्रो॒क्षति॒ यच्छिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ॑ते॒
तेनाथ॑र्वाङ्गि॒रसो॑ ब्राह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑
नाराशँ॒सीः प्री॑णाति॒ दर्भा॑णां म॒हदु॑प॒स्तीऱ्यो॒पस्थं॑ कृ॒त्वा
प्राङासी॑नः स्वाध्या॒यमधी॑यीता॒पां वा ए॒ष ओष॑धीनाँ॒ रसो॒ यद्द॒र्भाः
सर॑समे॒व ब्रह्म॑ कुरुते दक्षिणोत्त॒रौ पा॒णी पा॒दौ कृ॒त्वा सप॒वित्रा॒वोमिति॒
प्रति॑पद्यत ए॒तद्वै यजु॑स्त्रयीं वि॒द्यां प्रत्ये॒षा वागे॒तत्प॑र॒मम॒क्षरं॒
तदे॒तदृ॒चाऽभ्यु॑क्त मृ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न् यस्मि॑न्दे॒वा
अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त
इ॒मे समा॑सत॒ इति॒ त्रीने॒व प्रायु॑ङ्क्त॒ भूर्भुव॒स्स्व॑रित्या॑है॒तद्वै
वा॒चस्स॒त्यं यदे॒व वा॒चस्स॒त्यं तत्प्रायु॒ङ्क्ताथ॑ सावि॒त्रीं गा॑य॒त्रीं
त्रिरन्वा॑ह प॒च्छो॑ऽर्धर्च॑शोऽनवा॒नँ स॑वि॒ता श्रियः॑ प्रसवि॒ता
श्रिय॑मे॒वाप्नो॒त्यथो॑ प्र॒ज्ञात॑यै॒व प्र॑ति॒पदा॒ छन्दाँ॑सि॒ प्रति॑पद्यते
॥ ०। २। ११। १५॥ ॥ ११॥
१६ ग्रामे॒ मन॑सा स्वाध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑ वे॒ति ह॑ स्मा॒ह शौ॒च
आ॑ह्ने॒य उ॒तार॑ण्ये॒ऽबल॑ उ॒त वा॒चोत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न
उ॒त शया॑नो॒ऽधीयी॑तै॒व स्वा॑ध्या॒यं तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वं
वि॒द्वान्त्स्वा॑ध्या॒यमधी॑ते॒ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै
नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते
क॑रोमि ॥ ०। २। १२। १६॥ ॥ १२॥
१७ म॒ध्यन्दि॑ने प्र॒बल॒मधी॑यीता॒सौ खलु॒ वावैष आ॑दि॒त्यो
यद्ब्रा॑ह्म॒णस्तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठं तपति॒ तदे॒षाऽभ्यु॑क्ता । चि॒त्रं
दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॒श्चेति॒ स वा
ए॒ष य॒ज्ञः स॒द्यः प्रता॑यते स॒द्यः सन्ति॑ष्ठते॒ तस्य॒ प्राक्सा॒यम॑वभृ॒थो
नमो॒ ब्रह्म॑ण॒ इति॑ परिधा॒नीयां॒ त्रिरन्वा॑हा॒प उ॑प॒स्पृश्य॑ गृ॒हाने॑ति॒
ततो॒ यत्किञ्च॒ ददा॑ति॒ सा दक्षि॑णा ॥ ०। २। १३। १७॥ ॥ १३॥
१८ तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ मेघो॑ हवि॒र्धानं॑ वि॒द्युद॒ग्निर्व॒र्षँ
ह॒विस्स्त॑नयि॒त्नुर्व॑षट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑वषट्का॒रो
वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्विष्ट॒कृद्य ए॒वं वि॒द्वान्मे॒घे व॒र्षति॑
वि॒द्योत॑माने स्त॒नय॑त्यव॒स्फूर्ज॑ति॒ पव॑माने वा॒याव॑मावा॒स्या॑याग्
स्वाध्या॒यमधी॑ते॒ तप॑ ए॒व तत्त॑प्यते॒ तपो॑ हि स्वाध्या॒य इत्यु॑त्त॒मं
नाकँ॑ रोहत्युत्त॒मः स॑मा॒नानां॑ भवति॒ याव॑न्तँ ह॒ वा इ॒मां वि॒त्तस्य॑
पू॒र्णां दद॑त्स्व॒र्गं लो॒कं ज॑यति॒ ताव॑न्तं लो॒कं ज॑यति॒ भूयाँ॑सं
चाक्ष॒य्यं चाप॑पुनर्मृ॒त्युञ्ज॑यति॒ ब्रह्म॑ण॒स्सायु॑ज्यं गच्छति ॥ ०। २।
१४। १८॥ ॥ १४॥
१९ तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑नध्या॒यौ यदा॒त्माऽशुचि॒र्यद्दे॒शः
समृ॑द्धिर्दैव॒तानि॒ य ए॒वं वि॒द्वान्म॑हारा॒त्र उ॒षस्युदि॑ते॒
व्रजँ॒स्तिष्ठ॒न्नासी॑नः॒ शया॑नो॒ऽरण्ये॑ ग्रामे॒ वा
याव॑त्त॒रसग्ग्॑ स्वाध्या॒यमधी॑ते॒ सर्वा॑न् लो॒कान् ज॑यति॒ सर्वा॑न्
लो॒कान॑नृ॒णोऽनु॒सञ्च॑रति॒ तदे॒षाऽभ्यु॑क्ता । अ॒नृ॒णा
अ॒स्मिन्न॑नृ॒णाः पर॑स्मिँस्तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये
दे॑व॒याना॑ उ॒त पि॑तृ॒याणा॒स्सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मेत्य॒ग्निं
वै जा॒तं पा॒प्मा ज॑ग्राह॒ तं दे॒वा आहु॑तीभिः पा॒प्मान॒मपा॑घ्न॒न्नाहु॑तीनां
य॒ज्ञेन॑ य॒ज्ञस्य॒ दक्षि॑णाभि॒र्दक्षि॑णानां ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒
छन्दो॑भि॒श्छन्द॑साग् स्वाध्या॒येनाप॑हतपाप्मा स्वाध्या॒यो॑ दे॒वप॑वित्रं॒ वा
ए॒तत्तं योऽनू॑त्सृ॒जत्यभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के तदे॒षाऽभ्यु॑क्ता
। यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति
। यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒
पन्था॒मिति॒ तस्मा॑त्स्वाध्या॒योऽध्ये॑त॒व्यो॑ यं यं॑ क्र॒तुमधी॑ते॒ तेन॑
तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यं गच्छति॒ तदे॒षाऽभ्यु॑क्ता
। ये अ॒र्वाङु॒त वा॑ पुरा॒णे वे॒दं वि॒द्वाँस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते
परि॑वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च हँ॒समिति॒ याव॑ती॒र्वै
दे॒वता॒स्तास्सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा॑द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑
दि॒वे दि॑वे॒ नम॑स्कुर्या॒न्नाश्ली॒लं की॑र्तयेदे॒ता ए॒व दे॒वताः॑ प्रीणाति ॥ ०। २।
१५। १९॥ ॥ १५॥
२० रिच्य॑त इव॒ वा ए॒ष प्रेव रि॑च्यते॒ यो या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑
या॒जयि॑त्वा प्रतिगृ॒ह्य वाऽन॑श्न॒न्त्रिः स्वा॑ध्या॒यं वे॒दमधी॑यीत त्रिरा॒त्रं
वा॑ सावि॒त्रीं गा॑य॒त्रीम॒न्वाति॑रेचयति॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑
स्पृणोत्या॒त्मा हि वरः॑ ॥ ०। २। १६। २०॥ ॥ १६॥
२१ दु॒हे ह॒ वा ए॒ष छन्दाँ॑सि॒ यो या॒जय॑ति॒ स येन॑ यज्ञक्र॒तुना॑
या॒जये॒त्सोऽर॑ण्यं प॒रेत्य॑ शुचौ दे॒शे स्वा॑ध्या॒यमे॒वैन॒मधी॑यन्नासी॒त
तस्या॒नश॑नं दी॒क्षा स्था॒नमु॑प॒सद॒ आस॑नँ सु॒त्या वाग्जु॒हूर्मन॑
उप॒भृद्धृ॒तिर्ध्रु॒वा प्रा॒णो ह॒विः सामा॑ध्व॒र्युस्स वा ए॒ष य॒ज्ञः
प्रा॒णद॑क्षि॒णोऽन॑न्तदक्षिणः॒ समृ॑द्धतरः ॥ ०। २। १७। २१॥ ॥ १७॥
२२ क॒ति॒धाऽव॑कीर्णी प्रवि॒शति॑ चतु॒र्धेत्या॑हुर्ब्रह्मवा॒दिनो॑ म॒रुतः॑
प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒
सर्वे॑ण॒ तस्यै॒तां प्राय॑श्चित्तिं वि॒दाञ्च॑कार सुदे॒वः का॑श्य॒पो यो
ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑याँ॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒
द्विराज्य॑स्योप॒घातं॑ जुहोति॒ कामाव॑कीर्णो॒ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒
कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒
स्वाहेत्य॒मृतं॒ वा आज्य॑म॒मृत॑मे॒वात्मन्ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः
कवा॑तिर्यङ्ङ॒ग्निम॒भिम॑न्त्रयेत॒ सं मा॑ सिञ्चन्तु म॒रुतः॒ समिन्द्र॒स्सं
बृह॒स्पतिः॑ । सं मा॒ऽयम॒ग्निः सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तं
करोत॒ मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान्द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒
बृह॒स्पति॑र्ब्रह्मवर्च॒सं प्रत्य॒ग्निरि॒तर॒त्सर्वँ॒ सर्व॑तनुर्भू॒त्वा
सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा योऽपू॑त इव॒ मन्ये॑त॒
स इ॒त्थं जु॑हुयादि॒त्थम॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒मायु॑रे॒वात्मन्ध॑त्ते॒
वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑ स्पृणोत्या॒त्मा हि वरः॑ ॥ ०। २। १८। २२॥ ॥ १८॥
२३ भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भूव॒स्स्वः॑ प्रप॑द्ये॒
ब्रह्म॒ प्रप॑द्ये ब्रह्मको॒शं प्रप॑द्ये॒ऽमृतं॒ प्रप॑द्येऽमृतको॒शं प्रप॑द्ये
चतुर्जा॒लं ब्र॑ह्मको॒शं यं मृ॒त्युर्नाव॒पश्य॑ति॒ तं प्रप॑द्ये दे॒वान्प्रप॑द्ये
देवपु॒रं प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ऽहं
तेज॑सा॒ कश्य॑पस्य॒ यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मू॒र्धानं॑ ब्र॒ह्मोत्त॑रा॒
हनु॑र्य॒ज्ञोऽध॑रा॒ विष्णु॒र्हृद॑यँ संवत्स॒रः प्र॒जन॑नम॒श्विनौ॑
पूर्व॒पादा॑व॒त्रिर्मध्यं॑ मि॒त्रावरु॑णावपर॒पादा॑व॒ग्निः पुच्छ॑स्य प्रथ॒मं
काण्डं॒ तत॒ इन्द्र॒स्ततः॑ प्र॒जाप॑ति॒रभ॑यं चतु॒र्थँ स वा ए॒ष
दि॒व्यः शा॑क्व॒रः शिशु॑मार॒स्तँ ह॒ य ए॒वं वेदाप॑ पुनर्मृ॒त्युं
ज॑यति॒ जय॑ति स्व॒र्गं लो॒कं नाध्वनि॒ प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नाप्सु
प्रमी॑यते॒ नान॒पत्यः॑ प्रमी॒यते॑ ल॒घ्वान्नो॑ भवति ध्रु॒वस्त्वम॑सि ध्रु॒वस्य
क्षि॑तमसि॒ त्वं भू॒ताना॒मधि॑पतिरसि॒ त्वं भू॒ताना॒ग् श्रेष्ठो॑ऽसि॒
त्वां भू॒तान्युप॑प॒र्याव॑र्तन्ते॒ नम॑स्ते॒ नम॒स्सर्वं॑ ते॒ नमो॒ नमः॑
शिशुकुमाराय॒ नमः॑ ॥ ०। २। १९। २३॥ ॥ १९॥
२४ नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒
प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमः॒ प्रती॑च्यै दि॒शे याश्च॑
दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॒ उदी॑च्यै दि॒शे याश्च॑
दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दि॒शे
याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमोऽध॑रायै दि॒शे
याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्त॒रायै॑
दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो
गङ्गायमुनयोर्मध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मानश्चिरं जीवितं व॑र्धय॒न्ति॒
नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒
नमः ॥ ०। २। २०। २४॥ ॥ २०॥ सह॒ रक्षाँ॑सि॒ यद्दे॑वास्स॒प्तद॑श॒
यददी॑व्य॒न्पञ्च॑द॒शायु॑ष्टे॒ चतु॑स्त्रिशँशद्वैश्वान॒राय॒
षड्विँ॑शति॒र्वात॑रशना ह कूश्मा॒ण्डैर॒जान् ह॒ पञ्च॑ ब्रह्मय॒ज्ञेन॒
ग्रामे॑ म॒ध्यन्दि॑ने॒ तस्य॒ वै मेघ॒स्तस्य॒ वै द्वौ रिच्य॑ते दु॒हे ह॑
कति॒धाऽव॑कीर्णी॒ भूर्नमः॒ प्राच्यै॑ विँश॒तिः ॥ २०॥ सह॒ वात॑रशना
दु॒हे ह॒ चतु॑र्विँश॒तिः ॥ २४॥ सह॒ वै मुनि॑भ्यश्च॒ नमः ॥ (सह॒ नमः)
० नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ओं शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥
आरण्यके तृतीयः प्रश्नः ३
० तच्छं॒योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॑
स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑
अस्तु द्वि॒पदे॑ । शं चतु॑ष्पदे ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ चित्ति॒स्स्रुक् । चि॒त्तमाज्य॑म् । वाग्वेदिः॑ । आधी॑तं ब॒र्हिः । केतो॑ अ॒ग्निः
। विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्होता॑ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः ।
सामा॑ध्व॒र्युः । वाच॑स्पते विधे नामन् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒
नाम॑ । वा॒चस्पति॒स्सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा॑ ॥ ०। ३। १। १॥
अ॒ध्व॒र्युः पञ्च॑ च ॥ १॥
२ पृ॒थि॒वी होता॑ । द्यौर॑ध्व॒र्युः । रु॒द्रो॑ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता ।
वाच॑स्पते वा॒चो वी॒र्ये॑ण । सम्भृ॑ततमे॒नाय॑क्ष्यसे । यज॑मानाय॒ वार्य॑म् ।
आ सुव॒स्कर॑स्मै । वा॒चस्पतिः॒ सोमं॑ पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा॑
॥ ०। ३। २। २॥ पृ॒थि॒वी होता॒ दश॑ ॥ २॥
३ अ॒ग्निर्होता॑ । अ॒श्विना॑ऽध्व॒र्यू । त्वष्टा॒ऽग्नीत् । मि॒त्र उ॑पव॒क्ता
। सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒
सोमाः॑ । वाता॑पेर्हवन॒श्रुत॒स्स्वाहा॑ ॥ ०। ३। ३। ३॥ अ॒ग्निर्होता॒ऽष्टौ ॥ ३॥
४ सूर्यं॑ ते॒ चक्षुः॑ । वातं॑ प्रा॒णः । द्यां पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा ।
अङ्गै॑र्य॒ज्ञम् । पृ॒थि॒वीँ शरी॑रैः । वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा ।
अच्छि॑द्रया जु॒ह्वा॑ । दि॒वि दे॑वा॒वृधँ॒ होत्रा॒मेर॑यस्व॒ स्वाहा॑ ॥ ०।
३। ४। ४॥ सूर्यं॑ ते॒ नव॑ ॥ ४॥
५ म॒हाह॑वि॒र्होता॑ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना
उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा॑प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑
उद्गा॒ता । वाच॑स्पते हृद्विधे नामन् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒
नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑
दि॒वे । नमः॑ पृथि॒व्यै स्वाहा॑ ॥ ०। ३। ५। ५॥ अ॒पा॒त्त्रीणि॑ च ॥ ५॥
६ वाग्घोता॑ । दी॒क्षा पत्नी॑ । वातो॑ऽध्व॒र्युः । आपो॑ऽभिग॒रः । मनो॑ ह॒विः ।
तप॑सि जुहोमि । भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वय॒म्भु । ब्रह्म॑णे स्वय॒म्भुवे॒
स्वाहा॑ ॥ ०। ३। ६। ६॥ वाग्घोता॒ नव॑ ॥ ६॥
७ ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒
यशः॑ । य॒ज्ञश्च॑ मे भूयात् । अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु
प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । भ॒र्ता च॑ मे भूयात् । पृ॒थि॒वी त्रिहो॑ता ।
स प्र॑ति॒ष्ठा ॥ ०। ३। ७। ७॥
८ स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात् ।
अ॒न्तरि॑क्षं॒ चतु॑र्होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒
यशः॑ । वि॒ष्ठाश्च॑ मे भूयात् । वा॒युः पञ्च॑होता । स प्रा॒णः । स मे॑ ददातु
प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णश्च॑ मे भूयात् ॥ ०। ३। ७। ८॥
९ च॒न्द्रमा॒ष्षड्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒
यशः॑ । ऋ॒तव॑श्च मे कल्पन्ताम् । अन्नँ॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः
। स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् ।
द्यौर॒ष्टहो॑ता । सो॑ऽनाधृ॒ष्यः ॥ ०। ३। ७। ९॥
१० स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् ।
आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑
। ते॒ज॒स्वी च॑ भूयासम् । प्र॒जाप॑ति॒र्दश॑होता । स इ॒दँ सर्व॑म् ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । सर्वं॑ च मे भूयात् ॥ ०। ३। ७।
१०॥ प्र॒ति॒ष्ठा प्रा॒णश्च॑ मे भूयादनाधृ॒ष्यस्सर्वं॑ च मे भूयात् ॥ ७॥
ब्रा॒ह्म॒णो य॒ज्ञो॑ऽग्निर्भ॒र्ता पृ॑थि॒वी प्र॑ति॒ष्ठाऽन्तरि॑क्षं वि॒ष्ठा
वा॒युः प्रा॒णश्च॒न्द्रमा॑ ऋ॒तूनन्नँ॒ स प्रा॒णस्य॑ प्रा॒णो द्यौर॑नाधृ॒ष्य
आ॑दि॒त्यस्स ते॑ज॒स्वी प्र॒जाप॑तिरि॒दँ सर्व॑म् ॥
११ अ॒ग्निर्यजु॑र्भिः । स॒वि॒ता स्तोमैः॑ । इन्द्र॑ उक्थाम॒दैः । मि॒त्रावरु॑णावा॒शिषा॑
। अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुतः॑ सदोहविर्धा॒नाभ्या॑म् । आपः॒
प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्हिषा॑ । अदि॑ति॒र्वेद्या॑ । सोमो॑ दी॒क्षया॑ ॥ ०।
३। ८। ११॥
१२ त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः
। विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पतिः॑ पुरो॒धया॑ ।
प्र॒जाप॑तिरुद्गी॒थेन॑ । अ॒न्तरि॑क्षं प॒वित्रे॑ण । वा॒युः पात्रैः॑ । अ॒हँ
श्र॒द्धया॑ ॥ ०। ३। ८। १२॥ दी॒क्षया॒ पात्रै॒रेक॑ञ्च ॥ ८॥
१३ सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः॑ । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा
सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां॑ त्रि॒ष्टुक् । आ॒दि॒त्यानां॒
जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ ०। ३। ९। १३॥
१४ वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः ।
मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो
रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ ।
चत॑स्रोऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च ।
त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒
पत्न॑यः ॥ ०। ३। ९। १४॥ अ॒नु॒ष्टुग्दिश॒ष्षट्च॑ ॥ ९॥
१५ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्यां॒
प्रति॑गृह्णामि । राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् ।
तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं
कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ ०। ३। १०। १५॥
१६ कामः॑ प्रतिगृही॒ता । कामँ॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि ।
कामै॒तत्ते॑ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा॑ऽऽङ्गिर॒सः प्रति॑गृह्णातु
। सोमा॑य॒ वासः॑ । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व॑म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥
०। ३। १०। १६॥
१७ मन॑वे॒ तल्प॑म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽवि॑म् । निरृ॑त्या अश्वतरगर्द॒भौ
। हि॒मव॑तो ह॒स्तिन॑म् । ग॒न्ध॒र्वा॒प्स॒राभ्यः॑ स्रगलङ्कर॒णे । विश्वे॑भ्यो
दे॒वेभ्यो॑ धा॒न्यम् । वा॒चेऽन्न॑म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायापः॑ ॥ ०। ३।
१०। १७॥
१८ उ॒त्तानायां॑गीर॒सायानः॑ । वै॒श्वा॒न॒राय॒ रथ॑म् । वै॒श्वा॒न॒रः
प्र॒त्नथा॒ नाक॒मारु॑हत् । दि॒वः पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स
पू॑र्व॒वज्ज॒नय॑ज्ज॒न्तवे॒ धन॑म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः ।
राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ॑म् । तेना॑मृत॒त्वम॑श्याम्
। वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ ०। ३। १०। १८॥
१९ क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता ।
कामँ॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षा
ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा॑ऽऽङ्गिर॒सः प्रति॑गृह्णातु ॥ ०। ३। १०। १९॥
दा॒ता पुरु॑ष॒मापः॑ प्रतिग्रही॒त्रे नव॑ च ॥ १०॥
२० सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्या॒त्मानं॑ दश॒धा चर॑न्तम्
। अ॒न्तस्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्माऽन्व॑विन्द॒द्दश॑होतार॒मर्णे॑
। अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एक॒स्सन्ब॑हु॒धा वि॑चारः । श॒तँ
शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ वेदा॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ होता॑रो॒
यत्रैकं॒ भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ ०। ३। ११। २०॥
२१ अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाँ॒ सर्वा॑त्मा । सर्वाः॑ प्र॒जा यत्रैकं॒
भव॑न्ति । चतु॑र्होतारो॒ यत्र॑ स॒म्पदं॒ गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन
आ॒त्मा जना॑नाम् । ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानँ॑
सवि॒तारं॒ बृह॒स्पति॑म् । चतु॑र्होतारं प्र॒दिशोऽनु॑क्लृ॒प्तम् । वा॒चो वी॒र्यं॑
तप॒साऽन्व॑विन्दत् । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । त्वष्टा॑रँ रू॒पाणि॑
विकु॒र्वन्तं॑ विप॒श्चिम् ॥ ०। ३। ११। २१॥
२२ अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः
। अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । दे॒वानां॒ बन्धु॒ निहि॑तं॒ गुहा॑सु ।
अ॒मृते॑न क्लृ॒प्तं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः
। श॒तं नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं वृ॑णाति ।
इन्द्र॑स्या॒त्मा निहि॑तः॒ पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायुः॑ प्र॒जाना॑म् ॥ ०।
३। ११। २२॥
२३ इन्द्रँ॒ राजा॑नँ सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॒
निचि॑क्युः । र॒श्मिँ र॑श्मी॒नां मध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे
क॒वयो॒ निपा॑न्ति । य आ॑ण्डको॒शे भुव॑नं बि॒भर्ति॑ । अनि॑र्भिण्णः॒ सन्नथ॑
लो॒कान्, वि॒चष्टे॑ । यस्या॑ण्डको॒शँ शुष्म॑मा॒हुः प्रा॒णमुल्ब॑म् । तेन॑
क्लृ॒प्तो॑ऽमृते॑ना॒हम॑स्मि । सु॒वर्णं॒ कोशँ॒ रज॑सा॒ परी॑वृतम् ।
दे॒वानां॑ वसु॒धानीं॑ वि॒राज॑म् ॥ ०। ३। ११। २३॥
२४ अ॒मृत॑स्य पू॒र्णां तामु॑ क॒लां विच॑क्षते । पादँ॒ षड्ढो॑तु॒र्न किला॑
विवित्से । येन॒र्तवः॑ पञ्च॒धोत क्लृ॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः
। तँ षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ।
अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् ।
स॒हैव सन्तं॒ न विजा॑नन्ति दे॒वाः । इन्द्र॑स्या॒त्मानँ॑ शत॒धा चर॑न्तम् ॥
०। ३। ११। २४॥
२५ इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे॑ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः ।
परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् ।
दे॒वानाँ॒ हृद॑यं॒ ब्रह्माऽन्व॑विन्दत् । ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार
। अ॒र्कँश्चोत॑न्तँ सरि॒रस्य॒ मध्ये॑ । आ यस्मि॑न्त्स॒प्त पेर॑वः ।
मेह॑न्ति बहु॒लाग् श्रिय॑म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ॥ ०। ३। ११। २५॥
२६ अच्यु॑तां बहु॒लाग् श्रिय॑म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिन्द्रा॑य पिन्वते ।
ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑तां बहु॒लाग् श्रिय॑म् । मह्य॒मिन्द्रो॒ निय॑च्छतु
। श॒तँश॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङाया॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑
। प्रमँह॑माणो बहु॒लाग् श्रिय॑म् । र॒श्मिरिन्द्र॑स्सवि॒ता मे॒ निय॑च्छतु ॥ ०।
३। ११। २६॥
२७ घृ॒तन्तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु । हरिः॑ पत॒ङ्गः
प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इन्द्रः॑ कामव॒रं
द॑दातु । पञ्चा॑रं च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिः सरि॒रस्य॒
मध्ये॑ । अज॑स्रं॒ ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इन्द्रः॑ कामव॒रं द॑दातु ।
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ॥ ०। ३। ११। २७॥
२८ एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् ।
येने॒मा विश्वा॒ भुव॑नानि तस्थुः । भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॑ । तपो॑
दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑, क्ष॒त्रं बल॒मोज॑श्च जा॒तम् । तद॒स्मै
दे॒वा अ॒भिसन्न॑मन्तु । श्वे॒तँ र॒श्मिं बो॑भु॒ज्यमा॑नम् । अ॒पान्ने॒तारं॒
भुव॑नस्य गो॒पाम् । इन्द्रं॒ निचि॑क्युः पर॒मे व्यो॑मन् ॥ ०। ३। ११। २८॥
२९ रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तँ
स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् । अ॒यं यः श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं
जग॑त् । प्र॒जां प॒शून्धना॑नि । अ॒स्माकं॑ ददातु । श्वे॒तो र॒श्मिः परि॒ सर्वं॑
बभूव । सुव॒न्मह्यं॑ प॒शून्, वि॒श्वरू॑पान् । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑
॥ ०। ३। ११। २९॥
३० हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते
। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां
ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानाग् स्व॒र्यं॑ मनी॒षाम् । ऋ॒तस्य॑
प॒दे क॒वयो॒ निपा॑न्ति । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑
बहु॒धैक॑रूपाः । अ॒ग्निस्ताँ अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ ०। ३। ११। ३०॥
३१ प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । वी॒तँ स्तु॑केस्तुके । यु॒वम॒स्मासु॒
निय॑च्छतम् । प्रप्र॑ य॒ज्ञप॑तिन्तिर । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः
। विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाँ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ॥ ०। ३। ११। ३१॥
३२ वा॒युस्ताँ अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ।
इडा॑यै सृ॒प्तं घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑हि॒तम् । य
आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाँ॑
सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ ०। ३। ११।
३२॥ आ॒त्मा जना॑नां विकु॒र्वन्तं॑ विप॒श्चिं प्र॒जानां॑ वसु॒धानीं॑ वि॒राजं॒
चर॑न्तं॒ गोम॑तीं मे॒ निय॑च्छ॒त्वेक॑चक्रं॒ व्यो॑मन्मा॒यया॑ दे॒व एक॑रूपा
अ॒ष्टौ च॑ ॥ ११॥
३३ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑
वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदँ सर्वम्॑ । यद्भू॒तं यच्च॒
भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा
। अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ ०। ३। १२। ३३॥
३४ पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व
उदै॒त्पुरु॑षः । पादो॑ऽस्ये॒हाभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा॑द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ०। ३। १२। ३४॥
३५ यत्पुरु॑षेण ह॒विषा॑ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्॑ ।
ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । स॒प्तास्या॑सन्परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑
कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । तं य॒ज्ञं
ब॒र्हिषि॒ प्रौक्ष॑न् । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ०। ३। १२। ३५॥
३६ तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॑
। सम्भृ॑तं पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्या॑न् । आ॒र॒ण्यान्ग्रा॒म्याश्च॒
ये । तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाँ॑सि जज्ञिरे॒
तस्मा॑त् । यजु॒स्तस्मा॑दजायत ॥ ०। ३। १२। ३६॥
३७ तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॑त् ।
तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ । यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ ०। ३। १२। ३७॥
३८ ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याँ शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो
जा॒तः । चक्षो॒स्सूऱ्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत
। नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौस्सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒
श्रोत्रा॑त् । तथा॑ लो॒काँ अ॑कल्पयन्न् ॥ ०। ३। १२। ३८॥
३९ वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्, यदास्ते॑
। धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः
। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते
। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते
ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ ०। ३। १२।
३९॥ पूरु॑षः पु॒रो॑ऽग्र॒तो॑ऽजायत कृ॒तो॑ऽकल्पयन्नास॒न्द्वे च॑ ॥ १२॥
( ज्याया॒नधि॒ पूरु॑षः । अ॒न्यत्र॒ पुरु॑षः ॥ )
४० अ॒द्भ्यस्सम्भू॑तः पृथि॒व्यै रसा॑च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑
। तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑
। वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्
। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ ०। ३। १३। ४०॥
४१ तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ।
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे॑ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒
पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ ०। ३। १३। ४१॥ जा॒य॒ते॒
वशे॑ स॒प्त च॑ ॥ १३॥
४२ भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒द
भा॒रं त॒न्द्रय॑ते॒ स भर्तुम्॑ । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति । तमे॒व
मृ॒त्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः । स भृ॒तो
भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒ वेद॑ स॒त्येन॒ भर्तु॑म् । स॒द्यो जा॒तमु॒त
ज॑हात्ये॒षः । उ॒तो जर॑न्तं॒ न ज॑हा॒त्येक॑म् ॥ ०। ३। १४। ४२॥
४३ उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒वस्सद॑मे॒व प्रार्थः॑ । यस्तद्वेद॒
यत॑ आब॒भूव॑ । स॒न्धां च॒ याँ सं॑द॒धे ब्रह्म॑णै॒षः । रम॑ते॒
तस्मि॑न्नु॒त जी॒र्णे शया॑ने । नैनं॑ जहा॒त्यह॑स्सु पू॒र्व्येषु॑ । त्वामापो॒
अनु॒ सर्वा॑श्चरन्ति जान॒तीः । व॒त्सं पय॑सा पुना॒नाः । त्वम॒ग्निँ
ह॑व्य॒वाहँ॒ समि॑न्त्से । त्वं भ॒र्ता मा॑त॒रिश्वा॑ प्र॒जाना॑म् ॥ ०। ३। १४। ४३॥
४४ त्वं य॒ज्ञस्त्वमु॑ वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे॑ ।
त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि । नमो॑ वामस्तु
शृणु॒तँ हवं॑ मे । प्राणा॑पानावजि॒रँ सं॒चर॑न्तौ । ह्वया॑मि वां॒
ब्रह्म॑णा तू॒र्तमेत॑म् । यो मां द्वेष्टि॒ तं ज॑हितं युवाना । प्राणा॑पानौ संविदा॒नौ
ज॑हितम् । अ॒मुष्यासु॑ना॒ मा सङ्ग॑साथाम् ॥ ०। ३। १४। ४४॥
४५ तं मे॑ देवा॒ ब्रह्म॑णा संविदा॒नौ । व॒धाय॑ दत्तं॒ तम॒हँ ह॑नामि ।
अस॑ज्जजान स॒त आब॑भूव । यंयं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒रं
त॒न्द्रय॑ते॒ स भर्तु॑म् । प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति । तद्वै त्वं प्रा॒णो
अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒
नव॑ ॥ ०। ३। १४। ४५॥ एकं॑ प्र॒जानां॑ गसाथां॒ नव॑ ॥ १४॥
४६ हरिँ॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम्
। ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा॑त् । अय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व । मा
छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑
रीरिष॒ आयु॑रुग्न । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम । स॒द्यश्च॑कमा॒नाय॑
। प्र॒वे॒पा॒नाय॑ मृ॒त्यवे॑ ॥ ०। ३। १५। ४६॥
४७ प्रास्मा॒ आशा॑ अशृण्वन् । कामे॑नाजनय॒न्पुनः॑ । कामे॑न मे॒ काम॒ आगा॑त्
। हृद॑या॒द्धृद॑यं मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒
माम॒भि । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् । यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि । मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान्
। प्र पू॒र्व्यं मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भं च॑र्षणी॒नाम् । यः
प्र॒जाना॑मेक॒राण्मानु॑षीणाम् । मृ॒त्युं य॑जे प्रथम॒जामृ॒तस्य॑ ॥ ०। ३। १५।
४७॥ मृ॒त्यवे॑ वी॒राग्श्च॒त्वारि॑ च ॥ १५॥
४८ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒माभा॑सि रोच॒नम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒
भ्राज॑स्वते ॥ ०। ३। १६। ४८॥ ॥ १६॥
४९ आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नस्स॒प्रथ॑स्तमः ॥
०। ३। १७। ४९॥ ॥ १७॥
५० ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒
नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥ ०। ३। १८। ५०॥ ॥ १८॥
५१ ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒
भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒ भव॑न्तीं त्वा सादयामि॒
दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं
त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ ०। ३। १९। ५१॥ ॥ १९॥
५२ प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒
स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै
स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ ०। ३। २०। ५२॥
॥ २०॥
५३ चि॒त्तँ सं॑ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्॑
स्थूलहृद॒येना॒ग्निँ हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां
महादे॒वम॒न्तः पा॑र्श्वेनौषिष्ठ॒हनँ॑ शिङ्गीनिको॒श्या॑भ्याम् ॥ ०। ३। २१।
५३॥ ॥ २१॥
चित्तिः॑ पृथि॒व्य॑ग्निः॒ सूर्यं॑ ते॒ चक्षु॑र्म॒हाह॑वि॒र्होता॒ वाग्घोता॑
ब्राह्म॒ण एक॑होता॒ऽग्निर्यजु॑र्भि॒स्सेनेन्द्र॑स्य दे॒वस्य॑ सु॒वर्णं॑ घ॒र्मँ
स॒हस्र॑शीर्षा॒ऽद्भ्यो भ॒र्ता हरिं॑ त॒रणि॒राप्या॑यस्वे॒युष्टे ये ज्योति॑ष्मतीं
प्रया॒साय॑ चि॒त्तमेक॑विँशतिः ॥ २१॥
चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्तस्य॒
धीरा॒ ज्योति॑ष्मतीं॒ त्रिप॑ञ्चा॒शत् ॥ ५३॥
चित्तिः॑ शिङ्गीनिको॒श्या॑भ्याम् ॥
० तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॑
स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑
अस्तु द्वि॒पदे॑ । शं चतु॑ष्पदे ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके चतुर्थः प्रश्नः ४
० नमोऽनु॑ मदन्तु ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑
वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मा मामृष॑यो
मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्माऽहमृषी॑न्मन्त्र॒कृतो॑ मन्त्र॒पती॒न्
परा॑दां वैश्वदे॒वीं वाच॑मुद्यासँ शि॒वामद॑स्तां॒ जुष्टां॑ दे॒वेभ्यः॒ शर्म॑
मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् । शर्म॑ च॒न्द्रश्च॒
सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती । भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒
तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं व॑दिष्ये॒
तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां
भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒ प्राणा॑पानौ मृ॒त्योर्मा॑
पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑
वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासँ शुश्रू॒षेण्यां॑
मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ओं शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥ ०। ४। १। १॥
२ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियः॑ । विप्रा॒ विप्र॑स्य बृह॒तो
वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् । म॒ही दे॒वस्य॑ सवि॒तुः
परि॑ष्टुतिः । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो
हस्ता॑भ्या॒माद॑दे । अब्भ्रि॑रसि॒ नारि॑रसि । अ॒ध्व॒र॒कृद्दे॒वेभ्यः॑ । उत्ति॑ष्ठ
ब्रह्मणस्पते ॥ ०। ४। २। २॥
३ दे॒व॒यन्त॑स्त्वेमहे । उप॒प्रय॑न्तु म॒रुतः॑ सु॒दान॑वः । इन्द्र॑ प्रा॒शूर्भ॑वा॒
सचा॑ । प्रैतु॒ ब्रह्म॑ण॒स्पतिः॑ । प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं
नर्यं॑ प॒ङ्क्तिरा॑धसम् । दे॒वा य॒ज्ञं न॑यन्तु नः । देवी॑ द्यावापृथिवी॒ अनु॑
मेऽमँसाथाम् । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ३॥
४ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे । इय॒त्यग्र॑ आसीः । ऋ॒द्ध्यास॑म॒द्य ।
म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे । देवी॑र्वम्रीर॒स्य
भू॒तस्य॑ प्रथमजा ऋतावरीः । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ४॥
५ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे । इन्द्र॒स्यौजो॑ऽसि । ऋ॒द्ध्यास॑म॒द्य
। म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे । अ॒ग्नि॒जा अ॑सि
प्र॒जाप॑ते॒ रेतः॑ । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ५॥
६ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे । आयु॑र्धेहि प्रा॒णं धे॑हि । अ॒पा॒नं
धे॑हि व्या॒नं धे॑हि । चक्षु॑र्धेहि॒ श्रोत्रं॑ धेहि । मनो॑ धेहि॒ वाचं॑ धेहि ।
आ॒त्मानं॑ धेहि प्रति॒ष्ठां धे॑हि । मां धे॑हि॒ मयि॑ धेहि । मधु॑ त्वा मधु॒ला
क॑रोतु । म॒खस्य॒ शिरो॑सि ॥ ०। ४। २। ६॥
७ य॒ज्ञस्य॑ प॒दे स्थः॑ । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करोमि । त्रैष्टु॑भेन त्वा॒
छन्द॑सा करोमि । जाग॑तेन त्वा॒ छन्द॑सा करोमि । म॒खस्य॒ रास्ना॑ऽसि । अदि॑तिस्ते॒
बिलं॑ गृह्णातु । पाङ्क्ते॑न॒ छन्द॑सा । सूर्य॑स्य॒ हर॑सा श्राय । म॒खो॑ऽसि ॥
०। ४। २। ७॥ प॒ते॒ शिर॑ ऋतावरीरृ॒द्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ शिरः॒
शिरो॑ऽसि॒ नव॑ च ॥ २॥ इय॑ति॒ देवी॒रिन्द्र॒स्यौजो॑ऽस्यग्नि॒जा अ॒स्यायु॑र्धेहि
प्रा॒णं पञ्च॑ ॥
८ वृष्णो॒ अश्व॑स्य नि॒ष्पद॑सि । वरु॑णस्त्वा धृ॒तव्र॑त॒ आधू॑पयतु ।
मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा । अ॒र्चिषे॑ त्वा । शो॒चिषे॑ त्वा । ज्योति॑षे
त्वा । तप॑से त्वा । अ॒भीमं म॑हि॒ना दिव॑म् । मि॒त्रो ब॑भूव स॒प्रथाः॑ । उ॒त
श्रव॑सा पृथि॒वीम् ॥ ०। ४। ३। ८॥
९ मि॒त्रस्य॑ चर्षणी॒धृतः॑ । श्रवो॑ दे॒वस्य॑ सान॒सिम् ।
द्यु॒म्नं चि॒त्रश्र॑वस्तमम् । सिद्ध्यै॑ त्वा । दे॒वस्त्वा॑ सवि॒तोद्व॑पतु ।
सु॒पा॒णिस्स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या॑ । अप॑द्यमानः पृथि॒व्याम् । आशा॒
दिश॒ आपृ॑ण । उत्ति॑ष्ठ बृ॒हन्भ॑व ॥ ०। ४। ३। ९॥
१० ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वम् । सूर्य॑स्य त्वा॒ चक्षु॒षाऽन्वी॑क्षे । ऋ॒जवे॑ त्वा
। सा॒धवे॑ त्वा । सु॒क्षि॒त्यै त्वा॒ भूत्यै॑ त्वा । इ॒दम॒हम॒मुमा॑मुष्याय॒णं
वि॒शा प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हामि । गा॒य॒त्रेण॑ त्वा॒
छन्द॒साऽऽच्छृ॑णद्मि । त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽच्छृ॑णद्मि । जाग॑तेन
त्वा॒ छन्द॒साऽऽच्छृ॑णद्मि । छृ॒णत्तु॑ त्वा॒ वाक् । छृ॒णत्तु॒ त्वोर्क् ।
छृ॒णत्तु॑ त्वा ह॒विः । छृ॒न्धि वाच॑म् । छृ॒न्ध्यूर्ज॑म् । छृ॒न्धि ह॒विः ।
देव॑ पुरश्चर स॒घ्यासं॑ त्वा ॥ ०। ४। ३। १०॥ पृ॒थि॒वीं भ॑व॒ वाक्षट्च॑
॥ ३॥
११ ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ प्रच॑रिष्यामः । होत॑र्घ॒र्मम॒भिष्टु॑हि ।
अग्नी॒द्रौहि॑णौ पुरो॒डाशा॒वधि॑श्रय । प्रति॑प्रस्थात॒र्विह॑र । प्रस्तो॑त॒स्सामा॑नि
गाय । यजु॑र्युक्तँ॒ साम॑भि॒राक्त॑खं त्वा । विश्वै॑र्दे॒वैरनु॑मतं
म॒रुद्भिः॑ । दक्षि॑णाभिः॒ प्रत॑तं पारयि॒ष्णुम् । स्तुभो॑ वहन्तु सुमन॒स्यमा॑नम् ।
स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः । भूर्भुव॒स्सुवः॑ । ओमिन्द्र॑वन्तः॒ प्रच॑रत
॥ ०। ४। ४। ११॥ अहृ॑णीयमानो॒ द्वे च॑ ॥ ४॥
१२ ब्रह्म॒न्प्रच॑रिष्यामः । होत॑र्घ॒र्मम॒भिष्टु॑हि । य॒माय॑ त्वा म॒खाय॑
त्वा । सूर्य॑स्य॒ हर॑से त्वा । प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑
। चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒
स्वाहा॑ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा॑ ।
दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ॥ ०। ४। ५। १२॥
१३ पृ॒थि॒वीं तप॑सस्त्रायस्व । अ॒र्चिर॑सि शो॒चिर॑सि॒ ज्योति॑रसि॒ तपो॑सि ।
सँ सी॑दस्व म॒हाँ अ॑सि । शोच॑स्व देव॒वीत॑मः । विधू॒मम॑ग्ने अरु॒षं
मि॑येध्य । सृ॒ज प्र॑शस्त दर्श॒तम् । अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्राः॑
। व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आ घ॒र्मो
अ॒ग्निमृ॒तय॑न्नसादीत् ॥ ०। ४। ५। १३॥
१४ अ॒ना॒धृ॒ष्या पु॒रस्ता॑त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः । पु॒त्रव॑ती
दक्षिण॒तः । इन्द्र॒स्याधि॑पत्ये । प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चात् । दे॒वस्य॑
सवि॒तुराधि॑पत्ये । प्रा॒णं मे॑ दाः । आश्रु॑तिरुत्तर॒तः ॥ ०। ४। ५। १४॥
१५ मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्रं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टात् ।
बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः, क्ष॒त्त्रं मे॑ दाः । तेजो॑ मे धा॒ वर्चो॑
मे धाः । यशो॑ मे धा॒स्तपो॑ मे धाः । मनो॑ मे धाः । मनो॒रश्वा॑ऽसि॒ भूरि॑पुत्रा ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्यः॑ पाहि ॥ ०। ४। ५। १५॥
१६ सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिँसीः । तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॑न्
। तपा॒ शँस॑मर॒रुषः॒ पर॑स्य । तपा॑ वसो चिकिता॒नो अ॒चित्ता॑न् । वि
ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ । चित॑स्स्थ परि॒चितः॑ । स्वाहा॑ म॒रुद्भिः॒
परि॑श्रयस्व । मा अ॑सि । प्र॒मा अ॑सि । प्र॒ति॒मा अ॑सि ॥ ०। ४। ५। १६॥
१७ सं॒मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्तरि॑क्षस्यान्त॒र्धिर॑सि । दिवं॒
तप॑सस्त्रायस्व । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् । आप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ।
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् ॥ ०। ४। ५। १७॥
१८ विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा
ते॑ पूषन्नि॒ह रा॒तिर॑स्तु । अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्व॑ । अर्ह॑न्नि॒ष्कं
य॑ज॒तं वि॒श्वरू॑पम् । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो
रुद्र॒ त्वद॑स्ति । गा॒य॒त्रम॑सि । त्रैष्टु॑भमसि । जाग॑तमसि । मधु॒ मधु॒
मधु॑ ॥ ०। ४। ५। १८॥ अ॒न॒क्त्व॒सा॒दी॒दु॒त्त॒र॒तः पा॑हि प्रति॒मा अ॑सि यज॒तं
ते॑ अ॒न्यज्जाग॑तम॒स्येकं॑ च ॥ ५॥
१९ दश॒ प्राची॒र्दश॑ भासि दक्षि॒णा । दश॑ प्र॒तीची॒र्दश॑ भा॒स्युदी॑चीः
। दशो॒र्ध्वा भा॑सि सुमन॒स्यमा॑नः । स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः ।
अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता॑द्रोचयतु गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो
रो॑चय । इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॑सा
। स मा॑ रुचि॒तो रो॑चय । वरु॑णस्त्वादि॒त्यैः प॒श्चाद्रो॑चयतु॒ जाग॑तेन॒
छन्द॑सा । स मा॑ रुचि॒तो रो॑चय ॥ ०। ४। ६। १९॥
२० द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑चय । बृह॒स्पति॑स्त्वा॒ विश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयतु॒
पाङ्क्ते॑न॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । रो॒चि॒तस्त्वं दे॑व
घर्म दे॒वेष्वसि॑ । रो॒चि॒षी॒याहं म॑नु॒ष्ये॑षु । सम्रा॑ड्घर्म
रुचि॒तस्त्वं दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सि । रु॒चि॒तो॑ऽहं
म॑नु॒ष्ये॑ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यासम् । रुग॑सि । रुचं॒
मयि॑ धेहि ॥ ०। ४। ६। २०॥
२१ मयि॒ रुक् । दश॑ पु॒रस्ता॑द्रोचसे । दश॑ दक्षि॒णा । दश॑ प्र॒त्यङ् ।
दशोदङ्ङ्॑ । दशो॒र्ध्वो भा॑सि सुमन॒स्यमा॑नः । स नः॑ सम्रा॒डिष॒मूर्जं॑ धेहि
। वा॒जी वा॒जिने॑ पवस्व । रो॒चि॒तो घ॒र्मो रु॑ची॒य ॥ ०। ४। ६। २१॥ रो॒च॒य॒
धे॒हि॒ नव॑ च ॥ ६॥
२२ अप॑श्यं गो॒पामनि॑पद्यमानम् । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स
स॒द्ध्रीची॒स्स विषू॑ची॒र्वसा॑नः । आव॑रीवर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीः ।
मधु॒माध्वी॑भ्यां॒ मधु॒माधू॑चीभ्याम् । अनु॑ वां दे॒ववी॑तये । सम॒ग्निर॒ग्निना॑
गत । सं दे॒वेन॑ सवि॒त्रा । सँ सूर्ये॑ण रोचते ॥ ०। ४। ७। २२॥
२३ स्वाहा॒ सम॒ग्निस्तप॑सा गत । सं दे॒वेन॑ सवि॒त्रा । सँ सूर्ये॑णारोचिष्ट ।
ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः । पृ॒थि॒व्या ध॒र्ता । उ॒रोर॒न्तरि॑क्षस्य
ध॒र्ता । ध॒र्ता दे॒वो दे॒वाना॑म् । अम॑र्त्यस्तपो॒जाः । हृ॒दे त्वा॒ मन॑से त्वा ।
दि॒वे त्वा॒ सूर्या॑य त्वा ॥ ०। ४। ७। २३॥
२४ ऊ॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि । दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ । विश्वा॑सां
भुवां पते । विश्व॑स्य भुवनस्पते । विश्व॑स्य मनसस्पते । विश्व॑स्य वचसस्पते
। विश्व॑स्य तपसस्पते । विश्व॑स्य ब्रह्मणस्पते । दे॒व॒श्रूस्त्वं दे॑व घर्म
दे॒वान्पा॑हि । त॒पो॒जां वाच॑म॒स्मे निय॑च्छ देवा॒युव॑म् ॥ ०। ४। ७। २४॥
२५ गर्भो॑ दे॒वाना॑म् । पि॒ता म॑ती॒नाम् । पतिः॑ प्र॒जाना॑म् । मतिः॑ कवी॒नाम् । सं
दे॒वो दे॒वेन॑ सवि॒त्राऽय॑तिष्ट । सँ सूर्ये॑णारुक्त । आ॒यु॒र्दास्त्वम॒स्मभ्यं॑
घर्म वर्चो॒दा अ॑सि । पि॒ता नो॑ऽसि पि॒ता नो॑ बोध । आ॒यु॒र्धास्त॑नू॒धाः
प॑यो॒धाः । व॒र्चो॒दा व॑रिवो॒दा द्र॑विणो॒दाः ॥ ०। ४। ७। २५॥
२६ अ॒न्त॒रि॒क्ष॒प्र॒ उ॒रोर्वरी॑यान् । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिँसीः । त्वम॑ग्ने
गृ॒हप॑तिर्वि॒शाम॑सि । विश्वा॑सां॒ मानु॑षीणाम् । श॒तं पू॒र्भिर्य॑विष्ठ
पा॒ह्यँह॑सः । स॒मे॒द्धारँ॑ श॒तँ हिमाः॑ । त॒न्द्रा॒विणँ॑
हार्दिवा॒नम् । इ॒हैव रा॒तय॑स्सन्तु । त्वष्टी॑मती ते सपेय । सु॒रेता॒ रेतो॒ दधा॑ना
। वी॒रं वि॑देय॒ तव॑ सं॒दृशि॑ । माऽहँ रा॒यस्पोषे॑ण॒ वियो॑षम् ॥ ०।
४। ७। २६॥ रो॒च॒ते॒ सूर्या॑य त्वा देवा॒युवं॑ द्रविणो॒दा दधा॑ना॒ द्वे च॑ ॥ ७॥
२७ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो
हस्ता॑भ्या॒माद॑दे । अदि॑त्यै॒ रास्ना॑ऽसि । इड॒ एहि॑ । अदि॑त॒ एहि॑ ।
सर॑स्व॒त्येहि॑ । असा॒वेहि॑ । असा॒वेहि॑ । असा॒वेहि॑ ॥ ०। ४। ८। २७॥
२८ अदि॑त्या उ॒ष्णीष॑मसि । वा॒युर॑स्यै॒डः । पू॒षा त्वो॒पाव॑सृजतु । अ॒श्विभ्यां॒
प्रदा॑पय । यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूः । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि
। यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑ । सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उस्र॑
घ॒र्मँ शिँ॑ष । उस्र॑ घ॒र्मं पा॑हि ॥ ०। ४। ८। २८॥
२९ घ॒र्माय॑ शिँष । बृह॒स्पति॒स्त्वोप॑सीदतु । दान॑वस्स्थ॒ पेर॑वः ।
वि॒ष्व॒ग्वृतो॒ लोहि॑तेन । अ॒श्विभ्यां॑ पिन्वस्व । सर॑स्वत्यै पिन्वस्व । पू॒ष्णे
पि॑न्वस्व । बृह॒स्पत॑ये पिन्वस्व । इन्द्रा॑य पिन्वस्व । इन्द्रा॑य पिन्वस्व ॥ ०। ४। ८। २९॥
३० गा॒य॒त्रो॑ऽसि । त्रैष्टु॑भोसि । जाग॑तमसि । स॒होर्जो भा॒गेनोप॒ मेहि॑ ।
इन्द्रा॑श्विना॒ मधु॑नस्सार॒घस्य॑ । घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वट् । स्वाहा॑
त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहोमि । मधु॑ ह॒विर॑सि । सूर्य॑स्य॒
तप॑स्तप । द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑गृह्णामि ॥ ०। ४। ८। ३०॥
३१ अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छामि । दे॒वानां॑ त्वा पितृ॒णामनु॑मतो॒
भर्तुँ॑ शकेयम् । तेजो॑ऽसि । तेजोऽनु॒प्रेहि॑ । दि॒वि॒स्पृङ्मा मा॑ हिँसीः
। अ॒न्त॒रि॒क्ष॒स्पृङ्मा मा॑ हिँसीः । पृ॒थि॒वि॒स्पृङ्मा मा॑ हिँसीः ।
सुव॑रसि॒ सुव॑र्मे यच्छ । दिवं॑ यच्छ दि॒वो मा॑ पाहि ॥ ०। ४। ८। ३१॥ एहि॑
पाहि पिन्वस्व गृह्णामि॒ नव॑ च ॥ ८॥
३२ स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।
अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒
स्वाहा॑ । अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा॑ ।
शिमि॑द्वते त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहा॑ । सोमा॑य त्वा
रु॒द्रव॑ते॒ स्वाहा॑ । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहा॑ ॥ ०। ४। ९। ३२॥
३३ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ । स॒वि॒त्रे त्व॑र्भु॒मते॑
विभु॒मते॑ प्रभु॒मते॒ वाज॑वते॒ स्वाहा॑ । य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒
स्वाहा॑ । विश्वा॒ आशा॑ दक्षिण॒सत् । विश्वा॑न्दे॒वान॑याडि॒ह । स्वाहा॑कृतस्य
घ॒र्मस्य॑ । मधोः॑ पिबतमश्विना । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य । शं यजु॑र्भिः ।
अश्वि॑ना घ॒र्मं पा॑तँ हार्दिवा॒नम् ॥ ०। ४। ९। ३३॥
३४ अह॑र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वां॒ द्यावा॑पृथि॒वी मँ॑साताम् । स्वाहेन्द्रा॑य
। स्वाहेन्द्रा॒ वट् । घ॒र्मम॑पातमश्विना हार्दिवा॒नम् । अह॑र्दि॒वाभि॑रू॒तिभिः॑ ।
अनु॑ वां॒ द्यावा॑पृथि॒वी अ॑मँसाताम् । तं प्रा॒व्यं॑ यथा॒ वट् । नमो॑ दि॒वे ।
नमः॑ पृथि॒व्यै ॥ ०। ४। ९। ३४॥
३५ दि॒वि धा॑ इ॒मं य॒ज्ञम् । य॒ज्ञमि॒मं दि॒वि धाः॑ । दिवं॑ गच्छ ।
अ॒न्तरि॑क्षं गच्छ । पृ॒थि॒वीं ग॑च्छ । पञ्च॑ प्र॒दिशो॑ गच्छ
। दे॒वान्घ॑र्म॒पान्ग॑च्छ । पि॒तॄन्घ॑र्म॒पान्ग॑च्छ ॥ ०। ४। ९। ३५॥
आ॒दि॒त्यव॑ते॒ स्वाहा॑ हार्दिवा॒नं पृ॑थि॒व्या अ॒ष्टौ च॑ ॥ ९॥
३६ इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्त्राय॑ पीपिहि । अ॒द्भ्यः
पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्यां॑
पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि ॥ ०। ४। १०। ३६॥
३७ यज॑मानाय पीपिहि । मह्यं॒ ज्यैष्ठ्या॑य पीपिहि । त्विष्यै॑ त्वा । द्यु॒म्नाय॑ त्वा ।
इ॒न्द्रि॒याय॑ त्वा॒ भूत्यै॑ त्वा । धर्मा॑ऽसि सु॒धर्मा मे॑ न्य॒स्मे । ब्रह्मा॑णि धारय
। क्ष॒त्त्राणि॑ धारय । विशं॑ धारय । नेत्त्वा॒ वात॑स्स्क॒न्दया॑त् ॥ ०। ४। १०। ३७॥
३८ अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयामि । अ॒मुना॑ स॒ह नि॑र॒र्थं ग॑च्छ ।
यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । पू॒ष्णे शर॑से॒ स्वाहा॑ ।
ग्राव॑भ्य॒स्स्वाहा॑ । प्र॒ति॒रेभ्य॒स्स्वाहा॑ । द्यावा॑पृथि॒वीभ्या॒ग् स्वाहा॑ ।
पि॒तृभ्यो॑ घर्म॒पेभ्य॒स्स्वाहा॑ । रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहा॑ ॥ ०। ४। १०। ३८॥
३९ अह॒र्ज्योतिः॑ के॒तुना॑ जुषताम् । सु॒ज्यो॒तिर्ज्योति॑षा॒ग् स्वाहा॑ । रात्रि॒र्ज्योतिः॑
के॒तुना॑ जुषताम् । सु॒ज्यो॒तिर्ज्योति॑षा॒ग् स्वाहा॑ । अपी॑परो॒ माऽह्नो॒ रात्रि॑यै मा
पाहि । ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा माऽञ्जीः ।
अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाहि ॥ ०। ४। १०। ३९॥
४० ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा माऽञ्जीः ।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहा॑ । सूऱ्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहा॑ । भूस्स्वाहा॑
। हु॒तँ ह॒विः । मधु॑ ह॒विः । इन्द्र॑तमे॒ऽग्नौ ॥ ०। ४। १०। ४०॥
४१ पि॒ता नो॑ऽसि॒ मा मा॑ हिँसीः । अ॒श्याम॑ ते देव घर्म । मधु॑मतो॒ वाज॑वतः
पितु॒मतः॑ । अङ्गि॑रस्वतस्स्वधा॒विनः॑ । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिँसीः ।
स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्यः॑ । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्यः ॥ ०। ४। १०। ४१॥
ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि स्क॒न्दया॑द्रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहाऽह्नो॑
मा पाह्य॒ग्नौ स॒प्त च॑ ॥ १०॥
४२ घर्म॒ या ते॑ दि॒वि शुक् । या गा॑य॒त्रे छन्द॑सि । या ब्रा॑ह्म॒णे । या
ह॑वि॒र्धाने॑ । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॑ । घर्म॒ या ते॒ऽन्तरि॑क्षे॒ शुक् ।
या त्रैष्टु॑भे॒ छन्द॑सि । या रा॑ज॒न्ये॑ । याऽऽग्नी॑द्ध्रे । तां त॑ ए॒तेनाव॑यजे॒
स्वाहा॑ ॥ ०। ४। ११। ४२॥
४३ घर्म॒ या ते॑ पृथि॒व्याँ शुक् । या जाग॑ते॒ छन्द॑सि । या वैश्ये॑ । या
सद॑सि । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॑ । अनु॑ नो॒ऽद्यानु॑मतिः । अन्विद॑नुमते॒
त्वम् । दि॒वस्त्वा॑ पर॒स्पायाः॑ । अ॒न्तरि॑क्षस्य त॒नुवः॑ पाहि । पृ॒थि॒व्यास्त्वा॒
धर्म॑णा ॥ ०। ४। ११। ४३॥
४४ व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से । ब्रह्म॑णस्त्वा पर॒स्पायाः॑ । क्ष॒त्त्रस्य॑
त॒नुवः॑ पाहि । वि॒शस्त्वा॒ धर्म॑णा । व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से ।
प्रा॒णस्य॑ त्वा पर॒स्पायै॑ । चक्षु॑षस्त॒नुवः॑ पाहि । श्रोत्र॑स्य त्वा॒ धर्म॑णा
। व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से । व॒ल्गुर॑सि शं॒युधा॑याः ॥ ०। ४। ११। ४४॥
४५ शिशु॒र्जन॑धायाः । शं च॒ वक्षि॒ परि॑ च॒ वक्षि॑ ।
चतु॑स्स्रक्ति॒र्नाभि॑रृ॒तस्य॑ । सदो॑ वि॒श्वायुः॒ शर्म॑ स॒प्रथाः॑ । अप॒
द्वेषो॒ अप॒ ह्वरः॑ । अ॒न्यद्व्र॑तस्य सश्चिम । घर्मै॒तत्तेऽन्न॑मे॒तत्पुरी॑षम्
। तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यम् । आ च॑
प्यासिषी॒महि॑ ॥ ०। ४। ११। ४५॥
४६ रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्वः । तस्य॑ ते प॒द्वद्ध॑वि॒र्धान॑म् ।
अ॒ग्निरध्य॑क्षाः । रु॒द्रोऽधि॑पतिः । सम॒हमायु॑षा । सं प्रा॒णेन॑ । सं वर्च॑सा
। सं पय॑सा । सं गौ॑प॒त्येन॑ । सँ रा॒यस्पोषे॑ण ॥ ०। ४। ११। ४६॥
४७ व्य॑सौ । यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । अचि॑क्रद॒द्वृषा॒ हरिः॑
। म॒हान्मि॒त्रो न द॑र्श॒तः । सँ सूर्ये॑ण रोचते । चिद॑सि समु॒द्रयो॑निः
। इन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा॑ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आनिष॑त्तः ॥ ०। ४। ११। ४७॥
४८ नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । वि॒श्वाव॑सुँ सोमगन्ध॒र्वम् । आपो॑
ददृ॒शुषीः॑ । तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॑त् । इन्द्रो॑ रारहा॒ण आ॑साम् ।
परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् । वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु । दि॒व्यो
ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ॥ ०। ४। ११। ४८॥
४९ धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात् । सस्नि॑मविन्द॒च्चर॑णे न॒दीना॑म्
। अपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोचत् ।
इन्द्रो॒ दक्षं॒ परि॑जानाद॒हीन॑म् । ए॒तत्त्वं दे॑व घर्म दे॒वो दे॒वानुपा॑गाः ।
इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑न् । सोम॑पी॒थानु॒ मेहि॑ । स॒ह प्र॒जया॑
स॒ह रा॒यस्पोषे॑ण । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु ॥ ०। ४। ११। ४९॥
५० दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ।
उद्व॒यं तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् । इ॒ममू॒ षु त्यम॒स्मभ्यँ॑
स॒निम् । गा॒य॒त्रं नवी॑याँसम् । अग्ने॑ दे॒वेषु॒ प्रवो॑चः ॥ ०। ४। ११। ५०॥
याऽऽग्नी॑द्ध्रे॒ तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॒ धर्म॑णा शं॒युधा॑याः प्यासिषी॒महि॒
पोषे॑ण॒ निष॑त्तो वि॒द्म स॑न्त्व॒ष्टौ च॑ ॥ ११॥
५१ म॒ही॒नां पयो॑ऽसि॒ विहि॑तं देव॒त्रा । ज्यो॒ति॒र्भा अ॑सि॒
वन॒स्पती॑ना॒मोष॑धीनाँ॒ रसः॑ । वा॒जिनं॑ त्वा वा॒जिनोऽव॑नयामः ।
ऊ॒र्ध्वं मन॑स्सुव॒र्गम् ॥ ०। ४। १२। ५१॥ ॥ १२॥
५२ अस्का॒न्द्यौः पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒ गाः । स्क॒न्नेमा विश्वा॒ भुव॑ना ।
स्क॒न्नो य॒ज्ञः प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा॑
। स्क॒न्नात्प्रज॑निषीमहि ॥ ०। ४। १३। ५२॥ ॥ १३॥
५३ या पु॒रस्ता॑द्वि॒द्युदाप॑तत् । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॑ । या द॑क्षिण॒तः ।
या प॒श्चात् । योत्त॑र॒तः । योपरि॑ष्टाद्वि॒द्युदाप॑तत् । तां त॑ ए॒तेनाव॑यजे॒
स्वाहा॑ ॥ ०। ४। १४। ५३॥ ॥ १४॥
५४ प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒
श्रोत्रा॑य॒ स्वाहा॑ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा॑ ॥ ०। ४। १५। ५४॥
॥ १५॥
५५ पू॒ष्णे स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॑ । पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे
न॒रन्धि॑षाय॒ स्वाहा॑ । पू॒ष्णेऽङ्घृ॑णये॒ स्वाहा॑ पू॒ष्णे न॒रुणा॑य॒ स्वाहा॑
। पू॒ष्णे सा॑के॒ताय॒ स्वाहा॑ ॥ ०। ४। १६। ५५॥ ॥ १६॥
५६ उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति । भा॒रं पृ॑थि॒वी न भूम॑ । प्र
शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी । अर्च॑न्त॒ एके॒
महि॒ साम॑ मन्वत । तेन॒ सूर्य॑मधारयन् । तेन॒ सूर्य॑मरोचयन् । घ॒र्मः
शिर॒स्तद॒यम॒ग्निः । पुरी॑षमसि॒ सम्प्रि॑यं प्र॒जया॑ प॒शुभि॑र्भुवत् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ०। ४। १७।
५६॥ ॥ १७॥
५७ यास्ते॑ अग्न आ॒र्द्रा योन॑यो॒ याः कु॑ला॒यिनीः॑ । ये ते॑ अग्न॒ इन्द॑वो॒ या उ॒
नाभ॑यः । यास्ते॑ अग्ने त॒नुव॒ ऊर्जो॒ नाम॑ । ताभि॒स्त्वमु॒भयी॑भिस्संविदा॒नः
। प्र॒जाभि॑रग्ने॒ द्रवि॑णे॒ह सी॑द । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ०। ४। १८। ५७॥ ॥ १८॥
५८ अ॒ग्निर॑सि वैश्वान॒रो॑ऽसि । सं॒व॒त्स॒रो॑ऽसि परिवत्स॒रो॑ऽसि ।
इ॒दा॒व॒त्स॒रो॑ऽसीदुवत्स॒रो॑ऽसि । इ॒द्व॒त्स॒रो॑ऽसि वत्स॒रो॑ऽसि । तस्य॑ ते
वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः
प॒क्षः । हे॒म॒न्तो मध्य॑म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः
पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । तस्य॑ ते॒ मासा॑श्चार्धमा॒साश्च॑
कल्पन्ताम् । ऋ॒तव॑स्ते कल्पन्ताम् । सं॒व॒त्स॒रस्ते॑ कल्पताम् । अ॒हो॒रा॒त्राणि॑
ते कल्पन्ताम् । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वस्सी॑द ॥ ०। ४। १९। ५८॥
५९ भूर्भुव॒स्सुवः॑ । ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॑ । ऊ॒र्ध्वो नः॑ पा॒ह्यँह॑सः ।
वि॒धुं द॑द्रा॒णँ सम॑ने बहू॒नाम् । युवा॑नँ॒ सन्तं॑ पलि॒तो ज॑गार
। दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाऽद्या म॒मार॑ । स ह्य॒स्समा॑न । यदृ॒ते
चि॑दभि॒श्रिषः॑ । पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिं म॒घवा॑
पुरो॒वसुः॑ ॥ ०। ४। २०। ५९॥
६० निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ । पुन॑रू॒र्जा स॒ह र॒य्या । मा नो॑ घर्म व्यथि॒तो
वि॑व्यथो नः । मा नः॒ पर॒मध॑रं॒ मा रजो॑ऽनैः । मोष्व॑स्माग्स्तम॑स्यन्त॒रा
धाः॑ । मा रु॒द्रिया॑सो अ॒भिगु॑र्वृ॒धा नः॑ । मा नः॒ क्रतु॑भिर्हीडि॒तेभि॑र॒स्मान्
। द्विषा॑ सुनीते॒ मा परा॑दाः । मा नो॑ रु॒द्रो निरृ॑ति॒र्मा नो॒ अस्ता॑ । मा
द्यावा॑पृथि॒वी ही॑डिषाताम् ॥ ०। ४। २०। ६०॥
६१ उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादी॑ध्याथामि॒ह न॑स्सखाया । आ॒दि॒त्यानां॒
प्रसि॑तिर्हे॒तिः । उ॒ग्रा श॒तापा॑ष्ठा घ॒ विषा॒ परि॑ णो वृणक्तु । इ॒मं
मे॑ वरुण॒ तत्त्वा॑ यामि । त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॑ ।
उद्व॒यं तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् । वय॑स्सुप॒र्णाः ॥ ०। ४। २०। ६१॥
पु॒रो॒वसु॑र्हीडिषाताँ सुप॒र्णाः ॥ २०॥
६२ भूर्भुव॒स्सुवः॑ । मयि॒ त्यदि॑न्द्रि॒यं म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑
। मयि॑ धायि सु॒वीर्य॑म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू॑त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा॒ तेज॑सा स॒ह
। क्ष॒त्रेण॒ यश॑सा स॒ह । स॒त्येन॒ तप॑सा स॒ह । तस्य॒ दोह॑मशीमहि ।
तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒
मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ ०। ४। २१। ६२॥ यश॑सा स॒ह षट्च॑
॥ २१॥
६३ यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । क्षुच्च॒ तृष्णा॑ च । अस्नु॒क्चाना॑हुतिश्च ।
अ॒श॒न॒या च॑ पिपा॒सा च॑ । से॒दिश्चाम॑तिश्च । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑
। ताभि॑र॒मुं ग॑च्छ । यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४। २२।
६३॥ ॥ २२॥
६४ स्निक्च॒ स्नीहि॑तिश्च॒ स्निहि॑तिश्च । उ॒ष्णा च॑ शी॒ता च॑ । उ॒ग्रा च॑
भी॒मा च॑ । स॒दाम्नी॑ से॒दिरनि॑रा । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं
ग॑च्छ । यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४। २३। ६४॥ ॥ २३॥
६५ धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च । नि॒लि॒म्पश्च॑
विलि॒म्पश्च॑ विक्षि॒पः ॥ ०। ४। २४। ६५॥ ॥ २४॥
६६ उ॒ग्रश्च॒ धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च ।
स॒ह॒स॒ह्वाग्श्च॒ सह॑मानश्च॒ सह॑स्वाग्श्च॒ सही॑याग्श्च । एत्य॒ प्रेत्य॑
विक्षि॒पः ॥ ०। ४। २५। ६६॥ ॥ २५॥
६७ अ॒हो॒रा॒त्रे त्वोदी॑रयताम् । अ॒र्ध॒मा॒सास्त्वोदी॑ञ्जयन्तु । मासा॑स्त्वा श्रपयन्तु ।
ऋ॒तव॑स्त्वा पचन्तु । सं॒व॒त्स॒रस्त्वा॑ हन्त्वसौ ॥ ०। ४। २६। ६७॥ ॥ २६॥
६८ खट्फड्ज॒हि । छि॒न्धी भि॒न्धी ह॒न्धी कट् । इति॒ वाचः॑ क्रूरा॒णि ॥ ०। ४। २७।
६८॥ ॥ २७॥
६९ विगा इ॑न्द्र वि॒चर॑न्त्स्पाशयस्व । स्व॒पन्त॑मिन्द्र पशु॒मन्त॑मिच्छ ।
वज्रे॑णा॒मुं बो॑धय दुर्वि॒दत्र॑म् । स्व॒प॒तो॑ऽस्य॒ प्रह॑र॒ भोज॑नेभ्यः ।
अग्ने॑ अ॒ग्निना॒ संव॑दस्व । मृत्यो॑ मृ॒त्युना॒ संव॑दस्व । नम॑स्ते अस्तु भगवः
। स॒कृत्ते॑ अग्ने॒ नमः॑ । द्विस्ते॒ नमः॑ । त्रिस्ते॒ नमः॑ । च॒तुस्ते॒ नमः॑ ।
प॒ञ्च॒कृत्व॑स्ते॒ नमः॑ । द॒श॒कृत्व॑स्ते॒ नमः॑ । श॒त॒कृत्व॑स्ते॒
नमः॑ । आ॒स॒ह॒स्र॒कृत्व॑स्ते॒ नमः॑ । अ॒प॒रि॒मि॒त॒कृत्व॑स्ते॒ नमः॑
। नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ॥ ०। ४। २८। ६९॥ त्रिस्ते॒ नम॑स्स॒प्त च॑ ॥ २८॥
७० असृ॑ङ्मुखो रुधि॒रेणा॒व्य॑क्तः । य॒मस्य॑ दू॒तः श्वपा॒द्विधा॑वसि । गृद्ध्रः॑
सुप॒र्णः कु॒णपं॒ निषे॑वसे । य॒मस्य॑ दू॒तः प्रहि॑तो भ॒वस्य॑ चो॒भयोः॑ ॥
०। ४। २९। ७०॥ ॥ २९॥
७१ यदे॒तद्वृ॑क॒सो भू॒त्वा । वाग्दे॑व्यभि॒राय॑सि । द्वि॒षन्तं॑ मे॒ऽभिरा॑य ।
तं मृ॑त्यो मृ॒त्यवे॑ नय । स आर्त्याऽऽर्ति॒मार्च्छ॑तु ॥ ०। ४। ३०। ७१॥ ॥ ३०॥
७२ यदी॑षि॒तो यदि॑ वा स्वका॒मी । भ॒येड॑को॒ वद॑ति॒ वाच॑मे॒ताम् । तामि॑न्द्रा॒ग्नी
ब्रह्म॑णा संविदा॒नौ । शि॒वाम॒स्मभ्यं॑ कृणुतं गृ॒हेषु॑ ॥ ०। ४। ३१। ७२॥ ॥ ३१॥
७३ दीर्घ॑मुखि॒ दुर्ह॑णु । मा स्म॑ दक्षिण॒तो व॑दः । यदि॑ दक्षिण॒तो
वदा॑द्द्वि॒षन्तं॒ मेऽव॑बाधासै ॥ ०। ४। ३२। ७३॥ ॥ ३२॥
७४ इ॒त्थादुलू॑क॒ आप॑प्तत् । हि॒र॒ण्या॒क्षो अयो॑मुखः । रक्ष॑सां दू॒त आग॑तः ।
तमि॒तो ना॑शयाग्ने ॥ ०। ४। ३३। ७४॥ ॥ ३३॥
७५ यदे॒तद्भू॒तान्य॑न्वा॒विश्य॑ । दैवीं॒ वाचं॑ व॒दसि॑ । द्वि॒षतो॑
नः॒ परा॑वद । तान्मृ॑त्यो मृ॒त्यवे॑ नय । त आर्त्याऽऽर्ति॒मार्च्छ॑न्तु ।
अ॒ग्निना॒ऽग्निस्संव॑दताम् ॥ ०। ४। ३४। ७५॥ ॥ ३४॥
७६ प्र॒सार्य॑ स॒क्थ्यौ॑ पत॑सि । स॒व्यमक्षि॑ नि॒पेपि॑ च । मेह
क॑स्यच॒नाम॑मत् ॥ ०। ४। ३५। ७६॥ ॥ ३५॥
७७ अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना । वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः
। क्रिमी॑णाँ॒ राजा॑ । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । अथो॑ मा॒ताऽथो॑ पि॒ता ।
अथो॑ स्थू॒रा अथो॑ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो॑ श्वे॒ताः । अथो॑ आ॒शाति॑का
ह॒ताः । श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ ०। ४। ३६। ७७॥ ॥ ३६॥
७८ आह॒राव॑द्य । शृ॒तस्य॑ ह॒विषो॒ यथा॑ । तत्स॒त्यम् । यद॒मुं य॒मस्य॒
जम्भ॑योः । आद॑धामि॒ तथा॒ हि तत् । खण्फण्म्रसि॑ ॥ ०। ४। ३७। ७८॥ ॥ ३७॥
७९ ब्रह्म॑णा त्वा शपामि । ब्रह्म॑णस्त्वा श॒पथे॑न शपामि । घो॒रेण॑ त्वा॒
भृगू॑णां॒ चक्षु॑षा॒ प्रेक्षे॑ । रौ॒द्रेण॒ त्वाऽङ्गि॑रसां॒ मन॑सा ध्यायामि ।
अ॒घस्य॑ त्वा॒ धार॑या विद्यामि । अध॑रो॒ मत्प॑द्यस्वासौ ॥ ०। ४। ३८। ७९॥ ॥ ३८॥
८० उत्तु॑द शिमिजावरि । तल्पे॑जे॒ तल्प॒ उत्तु॑द । गि॒रीँरनु॒प्रवे॑शय
। मरी॑ची॒रुप॒ सन्नु॑द । याव॑दि॒तः पु॒रस्ता॑दु॒दया॑ति॒ सूर्यः॑ ।
ताव॑दि॒तो॑ऽमुं ना॑शय । यो॑ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४।
३९। ८०॥ ॥ ३९॥
८१ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ । भुवो॑ऽद्धायि॒ भुवो॑ऽद्धायि॒
भुवो॑ऽद्धायि । नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णम् ।
नि॒धाय्यो॑ऽवायि नि॒धाय्यो॑ऽवायि नि॒धाय्यो॑ऽवायि । ए अ॒स्मे अ॒स्मे । सुव॒र्नज्योतीः॑
॥ ०। ४। ४०। ८१॥ ॥ ४०॥
८२ पृ॒थि॒वी स॒मित् । ताम॒ग्निस्समि॑न्धे । साऽग्निँ समि॑न्धे । ताम॒हँ
समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा
ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग् स्वाहा॑ । अ॒न्तरि॑क्षँ स॒मित् ॥
०। ४। ४१। ८२॥
८३ तां वा॒युस्समि॑न्धे । सा वा॒युँ समि॑न्धे । ताम॒हँ समि॑न्धे । सा मा॒
समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ ।
अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग् स्वाहा॑ । द्यौस्स॒मित् । तामा॑दि॒त्यस्समि॑न्धे ॥ ०। ४। ४१। ८३॥
८४ साऽऽदि॒त्यँ समि॑न्धे । ताम॒हँ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒
तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्
स्वाहा॑ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒
स्वाहा॑ । अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि ॥ ०। ४। ४१। ८४॥
८५ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । वायो॑ व्रतपत॒ आदि॑त्य व्रतपते । व्र॒तानां॑
व्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राध्यताम् । द्यौस्स॒मित् ।
तामा॑दि॒त्यस्समि॑न्धे । साऽऽदि॒त्यँ समि॑न्धे । ताम॒हँ समि॑न्धे । सा मा॒
समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ ०। ४। ४१। ८५॥
८६ वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग् स्वाहा॑
। अ॒न्तरि॑क्षँ स॒मित् । तां वा॒युस्समि॑न्धे । सा वा॒युँ समि॑न्धे । ताम॒हँ
समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या ॥ ०। ४। ४१। ८६॥
८७ यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग् स्वाहा॑ । पृ॒थि॒वी
स॒मित् । ताम॒ग्निस्समि॑न्धे । साऽग्निँ समि॑न्धे । ताम॒हँ समि॑न्धे । सा मा॒
समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ ॥ ०।
४। ४१। ८७॥
८८ अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग् स्वाहा॑ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी
। भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा॑ । आदि॑त्य व्रतपते व्र॒तम॑चारिषम् ।
तद॑शकं॒ तन्मे॑ऽराधि । वायो॑ व्रतप॒तेऽग्ने॑ व्रतपते । व्र॒तानां॑ व्रतपते
व्र॒तम॑चारिषम् । तद॑शकं॒ तन्मे॑ऽराधि ॥ ०। ४। ४१। ८८॥ स॒मित्समि॑न्धे व्र॒तं
च॑रिष्या॒म्यायु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒ष्टौ
च॑ ॥ ॥ ४१॥
८९ शं नो॒ वातः॑ पवतां मात॒रिश्वा॒ शं न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं
भ॑वन्तु नः॒ शँ रात्रिः॒ प्रति॑ धीयताम् । शमु॒षा नो॒ व्यु॑च्छतु॒
शमा॑दि॒त्य उदे॑तु नः । शि॒वा नः॒ शन्त॑मा भव सुमृडी॒का सर॑स्वति
। मा ते॒ व्यो॑म सं॒दृशि॑ । इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वा॑स्तु॒मन्तो॑
भूयास्म॒ मा वास्तो॑श्छित्स्मह्यवा॒स्तुः स भू॑या॒द्यो॑ऽस्मान्द्वेष्टि॒ यं
च॑ व॒यं द्वि॒ष्मः । प्र॒ति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा
प्र॑ति॒ष्ठाया॑श्छित्स्मह्यप्रति॒ष्ठः स भू॑या॒द्यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं
द्वि॒ष्मः । आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वँहि वि॒श्वभे॑षजो
दे॒वानां॑ दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वतः॑ ॥ ०। ४।
४२। ८९॥
९० दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒ऽन्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते
गृ॒हे॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम्
। ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् । शं॒ भूर्म॑यो॒भूर्नो॑
हृ॒दे प्र ण॒ आयूँ॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा॒ प्रप॑द्ये॒
सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒
सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं प्रप॒द्येऽना॑र्तां दे॒वतां॒
प्रप॒द्येऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं ब्रह्म॒ प्रप॑द्य॒
ओं प्रप॑द्ये । अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒
यया॒ वात॑स्स्व॒स्त्या स्व॑स्ति॒ मां तया॑ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि । प्राणा॑पानौ
मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मयि॑ मे॒धां मयि॑ प्र॒जां
मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒ भ्राजो॑ दधातु ॥ ०। ४। ४२। ९०॥
९१ द्यु॒भिर॒क्तुभिः॒ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑
मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः । कया॑ नश्चि॒त्र
आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता । कस्त्वा॑ स॒त्यो
मदा॑नां॒ मँहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ढा चि॑दा॒रुजे॒ वसु॑ । अ॒भी
षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभिः॑ । वयः॑ सुप॒र्णा
उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू॑र्णु॒हि
पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् ॥ ०। ४। ४२। ९१॥
९२ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भिस्र॑वन्तु
नः । ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ।
सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो॑ऽस्मान्द्वेष्टि॒
यं च॑ व॒यं द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ॥
०। ४। ४२। ९२॥
९३ आपो॑ ज॒नय॑था च नः । पृ॒थि॒वी शा॒न्ता साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता
शुचँ॑ शमयतु । अ॒न्तरि॑क्षँ शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑
शा॒न्तँ शुचँ॑ शमयतु । द्यौः शा॒न्ता साऽऽदि॒त्येन॑ शा॒न्ता सा मे॑
शा॒न्ता शुचँ॑ शमयतु । पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्षँ॒ शान्ति॒र्द्यौः
शान्ति॒र्दिशः॒ शान्ति॑रवान्तरदि॒शाः शान्ति॑र॒ग्निः शान्ति॑र्वा॒युः शान्ति॑रादि॒त्यः
शान्ति॑श्च॒न्द्रमाः॒ शान्ति॒र्नक्ष॑त्राणि॒ शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒
शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्गौः शान्ति॑र॒जा शान्ति॒रश्वः॒ शान्तिः॒ पुरु॑षः॒
शान्ति॒र्ब्रह्म॒ शान्ति॑र्ब्राह्म॒णः शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ शान्ति॑र्मे अस्तु॒
शान्तिः॑ । तया॒हँ शा॒न्त्या स॑र्वशा॒न्त्या मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे
च॒ शान्तिं॑ करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑ । एह॒ श्रीश्च॒ ह्रीश्च॒
धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒
मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॒ग् श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑
मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः । उदायु॑षा
स्वा॒युषोदोष॑धीनाँ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒
अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑
श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑
श॒तं भवा॑म श॒रदः॑ श॒तँ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम
श॒रदः॑ श॒तमजी॑तास्स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
०। ४। ४२। ९३॥ य उद॑गान्मह॒तोऽर्णवा॑द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒त्स मा॑
वृष॒भो लो॑हिता॒क्षस्सूऱ्यो॑ विप॒श्चिन्मन॑सा पुनातु । ब्रह्म॑णः॒ श्चोत॑न्यसि॒
ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही
धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीँ सदे॑वां॒
यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मा मद्वेदोऽधि॒ विस्र॑सत् । मे॒धा॒म॒नी॒षे
माऽऽवि॑शताँ स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒ सर्व॒मायु॑रयाणि॒
सर्व॒मायु॑रयाणि । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒
प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ९४॥ प॒रा॒वतो॑
दधातु ब॒द्धाञ्जिन्व॑थ दृ॒शे स॒प्त च॑ ॥ ४२॥
नमो॑ यु॒ञ्जते॒ वृष्णो॒ अश्व॑स्य॒ ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ ब्रह्म॒न्प्रच॑रिष्यामो॒
दश॒ प्राची॒रप॑श्यं गो॒पां दे॒वस्य॑ समु॒द्राये॒षे पी॑पिहि॒ घर्म॒ या
ते॑ मही॒नां च॒त्वार्यस्का॒न्, या पु॒रस्ता॑त्स॒प्त स॑प्त प्रा॒णाय॒ त्रीणि॑
पू॒ष्णे च॒त्वार्युद॒स्यैका॑दश॒ यास्ते॑ स॒प्ताग्निर्ध्रु॒वः सी॒दैका॒न्न
विँ॑शति॒र्भूरू॒र्ध्वस्त्रिँ॒ शद्भूर्मयि॒ षोड॑श॒ यास्ते॑ घो॒रा
नव॒ स्निक्चा॒ष्टौ धुनि॑श्च॒ द्वे उ॒ग्रश्च॒ त्रीण्य॑होरा॒त्रे पञ्च॒
खट्त्रीणि॒ विगास्स॒प्तद॒शासृ॑न्मुखश्च॒त्वारि॒ यदे॒तद्वृ॑क॒सः पञ्च॒
यदी॑षि॒तश्च॒त्वारि॒ दीर्घ॑मुखि॒ त्रीणी॒त्थाच्च॒त्वारि॒ यदे॒तद्भू॒तानि॒
षट्प्र॒सार्य॒ त्रीन्यत्रि॑णा॒ दशाह॒राव॑द्य॒ ब्रह्म॑णा॒ षट्त् षडुत्तु॑दा॒ष्टौ
भूष्षट्पृ॑थि॒व्य॑ष्टष॑ष्टिः॒ शं न॑स्स॒प्तप॑ञ्चा॒शद्द्विच॑त्वारिँ
शत् ॥ ४२॥
नमो॑ वा॒चे ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ मयि॒ रुग॒न्तरि॑क्षेण॒ घर्म॒ या
ते॑ दि॒वि शुगस्का॒न्द्यौः पृ॑थि॒वीमुप॑नो मित्रा वरुणा॒ यदे॒तद्वृ॑क॒सो
भूर्भुव॒स्सुव॑र्द्यु॒भिस्त्रिन॑वतिः ॥ ९२॥
० नमोऽनु॑ मदन्तु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके पञ्चमः प्रश्नः ५
० शं न॒स्तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ दे॒वा वै स॒त्रमा॑सत । ऋद्धि॑परिमितं॒ यश॑स्कामाः । ते॑ऽब्रुवन् । यन्नः॑
प्रथ॒मं यश॑ ऋ॒च्छात् । सर्वे॑षां न॒स्तत्स॒हास॒दिति॑ । तेषां॑ कुरुक्षे॒त्रं
वेदि॑रासीत् । तस्यै॑ खाण्ड॒वो द॑क्षिणा॒र्ध आ॑सीत् । तूर्घ्न॑मुत्तरा॒र्धः ।
प॒री॒णज्ज॑घना॒र्धः । म॒रव॑ उत्क॒रः ॥ ०। ५। १। १॥
२ तेषां॑ म॒खं वै॑ष्ण॒वं यश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा॑क्रामत् । तं
दे॒वा अन्वा॑यन् । यशो॑ऽव॒रुरु॑त्समानाः । तस्या॒न्वाग॑तस्य । स॒व्याद्धनु॒रजा॑यत
। दक्षि॑णा॒दिष॑वः । तस्मा॑दिषुध॒न्वं पुण्य॑जन्म । य॒ज्ञज॑न्मा॒ हि ॥ ०। ५।
१। २॥
३ तमेकँ॒ सन्त॑म् । ब॒हवो॒ नाभ्य॑धृष्णुवन् । तस्मा॒देक॑मिषुध॒न्विन॑म् ।
ब॒हवो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति । सो॑ऽस्मयत । एकं॑ मा॒ सन्तं॑ ब॒हवो॒
नाभ्य॑धर्षिषु॒रिति॑ । तस्य॑ सिष्मिया॒णस्य॒ तेजोऽपा॑क्रामत् । तद्दे॒वा ओष॑धीषु॒
न्य॑मृजुः । ते श्या॒माका॑ अभवन् । स्म॒याका॒ वै नामै॒ते ॥ ०। ५। १। ३॥
४ तत्स्म॒याका॑नाग् स्मयाक॒त्वम् । तस्मा॑द्दीक्षि॒तेना॑पि॒ गृह्य॑ स्मेत॒व्य॑म्
। तेज॑सो॒ धृत्यै॑ । स धनुः॑ प्रति॒ष्कभ्या॑तिष्ठत् । ता उ॑प॒दीका॑
अब्रुव॒न्वरं॑ वृणामहै । अथ॑ व इ॒मँ र॑न्धयाम । यत्र॒ क्व॑ च॒ खना॑म
। तद॒पो॑ऽभितृ॑णदा॒मेति॑ । तस्मा॑दुप॒दीका॒ यत्र॒ क्व॑ च॒ खन॑न्ति ।
तद॒पो॑ऽभितृ॑न्दन्ति ॥ ०। ५। १। ४॥
५ वारे॑ वृतँ॒ ह्या॑साम् । तस्य॒ ज्यामप्या॑ऽदन् । तस्य॒
धनु॑र्वि॒प्रव॑माणँ॒ शिर॒ उद॑वर्तयत् । तद्द्यावा॑पृथि॒वी अनु॒प्राव॑र्तत
। यत्प्राव॑र्तत । तत्प्र॑व॒र्ग्य॑स्य प्रवर्ग्य॒त्वम् । यद्घ्रा ४म् इत्यप॑तत् ।
तद्घ॒र्मस्य॑ घर्म॒त्वम् । म॒ह॒तो वी॒र्य॑मपप्त॒दिति॑ । तन्म॑हावी॒रस्य॑
महावीर॒त्वम् ॥ ०। ५। १। ५॥
६ यद॒स्याः स॒मभ॑रन् । तत्स॒म्राज्ञः॑ सम्रा॒ट्त्वम् । तँ स्तृ॒तं
दे॒वता॑स्त्रे॒धा व्य॑गृह्णत । अ॒ग्निः प्रा॑तस्सव॒नम् । इन्द्रो॒ माध्य॑न्दिनँ॒
सव॑नम् । विश्वे॑ दे॒वास्तृ॑तीयसव॒नम् । तेनाप॑शिर्ष्णा य॒ज्ञेन॒ यज॑मानाः ।
नाशिषो॒ऽवारु॑न्धत । न सु॑व॒र्गं लो॒कम॒भ्य॑जयन् । ते दे॒वा अ॒श्विना॑वब्रुवन्न्
॥ ०। ५। १। ६॥
७ भि॒षजौ॒ वै स्थः॑ । इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑धत्त॒मिति॑ ।
ताव॑ब्रूतां॒ वरं॑ वृणावहै । ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॑ ।
ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन् । तावे॒तद्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ताम् ।
यत्प्र॑व॒र्ग्यः॑ । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॒शिषोऽरु॑न्धत
। अ॒भि सु॑व॒र्गं लो॒कम॑जयन् । यत्प्र॑व॒र्ग्यं॑ प्रवृ॒णक्ति॑ ।
य॒ज्ञस्यै॒व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानः ।
अवा॒शिषो॑ रु॒न्धे । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । तस्मा॑दे॒ष आ॑श्वि॒न
प्र॑वया इव । यत्प्र॑व॒र्ग्यः॑ ॥ ०। ५। १। ७॥ उ॒त्क॒रो ह्ये॑ते तृ॑न्दन्ति
महावीर॒त्वम॑ब्रुवन्नजयन्त्स॒प्त च॑ ॥ १॥
८ सा॒वि॒त्रं जु॑होति॒ प्रसू॑त्यै । च॒तु॒र्गृ॒ही॒तेन॑ जुहोति । चतु॑ष्पादः
प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति
। छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् । न वो॑ भा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॑
। तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् । पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै ॥
०। ५। २। ८॥
९ दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृही॒तं जु॒होति॑ । छन्दाग्॑स्ये॒व
तत्प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति । ब्र॒ह्म॒वा॒दिनो॑
वदन्ति । हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा ३ इ न हो॑त॒व्या ३ मिति॑ । ह॒विर्वै
दी॑क्षि॒तः । यज्जु॑हु॒यात् । ह॒विष्कृ॑तं॒ यज॑मानम॒ग्नौ प्रद॑ध्यात् । यन्न
जु॑हु॒यात् ॥ ०। ५। २। ९॥
१० य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । यजु॑रे॒व व॑देत् । न ह॒विष्कृ॑तं॒
यज॑मानम॒ग्नौ प्र॒दधा॑ति । न य॑ज्ञप॒रुर॒न्तरे॑ति । गा॒य॒त्री
छन्दा॒ग्स्यत्य॑मन्यत । तस्यै॑ वषट्का॒रो॑ऽभ्यय्य॒ शिरो॑ऽच्छिनत् । तस्यै॑
द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीम॒र्धः प्रावि॑शत् । प॒शून॒र्धः । यः
पृ॑थि॒वीं प्रावि॑शत् ॥ ०। ५। २। १०॥
११ स ख॑दि॒रो॑ऽभवत् । यः प॒शून् । सो॑ऽजाम् । यत्खा॑दि॒र्यभ्रि॒र्भव॑ति
। छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यदौदु॑म्बरी । ऊर्ग्वा
उ॑दु॒म्बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यद्वै॑ण॒वी । तेजो॒
वै वेणुः॑ ॥ ०। ५। २। ११॥
१२ तेज॑सै॒व य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यद्वैक॑ङ्कती । भा
ए॒वाव॑रुन्धे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒माद॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो
हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । वज्र॑ इव॒ वा ए॒षा । यदभ्रिः॑ । अभ्रि॑रसि॒
नारि॑र॒सीत्या॑ह॒ शान्त्यै॑ ॥ ०। ५। २। १२॥
१३ अ॒ध्व॒र॒कृद्दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑ध्व॒रः ।
य॒ज्ञ॒कृद्दे॒वेभ्य॒ इति॒ वावैतदा॑ह । उत्ति॑ष्ठ ब्रह्मणस्पत॒ इत्या॑ह ।
ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्रैतु॒ ब्रह्म॑ण॒स्पति॒रित्या॑ह ।
प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्रदे॒व्ये॑तु सू॒नृतेत्या॑ह । य॒ज्ञो वै
सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ ०। ५। २। १३॥
१४ पाङ्क्तो॒ हि य॒ज्ञः । दे॒वा य॒ज्ञं न॑यन्तु न॒ इत्या॑ह । दे॒वाने॒व
य॑ज्ञ॒नियः॑ कुरुते । देवी॑ द्यावापृथिवी॒ अनु॑ मेऽमँसाथा॒मित्या॑ह
। आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । ऋ॒ध्यास॑म॒द्य
म॒खस्य॒ शिर॒ इत्या॑ह । य॒ज्ञो वै म॒खः । ऋ॒ध्यास॑म॒द्य य॒ज्ञस्य॒
शिर॒ इति॒ वावैतदा॑ह । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्ण इत्या॑ह ।
नि॒र्दिश्यै॒वैन॑द्धरति ॥ ०। ५। २। १४॥
१५ त्रिर्ह॑रति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒
शिर॒स्सम्भ॑रति । तू॒ष्णीं च॑तु॒र्थँ ह॑रति । अप॑रिमितादे॒व य॒ज्ञस्य॒
शिर॒स्सम्भ॑रति । मृ॒त्ख॒नादग्रे॑ हरति । तस्मा॑न्मृत्ख॒नः क॑रु॒ण्य॑तमः ।
इय॒त्यग्र॑ आसी॒रित्या॑ह । अ॒स्यामे॒वाछ॑म्बट्कारं य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति ।
ऊर्जं॒ वा ए॒तँ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति ॥ ०। ५। २। १५॥
१६ यद्व॒ल्मीक॑म् । यद्व॑ल्मीकव॒पा स॑म्भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या
अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्रँ॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑
। अब॑धिरो भवति । य ए॒वं वेद॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स
यत्र॑ यत्र प॒राक्र॑मत ॥ ०। ५। २। १६॥
१७ तन्नाद्ध्रि॑यत । स पू॑तीकस्त॒म्बे परा॑क्रमत । सो॑ऽद्ध्रियत । सो॑ऽब्रवीत्
। ऊ॒तिं वै मे॑ धा॒ इति॑ । तदू॒तीका॑नामूतीक॒त्वम् । यदू॒तीका॒ भव॑न्ति ।
य॒ज्ञायै॒वोतिं द॑धति । अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व
रसः॑ प॒शून्प्रावि॑शत् ॥ ०। ५। २। १७॥
१८ तमे॒वाव॑रुन्धे । पञ्चै॒ते स॑म्भा॒रा भ॑वन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व
य॒ज्ञः । तस्य॒ शिर॒स्सम्भ॑रति । यद्ग्रा॒म्याणां॑ पशू॒नां चर्म॑णा स॒म्भरे॑त्
। ग्रा॒म्यान्प॒शूञ्छु॒चाऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ सम्भ॑रति । आ॒र॒ण्याने॒व
प॒शूञ्छु॒चाऽर्प॑यति । तस्मा॑त्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानाम् ॥ ०। ५। २। १८॥
१९ आ॒र॒ण्याः प॒शवः॒ कनी॑याँसः । शु॒चा ह्यृ॑ताः । लो॒म॒तस्सम्भ॑रति
। अतो॒ ह्य॑स्य॒ मेध्य॑म् । प॒रि॒गृह्याय॑न्ति । रक्ष॑सा॒मप॑हत्यै । ब॒हवो॑
हरन्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्ध॑ते॒ सिक॑तोपोप्ते॒ परि॑श्रिते॒ निद॑धति॒
शान्त्यै॑ । मद॑न्तीभि॒रुप॑सृजति ॥ ०। ५। २। १९॥
२० तेज॑ ए॒वास्मि॑न्दधाति । मधु॑ त्वा मधु॒ला क॑रो॒त्वित्या॑ह ।
ब्रह्म॑णै॒वास्मि॒न्तेजो॑ दधाति । यद्ग्रा॒म्याणां॒ पात्रा॑णां क॒पालैः॑ सँसृ॒जेत् ।
ग्रा॒म्याणि॒ पात्रा॑णि शु॒चाऽर्प॑येत् । अ॒र्म॒क॒पा॒लैः सँसृ॑जति । ए॒तानि॒
वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शु॒चाऽर्प॑यति । शर्क॑राभि॒स्सँसृ॑जति॒
धृत्यै॑ । अथो॑ श॒न्त्वाय॑ । अ॒ज॒लो॒मैस्सँसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या
त॒नूः । यद॒जा । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सँसृ॑जति । अथो॒ तेज॑सा ।
कृ॒ष्णा॒जि॒नस्य॒ लोम॑भि॒स्सँसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नम्
। य॒ज्ञेनै॒व य॒ज्ञँ सँसृ॑जति ॥ ०। ५। २। २०॥ या॒ज्या॑यै॒ न
जु॑हु॒यादवि॑श॒द्वेणुः॒ शान्त्यै॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह हरति दिहन्ति
प॒राक्र॑म॒तावि॑शत्प्र॒जाय॑मानानाँ सृजति श॒न्त्वाया॒ष्टौ च॑ ॥ २॥
२१ परि॑श्रिते करोति । ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै । न
कु॒र्वन्न॒भिप्रा॑ण्यात् । यत्कु॒र्वन्न॑भिप्रा॒ण्यात् । प्रा॒णाञ्छु॒चाऽर्प॑येत् ।
अ॒प॒हाय॒ प्राणि॑ति । प्रा॒णानां॑ गोपी॒थाय॑ । न प्र॑व॒र्ग्यं॑ चादि॒त्यं
चा॒न्तरे॑यात् । यद॑न्तरे॒यात् । दु॒श्चर्मा॑ स्यात् ॥ ०। ५। ३। २१॥
२२ तस्मा॒न्नान्त॒राय्य॑म् । आ॒त्मनो॑ गोपी॒थाय॑ । वेणु॑ना करोति । तेजो॒ वै वेणुः॑ ।
तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्धयति । म॒खस्य॒ शिरो॒ऽसीत्या॑ह ।
य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्प्र॑व॒र्ग्यः॑ ॥ ०। ५। ३। २२॥
२३ तस्मा॑दे॒वमा॑ह । य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह । य॒ज्ञस्य॒ ह्ये॑ते
प॒दे । अथो॒ प्रति॑ष्ठित्यै । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करो॒मीत्या॑ह ।
छन्दो॑भिरे॒वैनं॑ करोति । त्र्यु॑द्धिं करोति । त्रय॑ इ॒मे लो॒काः । ए॒षां
लो॒काना॒माप्त्यै॑ । छन्दो॑भिः करोति ॥ ०। ५। ३। २३॥
२४ वी॒र्यं॑ वै छन्दाँ॑सि । वी॒र्ये॑णै॒वैनं॑ करोति । यजु॑षा॒ बिलं॑
करोति॒ व्यावृ॑त्त्यै । इय॑न्तं करोति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।
इय॑न्तं करोति । य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम् । इय॑न्तं करोति । ए॒ताव॒द्वै पुरु॑षे
वी॒र्य॑म् । वी॒र्य॑सम्मितम् ॥ ०। ५। ३। २४॥
२५ अप॑रिमितं करोति । अप॑रिमित॒स्याव॑रुद्ध्यै । प॒रि॒ग्री॒वं क॑रोति॒
धृत्यै॑ । सूर्य॑स्य॒ हर॑सा श्रा॒येत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ।
अ॒श्व॒श॒केन॑ धूपयति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ । वृष्णो॒
अश्व॑स्य नि॒ष्पद॒सीत्या॑ह । अ॒सौ वा आ॑दि॒त्यो वृषाश्वः॑ । तस्य॒ छन्दाँ॑सि
नि॒ष्पत् ॥ ०। ५। ३। २५॥
२६ छन्दो॑भिरे॒वैनं॑ धूपयति । अ॒र्चिषे॑ त्वा शो॒चिषे॒ त्वेत्या॑ह । तेज॑
ए॒वास्मि॑न्दधाति । वा॒रु॒णो॑ऽभीद्धः॑ । मै॒त्रियोपै॑ति॒ शान्त्यै॑ । सिद्ध्यै॒
त्वेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑पति । अप॑द्यमानः
पृथि॒व्यामाशा॒ दिश॒ आपृ॒णेत्या॑ह ॥ ०। ५। ३। २६॥
२७ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒विभा॑ति । उत्ति॑ष्ठ बृ॒हन्भ॑वो॒र्ध्वस्ति॑ष्ठ
ध्रु॒वस्त्वमित्या॑ह॒ प्रति॑ष्ठित्यै । ई॒श्व॒रो वा ए॒षो॑ऽन्धो भवि॑तोः ।
यः प्र॑व॒र्ग्य॑म॒न्वीक्ष॑ते । सूर्य॑स्य त्वा॒ चक्षु॒षाऽन्वी॑क्ष॒ इत्या॑ह ।
चक्षु॑षो गोपी॒थाय॑ । ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॒ भूत्यै॒
त्वेत्या॑ह । इ॒यं वा ऋ॒जुः । अ॒न्तरि॑क्षँ सा॒धु । अ॒सौ सु॑क्षि॒तिः ॥ ०। ५।
३। २७॥
२८ दिशो॒ भूतिः॑ । इ॒माने॒वास्मै॑ लो॒कान्क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै ।
इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हा॒मीत्या॑ह
। वि॒शैवैनं॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हति । वि॒शेति॑ राज॒न्य॑स्य
ब्रूयात् । वि॒शैवैनं॒ पर्यू॑हति । प॒शुभि॒रिति॒ वैश्य॑स्य । प॒शुभि॑रे॒वैनं॒
पर्यू॑हति । अ॒सु॒र्यं॑ पात्र॒मना॑च्छृण्णम् ॥ ०। ५। ३। २८॥
२९ आच्छृ॑णत्ति । दे॒व॒त्राऽकः॑ । अ॒ज॒क्षी॒रेणाच्छृ॑णत्ति । प॒र॒मं
वा ए॒तत्पयः॑ । यद॑जक्षी॒रम् । प॒र॒मेणै॒वैनं॒ पय॒साऽऽच्छृ॑णत्ति
। यजु॑षा॒ व्यावृ॑त्त्यै । छन्दो॑भि॒राच्छृ॑णत्ति । छन्दो॑भि॒र्वा ए॒ष
क्रि॑यते । छन्दो॑भिरे॒व छन्दा॒ग्स्याच्छृ॑णत्ति । छृ॒न्धि वाच॒मित्या॑ह ।
वाच॑मे॒वाव॑रुन्धे । छृ॒न्ध्यूर्ज॒मित्या॑ह । ऊर्ज॑मे॒वाव॑रुन्धे । छृ॒न्धि
ह॒विरित्या॑ह । ह॒विरे॒वाकः॑ । देव॑ पुरश्चर स॒घ्यासं॒ त्वेत्या॑ह ।
य॒था॒ य॒जुरे॒वैतत् ॥ ०। ५। ३। २९॥ स्या॒द्यत्प्र॑व॒र्ग्य॑श्छन्दो॑भिः करोति
वी॒र्य॑सम्मितं॒ छन्दाँ॑सि नि॒ष्पत्पृ॒णेत्या॑ह सुक्षि॒तिरना॑च्छृण्णं॒
छन्दा॒ग्स्याच्छृ॑णत्त्य॒ष्टौ च॑ ॥ ३॥
३० ब्रह्म॒न्प्रच॑रिष्यामो॒ होत॑र्घ॒र्मम॒भिष्टु॒हीत्या॑ह । ए॒ष वा
ए॒तर्हि॒ बृह॒स्पतिः॑ । यद्ब्र॒ह्मा । तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॒ प्रच॑रति ।
आ॒त्मनोऽना॑र्त्यै । य॒माय॑ त्वा म॒खाय॒ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वताः॑ ।
ताभि॑रे॒वैनँ॒ सम॑र्धयति । मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न्दधाति
॥ ०। ५। ४। ३०॥
३१ अ॒भि॒पू॒र्वं प्रोक्ष॑ति । अ॒भि॒पू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति । त्रिः प्रोक्ष॑ति ।
त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । होताऽन्वा॑ह । रक्ष॑सा॒मप॑हत्यै ।
अन॑वानम् । प्रा॒णानाँ॒ सन्त॑त्यै । त्रि॒ष्टु॒भ॑स्स॒तीर्गा॑य॒त्रीरि॒वान्वा॑ह
॥ ०। ५। ४। ३१॥
३२ गा॒य॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति । सन्त॑त॒मन्वा॑ह ।
प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सा॒मप॑हत्यै । यत्परि॑मिता
अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमित॒स्याव॑रुद्ध्यै
। शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ॥ ०। ५। ४। ३२॥
३३ यत्प्र॑व॒र्ग्यः॑ । ऊर्ङ्मुञ्जाः॑ । यन्मौ॒ञ्जो वे॒दो भव॑ति । ऊ॒र्जैव य॒ज्ञस्य॒
शिर॒स्सम॑र्धयति । प्रा॒णा॒हु॒तीर्जु॑होति । प्रा॒णाने॒व यज॑माने दधाति । स॒प्त
जु॑होति । स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । दे॒वस्त्वा॑
सवि॒ता मध्वा॑ऽन॒क्त्वित्या॑ह ॥ ०। ५। ४। ३३॥
३४ तेज॑सै॒वैन॑मनक्ति । पृ॒थि॒वीं तप॑सस्त्राय॒स्वेति॒ हिर॑ण्य॒मुपा॑स्यति ।
अ॒स्या अन॑तिदाहाय । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निस्सर्वा॑
दे॒वताः॑ । प्र॒ल॒वाना॒दीप्योपा॑स्यति । दे॒वता॑स्वे॒व य॒ज्ञस्य॒ शिरः॒
प्रति॑दधाति । अप्र॑तिशीर्णाग्रं भवति । ए॒तद्ब॑र्हि॒र्ह्ये॑षः ॥ ०। ५। ४। ३४॥
३५ अ॒र्चिर॑सि शो॒चिर॒सीत्या॑ह । तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
। सँसी॑दस्व म॒हाँ अ॒सीत्या॑ह । म॒हान् ह्ये॑षः । ब्र॒ह्म॒वा॒दिनो॑
वदन्ति । ए॒ते वाव त ऋ॒त्विजः॑ । ये द॑र्शपूर्णमा॒सयोः॑ । अथ॑ क॒था होता॒
यज॑मानाया॒शिषो॒ नाऽऽशा॑स्त॒ इति॑ । पु॒रस्ता॑दाशीः॒ खलु॒ वा अ॒न्यो य॒ज्ञः
। उ॒परि॑ष्टादाशीर॒न्यः ॥ ०। ५। ४। ३५॥
३६ अ॒ना॒धृ॒ष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजू॒ग्ष्याह॑ । शी॒र्ष॒त
ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑रुन्धे । आयुः॑ पु॒रस्ता॑दाह । प्र॒जां
द॑क्षिण॒तः । प्रा॒णं प॒श्चात् । श्रोत्र॑मुत्तर॒तः । विधृ॑तिमु॒परि॑ष्टात् ।
प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति । ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यं
दिशोऽनु॑ व्यास्था॒पय॑न्ति ॥ ०। ५। ४। ३६॥
३७ मनो॒रश्वा॑ऽसि॒ भूरि॑पु॒त्रेती॒माम॒भिमृ॑शति । इ॒यं वै मनो॒रश्वा॒
भूरि॑पुत्त्रा । अ॒स्यामे॒व प्रति॑तिष्ठ॒त्यनु॑न्मादाय । सू॒प॒सदा॑ मे भूया॒
मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । चित॑स्स्थ परि॒चित॒ इत्या॑ह ।
अप॑चितिमे॒वास्मि॑न्दधाति । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ
खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ ॥ ०। ५। ४। ३७॥
३८ स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यँ र॒श्मिभिः॒
पर्यू॑हति । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मि॑३ल्ँ लो॒के र॒श्मिभिः॒ पर्यू॑ढः ।
तस्मा॒द्राजा॑ वि॒शा पर्यू॑ढः । तस्मा॑द्ग्राम॒णीः स॑जा॒तैः पर्यू॑ढः । अ॒ग्नेः
सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आ॑र्च्छत् । यद्वैक॑ङ्कताः परि॒धयो॒
भव॑न्ति । भा ए॒वाव॑रुन्धे । द्वाद॑श भवन्ति ॥ ०। ५। ४। ३८॥
३९ द्वाद॑श॒ मासाः॑ संवत्स॒रः । सं॒व॒त्स॒रमे॒वाव॑रुन्धे । अस्ति॑
त्रयोद॒शो मास॒ इत्या॑हुः । यत्त्र॑योद॒शः प॑रि॒धिर्भव॑ति । तेनै॒व
त्र॑योद॒शं मास॒मव॑रुन्धे । अ॒न्तरि॑क्षस्यान्त॒र्धिर॒सीत्या॑ह॒ व्यावृ॑त्त्यै
। दिवं॒ तप॑सस्त्राय॒स्वेत्यु॒परि॑ष्टा॒द्धिर॑ण्य॒मधि॒ निद॑धाति । अ॒मुष्या॒
अन॑तिदाहाय । अथो॑ आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । अर्ह॑न्बिभर्षि॒
साय॑कानि॒ धन्वेत्या॑ह ॥ ०। ५। ४। ३९॥
४० स्तौत्ये॒वैन॑मे॒तत् । गा॒य॒त्रम॑सि॒ त्रैष्टु॑भमसि॒ जाग॑तम॒सीति॑
ध॒वित्रा॒ण्याद॑त्ते । छन्दो॑भिरे॒वैना॒न्याद॑त्ते । मधु॒ मध्विति॑ धूनोति । प्रा॒णो
वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति । त्रिः परि॑यन्ति । त्रि॒वृद्धि प्रा॒णः ।
त्रिः परि॑यन्ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ ०। ५। ४। ४०॥
४१ अथो॒ रक्ष॑सा॒मप॑हत्यै । त्रिः पुनः॒ परि॑यन्ति । षट्त् सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑तिष्ठन्ति । यो वै घ॒र्मस्य॑ प्रि॒यां
त॒नुव॑मा॒क्राम॑ति । दु॒श्चर्मा॒ वै स भ॑वति । ए॒ष ह॒ वा अ॑स्य प्रि॒यां
त॒नुव॒माक्रा॑मति । यस्त्रिः प॒रीत्य॑ चतु॒र्थं पर्ये॑ति । ए॒ताँ ह॒ वा
अ॑स्यो॒ग्रदे॑वो॒ राज॑नि॒राच॑क्राम ॥ ०। ५। ४। ४१॥
४२ ततो॒ वै स दु॒श्चर्मा॑ऽभवत् । तस्मा॒त्त्रिः प॒रीत्य॒ न च॑तु॒र्थं
परी॑यात् । आ॒त्मनो॑ गोपी॒थाय॑ । प्रा॒णा वै ध॒वित्रा॑णि । अव्य॑तिषङ्गं
धून्वन्ति । प्रा॒णाना॒मव्य॑तिषङ्गाय॒ क्लृप्त्यै॑ । वि॒नि॒षद्य॑ धून्वन्ति ।
दि॒क्ष्वे॑व प्रति॑तिष्ठन्ति । ऊ॒र्ध्वं धू॑न्वन्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै । स॒र्वतो॑ धून्वन्ति । तस्मा॑द॒यँ स॒र्वतः॑ पवते ॥ ०। ५। ४। ४२॥
द॒धा॒ती॒वान्वा॑ह य॒ज्ञस्या॑है॒ष उ॒परि॑ष्टादाशीर॒न्यो व्या॑स्था॒पय॑न्ति
र॒श्मयो॑ भवन्ति॒ धन्वेत्या॑ह य॒ज्ञश्च॑क्राम॒ सम॑ष्ट्यै॒ द्वे च॑ ॥ ४॥
४३ अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता॑द्रोचयतु गाय॒त्रेण॒ छन्द॒सेत्या॑ह
। अ॒ग्निरे॒वैनं॒ वसु॑भिः पु॒रस्ता॑द्रोचयति गाय॒त्रेण॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । इन्द्र॑स्त्वा
रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॒सेत्या॑ह । इन्द्र॑
ए॒वैनँ॑ रु॒द्रैर्द॑क्षिण॒तो रो॑चयति॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑
रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । वरु॑णस्त्वाऽऽदि॒त्यैः
प॒श्चाद्रो॑चयतु॒ जाग॑तेन॒ छन्द॒सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः
प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा ॥ ०। ५। ५। ४३॥
४४ स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । द्यु॒ता॒नस्त्वा॑
मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॒सेत्या॑ह ।
द्यु॒ता॒न ए॒वैनं॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्यानु॑ष्टुभेन॒
छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।
बृह॒स्पति॑स्त्वा॒ विश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॒सेत्या॑ह
। बृह॒स्पति॑रे॒वैनं॒ विश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयति॒ पाङ्क्ते॑न॒ छन्द॑सा
। स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ॥ ०। ५। ५। ४४॥
४५ रो॒चि॒तस्त्वं दे॑व घर्म दे॒वेष्वसीत्या॑ह । रो॒चि॒तो ह्ये॑ष दे॒वेषु॑
। रो॒चि॒षी॒याहं म॑नु॒ष्ये॑ष्वित्या॑ह । रोच॑त ए॒वैष म॑नु॒ष्ये॑षु ।
सम्रा॑ड्घर्म रुचि॒तस्त्वं दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सीत्या॑ह ।
रु॒चि॒तो ह्ये॑ष दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी । रु॒चि॒तो॑ऽहं
म॑नु॒ष्ये॑ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यास॒मित्या॑ह ।
रु॒चि॒त ए॒वैष म॑नु॒ष्ये॑ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ।
रुग॑सि॒ रुचं॒ मयि॑ धेहि॒ मयि॒ रुगित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते
। तं यदे॒तैर्यजु॑र्भि॒ररो॑चयित्वा । रु॒चि॒तो घ॒र्म इति॑ प्रब्रू॒यात् ।
अरो॑चुकोऽध्व॒र्युः स्यात् । अरो॑चुको॒ यज॑मानः । अथ॒ यदे॑नमे॒तैर्यजु॑र्भी
रोचयि॒त्वा । रु॒चि॒तो घ॒र्म इति॒ प्राह॑ । रोचु॑कोऽध्व॒र्युर्भव॑ति । रोचु॑को॒
यज॑मानः ॥ ०। ५। ५। ४५॥ प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा॒ स मा॑ रुचि॒तो
रो॑च॒येत्या॑हा॒शिष॑मे॒वैतामाशा॑स्ते शास्ते॒ऽष्टौ च॑ ॥ ५॥
४६ शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । ग्री॒वा उ॑प॒सदः॑ ।
पु॒रस्ता॑दुप॒सदां॑ प्रव॒र्ग्यं॑ प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञस्य॒ शिरः॒
प्रति॑दधाति । त्रिः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑
य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । षट्त् सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ ०। ५। ६। ४६॥
४७ ऋ॒तुभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । द्वाद॑श॒कृत्वः॒ प्रवृ॑णक्ति ।
द्वाद॑श॒ मासा॑स्संवत्स॒रः । सं॒व॒त्स॒रादे॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे ।
चतु॑र्विँशति॒स्सम्प॑द्यन्ते । चतु॑र्विँशतिरर्धमा॒साः । अ॒र्ध॒मा॒सेभ्य॑
ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । अथो॒ खलु॑ । स॒कृदे॒व प्र॒वृज्यः॑ ।
एकँ॒ हि शिरः॑ ॥ ०। ५। ६। ४७॥
४८ अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति । ए॒तावा॒न् वै य॒ज्ञः । यावा॑नग्निष्टो॒मः
। यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । नोक्थ्ये॑ प्रवृ॑ञ्ज्यात् ।
प्र॒जा वै प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्ये॑ प्रवृ॒ञ्ज्यात् । प्र॒जां प॒शून॑स्य॒
निर्द॑हेत् । वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ प्रवृ॑णक्ति ॥ ०। ५। ६। ४८॥
४९ पृ॒ष्ठानि॒ वा अच्यु॑तं च्यावयन्ति । पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तं
च्यावयि॒त्वाऽव॑रुन्धे । अप॑श्यं गो॒पामित्या॑ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व
प्र॒जासु॒ विया॑तयति । अप॑श्यं गो॒पामित्या॑ह । अ॒सौ वा आ॑दि॒त्यो गो॒पाः । स हीमाः
प्र॒जा गो॑पा॒यति॑ । तमे॒व प्र॒जानां॑ गो॒प्तारं॑ कुरुते । अनि॑पद्यमान॒मित्या॑ह
॥ ०। ५। ६। ४९॥
५० न ह्ये॑ष नि॒पद्य॑ते । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्त॒मित्या॑ह । आ च॒
ह्ये॑ष परा॑ च प॒थिभि॒श्चर॑ति । स स॒द्ध्रीची॒स्स विषू॑ची॒र्वसा॑न॒
इत्या॑ह । स॒द्ध्रीची॑श्च॒ ह्ये॑ष विषू॑चीश्च॒ वसा॑नः प्र॒जा अ॒भिवि॒पश्य॑ति
। आव॑रीवर्ति॒ भुव॑नेष्व॒न्तरित्या॑ह । आ ह्ये॑ष व॑री॒वर्ति॒ भुव॑नेष्व॒न्तः ।
अत्र॑ प्रा॒वीर्मधु॒माध्वी॑भ्यां॒ मधु॒माधू॑चीभ्या॒मित्या॑ह । वास॑न्तिकावे॒वास्मा॑
ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह ॥ ०। ५। ६। ५०॥
५१ ग्रैष्मा॑वे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह ।
अ॒ग्निर्ह्ये॑वैषो॑ऽग्निना॑ सं॒गच्छ॑ते । स्वाहा॒ सम॒ग्निस्तप॑सा ग॒तेत्या॑ह
। पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः
पृथि॒व्या इत्या॑ह । वार्षि॑कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । हृ॒दे त्वा॒ मन॑से॒
त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ॥ ०। ५। ६। ५१॥
५२ दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वेमान् लो॒कान्त्सन्द॑धाति
। विश्वा॑सां भुवां पत॒ इत्या॑ह । हैम॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ।
दे॒व॒श्रूस्त्वं दे॑व घर्म दे॒वान्पा॒हीत्या॑ह । शै॒शि॒रावे॒वास्मा॑ ऋ॒तू
क॑ल्पयति । त॒पो॒जां वाच॑म॒स्मे निय॑च्छ देवा॒युव॒मित्या॑ह । या वै मेध्या॒
वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे ॥ ०। ५। ६। ५२॥
५३ गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो॒ ह्ये॑ष दे॒वाना॑म् । पि॒ता म॑ती॒नामित्या॑ह ।
प्र॒जा वै म॒तयः॑ । तासा॑मे॒ष ए॒व पि॒ता । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह
। पतिः॑ प्र॒जाना॒मित्या॑ह । पति॒र्ह्ये॑ष प्र॒जाना॑म् । मतिः॑ कवी॒नामित्या॑ह ॥
०। ५। ६। ५३॥
५४ मति॒र्ह्ये॑ष क॑वी॒नाम् । सं दे॒वो दे॒वेन॑ सवि॒त्राऽय॑तिष्ट॒ सँ
सूर्ये॑णारु॒क्तेत्या॑ह । अ॒मुं चै॒वादि॒त्यं प्र॑व॒र्ग्यं॑ च॒ सँ शा॑स्ति ।
आ॒यु॒र्दास्त्वम॒स्मभ्यं॑ घर्म वर्चो॒दा अ॒सीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।
पि॒ता नो॑ऽसि पि॒ता नो॑ बो॒धेत्या॑ह । बो॒धय॑त्ये॒वैन॑म् । नवै॒ते॑ऽवका॒शा
भ॑वन्ति । पत्नि॑यै दश॒मः । नव॒ वै पुरु॑षे प्रा॒णाः ॥ ०। ५। ६। ५४॥
५५ नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत ।
तद्दे॒वा होत्रा॑भिः॒ प्रत्य॑दधुः । ऋ॒त्विजोऽवे॑क्षन्ते । ए॒ता वै होत्राः॑ ।
होत्रा॑भिरे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ ०। ५। ६। ५५॥
५६ रु॒चि॒तमवे॑क्षन्ते । रु॒चि॒ताद्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत ।
प्र॒जानाँ॒ सृष्ट्यै॑ । रु॒चि॒तमवे॑क्षन्ते । रु॒चि॒ताद्वै प॒र्जन्यो॑
वर्षति । वर्षु॑कः प॒र्जन्यो॑ भवति । सं प्र॒जा ए॑धन्ते । रु॒चि॒तमवे॑क्षन्ते ।
रु॒चि॒तं वै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति ॥ ०। ५। ६। ५६॥
५७ अ॒धी॒यन्तोऽवे॑क्षन्ते । सर्व॒मायु॑र्यन्ति । न पत्न्यवे॑क्षेत । यत्पत्न्य॒वेक्षे॑त
। प्रजा॑येत । प्र॒जां त्व॑स्यै॒ निर्द॑हेत् । यन्नावेक्षे॑त । न प्रजा॑येत । नास्यै॑
प्र॒जां निर्द॑हेत् । ति॒र॒स्कृत्य॒ यजु॑र्वाचयति । प्रजा॑यते । नास्यै॑ प्र॒जां
निर्द॑हति । त्वष्टी॑मती ते सपे॒येत्या॑ह । सपा॒द्धि प्र॒जाः प्र॒जाय॑न्ते ॥ ०। ५।
६। ५७॥ ऋ॒तवो॒ हि शिर॒स्सर्व॑पृष्ठे॒ प्रवृ॑ण॒क्त्यनि॑पद्यमान॒मित्या॑ह
ग॒तेत्या॑ह शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति रुन्धे कवी॒नामित्या॑ह प्रा॒णाः
प्रति॑दधाति भवन्ति वाचयति च॒त्वारि॑ च ॥ ६॥
५८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो
हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । आद॒देऽदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह॒ यजु॑ष्कृत्यै
। इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै देवना॒मानि॑ ।
दे॒व॒ना॒मैरे॒वैना॒माह्व॑यति । असा॒वेह्यसा॒वेह्यसा॒वेहीत्या॑ह । ए॒तानि॒ वा
अ॑स्यै मनुष्यना॒मानि॑ ॥ ०। ५। ७। ५८॥
५९ म॒नु॒ष्य॒ना॒मैरे॒वैना॒माह्व॑यति । षट्थ सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑
। ऋ॒तुभि॑रे॒वैना॒माह्व॑यति । अदि॑त्या उ॒ष्णीष॑म॒सीत्या॑ह । य॒था॒
य॒जुरे॒वैतत् । वा॒युर॑स्यै॒ड इत्या॑ह । वा॒यु॒दे॒व॒त्यो॑ वै व॒त्सः । पू॒षा
त्वो॒पाव॑सृज॒त्वित्या॑ह । पौ॒ष्णा वै दे॒वत॑या प॒शवः॑ ॥ ०। ५। ७। ५९॥
६० स्वयै॒वैनं॑ दे॒वत॑यो॒पाव॑सृजति । अ॒श्विभ्यां॒ प्रदा॑प॒येत्या॑ह ।
अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । यस्ते॒
स्तनः॑ शश॒य इत्या॑ह । स्तौत्ये॒वैना॑म् । उस्र॑ घ॒र्मँ शिँ॒षोस्र॑
घ॒र्मं पा॑हि घ॒र्माय॑ शिँ॒षेत्या॑ह । यथा॑ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑
। ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑सीद॒त्वित्या॑ह ॥ ०। ५। ७। ६०॥
६१ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैना॒मुप॑सीदति । दान॑वस्स्थ॒
पेर॑व॒ इत्या॑ह । मेध्या॑ने॒वैना॑न्करोति । वि॒ष्व॒ग्वृतो॒ लोहि॑ते॒नेत्या॑ह॒
व्यावृ॑त्यै । अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व॒
बृह॒स्पत॑ये पिन्व॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्यः॒ पिन्व॑ते । इन्द्रा॑य
पिन्व॒स्वेन्द्रा॑य पिन्व॒स्वेत्या॑ह । इन्द्र॑मे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ।
द्विरिन्द्रा॒येत्या॑ह ॥ ०। ५। ७। ६१॥
६२ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑मः । गा॒य॒त्रो॑ऽसि॒ त्रैष्टु॑भोऽसि॒
जाग॑तम॒सीति॑ शफोपय॒मानाद॑त्ते । छन्दो॑भिरे॒वैना॒नाद॑त्ते । स॒होर्जो
भा॒गेनोप॒मेहीत्या॑ह । ऊ॒र्ज ए॒वैनं॑ भा॒गम॑कः । अ॒श्विनौ॒ वा ए॒तद्य॒ज्ञस्य॒
शिरः॑ प्रति॒दध॑तावब्रूताम् । आ॒वाभ्या॑मे॒व पूर्वा॑भ्यां॒ वष॑ट्क्रियाता॒
इति॑ । इन्द्रा॑श्विना॒ मधु॑नस्सार॒घस्येत्या॑ह । अ॒श्विभ्या॑मे॒व पूर्वा॑भ्यां॒
वष॑ट्करोति । अथो॑ अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ॥ ०। ५। ७। ६२॥
६३ घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वडित्या॑ह । वसू॑ने॒व भा॑ग॒धेये॑न॒
सम॑र्धयति । यद्व॑षट्कु॒र्यात् । या॒तया॑माऽस्य वषट्का॒रस्स्या॑त् । यन्न
व॑षट्कु॒र्यात् । रक्षाँ॑सि य॒ज्ञँ ह॑न्युः । वडित्या॑ह । प॒रोक्ष॑मे॒व
वष॑ट्करोति । नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति । न य॒ज्ञँ रक्षाँ॑सि
घ्नन्ति ॥ ०। ५। ७। ६३॥
६४ स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहो॒मीत्या॑ह । यो वा
अ॑स्य॒ पुण्यो॑ र॒श्मिः । स वृ॑ष्टि॒वनिः॑ । तस्मा॑ ए॒वैनं॑ जुहोति । मधु॑
ह॒विर॒सीत्या॑ह । स्व॒दय॑त्ये॒वैन॑म् । सूर्य॑स्य॒ तप॑स्त॒पेत्या॑ह ।
य॒था॒ य॒जुरे॒वैतत् । द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑गृह्णा॒मीत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॒ परि॑गृह्णाति ॥ ०। ५। ७। ६४॥
६५ अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छा॒मीत्या॑ह । अ॒न्तरि॑क्षेणै॒वैन॒मुप॑यच्छति
। न वा ए॒तं म॑नु॒ष्यो॑ भर्तु॑मर्हति । दे॒वानां॑ त्वा पितृ॒णामनु॑मतो॒
भर्तुँ॑ शकेय॒मित्या॑ह । दे॒वैरे॒वैनं॑ पि॒तृभि॒रनु॑मत॒ आद॑त्ते
। वि वा ए॑नमे॒तद॑र्धयन्ति । यत्प॒श्चात्प्र॒वृज्य॑ पु॒रो जुह्व॑ति ।
तेजो॑ऽसि॒ तेजोऽनु॒प्रेहीत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । दि॒वि॒स्पृङ्मा
मा॑ हिँसीरन्तरिक्ष॒स्पृङ्मा मा॑ हिँसीः पृथिवि॒स्पृङ्मा मा॑
हिँसी॒रित्या॒हाहिँ॑सायै ॥ ०। ५। ७। ६५॥
६६ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो मा॑ पा॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । आ॒त्मा
वा॒युः । उ॒द्यत्य॑वातना॒मान्या॑ह । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ।
अन॑वानम् । प्रा॒णानाँ॒ सन्त॑त्यै । पञ्चा॑ह ॥ ०। ५। ७। ६६॥
६७ पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । अ॒ग्नये॑
त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह । अ॒सौ वा आ॑दि॒त्यो॑ऽग्निर्वसु॑मान् । तस्मा॑ ए॒वैनं॑
जुहोति । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह । च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवा॑न् ।
तस्मा॑ ए॒वैनं॑ जुहोति । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह ॥ ०। ५। ७। ६७॥
६८ अ॒प्सु वै वरु॑ण आदि॒त्यवा॑न् । तस्मा॑ ए॒वैनं॑ जुहोति । बृह॒स्पत॑ये त्वा
वि॒श्वदे॑व्यावते॒ स्वाहेत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑ण
ए॒वैनं॑ जुहोति । स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते॑ प्रभु॒मते॒ वाज॑वते॒
स्वाहेत्या॑ह । सं॒व॒त्स॒रो वै स॑वि॒तुर्भु॒मान्, वि॑भु॒मान्प्र॑भु॒मान्, वाज॑वान्
। तस्मा॑ ए॒वैनं॑ जुहोति । य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहेत्या॑ह ।
प्रा॒णो वै य॒मोऽङ्गि॑रस्वान्पितृ॒मान् ॥ ०। ५। ७। ६८॥
६९ तस्मा॑ ए॒वैनं॑ जुहोति । ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता॑भ्यो जुहोति । दश॒
सम्प॑द्यन्ते । दशा॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
रौ॒हि॒णाभ्यां॒ वै दे॒वास्सु॑व॒र्गं लो॒कमा॑यन् । तद्रौ॑हि॒णयो॑ रौहिण॒त्वम्
। यद्रौ॑हि॒णौ भव॑तः । रौ॒हि॒णाभ्या॑मे॒व तद्यज॑मानस्सुव॒र्गं लो॒कमे॑ति
। अह॒र्ज्योतिः॑ के॒तुना॑ जुषताँ सुज्यो॒तिर्ज्योति॑षा॒ग् स्वाहा॒ रात्रि॒र्ज्योतिः॑
के॒तुना॑ जुषताँ सुज्यो॒तिर्ज्योति॑षा॒ग् स्वाहेत्या॑ह । आ॒दि॒त्यमे॒व तद॒मुष्मिं॑
ल्लो॒केऽह्ना॑ प॒रस्ता॑द्दाधार । रात्रि॑या अ॒वस्ता॑त् । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मिं॑
ल्लो॒के॑ऽहोरा॒त्राभ्यां॑ धृ॒तः ॥ ०। ५। ७। ६९॥ म॒नु॒ष्य॒ना॒मानि॑
प॒शवः॑ सीद॒त्वित्या॒हेन्द्रा॒येत्या॑हार्धयति घ्नन्ति गृह्णा॒त्यहिँ॑सायै॒
पञ्चा॑हादि॒त्यव॑ते॒ स्वाहेत्या॑ह पितृ॒माने॑ति च॒त्वारि॑ च ॥ ७॥
७० विश्वा॒ आशा॑ दक्षिण॒सदित्या॑ह । विश्वा॑ने॒व दे॒वान्प्री॑णाति । अथो॒ दुरि॑ष्ट्या
ए॒वैनं॑ पाति । विश्वा॑न्दे॒वान॑याडि॒हेत्या॑ह । विश्वा॑ने॒व दे॒वान्भा॑ग॒धेये॑न॒
सम॑र्धयति । स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्वि॒नेत्या॑ह ।
अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं
यजु॑र्भि॒रित्या॑ह । अ॒भ्ये॑वैनं॑ घारयति । अथो॑ ह॒विरे॒वाकः॑ ॥ ०। ५। ८। ७०॥
७१ अश्वि॑ना घ॒र्मं पा॑तँ हार्दिवा॒नमह॑र्दि॒वाभि॑रू॒तिभि॒रित्या॑ह ।
अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । अनु॑ वां॒ द्यावा॑पृथि॒वी
मँ॑साता॒मित्या॒हानु॑मत्यै । स्वाहेन्द्रा॑य॒ स्वाहेन्द्रा॒वडित्या॑ह । इन्द्रा॑य॒
हि पु॒रो हू॒यते॑ । आ॒श्राव्या॑ह घ॒र्मस्य॑ य॒जेति॑ । वष॑ट्कृते जुहोति ।
रक्ष॑सा॒मप॑हत्यै । अनु॑यजति स्व॒गाकृ॑त्यै । घ॒र्मम॑पातमश्वि॒नेत्या॑ह ॥
०। ५। ८। ७१॥
७२ पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । अनु॑ वां॒ द्यावा॑पृथि॒वी
अ॑मँसाता॒मित्या॒हानु॑मत्यै । तं प्रा॒व्यं॑ यथा॒वण्णमो॑ दि॒वे नमः॑ पृथि॒व्या
इत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । दि॒वि धा॑ इ॒मं य॒ज्ञं य॒ज्ञमि॒मं दि॒वि
धा॒ इत्या॑ह । सु॒व॒र्गमे॒वैनं॑ लो॒कं ग॑मयति । दिवं॑ गच्छा॒न्तरि॑क्षं
गच्छ पृथि॒वीं ग॒च्छेत्या॑ह । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठापयति ।
पञ्च॑ प्र॒दिशो॑ ग॒च्छेत्या॑ह ॥ ०। ५। ८। ७२॥
७३ दि॒क्ष्वे॑वैनं॒ प्रति॑ष्ठापयति । दे॒वान्घ॑र्म॒पान्ग॑च्छ
पि॒तॄन्घ॑र्म॒पान्ग॒च्छेत्या॑ह । उ॒भये॑ष्वे॒वैनं॒ प्रति॑ष्ठापयति ।
यत्पिन्व॑ते । वर्षु॑कः प॒र्जन्यो॑ भवति । तस्मा॒त्पिन्व॑मानः॒ पुण्यः॑ ।
यत्प्राङ्पिन्व॑ते । तद्दे॒वाना॑म् । यद्द॑क्षि॒णा । तत्पि॑तृ॒णाम् ॥ ०। ५। ८। ७३॥
७४ यत्प्र॒त्यक् । तन्म॑नु॒ष्या॑णाम् । यदुदङ्ङ्॑ । तद्रु॒द्राणा॑म् । प्राञ्च॒मुद॑ञ्चं
पिन्वयति । दे॒व॒त्राऽकः॑ । अथो॒ खलु॑ । सर्वा॒ अनु॒ दिशः॑ पिन्वयति । सर्वा॒
दिश॒स्समे॑धन्ते । अ॒न्तः॒प॒रि॒धि पि॑न्वयति ॥ ०। ५। ८। ७४॥
७५ तेज॒सोऽस्क॑न्दाय । इ॒षे पी॑पिह्यू॒र्जे पी॑पि॒हीत्या॑ह । इष॑मे॒वोर्जं॒ यज॑माने
दधाति । यज॑मानाय पीपि॒हीत्या॑ह । यज॑मानायै॒वैतामा॒शिष॒माशा॑स्ते । मह्यं॒
ज्यैष्ठ्या॑य पीपि॒हीत्या॑ह । आ॒त्मन॑ ए॒वैतामा॒शिष॒माशा॑स्ते । त्विष्यै॑
त्वा द्यु॒म्नाय॑ त्वेन्द्रि॒याय॑ त्वा॒ भूत्यै॒ त्वेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ।
धर्मा॑ऽसि सु॒धर्मा मे॑ न्य॒स्मे ब्रह्मा॑णि धार॒येत्या॑ह ॥ ०। ५। ८। ७५॥
७६ ब्रह्म॑न्ने॒वैनं॒ प्रति॑ष्ठापयति । नेत्त्वा॒ वात॑स्स्क॒न्दया॒दिति॒
यद्य॑भि॒चरे॑त् । अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयाम्य॒मुना॑ स॒ह नि॑र॒र्थं
ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तेनै॑नँ स॒ह नि॑र॒र्थं
ग॑मयति । पू॒ष्णे शर॑से॒ स्वाहेत्या॑ह । या ए॒व दे॒वता॑ हु॒तभा॑गाः । ताभ्य॑
ए॒वैनं॑ जुहोति । ग्राव॑भ्य॒स्स्वाहेत्या॑ह । या ए॒वान्तरि॑क्षे॒ वाचः॑ ॥ ०। ५। ८। ७६॥
७७ ताभ्य॑ ए॒वैनं॑ जुहोति । प्र॒ति॒रेभ्यः॒ स्वाहेत्या॑ह । प्रा॒णा वै दे॒वाः
प्र॑ति॒राः । तेभ्य॑ ए॒वैनं॑ जुहोति । द्यावा॑पृथि॒वीभ्या॒ग् स्वाहेत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॑ जुहोति । पि॒तृभ्यो॑ घर्म॒पेभ्यः॒ स्वाहेत्या॑ह ।
ये वै यज्वा॑नः । ते पि॒तरो॑ घर्म॒पाः । तेभ्य॑ ए॒वैनं॑ जुहोति ॥ ०। ५। ८। ७७॥
७८ रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहेत्या॑ह । रु॒द्रमे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति
। स॒र्वत॒स्सम॑नक्ति । स॒र्वत॑ ए॒व रु॒द्रं नि॒रव॑दयते । उद॑ञ्चं॒
निर॑स्यति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते ।
अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । नान्वी॑क्षेत । यद॒न्वीक्षे॑त ॥ ०। ५। ८। ७८॥
७९ चक्षु॑रस्य प्र॒मायु॑कँ स्यात् । तस्मा॒न्नान्वीक्ष्यः॑ । अपी॑परो॒ माऽह्नो॒
रात्रि॑यै मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा
माऽञ्जी॒रित्या॑ह । आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा
पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा माऽञ्जी॒रित्या॑ह
। आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूऱ्यो॒
ज्योति॒र्ज्योति॒स्सूर्यः॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । ब्र॒ह्म॒वा॒दिनो॑
वदन्ति । हो॒त॒व्य॑मग्निहो॒त्रा ३म् न हो॑त॒व्या ३ मिति॑ ॥ ०। ५। ८। ७९॥
८० यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः
परा॑भवेत् । भूस्स्वाहेत्ये॒व हो॑त॒व्य॑म् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्निः
परा॑भवति । हु॒तँ ह॒विर्मधु॑ ह॒विरित्या॑ह । स्व॒दय॑त्ये॒वैन॑म् ।
इन्द्र॑तमे॒ऽग्नावित्या॑ह ॥ ०। ५। ८। ८०॥
८१ प्रा॒णो वा इन्द्र॑तमो॒ऽग्निः । प्रा॒ण ए॒वैन॒मिन्द्र॑तमे॒ऽग्नौ जु॑होति । पि॒ता
नो॑ऽसि॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒
वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । स्व॒धा॒विनो॑ऽशी॒महि॑
त्वा॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । तेज॑सा॒ वा ए॒ते व्यृ॑ध्यन्ते । ये
प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्राश्ञ॑न्ति । तेज॑ ए॒वात्मन्द॑धते ॥ ०। ५। ८। ८१॥
८२ सं॒व॒त्स॒रं न माँ॒सम॑श्ञीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न
पिबेत् । नास्य॑ रा॒म उच्छि॑ष्टं पिबेत् । तेज॑ ए॒व तत्सँश्य॑ति ।
दे॒वा॒सु॒रास्संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । वि॒भ्राजि॑ सौ॒र्ये
ब्रह्म॒ सन्न्य॑दधत । यत्किञ्च॑ दिवाकी॒र्त्य॑म् । तदे॒तेनै॒व व्र॒तेना॑गोपायत् ।
तस्मा॑दे॒तद्व्र॒तं चा॒र्य॑म् । तेज॑सो गोपी॒थाय॑ । तस्मा॑दे॒तानि॒ यजूँ॑षि
वि॒भ्राजः॑ सौ॒र्यस्येत्या॑हुः । स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रा॒तस्सँ
सा॑दयति । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यम् । ए॒ता वा ए॒तस्य॑ दे॒वताः॑
। ताभि॑रे॒वैनँ॒ सम॑र्धयति ॥ ०। ५। ८। ८२॥ अ॒क॒र॒श्वि॒नेत्या॑ह
प्र॒दिशो॑ ग॒च्छेत्या॑ह पितृ॒णाम॑न्तःपरि॒धि पि॑न्वयति धार॒येत्या॑ह॒
वाचो॑ घर्म॒पास्तेभ्य॑ ए॒वैनं॑ जुहोत्य॒न्वीक्षे॑त होत॒व्या ३ मित्य॒ग्नावित्या॑ह
दधतेऽगोपायत्स॒प्त च॑ ॥ ८॥
८३ घर्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो
लो॒केभ्यः॒ शुच॒मव॑यजते । इय॒त्यग्रे॑ जुहोति । अथेय॒त्यथेय॑ति
। त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑यजते । अनु॑
नो॒ऽद्यानु॑मति॒रित्या॒हानु॑मत्यै । दि॒वस्त्वा॑ पर॒स्पाया॒ इत्या॑ह । दि॒व ए॒वेमान्
लो॒कान्दा॑धार । ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह ॥ ०। ५। ९। ८३॥
८४ ए॒ष्वे॑व लो॒केषु॑ प्र॒जा दा॑धार । प्रा॒णस्य॑ त्वा पर॒स्पाया॒
इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान्दा॑धार । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ।
यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं यद्द॑क्षि॒णा
प्र॒त्यञ्च॒मुद॑ञ्चमुद्वा॒सये॑त् । जि॒ह्मं य॒ज्ञस्य॒ शिरो॑ हरेत् ।
प्राञ्च॒मुद्वा॑सयति । पु॒रस्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ ०। ५। ९। ८४॥
८५ प्राञ्च॒मुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदे॑ति
। श॒फो॒प॒य॒मान्ध॒वित्रा॑णि॒ धृष्टी॒ इत्य॒न्वव॑हरन्ति ।
सात्मा॑नमे॒वैनँ॒ सत॑नुं करोति । सात्मा॒ऽमुष्मिं॑ ल्लो॒के भ॑वति । य ए॒वं
वेद॑ । औदु॑म्बराणि भवन्ति । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । वर्त्म॑ना॒
वा अ॒न्वित्य॑ ॥ ०। ५। ९। ८५॥
८६ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति । साम्ना॑ प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै
र॑क्षो॒हा । रक्ष॑सा॒मप॑हत्यै । त्रिर्नि॒धन॒मुपै॑ति । त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॒ग्स्यप॑हन्ति । पुरु॑षः पुरुषो नि॒धन॒मुपै॑ति ।
पुरु॑षः पुरुषो॒ हि र॑क्ष॒स्वी । रक्ष॑सा॒मप॑हत्यै ॥ ०। ५। ९। ८६॥
८७ यत्पृ॑थि॒व्यामु॑द्वा॒सये॑त् । पृ॒थि॒वीँ शु॒चाऽर्प॑येत् । यद॒प्सु । अ॒पः
शु॒चाऽर्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चाऽर्प॑येत् । यद्वन॒स्पति॑षु ।
वन॒स्पती॑ञ्छु॒चाऽर्प॑येत् । हिर॑ण्यं नि॒धायोद्वा॑सयति । अ॒मृतं॒ वै हिर॑ण्यम्
॥ ०। ५। ९। ८७॥
८८ अ॒मृत॑ ए॒वैनं॒ प्रति॑ष्ठापयति । व॒ल्गुर॑सि शं॒युधा॑या॒ इति॒
त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति । त्रि॒वृद्वा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒
शुचँ॑ शमयति । त्रिः पुनः॒ पर्ये॑ति । षट्थ सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑
। ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयति । चतु॑स्स्रक्ति॒र्नाभि॑रृ॒तस्येत्या॑ह
॥ ०। ५। ९। ८८॥
८९ इ॒यं वा ऋ॒तम् । तस्या॑ ए॒ष ए॒व नाभिः॑ । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह
। सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयम् । अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒
भ्रातृ॑व्यापनुत्यै । घर्मै॒तत्तेऽन्न॑मे॒तत्पुरी॑ष॒मिति॑ द॒ध्ना म॑धुमि॒श्रेण॑
पूरयति । ऊर्ग्वा अ॒न्नाद्यं॒ दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥ ०।
५। ९। ८९॥
९० अन॑शनायुको भवति । य ए॒वं वेद॑ । रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व
इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानँ॒ रन्तिं॑ ब॒न्धुतां॒ व्याच॑ष्टे
। सम॒हमायु॑षा॒ सं प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । व्य॑सौ
यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः ।
अचि॑क्रद॒द्वृषा॒ हरि॒रित्या॑ह । वृषा॒ ह्ये॑षः ॥ ०। ५। ९। ९०॥
९१ वृषा॒ हरिः॑ । म॒हान्मि॒त्रो न द॑र्श॒त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत् ।
चिद॑सि समु॒द्रयो॑नि॒रित्या॑ह । स्वामे॒वैनं॒ योनिं॑ गमयति । नम॑स्ते अस्तु॒ मा मा॑
हिँसी॒रित्या॒हाहिँ॑सायै । वि॒श्वाव॑सुँ सोमगन्ध॒र्वमित्या॑ह । यदे॒वास्य॑
क्रि॒यमा॑णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेनाप्या॑ययति । वि॒श्वाव॑सुर॒भि तन्नो॑
गृणा॒त्वित्या॑ह ॥ ०। ५। ९। ९१॥
९२ पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । धियो॑ हिन्वा॒नो धिय॒ इन्नो॑
अव्या॒दित्या॑ह । ऋ॒तूने॒वास्मै॑ कल्पयति । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि
वोच॒दित्या॑ह । प्रा॒णा वा अ॒मृताः॑ । प्रा॒णाने॒वास्मै॑ कल्पयति । ए॒तत्त्वं दे॑व
घर्म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह । दे॒वो ह्ये॑ष सन्दे॒वानु॒पैति॑ । इ॒दम॒हं
म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह ॥ ०। ५। ९। ९२॥
९३ म॒नु॒ष्यो॑ हि । ए॒ष सन्म॑नु॒ष्या॑नु॒पैति॑ । ई॒श्व॒रो वै
प्र॑व॒र्ग्य॑मुद्वा॒सय॑न् । प्र॒जां प॒शून्त्सो॑मपी॒थम॑नू॒द्वासः॒
सोम॑पी॒थानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व
प॒शून्त्सो॑मपी॒थमा॒त्मन्ध॑त्ते । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः स॒न्त्वित्या॑ह
। आ॒शिष॑मे॒वैतामाशा॑स्ते । दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो॑ऽस्मान्द्वेष्टि॒
यं च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । प्र वा
ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्य॑मुद्वा॒सय॑ति । उदु॒ त्यं चि॒त्रमिति॑
सौ॒रीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति । अ॒यं वै लो॒को गार्ह॑पत्यः
। अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यस्सु॑व॒र्गो लो॒कः ।
यत्सौ॒री भव॑तः । तेनै॒व सु॑व॒र्गाल्लो॒कान्नैति॑ ॥ ०। ५। ९। ९३॥ ब्रह्म॑णस्त्वा
पर॒स्पाया॒ इत्या॑ह दधात्य॒न्वित्य॑ रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ वै
हिर॑ण्यमाहार्धयति॒ ह्ये॑ष गृ॑णा॒त्वित्या॑ह मनु॒ष्या॑नित्या॑हास्यै॒षो॑ऽष्टौ
च॑ ॥ ९॥
९४ प्र॒जाप॑तिं॒ वै दे॒वाः शु॒क्रं पयो॑ऽदुह्रन् । तदे॑भ्यो॒ न व्य॑भवत् ।
तद॒ग्निर्व्य॑करोत् । तानि॒ शुक्रि॑याणि॒ सामा॑न्यभवन् । तेषां॒ यो रसो॒ऽत्यक्ष॑रत् ।
तानि॑ शुक्रय॒जूग्ष्य॑भवन् । शुक्रि॑याणां॒ वा ए॒तानि॒ शुक्रि॑याणि । सा॒म॒प॒य॒सं
वा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत्पयः॑ । यद्गोः पयः॑ ॥ ०। ५। १०। ९४॥
९५ तत्साम्नः॒ पयः॑ । यद॒जायै॒ पयः॑ । तद्दे॒वानां॒ पयः॑
। तस्मा॒द्यत्रै॒तैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति ।
प्र॒जाप॑तिमे॒व तद्दे॒वान्पय॑सा॒ऽन्नाद्ये॑न॒ सम॑र्धयन्ति । ए॒ष ह॒ त्वै
सा॒क्षात्प्र॑व॒र्ग्यं॑ भक्षयति । यस्यै॒वं वि॒दुषः॑ प्रव॒र्ग्यः॑ प्रवृ॒ज्यते॑
। उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒त्तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवे॒दिः ॥ ०। ५। १०। ९५॥
९६ तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्धयति ।
उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒दन्न॑कामस्य । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑
। यत्प्र॑व॒र्ग्यः॑ । मुख॑मुत्तरवे॒दिः । शी॒र्ष्णैव मुखँ॒
सन्द॑धात्य॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति । यत्र॒ खलु॒ वा ए॒तमुद्वा॑सितं॒
वयाँ॑सि प॒र्यास॑ते । परि॒ वै ताँ समां॑ प्र॒जा वयाग्॑स्यासते ॥ ०। ५। १०। ९६॥
९७ तस्मा॑दुत्तरवे॒द्यामे॒वोद्वा॑सयेत् । प्र॒जानां॑ गोपी॒थाय॑ । पु॒रो वा॑
प॒श्चाद्वोद्वा॑सयेत् । पु॒रस्ता॒द्वा ए॒तज्ज्योति॒रुदे॑ति । तत्प॒श्चान्निम्रो॑चति
। स्वामे॒वैनं॒ योनि॒मनूद्वा॑सयति । अ॒पां मध्य॒ उद्वा॑सयेत् । अ॒पां वा
ए॒तन्मध्या॒ज्ज्योति॑रजायत । ज्योतिः॑ प्रव॒र्ग्यः॑ । स्व ए॒वैनं॒ योनौ॒
प्रति॑ष्ठापयति ॥ ०। ५। १०। ९७॥
९८ यं द्वि॒ष्यात् । यत्र॒ स स्यात् । तस्यां॑ दि॒श्युद्वा॑सयेत् ।
ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निनै॒वैनं॑
वैश्वान॒रेणा॒भिप्रव॑र्तयति । औदु॑म्बर्याँ॒ शाखा॑या॒मुद्वा॑सयेत् । ऊर्ग्वा
उ॑दु॒म्बरः॑ । अन्नं॑ प्रा॒णः । शुग्घ॒र्मः ॥ ०। ५। १०। ९८॥
९९ इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा॒मीत्या॑ह
। शु॒चैवास्य॑ प्रा॒णमपि॑ दहति । ता॒जगार्ति॒मार्च्छ॑ति । यत्र॑
द॒र्भा उ॑प॒दीक॑सन्तता॒स्स्युः । तदुद्वा॑सये॒द्वृष्टि॑कामस्य । ए॒ता वा
अ॒पाम॑नू॒ज्झाव॑ऱ्यो॒ नाम॑ । यद्द॒र्भाः । अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो
वृष्टि॒मुदी॑रयति । अ॒सावे॒वास्मा॑ आदि॒त्यो वृष्टिं॒ निय॑च्छति । ता आपो॒
निय॑ता॒ धन्व॑ना यन्ति ॥ ०। ५। १०। ९९॥ गोः पय॑ उत्तरवे॒दिरा॑सते स्थापयति
घ॒र्मो य॑न्ति ॥ १०॥
१०० प्र॒जाप॑तिस्सम्भ्रि॒यमा॑णः । सं॒राट्त् सम्भृ॑तः । घ॒र्मः प्रवृ॑क्तः ।
म॒हा॒वी॒र उद्वा॑सितः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स
ए॒तानि॒ नामा॑न्यकुरुत । य ए॒वं वेद॑ । वि॒दुरे॑नं॒ नाम्ना॑ । ब्र॒ह्म॒वा॒दिनो॑
वदन्ति ॥ ०। ५। ११। १००॥
१०१ यो वै वसी॑याँसं यथाना॒ममु॑प॒चर॑ति । पुण्या॑र्तिं॒ वै स तस्मै॑
कामयते । पुण्या॑र्तिमस्मै कामयन्ते । य ए॒वं वेद॑ । तस्मा॑दे॒वं वि॒द्वान् । घ॒र्म
इति॒ दिवाऽऽच॑क्षीत । स॒म्राडिति॒ नक्त॑म् । ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ॑
। ए॒ते अ॑स्य प्रि॒ये नाम॑नी । प्रि॒ययै॒वैनं॑ त॒नुवा॑ ॥ ०। ५। ११। १०१॥
१०२ प्रि॒येण॒ नाम्ना॒ सम॑र्धयति । की॒र्तिर॑स्य॒ पूर्वा ग॑च्छति ज॒नता॑माय॒तः
। गा॒य॒त्री दे॒वेभ्योऽपा॑क्रामत् । तां दे॒वाः प्र॑व॒र्ग्ये॑णै॒वानु॒ व्य॑भवन् ।
प्र॒व॒र्ग्ये॑णाप्नुवन् । यच्च॑तुर्विँशतिः॒ कृत्वः॑ प्रव॒र्ग्यं॑ प्रवृ॒णक्ति॑
। गा॒य॒त्रीमे॒व तदनु॒ विभ॑वति । गा॒य॒त्रीमा॑प्नोति । पूर्वा॑ऽस्य॒ जनं॑
य॒तः की॒र्तिर्ग॑च्छति । वै॒श्व॒दे॒वः सँस॑न्नः ॥ ०। ५। ११। १०२॥
१०३ वस॑वः॒ प्रवृ॑क्तः । सोमो॑ऽभिकी॒र्यमा॑णः । आ॒श्वि॒नः पय॑स्यानी॒यमा॑ने ।
मा॒रु॒तः क्वथ॑न् । पौ॒ष्ण उद॑न्तः । सा॒र॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्रः
शरो॑ गृही॒तः । तेज॒ उद्य॑तो वा॒युः । ह्रि॒यमा॑णः प्र॒जाप॑तिः । हू॒यमा॑नो॒
वाग्घु॒तः ॥ ०। ५। ११। १०३॥
१०४ अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒
नामा॑न्यकुरुत । य ए॒वं वेद॑ । वि॒दुरे॑नं॒ नाम्ना॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यन्मृ॒न्मय॒माहु॑तिं॒ नाश्नु॒तेऽथ॑ । कस्मा॑दे॒षो॑ऽश्नुत॒ इति॑ । वागे॒ष
इति॑ ब्रूयात् । वा॒च्ये॑व वाचं॑ दधाति ॥ ०। ५। ११। १०४॥
१०५ तस्मा॑दश्नुते । प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तः । यत्प्र॑व॒र्ग्यः॑ ।
यत्प्राग॑वका॒शेभ्यः॑ । तेन॑ प्र॒जा अ॑सृजत । अ॒व॒का॒शैर्दे॑वासु॒रान॑सृजत
। यदू॒र्ध्वम॑वका॒शेभ्यः॑ । तेनान्न॑मसृजत । अन्नं॑ प्र॒जाप॑तिः ।
प्र॒जाप॑ति॒र्वावैषः ॥ ०। ५। ११। १०५॥ व॒द॒न्ति॒ त॒नुवा॒ सँस॑न्नो
हू॒यमा॑नो॒ वाग्घु॒तो द॑धात्ये॒षः ॥ ११॥
१०६ स॒वि॒ता भू॒त्वा प्र॑थ॒मेऽह॒न्प्रवृ॑ज्यते । तेन॒ कामाँ॑
एति । यद्द्वि॒तीयेऽह॑न्प्रवृ॒ज्यते॑ । अ॒ग्निर्भू॒त्वा दे॒वाने॑ति
। यत्तृ॒तीयेऽह॑न्प्रवृ॒ज्यते॑ । वा॒युर्भू॒त्वा प्रा॒णाने॑ति ।
यच्च॑तु॒र्थेऽह॑न्प्रवृ॒ज्यते॑ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति ।
यत्प॑ञ्च॒मेऽह॑न्प्रवृ॒ज्यते॑ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति ॥ ०। ५।
१२। १०६॥
१०७ यत्ष॒ष्ठेऽह॑न्प्रवृ॒ज्यते॑ । ऋ॒तुर्भू॒त्वा सं॑वत्स॒रमे॑ति
। यत्स॑प्त॒मेऽह॑न्प्रवृ॒ज्यते॑ । धा॒ता भू॒त्वा शक्व॑रीमेति ।
यद॑ष्ट॒मेऽह॑न्प्रवृ॒ज्यते॑ । बृह॒स्पति॑र्भू॒त्वा गा॑य॒त्रीमे॑ति ।
यन्न॑व॒मेऽह॑न्प्रवृ॒ज्यते॑ । मि॒त्रो भू॒त्वा त्रि॒वृत॑ इ॒मान् लो॒काने॑ति ।
यद्द॑श॒मेऽह॑न्प्रवृ॒ज्यते॑ । वरु॑णो भू॒त्वा वि॒राज॑मेति ॥ ०। ५। १२। १०७॥
१०८ यदे॑काद॒शेऽह॑न्प्रवृ॒ज्यते॑ । इन्द्रो॑ भू॒त्वा त्रि॒ष्टुभ॑मेति
। यद्द्वा॑द॒शेऽह॑न्प्रवृ॒ज्यते॑ । सोमो॑ भू॒त्वा सु॒त्यामे॑ति ।
यत्पु॒रस्ता॑दुप॒सदां॑ प्रवृ॒ज्यते॑ । तस्मा॑दि॒तः परा॑ङ॒मूं ल्लो॒काग्स्तप॑न्नेति
। यदु॒परि॑ष्टादुप॒सदां॑ प्रवृ॒ज्यते॑ । तस्मा॑द॒मुतो॒ऽर्वाङि॒मां
ल्लो॒काग्स्तप॑न्नेति । य ए॒वं वेद॑ । ऐव त॑पति ॥ ०। ५। १२। १०८॥ नक्ष॑त्राण्येति
वि॒राज॑मेति तपति ॥ १२॥ दे॒वा वै स॒त्रँ सा॑वि॒त्रं परि॑श्रिते॒
ब्रह्म॒न्प्रच॑रिष्यामो॒ऽग्निष्ट्वा॒ शिरो॑ ग्री॒वा दे॒वस्य॑ रश॒नां विश्वा॒ आशा॒
घर्म॒ या ते॑ प्र॒जाप॑तिँ शु॒क्रं प्र॒जाप॑तिस्सम्भ्रि॒यमा॑णस्सवि॒ता भू॒त्वा
द्वाद॑श ॥ १२॥ दे॒वा वै स॒त्रँ स ख॑दि॒रः परि॑श्रितेऽभिपू॒र्वमथो॒
रक्ष॑सां॒ ग्रैष्मा॑वे॒वास्मै॒ ब्रह्म॒ वै दे॒वाना॒मश्वि॑ना घ॒र्मं पा॑तं
प्रा॒णो वै वृषा॒ हरि॒ऱ्यो वै वसी॑याँसं यथाना॒मम॒ष्टोत्त॑रश॒तम् ॥
१०८॥ दे॒वा वै स॒त्रमैव त॑पति ॥
० शं न॒स्तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके षष्ठः प्रश्नः ६
० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒
शान्तिः॑ ॥
१ प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम्
। वै॒व॒स्व॒तँ सं॒गम॑नं॒ जना॑नां य॒मँ राजा॑नँ ह॒विषा॑
दुवस्यत । इ॒दं त्वा॒ वस्त्रं॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः
पु॒रा । इ॒ष्टा॒पू॒र्तमनु॒सम्प॑श्य॒ दक्षि॑णां॒ यथा॑ ते द॒त्तं ब॑हु॒धा वि
ब॑न्धुषु । इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ । याभ्यां॑ य॒मस्य॒
साद॑नँ सु॒कृतां॒ चापि॑ गच्छतात् । पू॒षा त्वे॒तश्च्या॑वयतु॒
प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात्
पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे॑भ्यः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स्सो
अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र
ए॑तु॒ प्रवि॒द्वान् ॥ ०। ६। १। १॥
२ आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु ।
भुव॑नस्य पत इ॒दँ ह॒विः । अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ । पुरु॑षस्य
सयाव॒र्यपेद॒घानि॑ मृज्महे । यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति ।
पुरु॑षस्य सयावरि॒ वि ते॑ प्रा॒णम॑सिस्रसम् । शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑
पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह । मैवं॑ मा॒ग्स्ता प्रि॑ये॒ऽहं दे॒वी स॒ती
पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ
पय॑सा॒ऽभ्याव॑वृत्स्व ॥ ०। ६। १। २॥
३ इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्
। विश्वं॑ पुरा॒णमनु॑पा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह
धे॑हि । उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि सम्ब॑भूव ।
सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒
बला॑य । अत्रै॒व त्वमि॒ह व॒यँसु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।
धनु॒र्हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व
त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । मणिँ॒
हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह
व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ ०। ६। १। ३॥
४ इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् । ए॒ष
यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् । अ॒ग्नेर्वर्म॒
परि॒ गोभि॑र्व्ययस्व॒ सम्प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च । नेत्त्वा॑
धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै ।
मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्
। य॒दा शृ॒तं क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ ।
शृ॒तं य॒दाऽक॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ ।
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति । सूर्यं॑ ते॒
चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ।
अ॒जोऽभा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मँ सु॒कृतां॒ यत्र॑ लो॒काः ।
अ॒यं वै त्वम॒स्मादधि॒ त्वमे॒तद॒यं वै तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः
पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृतां॒ यत्र॑ लो॒काः ॥ ०।
६। १। ४॥ वि॒द्वान॒भ्याव॑वृत्स्वा॒भिमा॑तीर्जयेम॒ शरी॑रैश्च॒त्वारि॑ च ॥ १॥
५ य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒ य
ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑
प॒थो॑ऽभिर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे
स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒
यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ । यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑
वात॒ तप॑ते त्वा॒या । दिवो॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्यः । अ॒स्मात्त्वमधि॑
जा॒तो॑ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑
लो॒काय॒ स्वाहा॑ ॥ ०। ६। २। ५॥ य ए॒तस्य॒ त्वत्पञ्च॑ ॥ २॥
६ प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति
। दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ।
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व ।
सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तँ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ।
अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑
पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति । यौ ते॒
श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा । ताभ्याँ॑
राज॒न्परि॑देह्येनँ स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥ ०। ६। ३। ६॥
७ उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ऽवशाँ॒अनु॑
। ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒वसु॑म॒द्येह भ॒द्रम् ।
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒
ताग्श्चि॑दे॒वापि॑ गच्छतात् । ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये
त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताग्श्चि॑दे॒वापि॑ गच्छतात् । तप॑सा॒ ये
अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः । तपो॒ ये च॑क्रि॒रे म॒हत्ताग्श्चि॑दे॒वापि॑
गच्छतात् । अश्म॑न्वती रेवतीः॒ सँर॑भध्व॒मुत्ति॑ष्ठत॒ प्रत॑रता सखायः ।
अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्, व॒यम॒भि वाजा॒नुत्त॑रेम ॥ ०। ६। ३। ७॥
८ यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रँ॑ स॒हस्र॑धारं॒ वित॑तम॒न्तरि॑क्षे
। येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हं माँस॒र्वत॑नुं पुनामि ।
या रा॒ष्ट्रात्प॒न्नादप॒यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः ।
धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा॒ सँसृ॑जाथ
। उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा
सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् । धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒
सूर्य॑स्य॒ वर्च॑सा ॥ ०। ६। ३। ८॥ धे॒ह्युत्त॑रेमा॒ष्टौ च॑ ॥ ३॥
९ यं ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे । इ॒मं तँ श॑मयामसि
क्षी॒रेण॑ चोद॒केन॑ च । यं त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑
। क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वाव्य॑ल्कशा । शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒
ह्लादु॑कावति । म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मँ स्व॑ग्निँ श॒मय॑ । शं ते॑
धन्व॒न्या आपः॒ शमु॑ ते सन्त्वनू॒क्याः॑ । शं ते॑ समु॒द्रिया॒ आपः॒ शमु॑ ते
सन्तु॒ वर्ष्याः॑ । शं ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ । शं ते॑
नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ॥ ०। ६। ४। ९॥
१० अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑
। आयु॒र्वसा॑न॒ उप॑यातु॒ शेषँ॒ सङ्ग॑च्छतां त॒नुवा॑ जातवेदः ।
सङ्ग॑च्छस्व पि॒तृभि॒स्सँ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु
। यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद्विश्वा॑दनृ॒णं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ ।
उत्ति॒ष्ठात॑स्त॒नुवँ॒ सम्भ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु
। इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व
। सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑
। उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् । य॒मेन॒ त्वं
य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑रोहे॒मम् । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑
सवि॒तुः प॒वित्रं॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु ।
अ॒स्मात्त्वमधि॑जा॒तो॑ऽस्य॒यं त्वदधि॑जायताम् । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑
लो॒काय॒ स्वाहा॑ ॥ ०। ६। ४। १०॥ अव॑शीयताँ स॒धस्थे॒ पञ्च॑ च ॥ ४॥
११ आया॑तु दे॒वस्सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑ वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताँ
सुप्र॒यते॑ ह ब॒र्हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै॑ । य॒मे इ॑व॒
यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्तः॑ । आसी॑दतँ॒ स्वमु॑
लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः । य॒माय॒ सोमँ॑सुनुत य॒माय॑
जुहुता ह॒विः । य॒मँह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः । य॒माय॑
घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒
प्रजी॒वसे॑ । य॒माय॒ मधु॑मत्तमँ॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒
ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥ ०। ६। ५। ११॥
१२ योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी । य॒मं
भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑ऽनप॒रोध्यः॑ । य॒मं गाय॑ भङ्ग्य॒श्रवो॒ यो
राजा॑ऽनप॒रोध्यः॑ । येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा
। हि॒र॒ण्य॒क॒क्ष्यान्त्सु॒धुरा॑न् हिरण्या॒क्षान॑यश्श॒फान् । अश्वा॑न॒नश्य॑तो
दा॒नं॒ य॒मो रा॑जाऽभि॒तिष्ठ॑ति । य॒मो दा॑धार पृथि॒वीं य॒मो विश्व॑मि॒दं
जग॑त् । य॒माय॒ सर्व॒मित्र॑स्थे॒ यत्प्रा॒णद्वा॒युर॑क्षि॒तम् । यथा॒ पञ्च॒
यथा॒ षड्य॒था पञ्च॑द॒र्ष॑यः । य॒मं यो वि॑द्या॒त्स ब्रू॑याद्य॒थैक
ऋषि॑र्विजान॒ते ॥ ०। ६। ५। १२॥
१३ त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वीरेक॒मिद्बृ॒हत् । गा॒य॒त्री
त्रि॒ष्टुप्छन्दाँ॑सि॒ सर्वा॒ ता य॒म आहि॑ता । अह॑रह॒र्नय॑मानो॒ गामश्वं॒
पुरु॑षं॒ जग॑त् । वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः ।
वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः । ये चे॒ह स॒त्येनेच्छ॑न्ते॒
य उ॒ चानृ॑तवादि॒नः । ते रा॑जन्नि॒ह विवि॑च्यन्ते॒ऽथा य॑न्ति त्वा॒मुप॑
। दे॒वाग्श्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाग्श्चाप॒चित्य॑ति । यस्मि॑न्वृ॒क्षे
सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा
अनु॑वेनति ॥ ०। ६। ५। १३॥ प॒थि॒कृद्भ्यो॑ विजान॒तेऽनु॑वेनति ॥ ५॥
१४ वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि साह॒स्रमुत्सँ॑ श॒तधा॑रमे॒तम्
। तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने ।
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।
इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नं॒ भुव॑नस्य॒
मध्ये॑ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्वव॒सान॑मस्मै । स॒वि॒तैतानि॒
शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑र्युज्यन्तामघ्नि॒याः ॥ ०। ६।
६। १४॥
१५ शु॒नं वा॒हाः शु॒नं ना॒राः शु॒नं कृ॑षतु॒ लाङ्ग॑लम् । शु॒नं व॑र॒त्रा
ब॑ध्यन्ताँ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ।
शुना॑सीरावि॒मां वाचं॒ यद्दि॒वि च॑क्र॒थुः पयः॑ । तेने॒मामुप॑सिञ्चतम् । सीते॒
वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव । यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला
स॑सि । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒
शम्भ॑व । विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य ।
ज्योति॑रापाम॒ सुव॑रगन्म ॥ ०। ६। ६। १५॥
१६ प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ । इरा॒
विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीँ रेत॒साऽव॑ति । यथा॑
य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः । ए॒वं व॑पामि हा॒र्म्यं यथाऽसा॑म
जीवलो॒के भूर॑यः । चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं पि॒तरो॑
दे॒वता॑ । प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या । आप्या॑यस्व॒ सं ते॑ ॥ ०।
६। ६। १६॥ अ॒घ्नि॒या अ॑गन्म स॒प्त च॑ ॥ ६॥
१७ उत्ते॑ तभ्नोमि पृथि॒वीं त्वत्परी॒मं लो॒कं नि॒दध॒न्मो अ॒हँरि॑षम् ।
ए॒ताग् स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑नात्ते मिनोतु । उप॑सर्प
मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीँ सु॒शेवा॑म् । ऊर्ण॑म्रदा
युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निरृ॑त्या उ॒पस्थे॑ । उच्छ्म॑ञ्चस्व
पृथिवि॒ मा विबा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रं
यथा॑ सि॒चाऽभ्ये॑नं भूमि वृणु । उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि
स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा॑ऽस्मै
शर॒णास्स॒न्त्वत्र॑ । एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ । तिल॑वत्सा॒
ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः ॥ ०। ६। ७। १७॥
१८ ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे । अक्षि॑ति॒र्नाम॑ ते असौ ।
इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम
। तत्त्व॑मारो॒हासो॒ मेध्यो॒ भवं॑ य॒मेन॒ त्वं य॒म्या॑ संविदा॒नः । मा
त्वा॑ वृ॒क्षौ सम्बा॑धिष्टां॒ मा मा॒ता पृ॑थिवि॒ त्वम् । पि॒तॄन् ह्यत्र॒
गच्छा॒स्येधा॑सं यम॒राज्ये॑ । मा त्वा॑ वृ॒क्षौ सम्बा॑धेथां॒ मा मा॒ता
पृ॑थि॒वी म॒ही । वै॒व॒स्व॒तँ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि ।
न॒ळं प्ल॒वमारो॑है॒तं न॒ळेन॑ प॒थोऽन्वि॑हि । स त्वं॑ न॒ळप्ल॑वो भू॒त्वा॒
सन्त॑र॒ प्रत॒रोत्त॑र ॥ ०। ६। ७। १८॥
१९ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभ्यः॑ पृथिवि॒
शम्भ॑व । षड्ढो॑ता॒ सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑
पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒
प्रति॑तिष्ठा॒ शरी॑रैः । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो
देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒
मोत वी॒रान् । शं वातः॒ शँहि ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां
मे॒ दिशः॑ श॒ग्माः । पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑
दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑
दि॒शां त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒
शर्मा॑सि पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६।
७। १९॥ अन॑पस्फुरन्ती॒रुत्त॑र दे॒वत॑या॒ द्वे च॑ ॥ ७॥
२० अ॒पू॒पवा॑न्घृ॒तवाग्॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं द्यामु॒तोपरि॑
। यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानां॑ घृ॒तभा॑गा इ॒ह स्थ ।
ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । दशा॑क्षरा॒ ताँ
र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒ मा द॑भन्पि॒तरो॑
दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒पू॒पवा॑ञ्छृ॒तवा॑न्
क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं
द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानाँ॑
शृ॒तभा॑गाः, क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ ।
ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । श॒ताक्ष॑रा
स॒हस्रा॑क्षरा॒ऽयुता॑क्ष॒राऽच्यु॑ताक्षरा॒ ताँ र॑क्षस्व॒ तां गो॑पायस्व॒
तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒माद॑भन्पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा
सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६। ८। २०॥ अ॒पू॒पवा॑न॒सौ दश॑ ॥ ८॥
२१ ए॒तास्ते॑ स्व॒धा अ॒मृताः॑ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑
। तास्ते॑ य॒मः पि॒तृभि॑स्संविदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः॑ करोतु ।
त्वामर्जु॒नौष॑धीनां॒ पयो॑ ब्र॒ह्माण॒ इद्वि॑दुः । तासां॑ त्वा॒ मध्या॒दाद॑दे
च॒रुभ्यो॒ अपि॑धातवे । दू॒र्वाणाग्॑ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ ।
इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठाऽनु॒ विरो॑हतु । काशा॑नाग् स्त॒म्बमाह॑र॒
रक्ष॑सा॒मप॑हत्यै । य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒
ते नाभ॑वा॒न्पुनः॑ । द॒र्भाणाग्॑ स्त॒म्बमाह॑र पितृ॒णामोष॑धीं प्रि॒याम् ।
अन्वस्यै॒ मूलं॑ जीवा॒दनु॒ काण्ड॒मथो॒ फल॑म् ॥ ०। ६। ९। २१॥
२२ लो॒कं पृ॑ण॒ ता अ॑स्य॒ सूद॑दोहसः । शं वातः॒ शँ हि॑ते॒
घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां ते॒ दिश॒स्सर्वाः॑ । इ॒दमे॒व
मेतोऽप॑रा॒मार्ति॑माराम॒ काञ्च॒न । तथा॒ तद॒श्विभ्यां॑ कृ॒तं मि॒त्रेण॒
वरु॑णेन च । व॒र॒णो वा॑रयादि॒दं दे॒वो वन॒स्पतिः॑ । आर्त्यै॒ निरृ॑त्यै॒
द्वेषा॑च्च॒ वन॒स्पतिः॑ । विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाँ॑सि
श॒मि श॒मया॒स्मद॒घा द्वेषाँ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाँ॑सि
। पृ॒थि॒वीं ग॑च्छा॒न्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑ गच्छ॒
सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिवं॑ गच्छा॒न्तरि॑क्षं
गच्छ पृथि॒वीं ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒
प्रति॑तिष्ठा॒ शरी॑रैः । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रं॒
या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु ॥ ०। ६। ९। २२॥ फलं॑
पुनातु ॥ ९॥
२३ आरो॑ह॒ताऽऽयु॑र्ज॒रसं॑ गृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ष्ट
। इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः
। यथाऽहा॑न्यनुपू॒र्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः
। यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूँ॑षि कल्पयैषाम् । न
हि॑ ते अग्ने त॒नुवै॑ क्रू॒रं च॒कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒
पुन॑र्ज॒रायु॒ गौरि॑व । अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑
नः॒ शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा॑ । अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑
। स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव ॥ ०। ६। १०। २३॥
२४ इ॒मे जी॒वा वि॑ मृ॒तैराव॑वर्ति॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिं नो अ॒द्य ।
प्राञ्जो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः ।
मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः
। आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः ।
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑द्महे॒ पर्व॑तेन । इ॒मा
नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम् । अ॒न॒श्रवो॑
अनमी॒वास्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ । यदाञ्ज॑नं त्रैककु॒दं
जा॒तँ हि॒मव॑त॒स्परि॑ । तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जम्भयामसि । यथा॒
त्वमु॑द्भि॒नत्स्यो॑षधे पृथि॒व्या अधि॑ । ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या
यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒जो॑ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि य॒वो॑ऽसि
य॒वया॒स्मद॒घा द्वेषाँ॑सि ॥ ०। ६। १०। २४॥ भ॒व॒ ज॒म्भ॒या॒म॒सि॒ त्रीणि॑
च ॥ १०॥
२५ अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम्
। सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् ।
प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ।
प्र यद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् ।
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ॥
०। ६। ११। २५॥
२६ त्वँ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम्
। द्विषो॑ नो विश्वतो मु॒खाऽति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् ।
स न॒स्सिन्धु॑मिव ना॒वयाऽति॑पर्षा स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम् ।
आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मत्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम्
। उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् ।
आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागा॒ग् स्वान्गृ॒हान् । अप॑ नः॒ शोशु॑चद॒घम् ।
न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑
परि॒धिर्जीव॑नाय॒ कमप॑ नः॒ शोशु॑चद॒घम् ॥ ०। ६। ११। २६॥ अ॒घम॒घं
च॒त्वारि॑ च ॥ ११॥
२७ अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒
या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै । मयै॒तां
मा॒ग्स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒
नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि । रयि॑ष्ठाम॒ग्निं
मधु॑मन्तमू॒र्मिण॒मूर्ज॑स्सन्तं त्वा॒ पय॒सोप॒सँस॑देम । सँ र॒य्या
समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये॑ । ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒
जन्त्याः॑ । तेभ्यो॑ घृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती । मा॒ता रु॒द्राणां॑
दुहि॒ता वसू॑ना॒ग् स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्र णु॒ वोचं॑
चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा॑न्यत्तु ।
ओमुत्सृ॒जत ॥ ०। ६। १२। २७॥ व॒धि॒ष्ट॒ द्वे च॑ ॥ १२॥
प॒रे॒यु॒वाँसं॒ प्रवि॒द्वान्भुव॑नस्या॒भ्याव॑वृत्स्वा॒जो भा॒गो॑ऽयं
वै चतु॑श्चत्वारिँश॒द्य ए॒तस्य॒ त्वत्पञ्च॒ प्र के॒तुने॒दं ते॒
नाके॑ सुप॒र्णं यौ ते॒ ये युध्य॑न्ते॒ तप॒साऽश्म॑न्वती रेवती॒स्सँ
र॑भध्वम॒ष्टाविँ॑शति॒र्यं ते॒ यत्त॒ उत्ति॑ष्ठे॒दं त॒
उत्ति॑ष्ठ॒ प्रेह्यश्म॒न् यद्वा उद्व॒यम॒यं पञ्च॑विँशति॒राया॑तु
त्रिँ॒शद्वै॑श्वान॒रे तस्मि॑न्द्र॒प्स इ॒ममपे॒ताहो॑भिर्युज्यन्तामघ्नि॒या अ॑दिते
पा॒रं व॒ आप्या॑यस्व स॒प्तविँ॑शति॒रुत्ते॑ तभ्नो॒म्यक्षि॑ति॒स्तेभ्यः॑
पृथिवि॒ षड्ढो॑ता॒ परं॑ मे श॒ग्माः पृ॑थि॒व्या अ॒न्तरि॑क्षस्य॒
द्वात्रिँ॑शदपू॒पवा॑न॒सौ दश॑ श॒त द॑शै॒तास्ते॑ ते॒
दिश॒स्सर्वा॑ इ॒दमश्म॑न्विँश॒तिरारो॑हत त॒नुवै॑ क्रू॒रं च॒कार॒
पुन॑र्मृ॒त्यवे॒ मा नोऽनु॑ गाद्दद्मह इ॒मा नारीः॒ परि॒ त्रयो॑विँशति॒रप॑
नस्सुक्षेत्रि॒या प्र यद्भन्दि॑ष्ठः॒ प्रयद॒ग्नेः प्र यत्ते॑ अग्ने॒ त्वँहि
द्विष॒स्सन॒स्सिन्धु॒मापः॑ प्रव॒णादु॑द्व॒नादा॑न॒न्दाय॒ न वै तत्र॒ यत्रे॒दं
चतु॑र्विँशति॒रप॑श्या॒माऽऽवृ॑णीहि॒ द्वाद॑श द्वादश ॥ १२॥
प॒रे॒ यु॒वाँ स॒माया॑त्वे॒तास्ते॑ स॒प्तविँ॑शतिः ॥ २७॥
प॒रे॒यु॒वाँस॒मोमुत्सृ॒जत ॥
० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒
शान्तिः॑ ॥
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माँ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति तैत्तिरीय-आरण्यकम् १॥
आरण्यके सप्तमः प्रश्नः ७
तैत्तिरीय-आरण्यकम् - २
॥ उपनिषदः एकाग्निकाण्डं च ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
१ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒
बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं
व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् ।
अव॑तु व॒क्तार॑म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १। १॥ स॒त्यं व॑दिष्यामि॒
पञ्च॑ च ॥ १॥
२ ओं शीक्षां व्या॑ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्तः
शी॑क्षाध्या॒यः ॥ ०। ७। २। २॥ शीक्षां पञ्च॑ ॥ २॥
३ स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सँहिताया उपनिषदं
व्या॑ख्यास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोक मधिज्यौतिष मधिविद्य मधिप्रज॑
मध्या॒त्मम् । ता महासँहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू॑र्वरू॒पम्
। द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः ॥ ०। ७। ३। ३॥
४ वायु॑स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू॑र्वरू॒पम् ।
आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् ।
अथा॑धिवि॒द्यम् । आचार्यः पू॑र्वरू॒पम् ॥ ०। ७। ३। ४॥
५ अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनँ॑ सन्धा॒नम् ।
इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू॑र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा
स॒न्धिः । प्रजननँ॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ ०। ७। ३। ५॥
६ अथाध्या॒त्मम् । अधरा हनुः पू॑र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः ।
जिह्वा॑ सन्धा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हासँ॒हिताः । य एवमेता महासँहिता
व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑
लोके॒न ॥ ०। ७। ३। ६॥ स॒न्धिराचार्यः पू॑र्वरू॒पमित्यधि॒प्रजं लो॑के॒न ॥ ३॥
७ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता॑त्सं ब॒भूव॑ ।
स मेन्द्रो॑ मे॒धया॑ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑रं मे॒
विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॑भ्यां॒ भूरि॒ विश्रु॑वम् । ब्रह्म॑णः
को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ ०।
७। ४। ७॥
८ कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाँ॑ सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने
च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा॑
। आ मा॑ यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । वि मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । प्र
मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॑ । शमा॑यन्तु
ब्रह्मचा॒रिण॒स्स्वाहा॑ ॥ ०। ७। ४। ८॥
९ यशो॒ जने॑ऽसानि॒ स्वाहा॑ । श्रेया॒न् वस्य॑सोऽसानि॒ स्वाहा॑ । तं त्वा॑ भग॒
प्रवि॑शानि॒ स्वाहा॑ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑ । तस्मि॑न्त्स॒हस्र॑शाखे ।
नि भ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा॑ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒
मासा॑ अहर्ज॒रम् । ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा॑
। प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ ०। ७। ४। ९॥ वि॒त॒न्वा॒ना
शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॒ धात॒राय॑न्तु स॒र्वतः॒ स्वाहैकं॑ च ॥ ४॥
१० भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह स्मै॒ तां
च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा ।
अङ्गा॑न्य॒न्या दे॒वताः॑ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् ।
सुव॒रित्य॒सौ लो॒कः ॥ ०। ७। ५। १०॥
११ मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा
अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः॑ ।
च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीँ॑षि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ ।
भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूँ॑षि ॥ ०। ७। ५। ११॥
१२ मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते । भूरिति॒ वै
प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्न॑म् । अन्ने॑न॒ वाव
सर्वे॑ प्रा॒णा मही॑यन्ते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒
व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे॑ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥
०। ७। ५। १२॥ अ॒सौ लो॒को यजूँ॑षि॒ वेद॒ द्वे च॑ ॥ ५॥
१३ स य ए॒षो॑ऽन्तर्हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ ।
अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते ।
से॑न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले ।
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ ०। ७। ६। १३॥
१४ सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा॑ज्यम् । आ॒प्नोति॒
मन॑स॒स्पति॑म् । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः ।
ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑
आनन्दम् । शान्ति॑समृद्धम॒मृत॑म् । इति॑ प्राचीनयो॒ग्योपा॑स्स्व ॥ ०। ७। ६। १४॥
वा॒याव॒मृत॒मेकं॑ च ॥ ६॥
१५ पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य
आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न
उ॑दा॒नस्स॑मा॒नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ माँ॒सँ
स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒ वा इ॒दँ
सर्व॑म् । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ ०। ७। ७। १५॥ सर्व॒मेकं॑ च ॥ ७॥
१६ ओमिति॒ ब्रह्म॑ । ओमिती॒दँ सर्व॑म् । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो
श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओँ शोमिति॑ श॒स्त्राणि॑
शँसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒
प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒
ब्रह्मोपा॑प्नवा॒नीति॑ । ब्रह्मै॒वोपा॑प्नोति ॥ ०। ७। ८। १६॥ ओं दश॑ ॥ ८॥
१७ ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च ।
तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च
स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं
च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं
च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च
स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑
राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑
मौद्ग॒ल्यः । तद्धि तप॑स्तद्धि॒ तपः ॥ ०। ७। ९। १७॥ प्रजा च स्वाध्यायप्रव॑चने॒
च षट्च॑ ॥ ९॥
१८ अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो
वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑णँ॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः
। इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ ०। ७। १०। १८॥ अ॒हँ षट् ॥ १०॥
१९ वेदमनूच्याचाऱ्योऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया॑न्मा
प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः । सत्यान्न
प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न
प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ ०। ७। ११। १९॥
२० देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव ।
आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि
। नो इ॑तरा॒णि । यान्यस्माकँ सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ ०। ७। ११। २०॥
२१ नो इ॑तरा॒णि । ये के चास्मच्छ्रेयाँ॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न
प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् ।
ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संवि॑दा दे॒यम् । अथ यदि ते कर्मविचिकित्सा वा
वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ ०। ७। ११। २१॥
२२ ये तत्र ब्राह्मणाः॑ सम्म॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः ।
यथा ते॑ तत्र॑ वर्ते॒रन् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या॑ख्याते॒षु । ये तत्र
ब्राह्मणा॑स्सम्म॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑
तेषु॑ वर्ते॒रन् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा
वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ ०।
७। ११। २२॥ स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यं तानि त्वयो॑पास्या॒नि स्यात्तेषु॑
वर्ते॒रन्त्स॒प्त च॑ ॥ ११॥
२३ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒
बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व
प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम्
। स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी॑द्व॒क्तार॑म्
। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १२। २३॥ स॒त्यम॑वादिषं॒ पञ्च॑ च ॥
१२॥ शं नः॒ शीक्षाँ स॒ह नौ॒ यश्छन्द॑सां॒ भूस्स यः पृ॑थि॒व्योमित्यृतं
चा॒हं वेदमनूच्य शं नो॒ द्वाद॑श ॥ १२॥ शं नो॒ मह॒ इत्या॑दि॒त्यो नो इ॑तरा॒णि
त्रयो॑विँशतिः ॥ २३॥ शं नः॒ शान्तिः॒ शान्तिः॑ ॥
० शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒
बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं
व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् ।
अव॑तु व॒क्तार॑म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके अष्टमः प्रश्नः ८
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म् । तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑
। यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन् । सो॑ऽश्नुते॒ सर्वा॒न्कामा॑न्त्स॒ह
। ब्रह्म॑णा विप॒श्चितेति॑ । तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्सम्भू॑तः ।
आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या
ओष॑धयः । ओष॑धी॒भ्योऽन्न॑म् । अन्ना॒त्पुरु॑षः । स वा एष पुरुषोऽन्न॑रस॒मयः
। तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा॑
। इदं पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। १। १॥ ॥ १॥
२ अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒
अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्नँ॒ हि भू॒तानां॒
ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धमु॑च्यते । सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒
ब्रह्मो॒पास॑ते । अन्नँ॒ हि भू॒तानां॒ ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धमु॑च्यते
। अन्ना॑द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यतेऽत्ति च॑ भूता॒नि
। तस्मादन्नं तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा॑
प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् ।
अन्वयं॑ पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान
उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को
भ॒वति ॥ ०। ८। २। २॥ ॥ २॥
३ प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः॑ प॒शव॑श्च॒ ये । प्रा॒णो हि
भू॒ताना॒मायुः॑ । तस्मा॑त्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति ।
ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्मात्सर्वायुषमुच्य॑त
इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा॑त्प्राण॒मयात् ।
अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य
पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः
प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा
। तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ३। ३॥ ॥ ३॥
४ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् ।
न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा
एतस्मा॑न्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा
एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य
श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग
आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ४। ४॥ ॥ ४॥
५ वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञानं॑ दे॒वास्सर्वे॑ ।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति
। श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्त्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा
। यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑
पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः
प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥
०। ८। ५। ५॥ ॥ ५॥
६ अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द
। सन्तमेनं ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती ३।
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता ३ उ॒ । सो॑ऽकामयत । ब॒हु
स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दँ सर्व॑मसृजत
। यदि॒दं किञ्च॑ । तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नुप्र॒विश्य॑ ।
सच्च॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं
च । वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् । यदि॑दं
किं॒च । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ६। ६॥ ॥ ६॥
७ अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानँ स्वय॑मकु॒रुत
। तस्मात्तत्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तत्सु॒कृतम् । र॑सो वै॒ सः
। रसँ ह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्या॑त्कः प्रा॒ण्यात् ।
यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवाऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒
एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं
ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते । अथ तस्य भ॑यं
भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ ०। ८।
७। ७॥ ॥ ७॥
८ भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च
। मृत्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमाँ॑सा भ॒वति । युवा
स्यात्साधुयु॑वाऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी
सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑
आन॒न्दाः । स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः । स एकः
पितृणां चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं
पितृणां चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजानां देवाना॑मान॒न्दः । श्रोत्रियस्य
चाकाम॑हत॒स्य । ते ये शतमाजानजानां देवाना॑मान॒न्दाः । स एकः कर्मदेवानां
देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं
कर्मदेवानां देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते
ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ श्रोत्रियस्य चाकाम॑हत॒स्य
। ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य
चाकाम॑हत॒स्य । ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः
। श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑
आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये ।
स एकः॑ । स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति
। एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति । एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति । एतं
विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । तदप्येष
श्लो॑को भ॒वति ॥ ०। ८। ८। ८॥
९ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न
बिभेति कुत॑श्चने॒ति । एतँ ह वाव॑ न त॒पति । किमहँ साधु॑ नाक॒रवम्
। किमहं पापमकर॑वमि॒ति । स य एवं विद्वानेते आत्मा॑नँ स्पृ॒णुते । उ॒भे
ह्ये॑वैष॒ एते आत्मा॑नँ स्पृ॒णुते । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ०।
८। ९। ९॥ ॥ ९॥ ब्र॒ह्म॒विदिदमयमिदमेक॑विँशति॒रन्ना॒दन्न॑रस॒मयात्
प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छँ॒
षड्विँ॑शतिः प्रा॒णं यजु॒र्ऋक्सामादे॒शोऽथर्वाङ्गिरसः
पुच्छं॒ द्वाविँ॑शति॒र्यत॑श्श्र॒द्धर्तँ सत्यं यो॑गो॒
महो॑ऽष्टाद॑श वि॒ज्ञानं॒ प्रियं॒ मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छं॒
द्वाविँ॑शति॒रस॑न्ने॒वाष्टाविँ॑शति॒रस॒त्षोड॑श भी॒षाऽस्मा॒न्मानुषो॒
मनुष्यगन्धर्वाणां॒ देवगन्धर्वाणां॒ पितृणां चिरलोकलोकाना॒माजानजानां
कर्मदेवानां॒ ये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र्ब्रह्मण॒स्स
यश्च॑ सङ्क्रा॒मत्येक॑पञ्चा॒शद्युतः॒ कुत॑श्च॒ नैका॑दश॒ नव॑ ॥ ९॥
ब्र॒ह्म॒विन्नव॑ ॥ ९॥
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके नवमः प्रश्नः ९
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑
। तस्मा॑ ए॒तत्प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।
तँ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ॥ ०। ९। १। १॥ ॥ १॥
२ अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑
। पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ
हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ॥ ०। ९। २। २॥ ॥ २॥
३ प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑
। पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ
हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ॥ ०। ९। ३। ३॥ ॥ ३॥
४ मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑
। पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तँ
हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ॥ ०। ९। ४। ४॥ ॥ ४॥
५ वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते
। वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑
। तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒
ब्रह्मेति॑ । तँ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ५। ५॥ ॥ ५॥
६ आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते
। आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑
। सैषा भा॑र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । स य
ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ६। ६॥ ॥ ६॥
७ अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्न॑म् । शरी॑रमन्ना॒दम् । प्रा॒णे
शरी॑रं॒ प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒
प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
। म॒हान्की॒र्त्या ॥ ०। ९। ७। ७॥ ॥ ७॥
८ अन्नं॒ न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्न॑म् । ज्योति॑रन्ना॒दम् । अ॒प्सु
ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒
प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑
। म॒हान्की॒र्त्या ॥ ०। ९। ८। ८॥ ॥ ८॥
९ अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्न॑म् । आ॒का॒शो॑ऽन्ना॒दः
। पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒
वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ९। ९॥ ॥ ९॥
१० न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्नं
प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो॑ऽन्नँ रा॒द्धम् ।
मुखतोऽस्मा अ॑न्नँ रा॒ध्यते । एतद्वै मध्यतो॑ऽन्नँ रा॒द्धम् । मध्यतोऽस्मा
अ॑न्नँ रा॒ध्यते । एतद्वा अन्ततो॑ऽन्नँ रा॒द्धम् । अन्ततोऽस्मा अ॑न्नँ
रा॒ध्यते । य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषीः॑ समा॒ज्ञाः
। अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति । यश इ॑ति प॒शुषु
। ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति
। तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति । तन्नम इत्यु॑पासी॒त । नम्यन्ते॑ऽस्मै
का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त ।
पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये॑ऽप्रिया॑ भ्रातृ॒व्याः । स यश्चा॑यं
पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य
। एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य । एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य । एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य । इमां ल्लोकन्कामान्नी कामरूप्य॑नुसं॒चरन् ।
एतत्साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ । अ॒हमन्नम॒हमन्नम॒हमन्नम् ।
अ॒हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दः । अ॒हँ श्लोक॒कृद॒हँ
श्लोक॒कृद॒हँ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता ३ स्य॒ । पूर्वं देवेभ्यो
अमृतस्य ना ३ भा॒यि॒ । यो मा ददाति स इदेव मा ३ वाः॒ । अ॒हमन्न॒मन्न॑म॒दन्त॒मा
३ द्मि॒ । अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः॑ । य ए॒वं वेद॑
। इत्यु॑प॒निष॑त् ॥ ०। ९। १०। १०॥
रा॒द्ध्यते वि॒द्युति मान॑वान्भ॒वत्येको॒ हा३वु॒ य ए॒वं वेदैक॑ञ्च ॥ १०॥
भृगु॒स्तस्मै॒ यतो॑ विशन्ति॒ तद्विजि॑ज्ञासस्व॒ तत्त्रयो॑द॒शान्नं॑ प्रा॒णो
मनो॑ वि॒ज्ञान॒मिति॑ वि॒ज्ञाय॒ तन्तप॑सा॒ द्वाद॑श द्वादशान॒न्द इति॒ सैषा
दशान्नं॒ न नि॑न्द्यात्प्रा॒णः शरी॑रं॒ अन्नं॒ न परि॑चक्षी॒तापो॒ ज्योति॒रन्नं॑
ब॒हु कु॑र्वीत पृथि॒व्या॑का॒श एका॑द॒शैका॑दश॒ न कञ्चनैक॑षष्टि॒र्दश॑
॥ १०॥
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
आरण्यके दशमः प्रश्नः १०
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१ अम्भ॑स्य पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान्
। शु॒क्रेण॒ ज्योतीँ॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑
अ॒न्तः । यस्मि॑न्नि॒दँ सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑
निषे॒दुः । तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन् । येना॑वृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑दि॒त्यस्तप॑ति॒ तेज॑सा॒
भ्राज॑सा च । यम॒न्तस्स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे
प्र॒जाः । यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज॒ भूम्या॑म्
। यदोष॑धीभिः पु॒रुषा॑न्प॒शूग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑
। अतः॑ परं॒ नान्य॒दणी॑यसँ हि॒ परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म् ।
यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ ०। १०। १। १॥
२ तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑
। तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ च॒न्द्रमाः॑ । तदे॒व शु॒क्रम॒मृतं॒
तद्ब्रह्म॒ तदाप॒स्स प्र॒जाप॑तिः । सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒
पुरु॑षा॒दधि॑ । क॒ला मु॑हू॒र्ताः काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः ।
अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒रश्च॑ कल्पन्ताम् । स आपः॑ प्रदु॒घे
उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुवः॑ । नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒
परि॑जग्रभत् । न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ ०। १०। १। २॥
३ न सं॒दृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म्
। हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो॒ य ए॑नं वि॒दुरमृ॑ता॒स्ते
भ॑वन्ति । अ॒द्भ्यस्सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ । ए॒ष हि दे॒वः
प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानस्स
जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मुखः । वि॒श्वत॑श्चक्षुरु॒त
वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒
सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ । वे॒नस्तत्पश्य॒न्विश्वा॒
भुव॑नानि वि॒द्वान्, यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् । यस्मि॑न्नि॒दँ सं च॒
वि चैकँ॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ । प्र तद्वो॑चे अ॒मृतं॒
नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ॥ ०। १०। १। ३॥
४ त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त् । स नो॒
बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यत्र॑
दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा॑न्य॒भ्यैर॑यन्त । परि॒
द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान्परि॒ दिशः॒ परि॒ सुवः॑ ।
ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भवत्प्र॒जासु॑ ।
प॒रीत्य॑ लो॒कान्प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च
। प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भिसम्ब॑भूव ।
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । सनिं॑ मे॒धाम॑यासिषम् ।
उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ ॥ ०। १०। १। ४॥
५ प॒शूग्श्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मा नो॑ हिँसीज्जातवेदो॒
गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ।
पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया॑त्
। तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया॑त् ।
तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया॑त् ।
तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ॥ ०। १०। १। ५॥
६ तन्नो॑ नन्दिः प्रचो॒दया॑त् । तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।
तन्न॑ष्षण्मुखः प्रचो॒दया॑त् । तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया॑त् । वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि
। तन्नो॑ ब्रह्म प्रचो॒दया॑त् । ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त् । व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णदँ॒ष्ट्राय॑
धीमहि ॥ ०। १०। १। ६॥
७ तन्नो॑ नारसिँहः प्रचो॒दया॑त् । भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑
धीमहि । तन्नो॑ आदित्यः प्रचो॒दया॑त् । वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑
धीमहि । तन्नो॑ अग्निः प्रचो॒दया॑त् । का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि
। तन्नो॑ दुर्गिः प्रचो॒दया॑त् । स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा ।
सर्वँ॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दु॑स्स्वप्न॒नाश॑नी । काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒
परु॑षःपरुषः॒ परि॑ ॥ ०। १०। १। ७॥
८ ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑
स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।
अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा॑न्ते व॒सुन्ध॑रा । शिरसा॑ धार॑यिष्या॒मि॒
र॒क्ष॒स्व मां॑ पदे॒पदे । भूमिर्धेनुर्धरणी लो॑कधा॒रिणी । उ॒द्धृता॑ऽसि
व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना । मृ॒त्तिके॑ हन॑ मे पा॒पं॒ य॒न्म॒या
दु॑ष्कृतं॒ कृतम् । मृ॒त्तिके॑ ब्रह्म॑दत्ता॒ऽऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता ।
मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ॥ ०। १०। १। ८॥
९ मृ॒त्तिके॑ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑
पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् । यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒
अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि
। स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु
नस्स्वस्ति॒दा अ॑भयङ्क॒रः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वास्स्व॒स्ति नः॑ पू॒षा
वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिस्स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।
आपा॑न्त मन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी । सोमो॒
विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ ०। १०। १। ९॥
१० ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । स्यो॒ना
पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ।
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् । ई॒श्वरीँ॑
सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् । श्री॑र्मे भ॒जतु । अलक्ष्मी॑र्मे न॒श्यतु ।
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भ्य॑जयन् । म॒हाँ
इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ ०। १०। १। १०॥
११ स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो॑ऽस्मान्द्वेष्टि॑ । सो॒मानँ॒
स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम् । शरी॑रं
यज्ञशम॒लं कुसी॑दं॒ तस्मि॑न्त्सीदतु॒ यो॑ऽस्मान्द्वेष्टि॑ । चर॑णं प॒वित्रं॒
वित॑तं पुरा॒णं येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑
पू॒ता अति॑ पा॒प्मान॒मरा॑तिं तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑
पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं
कृणुहि वि॒श्वतो॑ नः । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु दुर्मि॒त्रास्तस्मै॑
भूयासु॒ऱ्यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता
न॑ ऊ॒र्जे द॑धातन ॥ ०। १०। १। ११॥
१२ म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑
। उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ
। आपो॑ ज॒नय॑था च नः । हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑
देहि॒ याचि॑तः । य॒न्मया॑ भु॒क्तम॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ।
यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम् । तन्न॒ इन्द्रो॒ वरु॑णो॒
बृह॒स्पति॑स्सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः । नमो॒ऽग्नये॑ऽप्सु॒मते॒ नम॒
इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः ॥ ०। १०। १। १२॥
१३ यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात् ।
अ॒त्या॒श॒नाद॑तीपा॒ना॒द्य॒च्च उ॒ग्रात्प्र॑ति॒ग्रहा॑त् । तन्नो॒ वरु॑णो रा॒जा॒
पा॒णिना॑ ह्यव॒मर्श॑तु । सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः ।
नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑ सलो॒कताम् । यश्चा॒प्सु वरु॑ण॒स्स
पु॒नात्व॑घमर्ष॒णः । इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमँ॑
सचता॒ परु॒ष्णिया । अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये शृणु॒ह्या
सु॒षोम॑या । ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒
रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ ०। १०। १। १३॥
१४ स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑
वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी । सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता
य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुवः॑ ।
यत्पृ॑थि॒व्याँ रज॑स्स्व॒मान्तरि॑क्षे वि॒रोद॑सी । इ॒माग्स्तदा॒पो व॑रुणः
पु॒नात्व॑घमर्ष॒णः । पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः
। ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑नस्य गो॒प्ता । ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष
मृ॒त्योर्हि॑र॒ण्मय॑म् । द्यावा॑पृथि॒व्योर्हि॑र॒ण्मयँ॒ सँश्रि॑तँ॒
सुवः॑ ॥ ०। १०। १। १४॥
१५ स न॒स्सुवः॒ सँशि॑शाधि । आर्द्रं॒ ज्वल॑ति॒ ज्योति॑र॒हम॑स्मि ।
ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒
ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा॑ । अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो
भ्रू॑ण॒हा गु॑रुत॒ल्पगः । वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त् पा॒पात् प्रमु॑च्यते
। र॒जोभूमि॑स्त्व॒ माँ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः॑ । आक्रा॑न्त्समु॒द्रः
प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ । वृषा॑ प॒वित्रे॒ अधि॒
सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥ ०। १०। १। १५॥ पुर॑स्ता॒द्यशो॒
निहि॑तं॒ गुहा॑सु॒ मम॑ चक्रतु॒ण्डाय॑ धीमहि तीक्ष्णदँ॒ष्ट्राय॑ धीमहि॒
परि॑ प्र॒तिष्ठि॑तं देभुर्यच्छतु दधातना॒द्भ्यो॑ऽर्ण॒वस्सुवो॒ राजैकं॑ च
॥ १॥ रु॒द्रो॒ रु॒द्रश्च॒ द॒न्ति॒श्च॒ न॒न्दिः॒ ष॒ण्मु॒ख॒ ए॒व च॑
। ग॒रु॒डो॒ ब्र॒ह्म॒ वि॒ष्णु॒श्च॒ ना॒र॒सिँ॒ह॒स्त॒थै॒व च॑ ।
आ॒दि॒त्यो॒ऽग्नि॒श्च॒ दु॒र्गि॒श्च॒ क्र॒मे॒ण द्वा॑द॒शाम्भ॑सि ॥ म॒ म॒ व॒
च॒ म॒ सु॒ वे॒ ना॒ व॒ भा॒ वै॒ का॒त्या॒य॒नाय॑ ॥
१६ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑
दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः । ताम॒ग्निव॑र्णां॒
तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑म् । दु॒र्गां दे॒वीँ
शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ । अग्ने॒ त्वं पा॑रया॒ नव्यो॑
अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी
भवा॑ तो॒काय॒ तन॑याय॒ शंयोः । विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धुं॒ न ना॒वा
दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म्
। पृ॒त॒ना॒जितँ॒ सह॑मानमु॒ग्रम॒ग्निँ हु॑वेम पर॒मात्स॒धस्था॑त्
। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒ताऽत्य॒ग्निः
। प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑
। स्वां चा॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ।
गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे॑न्द्र विष्णो॒रनु॒सञ्च॑रेम । नाक॑स्य
पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥ ०। १०। २। १६॥
दु॒रि॒ताऽत्य॒ग्निश्च॒त्वारि॑ च ॥ २॥
१७ भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒
स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुव॒स्सुव॒रन्नं॑ च॒न्द्रम॑से
दि॒ग्भ्यस्स्वाहा॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् ॥
०। १०। ३। १७॥ ॥ ३॥
१८ भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒
सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॒ नमो॑
दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रग्न॒ ओम् ॥ ०। १०। ४। १८॥ ॥ ४॥
१९ भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ भुवो॑ वा॒यवे॑
चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते
च॒ स्वाहा॒ भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑
मह॒ते च॒ स्वाहा॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भुर्भुव॒स्सुव॒र्मह॒रोम्
॥ ०। १०। ५। १९॥ ॥ ५॥
२० पाहि नो अग्न एन॑से स्वा॒हा । पाहि नो विश्ववेद॑से स्वा॒हा । यज्ञं पाहि विभाव॑सो
स्वा॒हा । सर्वं पाहि शतक्र॑तो स्वा॒हा ॥ ०। १०। ६। २०॥ ॥ ६॥
२१ पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यूर्जं॑ तृ॒तीय॑या ।
पा॒हि गी॒र्भिश्च॑त॒सृभि॑र्वसो॒ स्वाहा॑ ॥ ०। १०। ७। २१॥ ॥ ७॥
२२ यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्चन्दाग्॑स्यावि॒वेश॑ ।
सताँ शिक्यः पुरोवाचो॑पनि॒षदिन्द्रो॑ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑
दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒श्छन्द॒ ओम् ॥ ०। १०। ८। २२॥ ॥ ८॥
२३ नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒ कर्ण॑योः
श्रु॒तं मा च्यो॑ढ्वं॒ ममा॒मुष्य॒ ओम् ॥ ०। १०। ९। २३॥ ॥ ९॥
२४ ऋ॒तं तप॑स्स॒त्त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं
तपो॒ दम॒स्तपः॒ शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒
भूर्भुव॒स्सुव॒र्ब्रह्मै॒तदुपा॑स्यै॒तत्तपः॑ ॥ ०। १०। १०। २४॥ ॥ १०॥
२५ यथा॑ वृ॒क्षस्य॑ सं॒पुष्पि॑तस्य दू॒राद्ग॒न्धो वा॑त्ये॒वं पुण्य॑स्य क॒र्मणो॑
दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हितामव॒क्रामे॒ यद्युवे॒ युवे॒
हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑ जु॒गुप्से॑त् ॥
०। १०। ११। २५॥ ॥ ११॥
२६ अ॒णोरणी॑यान्मह॒तो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः । तम॑क्रतुं
पश्यति वीतशो॒को धा॒तुः प्र॒सादा॑न्महि॒मान॑मीशम् । स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒
तस्मा॑त्स॒प्तार्चिष॑स्स॒मिध॑स्स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॒
चर॑न्ति प्रा॒णा गु॒हाश॑यां॒ निहि॑तास्स॒प्तस॑प्त । अत॑स्समु॒द्रा गि॒रय॑श्च॒
सर्वे॒ऽस्मात्स्यन्द॑न्ते॒ सिन्ध॑व॒स्सर्व॑रूपाः । अत॑श्च॒ विश्वा॒ ओष॑धयो॒
रसा॑च्च॒ येनै॑ष भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा । ब्र॒ह्मा दे॒वानां॑ पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् । श्ये॒नो गृद्ध्रा॑णा॒ग्
स्वधि॑ति॒र्वना॑नाँ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् । अ॒जामेकां॒
लोहि॑तशुक्लकृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीँ॒ सरू॑पाम् । अ॒जो ह्येको॑
जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गा॒मजो॑ऽन्यः ॥ ०। १०। १२। २६॥
२७ हँ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्
। नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा
ऋ॒तं बृ॒हत् । घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते
श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒
स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् । स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒
उदा॑रदुपाँ॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑
जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ । व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्,
य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑
शृङ्गोऽवमीद्गौ॒र ए॒तत् । च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे
शी॒र्षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो
दे॒वो मर्त्याँ॒ आवि॑वेश ॥ ०। १०। १२। २७॥
२८ त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकँ॒ सूर्य॒ एकं॑ जजान वे॒नादेकग्ग्॑ स्व॒धया॒ निष्ट॑तक्षुः । यो
दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः॑ । हि॒र॒ण्य॒ग॒र्भं
प॑श्यत॒ जाय॑मानँ॒ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒स्संयु॑नक्तु ।
यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किञ्चि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त्
। वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒
सर्व॑म् । न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः
। परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑दे॒तद्यत॑यो वि॒शन्ति॑ ।
वे॒दा॒न्त॒वि॒ज्ञान॒सुनि॑श्चिता॒र्थाः सन्न्या॑सयो॒गाद्यत॑यः शुद्ध॒सत्त्वाः॑ ।
ते ब्र॑ह्मलो॒के तु॒ परा॑न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे॑ । द॒ह्रं॒
वि॒पा॒पं प॒रमे॑श्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यसँ॒स्थम् । त॒त्रा॒पि
द॒ह्रं ग॒गनं॑ विशोक॒स्तस्मि॑न्, यद॒न्तस्तदुपा॑सित॒व्यम् । यो वेदादौ स्व॑रः
प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः । तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ पर॑स्स
म॒हेश्व॑रः ॥ ०। १०। १२। २८॥ अजो॑ऽन्य॒ आवि॑वेश॒ सर्वे॑ च॒त्वारि॑ च ॥ १२॥
२९ स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑
ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒
वि॒श्वं ना॑राय॒णँ ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ।
पतिं॒ विश्व॑स्या॒त्मेश्व॑रँ॒ शाश्व॑तँ शि॒वम॑च्युतम् । ना॒राय॒णं
म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा
ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒त॒त्त्वं ना॑राय॒णः
प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑
किं॒चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ॥ ०। १०। १३। २९॥
३० अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णस्स्थि॑तः ।
अन॑न्त॒मव्य॑यं क॒विँ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शँ॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑
नि॒ष्ट्या वित॑स्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं
भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । सन्त॑तँ शि॒लाभि॑स्तु॒
लम्ब॑त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं
प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः
। सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वं
दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑तः ।
नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒
पी॒ता भा॑स्वत्य॒णूप॑मा । तस्याः॑ शिखा॒या म॑ध्ये प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मस्स्व॒राट् ॥ ०। १०। १३।
३०॥ अपि॑ वा॒ सन्त॑ता॒ षट्च॑ ॥ १३॥
३१ आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा
म॑ण्डलँ॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒
तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒
पुरु॑ष॒स्तानि॒ यजूँ॑षि॒ स यजु॑षा मण्डलँ॒ स यजु॑षां लो॒कस्सैषा
त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो॑ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः ॥ ०।
१०। १४। ३१॥ ॥ १४॥
३२ आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑
म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः
कः किं कं तत्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑यं॒भु
ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑णः॒
सायु॑ज्यँ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यँ
सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे॑त्युप॒निषत् ॥ ०। १०। १५। ३२॥
॥ १५॥
३३ निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः । ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒
नमः । हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः । सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒
नमः । दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ॥ ०। १०। १६। ३३॥
३४ भवाय॒ नमः । भवलिङ्गाय॒ नमः । शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः । ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः । आत्माय॒
नमः । आत्मलिङ्गाय॒ नमः । परमाय॒ नमः । परमलिङ्गाय॒ नमः । एतत्सोमस्य॑
सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥ ०। १०। १६। ३४॥ ॥ १६॥
३५ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वेभ॑वे॒
नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ ०। १०। १७। ३५॥ ॥ १७॥
३६ वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ ०। १०।
१८। ३६॥ ॥ १८॥
३७ अ॒घोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे॑भ्यस्सर्व॒
शर्वे॑भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ ०। १०। १९। ३७॥ ॥ १९॥
३८ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥ ०।
१०। २०। ३८॥ ॥ २०॥
३९ ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ ०। १०।
२१। ३९॥ ॥ २१॥
४० नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये
पशुपतये॑ नमो॒ नमः ॥ ०। १०। २२। ४०॥ ॥ २२॥
४१ ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं
वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥ ०। १०। २३। ४१॥ ॥ २३॥
४२ सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो
नमो॒नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒
यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ ०। १०। २४। ४२॥ ॥ २४॥
४३ कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मँ
हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ ०। १०। २५। ४३॥ ॥ २५॥
४४ यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒
प्रति॑ष्ठित्यै ॥ ०। १०। २६। ४४॥ ॥ २६॥
४५ कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ ॥ ०। १०। २७। ४५॥ ॥ २७॥
४६ अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः॑ पि॒तरोऽसु॑रा॒स्तेषाँ॑ सर्वभू॒तानां॑
मा॒ता मे॒दिनी॑ मह॒ता म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला
विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः ॥ ०। १०। २८। ४६॥ ॥ २८॥
४७ आपो॒ वा इ॒दँ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒
आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ग्स्यापो॒
ज्योती॒ग्ष्यापो॒ यजू॒ग्ष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒
सुव॒राप॒ ओम् ॥ ०। १०। २९। ४७॥ ॥ २९॥
४८ आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒
ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम् ॥ यदुच्छि॑ष्ट॒मभो॑ज्यं॒ यद्वा॑
दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रहँ॒
स्वाहा॑ ॥ ०। १०। ३०। ४८॥ ॥ ३०॥
४९ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् ।
यदह्ना पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं माममृ॑तयो॒नौ । सत्ये
ज्योतिषि जुहो॑मि स्वा॒हा ॥ ०। १०। ३१। ४९॥ ॥ ३१॥
५० सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् ।
यद्रात्रिया पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं माममृ॑तयो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ ०। १०। ३२। ५०॥ ॥ ३२॥
५१ ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् । गायत्रं छन्दं परमात्मं॑
सरू॒पम् । सायुज्यं वि॑नियो॒गम् ॥ ०। १०। ३३। ५१॥ ॥ ३३॥
५२ आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्रीं॑ छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना॑त्कुरु॑ते पा॒पं॒ तदह्ना॑त्प्रति॒मुच्य॑ते ।
यद्रात्रिया॑त्कुरु॑ते पा॒पं॒ तद्रात्रिया॑त्प्रति॒मुच्य॑ते । सर्व॑व॒र्णे म॑हादे॒वि॒
स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥ ०। १०। ३४। ५२॥ ॥ ३४॥
५३ ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑ऽसि॒ विश्व॑मसि
वि॒श्वायु॒स्सर्व॑मसि स॒र्वायुरभिभूरों गायत्रीमावा॑हया॒मि॒ सावित्रीमावा॑हया॒मि॒
सरस्वतीमावा॑हया॒मि॒ छन्दर्षीनावा॑हया॒मि॒ श्रियमावा॑हया॒मि॒ गायत्रिया
गायत्रीच्छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयँ
रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा साङ्ख्यायनसगोत्रा
गायत्री चतुर्विँशत्यक्षरा त्रिपदा॑ षटकु॒क्षिः॒ पञ्चशीर्षोपनयने वि॑नियो॒ग॒
ओं भूः । ओं भुवः । ओँ सुवः । ओं महः । ओं जनः । ओं तपः ॥ ओँ स॒त्यम् । ओं
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०। १०। ३५। ५३॥ ॥ ३५॥
५४ उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् । स्तुतो मया
वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने॑ द्विजा॒ता । आयुः पृथिव्यां द्रविणं
ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्त्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ ०। १०। ३६। ५४॥ ॥ ३६॥
५५ घृणि॒स्सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑ क्षरन्ति॒ तद्र॑सम् ।
स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०।
१०। ३७। ५५॥ ॥ ३७॥
५६ ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् । यास्ते॑
सोम प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् । दुष्ष्व॑प्न॒हन्दु॑रुष्षह । यास्ते॑ सोम
प्रा॒णाग्स्ताञ्जु॑होमि । त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां
वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ३८। ५६॥ ॥ ३८॥
५७ ब्रह्म॑ मे॒धया॑ । मधु॑ मे॒धया॑ । ब्रह्म॑मे॒व मधु॑ मे॒धया॑ । अ॒द्या
नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् । परा॑ दु॒ष्ष्वप्नि॑यँ सुव ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व । मधु॒
वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः । मधु॒
नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता
। मधु॑ मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु
नः । य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒ह॒त्यां वा
ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ३९। ५७॥ ॥ ३९॥
५८ ब्रह्म॑ मे॒धवा॑ । मधु॑ मे॒धवा॑ । ब्रह्म॑मे॒व मधु॑ मे॒धवा॑ । ब्र॒ह्मा
दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् । श्ये॒नो
गृद्ध्रा॑णा॒ग् स्वधि॑ति॒र्वना॑नाँ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ।
हँ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं
बृ॒हत् । ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः॑ ।
अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।
हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् । तस्मि॑न्त्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी
भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे॑ स्व॒धां
दुहा॑ना अ॒मृत॑स्य॒ धारा॑म् । य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑
दद्यात् । वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ४०। ५८॥ ॥ ४०॥
५९ मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना ।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॑न्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ । त्वया॒
जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ ग॒तश्री॑रु॒त त्वया॑ । त्वया॒
जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥ ०। १०। ४१। ५९॥
॥ ४१॥
६० मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑
अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं॑ मे॒धा सर॑स्वती॒ सा मां॑ मे॒धा
सु॒रभि॑र्जुषता॒ग् स्वाहा॑ ॥ ०। १०। ४२। ६०॥ ॥ ४२॥
६१ आ मां॑ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां॑ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥ ०। १०। ४३।
६१॥ ॥ ४३॥
६२ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां
मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒ भ्राजो॑
दधातु ॥ ०। १०। ४४। ६२॥ ॥ ४४॥
६३ अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं
वन॒स्पते॑रिवा॒भि नः॑ शीयताँ र॒यिस्सच॑तां नः॒ शची॒पतिः॑ ॥ ०। १०।
४५। ६३॥ ॥ ४५॥
६४ परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् ॥
०। १०। ४६। ६४॥ ॥ ४६॥
६५ वातं॑ प्रा॒णं मन॑सा॒ऽन्वार॑भामहे प्र॒जाप॑तिं॒ यो भुव॑नस्य गो॒पाः । स नो॑
मृ॒त्योस्त्रा॑यतां॒ पात्वँह॑सो॒ ज्योग्जी॒वा ज॒राम॑शीमहि ॥ ०। १०। ४७। ६५॥ ॥ ४७॥
६६ अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ ०।
१०। ४८। ६६॥ ॥ ४८॥
६७ हरिँ॒ हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् ।
ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा॒दय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व ॥ ०। १०। ४९।
६७॥ ॥ ४९॥
६८ शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् ।
उ॒भयो॑र्लो॒कयो॑र्ऋ॒ध्वाऽति॑ मृ॒त्युं त॑राम्य॒हम् ॥ ०। १०। ५०। ६८॥ ॥ ५०॥
६९ मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां
मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ ०। १०। ५१। ६९॥ ॥ ५१॥
७० मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ ०।
१०। ५२। ७०॥ ॥ ५२॥
७१ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ ०। १०। ५३।
७१॥ ॥ ५३॥
७२ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते
जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ ०। १०। ५४। ७२॥ ॥ ५४॥
७३ स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु
नस्स्वस्ति॒दा अ॑भयङ्क॒रः ॥ ०। १०। ५५। ७३॥ ॥ ५५॥
७४ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒
बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ ०। १०। ५६। ७४॥ ॥ ५६॥
७५ ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्, य॒ज्ञस्य॑
मा॒यया॒ सर्वा॒नव॑यजामहे ॥ ०। १०। ५७। ७५॥ ॥ ५७॥
७६ मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॑ ॥ ०। १०। ५८। ७६॥ ॥ ५८॥
७७ दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑
। म॒नु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा॑ । पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा॑ । आ॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा॑ । अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ ।
अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । यद्दि॒वा च॒ नक्तं॒
चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑ । यत्स्व॒पन्त॑श्च॒
जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑ ।
यत्सु॒षुप्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑
। यद्वि॒द्वाँस॒श्चावि॑द्वाँस॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒
स्वाहा॑ । एनस एनसोऽवयजनम॑सि स्वा॒हा ॥ ०। १०। ५९। ७७॥ ॥ ५९॥
७८ यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेड॑नम् ।
अरा॑ वा॒यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ निधे॑तन॒ स्वाहा॑
॥ ०। १०। ६०। ७८॥ ॥ ६०॥
७९ कामोऽकार्षी॑न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता
कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा ॥ ०। १०। ६१। ७९॥ ॥ ६१॥
८० मन्युरकार्षी॑न्नमो॒ नमः । मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं
कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ ०। १०। ६२।
८०॥ ॥ ६२॥
८१ तिलाञ्जुहोमि सरसाँ सपिष्टान्गन्धार मम चित्ते रम॑न्तु स्वा॒हा । गावो हिरण्यं
धनमन्नपानँ सर्वेषाग् श्रि॑यै स्वा॒हा । श्रियं च लक्ष्मिं च पुष्टिं च कीर्तिं॑
चाऽऽनृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रजाः सन्ददा॑तु स्वा॒हा ॥
०। १०। ६३। ८१॥ ॥ ६३॥
८२ तिलाः कृष्णास्ति॑लाः श्वे॒ता॒स्तिलाः सौम्या व॑शानु॒गाः । तिलाः पुनन्तु॑ मे
पा॒पं॒ यत्किञ्चिद्दुरितं म॑यि स्वा॒हा ॥ चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा
गु॑रुत॒ल्पगः । गोस्तेयँ सु॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिँ शमय॑न्तु स्वा॒हा
॥ श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चाऽऽनृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम्
। श्रद्धामेधे प्रज्ञा तु जातवेदः सन्ददा॑तु स्वा॒हा ॥ ०। १०। ६४। ८२॥ ॥ ६४॥
८३ प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा
भू॑यासँ॒ स्वाहा॑ । वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिः सङ्कल्पा मे॑
शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । त्वक्चर्म माँस
रुधिर मेदो मज्जा स्नायवोऽस्थीनि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा
भू॑यासँ॒ स्वाहा॑ । शिरःपाणि पाद पार्श्व पृष्ठोरूदर जङ्घ शिश्नोपस्थ पायवो
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । उत्तिष्ठ
पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं
वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ॥ ०। १०। ६५। ८३॥ ॥ ६५॥
८४ पृथिव्यापस्तेजो वायुराकाशा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑
विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ । मनोवाक्कायकर्माणि
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
अव्यक्तभावैर॑हङ्का॒रै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑
। आत्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
अन्तरात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
परमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
क्षु॒धे स्वाहा॑ । क्षुत्पि॑पासाय॒ स्वाहा॑ । विवि॑ट्ट्यै॒ स्वाहा॑ । ऋग्वि॑धानाय॒ स्वाहा॑
। क॒षो॑त्काय॒ स्वाहा॑ । क्षु॒त्पि॒पा॒साम॑लं ज्ये॒ष्ठा॒म॒ल॒क्ष्मीर्ना॑शया॒म्यहम्
। अभू॑ति॒मस॑मृद्धिं॒ च॒ सर्वान्निर्णुद मे पाप्मा॑नँ स्वा॒हा । अन्नमय प्राणमय
मनोमय विज्ञान मयमानन्दमयमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा
भू॑यासँ॒ स्वाहा॑ ॥ ०। १०। ६६। ८४॥ ॥ ६६॥
८५ अ॒ग्नये॒ स्वाहा॑ । विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॑ । ध्रु॒वाय॑ भू॒माय॒
स्वाहा॑ । ध्रु॒व॒क्षित॑ये॒ स्वाहा॑ । अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑ । अ॒ग्नये॑
स्विष्ट॒कृते॒ स्वाहा॑ । धर्मा॑य॒ स्वाहा॑ । अध॑र्माय॒ स्वाहा॑ । अ॒द्भ्यस्स्वाहा॑
। ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॑ ॥ ०। १०। ६७। ८५॥
८६ र॒क्षो॒दे॒व॒ज॒नेभ्य॒स्स्वाहा॑ । गृह्या॑भ्य॒स्स्वाहा॑ । अ॒व॒साने॑भ्य॒स्स्वाहा॑
। अ॒व॒सान॑पतिभ्य॒स्स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स्स्वाहा॑ । कामा॑य॒ स्वाहा॑ ।
अ॒न्तरि॑क्षाय॒ स्वाहा॑ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं
नाम्ने॒ स्वाहा॑ । पृ॒थि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ ॥ ०। १०। ६७। ८६॥
८७ दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स्स्वाहा॑
। इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒
स्वाहा॑ । स्व॒धा पि॒तृभ्य॒स्स्वाहा॑ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ ॥
०। १०। ६७। ८७॥
८८ दे॒वेभ्य॒स्स्वाहा॑ । पि॒तृभ्य॑स्स्व॒धाऽस्तु॑ । भू॒तेभ्यो॒ नमः॑ ।
म॒नु॒ष्ये॑भ्यो॒ हन्ता॑ । प्र॒जाप॑तये॒ स्वाहा॑ । प॒र॒मे॒ष्ठिने॒ स्वाहा॑ ।
यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वा मे॑ अस्तु धा॒न्यँ
स॒हस्र॑धार॒मक्षि॑तम् । धन॑धान्यै॒ स्वाहा॑ । ये भू॒ताः प्र॒चर॑न्ति॒
दिवा॒नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑
हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा॑ ॥ ०। १०। ६७। ८८॥
ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॒ नमो॑ रु॒द्राय॑
पशु॒पत॑ये॒ स्वाहा॑ वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च ॥ ६७॥
८९ ओं॑ तद्ब्र॒ह्म । ओं॑ तद्वा॒युः । ओं॑ तदा॒त्मा । ओं॑ तत्स॒त्यम् । ओं॑ तत्सर्व॑म् ।
ओं॑ तत्पुरो॒र्नमः । अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु । त्वं यज्ञस्त्वं
वषट्कारस्त्वमिन्द्रस्त्वँ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒
आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०। १०। ६८। ८९॥ ॥ ६८॥
९० श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धाया॑मपा॒ने
निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धायां॑ व्या॒ने निवि॑ष्टो॒ऽमृतं॑
जुहोमि । श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धायाँ॑
समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
अ॒मृ॒तो॒प॒स्तर॑णमसि । श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो
मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा॑ । श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑
जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा॑ । श्र॒द्धायां॑ व्या॒ने
निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा॑ ।
श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय ।
उ॒दा॒नाय॒ स्वाहा॑ । श्र॒द्धायाँ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो
मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा॑ । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि ॥ ०। १०। ६९। ९०॥ ॥ ६९॥
९१ श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृतँ॑ हु॒तम् । प्रा॒णमन्ने॑नाप्यायस्व ।
श्र॒द्धाया॑मपा॒ने निवि॑श्या॒मृतँ॑ हु॒तम् । अ॒पा॒नमन्ने॑नाप्यायस्व ।
श्र॒द्धायां॑ व्या॒ने निवि॑श्या॒मृतँ॑ हु॒तम् । व्या॒नमन्ने॑नाप्यायस्व ।
श्र॒द्धाया॑मुदा॒ने निवि॑श्या॒मृतँ॑ हु॒तम् । उ॒दा॒नमन्ने॑नाप्यायस्व ।
श्र॒द्धायाँ॑ समा॒ने निवि॑श्या॒मृतँ॑ हु॒तम् । स॒मा॒नमन्ने॑नाप्यायस्व ॥
०। १०। ७०। ९१॥ ॥ ७०॥
९२ अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः । ईशस्सर्वस्य जगतः प्रभुः
प्रीणाति॑ विश्व॒भुक् ॥ ०। १०। ७१। ९२॥ ॥ ७१॥
९३ वाङ्म॑ आ॒सन् । न॒सोः प्रा॒णः । अ॒क्ष्योश्चक्षुः॑ । कर्ण॑योः॒ श्रोत्र॑म् ।
बा॒हु॒वोर्बल॑म् । ऊ॒रु॒वोरोजः॑ । अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः । त॒नुवा॑
मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ॥ ०। १०। ७२। ९३॥ ॥ ७२॥
९४ वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑
ध्वा॒न्तमू॑र्णु॒हि पू॒र्द्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् ॥ ०। १०।
७३। ९४॥ ॥ ७३॥
९५ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना॑प्याय॒स्व ॥ ०। १०। ७४। ९५॥
॥ ७४॥
९६ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ ०। १०। ७५। ९६॥ ॥ ७५॥
९७ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शु शु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं
वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ ०। १०। ७६।
९७॥ ॥ ७६॥
९८ शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑
मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यर्द्धि॒मनु॒
सन्ति॑ष्ठ॒स्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥ ०। १०। ७७।
९८॥ ॥ ७७॥
९९ स॒त्यं परं॒ परँ॑ स॒त्यँ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते
क॒दाच॒न स॒ताँ हि स॒त्यं तस्मा॑त्स॒त्ये र॑मन्ते॒ तप॒ इति॒ तपो॒
नानश॑ना॒त्परं॒ यद्धि परं॒ तप॒स्तद्दुर्ध॑र्षं॒ तद्दुरा॑धर्षं॒
तस्मा॒त्तप॑सि रमन्ते॒ दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑ रमन्ते॒
शम॒ इत्यर॑ण्ये मु॒नय॒स्तमा॒च्छमे॑ रमन्ते दा॒नमिति॒ सर्वा॑णि भू॒तानि॑
प्र॒शँस॑न्ति दा॒नान्नाति॑दु॒श्चरं॒ तस्मा॑द्दा॒ने र॑मन्ते ध॒र्म इति॒
धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं ध॒र्मान्नाति॑ दु॒ष्करं॒ तस्मा॑द्ध॒र्मे
र॑मन्ते प्र॒जन॒ इति॒ भूयाँ॑स॒स्तस्मा॒द्भूयि॑ष्ठाः॒ प्रजा॑यन्ते॒
तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ऽग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒
आधा॑तव्या अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते य॒ज्ञ इति॑ य॒ज्ञो हि
दे॒वास्तस्मा॑द्य॒ज्ञे र॑मन्ते मान॒समिति॑ वि॒द्वाँस॒स्तस्मा॑द्वि॒द्वाँस॑
ए॒व मा॑न॒से र॑मन्ते न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒
वा ए॒तान्यव॑राणि॒ पराँ॑सि न्या॒स ए॒वात्य॑रेचय॒द्य ए॒वं वेदे॑त्युप॒निषत् ॥
०। १०। ७८। ९९॥ ॥ ७८॥
१०० प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒
किं भ॑गव॒न्तः प॑र॒मं व॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच स॒त्येन॑
वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः प्र॑ति॒ष्ठा
स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा॑त्स॒त्यं प॑र॒मं वद॑न्ति॒ तप॑सा
दे॒वा दे॒वता॒मग्र॑ आय॒न्तप॒सर्ष॑यः॒ सुव॒रन्व॑विन्द॒न्तप॑सा
स॒पत्ना॒न्प्रणु॑दा॒मारा॑ती॒स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒त्तपः॑ पर॒मं
वद॑न्ति॒ दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिणः॒
सुव॑रगच्छ॒न्दमो॑ भू॒तानां॑ दुरा॒धर्षं॒ दमे॑ स॒र्वं प्रति॑ष्ठितं॒
तस्मा॒द्दमः॑ पर॒मं वद॑न्ति॒ शमे॑न शा॒न्ताः शि॒वमा॒चर॑न्ति॒ शमे॑न
ना॒कं मु॒नयो॒ऽन्ववि॑न्द॒ञ्च्छमो॑ भू॒तानां॑ दुरा॒धर्ष॒ञ्छमे॑ स॒र्वं
प्रति॑ष्ठितं॒ तस्मा॒च्छमः॑ पर॒मं वद॑न्ति दा॒नं य॒ज्ञानां॒ वरू॑थं॒
दक्षि॑णा लो॒के दा॒तारँ॑ सर्वभू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त
दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा॑द्दा॒नं
प॑र॒मं वद॑न्ति ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठं॑
प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒
तस्मा॑द्ध॒र्मं प॑र॒मं वद॑न्ति प्र॒जन॑नं॒ वै प्र॑ति॒ष्ठा लो॒के सा॒धु
प्र॒जाया॑स्त॒न्तुं त॑न्वा॒नः पि॑तृ॒णाम॑नृ॒णो भव॑ति॒ तदे॑व त॒स्या
अनृ॑णं॒ तस्मा॑त्प्र॒जन॑नं पर॒मं वद॑न्त्य॒ग्नयो॒ वै त्रयी॑ वि॒द्या
दे॑व॒यानः॒ पन्था॑ गार्हप॒त्य ऋक्पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्य॒पच॑नं॒
यजु॑र॒न्तरि॑क्षं वामदे॒व्यमा॑हव॒नीयः॒ साम॑ सुव॒र्गो लो॒को
बृ॒हत्तस्मा॑द॒ग्नीन्प॑र॒मं वद॑न्त्यग्निहो॒त्रँ सा॑यं प्रा॒तर्गृ॒हाणां॒
निष्कृ॑ति॒स्स्वि॑ष्टँ सुहु॒तं य॑ज्ञक्रतू॒नां प्राय॑णँ सुव॒र्गस्य॑
लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति य॒ज्ञ इति॑ य॒ज्ञेन॒ हि
दे॒वा दिवं॑ ग॒ता य॒ज्ञेनासु॑रा॒नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति
य॒ज्ञे स॒र्वं प्रति॑ष्ठितं॒ तस्मा॑द्य॒ज्ञं प॑र॒मं वद॑न्ति मान॒सं वै
प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जा
अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒ तस्मा॑न्मान॒सं प॑र॒मं वद॑न्ति न्या॒स
इ॒त्याहु॑र्मनी॒षिणो॑ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्वः॑ कत॒मः स्व॑यं॒भुः प्र॒जाप॑तिः
संवत्स॒र इति॑ संवत्स॒रो॑ऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑षः॒ स
प॑रमे॒ष्ठी ब्रह्मा॒त्मा याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑
वर्षति प॒र्जन्ये॑नौषधिवनस्प॒तयः॒ प्रजा॑यन्त ओषधिवनस्प॒तिभि॒रन्नं॑
भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑
मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं
चि॒त्तेन॒ स्मृतिँ॒ स्मृत्या॒ स्मारँ॒ स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑ना॒त्मानं॑
वेदयति॒ तस्मा॑द॒न्नं दद॒न्त्सर्वा॑ण्ये॒तानि॑ ददा॒त्यन्ना॑त्प्रा॒णा भ॑वन्ति
भू॒तानां॑ प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्म
यो॒निस्स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑
पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै
सर्व॑मि॒दं जग॒त्स स॒ भूतँ॑ स भ॒व्यं जि॑ज्ञासक्लृ॒प्त ऋ॑त॒जा
रयि॑ष्ठाः श्र॒द्धा स॒त्यो मह॑स्वान्त॒पसो॒वरि॑ष्ठा॒द्ज्ञात्वा॑ तमे॒वं
मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान्तस्मा॑न्न्या॒समे॒षां
तप॑सामतिरिक्त॒माहु॑र्वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता
ब्रह्म॑न्त्वमसि॑ विश्व॒धृत्ते॑जो॒दास्त्वम॑स्य॒ग्निर॑सि वर्चो॒दास्त्वम॑सि॒
सूर्य॑स्य द्युम्नो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे॑ त्वा॒
महस॒ ओमित्या॒त्मानं॑ युञ्जीतै॒तद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्यं॒ य ए॒वं
वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निषत् ॥
०। १०। ७९। १००॥ ॥ ७९॥
१०१ तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒
शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दः शिखा॒ हृद॑यं॒ यूपः॒
काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दमः॑ शमयि॒ता दक्षि॑णा॒ वाग्घोता॑
प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीद्याव॒द्ध्रिय॑ते॒
सा दी॒क्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒
तदु॑प॒सदो॒ यत्सं॒चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑
यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑तिरहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒
यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यन्दि॑नँ सा॒यं
च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये॑ऽर्धमा॒साश्च॒
मासा॑श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वत्स॒राश्च॑
परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒
तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्यमग्निहो॒त्रँ स॒त्रं य ए॒वं
वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒
सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व
म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यँ सलो॒कता॑माप्नोत्ये॒तौ वै
सू॑र्याचन्द्र॒मसो॑र्महि॒मानौ॑ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्र॒ह्मणो॑
महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मानम्॑ (इत्युप॒निषत्) ॥ ०। १०। ८०। १०१॥
॥ ८०॥
अम्भ॒स्येकपञ्चा॒शदु॑त्तरश॒तं जा॒तवे॑दसे॒ चतु॑र्दश॒ भूरन्नं॒
भूर॒ग्नये॒ भूर॒ग्नये॒ चैक॑मेकं पाहि पा॒हि च॒त्वारि॑ चत्वारि॒ यश्छन्द॑सां॒
द्वे नमो॒ ब्रह्म॑ण ऋ॒तं तपो॒ यथा॑ वृ॒क्षस्यैक॑मेकम॒णोरणी॑या॒ग्
श्चतु॑स्त्रिँशत् सहस्र॒शी॑र्षँ॒ षड्विँ॑शतिरादि॒त्यो वा ए॒ष
आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ निध॑नपतये॒ त्रयो॑विँशतिः स॒द्योजा॒तं त्रीणि॑
वामदे॒वायैक॑म॒घोरे॑भ्य॒स्तत्पुरु॑षाय॒ द्वे द्वे॒ ईशानो नमो हिरण्यबाहव
एक॑मेकमृ॒तँ स॒त्यं द्वे सर्वो॒ वै च॒त्वारि॒ कद्रु॒द्राय॒ त्रीणि॒
यस्य॒ वैक॑ङ्कती कृणु॒ष्व पाजोऽदि॑ति॒रापो॒ वा इ॒दमेक॑मेक॒मापः॑ पुनन्तु
च॒त्वार्यग्निश्च सूर्यश्च नव॑ न॒वोमिति॑ च॒त्वार्याया॑तु॒ पञ्चौजो॑ऽसि॒
दशो॒त्तमे॑ च॒त्वारि॒ घृणि॒स्त्रीणि॒ ब्रह्म॑मेतु॒ मां यास्ते॑ ब्रह्मह॒त्यां
द्वाद॑श॒ ब्रह्म॑ मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑णह॒त्यां ब्रह्म॑ मे॒धवा॑ ब्र॒ह्मा
दे॒वाना॑मि॒दं वी॑रह॒त्यामेका॒न्न विँ॑शति॒रेका॒न्न विँ॑शतिर्मे॒धा दे॒वी
मे॒धां म॒ इन्द्र॑श्च॒त्वारि॑ चत्वा॒र्या मां॑ मे॒धा द्वे मयि॑ मे॒धामेक॒मपै॑तु
परं॒ वातं॑ प्रा॒णम॑मुत्र॒भूया॒द्धरिँ॒ शल्कै॑र॒ग्निं माछि॑दो
मृत्यो॒ मा नो॑ म॒हान्तं॒ मा न॑स्तो॒के प्रजा॑पते स्वस्ति॒दा त्र्य॑म्बकं॒ ये ते॑
स॒हस्र॑म॒युतं॒ द्वे द्वे॑ मृ॒त्यवे॒ स्वाहैकं॑ दे॒वकृ॑त॒स्यैका॑दश॒
यद्वो॑ देवाः॒ कामोऽकार्षी॒न्मन्युरकार्षीं॒ द्वे द्वे॒ तिलाञ्जुहोमि गावः श्रियं प्र॑जाः
पञ्च॒ तिलाः कृष्णाश्चोर॑स्य॒ श्रीः प्रज्ञातु जातवे॑दः स॒प्त प्राणवाक्त्वक्छिर
उत्तिष्ठ पञ्च॒ पृथिवीशब्दमनोवाग्व्यक्तात्माऽन्तरात्मा परमात्मा मे॑ क्षु॒धेऽन्नमय॒
पञ्च॑दशा॒ग्नये॒
स्वाहैक॑चत्वारिँ॒शर्दो॑न्तद्ब्र॒ह्म नव॑ श्र॒द्धायां॑ प्रा॒णे
निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ चतु॑र्विँशतिः श्र॒द्धायां॑ प्रा॒णे
निवि॑श्या॒मृतँ॑ हु॒तन्दशाङ्गुष्ठमात्रः पुरुषो द्वे वाङ्म॑ आ॒सन्न॒ष्टौ
वय॑स्सुप॒र्णाः प्राणानां ग्रन्थिरसि द्वे द्वे॒ नमो रुद्रायैकं॒ त्वम॑ग्ने॒ द्युभि॒र्द्वे
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स॒त्यं प्रा॑जाप॒त्यस्तस्यै॒वमेक॑मेक॒मशीतिः ॥ ८०॥
अम्भ॑स्यपा॒रे स्व॒स्ति नः॑ पा॒हि नो॑ अग्न॒ एक॑याऽऽदि॒त्यो वा ए॒ष ऋ॒तँ
स॒त्यमोमित्या मां॑ मे॒धा मा न॑स्तो॒के तिलाञ्जुहोमि श्र॒द्धायां॑ प्रा॒णे निवि॑श्य॒
तस्यै॒वमेकोत्त॑रश॒तम् ॥ १०१॥
० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥