दे॒वा वै स॒त्रमा॑सत । ऋद्धि॑परिमित॒य्यँश॑स्कामाः । ते॑ऽब्रुवन् । यन्नः॑ प्रथ॒मय्यँश॑ ऋ॒च्छात् । सर्वे॑षान्न॒स्तत्स॒हास॒दिति॑ । तेषा॑ङ्कुरुक्षे॒त्रव्वेँदि॑रासीत् । तस्यै॑ खाण़्ड॒वो द॑क्षिणा॒र्द्ध आ॑सीत् । तूर्घ्न॑मुत्तरा॒र्द्धः । प॒री॒णज्ज॑घना॒र्द्धः । म॒रव॑ उत्क॒रः । (1)

तेषा॑म्म॒खव्वैँ॑ष्ण॒वय्यँश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा॑क्रामत् । तन्दे॒वा अन्वा॑यन् । यशो॑ऽव॒रुरु॑त्समानाः । तस्या॒न्वाग॑तस्य । स॒व्याद्धनु॒रजा॑यत । दक्षि॑णा॒दिष॑वः । तस्मा॑दिषुध॒न्वं पुण्य॑जन्म । य॒ज्ञज॑न्मा॒ हि । (2)

तमेकँ॒ सन्त॑म् । ब॒हवो॒ नाभ्य॑धृष्णुवन् । तस्मा॒देक॑मिषुध॒न्विन॑म् । ब॒हवो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति । सो॑ऽस्मयत । एकं॑ मा॒ सन्तं॑ ब॒हवो॒ नाभ्य॑धर््षिषु॒रिति॑ । तस्य॑ सिष्मिया॒णस्य॒ तेजोऽपा॑क्रामत् । तद्दे॒वा ओष॑धीषु॒ न्य॑मृजुः । ते श्या॒माका॑ अभवन् । स्म॒याका॒ वै नामै॒ते । (3)

तत्स्म॒याका॑नाँ स्मयाक॒त्वम् । तस्मा॑द्दीक्षि॒तेना॑पि॒गृह्य॑ स्मेत॒व्य॑म् । तेज॑सो॒ धृत्यै॑ । स धनुः॑ प्रति॒ष्कभ्या॑तिष्ठत् । ता उ॑प॒दीका॑ अब्रुव॒न्वर॑व्वृँणामहै । अथ॑ व इ॒मँ र॑न्धयाम । यत्र॒ क्व॑ च॒ खना॑म । तद॒पो॑ऽभितृ॑णदा॒मेति॑ । तस्मा॑दुप॒दीका॒ यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो॑ऽभितृ॑न्दन्ति । (4)

वारे॑वृत॒॒ ह्या॑साम् । तस्य॒ ज्यामप्या॑दन् । तस्य॒ धनु॑र्वि॒प्रव॑माणँ॒ शिर॒ उद॑वर्तयत् । तद्द्यावा॑पृथि॒वी अनु॒प्राव॑र्तत । यत् प्राव॑र्तत । तत्प्र॑व॒र्ग्य॑स्य प्रवर्ग्य॒त्वम् । यद्घ्राँ (4) इत्यप॑तत् । तद्ध॒र्मस्य॑ घर्म॒त्वम् । म॒ह॒तो वी॒र्य॑मपप्त॒दिति॑ । तन्म॑हावी॒रस्य॑ महावीर॒त्वम् । (5)

यद॒स्यास्स॒मभ॑रन् । तत्स॒म्राज्ञ॑स्सम्रा॒ट्त्वम् । त स्तृ॒तन्दे॒वता॑स्त्रे॒धा व्य॑गृह्णत । अ॒ग्निः प्रा॑तस्सव॒नम् । इन्द्रो॒ माद्ध्य॑न्दिनँ॒ सव॑नम् । विश्वे॑दे॒वास्तृ॑तीयसव॒नम् । तेनाप॑शीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒ऽवारु॑न्धत । न सु॑व॒र्गल्लोँ॒कम॒भ्य॑जयन् । ते दे॒वा अ॒श्विना॑वब्रुवन् । (6)

भि॒षजौ॒ वै स्थः॑ । इ॒दय्यँ॒ज्ञस्य॒ शिरः॒ प्रति॑धत्त॒मिति॑ । ताव॑ब्रूता॒व्वँर॑व्वृँणावहै । ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन् । तावे॒तद्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ताम् । यत्प्र॑व॒र्ग्यः॑ । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॒शिषोऽरु॑न्धत । अ॒भि सु॑व॒र्गल्लोँ॒कम॑जयन् । यत्प्र॑व॒र्ग्यं॑ प्रवृ॒णक्ति॑ । य॒ज्ञस्यै॒व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानः । अवा॒शिषो॑ रु॒न्धे । अ॒भि सु॑व॒र्गल्लोँ॒कञ्ज॑यति । तस्मा॑दे॒ष आ॑श्वि॒नप्र॑वया इव । यत्प्र॑व॒र्ग्यः॑ ।। (7)

उ॒त्क॒रो ह्ये॑ते तृ॑न्दन्ति महावीर॒त्वम॑ब्रुवन्नजयन्त्स॒प्त च॑ ॥ 1 ॥

सा॒वि॒त्रञ्जु॑होति॒ प्रति॑ष्ठित्यै । च॒तु॒र्गृ॒ही॒तेन॑ जुहोति । चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् । न वो॑ऽभा॒गानि॑ ह॒व्यव्वँ॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् । पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै । (8)

दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृही॒तञ्जु॒होति॑ । छन्दाँ॑स्ये॒व तत् प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्वँ॑हन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑न्दीक्षि॒तस्य॑ गृ॒हा (३) इ न हो॑त॒व्या (३) मिति॑ । ह॒विर्वै दी॑क्षि॒तः । यज्जु॑हु॒यात् । ह॒विष्कृ॑त॒य्यँज॑मानम॒ग्नौ प्रद॑द्ध्यात् । यन्न जु॑हु॒यात् । (9)

य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । यजु॑रे॒व व॑देत् । न ह॒विष्कृ॑त॒य्यँज॑मानम॒ग्नौ प्र॒दधा॑ति । न य॑ज्ञप॒रुर॒न्तरे॑ति । गा॒य॒त्री छन्दाँ॒स्यत्य॑मन्यत । तस्यै॑ वषट्का॒रो॑ऽभ्यय्य॒ शिरो॑ऽच्छिनत् । तस्यै॑ द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीम॒र्द्धः प्रावि॑शत् । प॒शून॒र्द्धः । यः पृ॑थि॒वीं प्रावि॑शत् । (10)

स ख॑दि॒रो॑ऽभवत् । यः प॒शून् । सो॑ऽजाम् । यत्खा॑दि॒र्यभ्रि॒र्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिर॒स्संभ॑रति । यदौदुं॑बरी । ऊर्ग्वा उ॑दुं॒बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒स्संभ॑रति । यद्वै॑ण॒वी । तेजो॒ वै वेणुः॑ । (11)

तेज॑सै॒व य॒ज्ञस्य॒ शिर॒स्संभ॑रति । यद्वैक॑ङ्कती । भा ए॒वाव॑रुन्धे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒माद॑त्ते॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । वज्र॑ इव॒ वा ए॒षा । यदभ्रिः॑ । अभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॑ । (12)

अ॒द्ध्व॒र॒कृद्दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑द्ध्व॒रः । य॒ज्ञ॒कृद्दे॒वेभ्य॒ इति॒ वावैतदा॑ह । उत्ति॑ष्ठ ब्रह्मणस्पत॒ इत्या॑ह । ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्रैतु॒ ब्रह्म॑ण॒स्पति॒रित्या॑ह । प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्र दे॒व्ये॑तु सू॒नृतेत्या॑ह । य॒ज्ञो वै सू॒नृता॑ । अच्छा॑ वी॒रन्नर्यं॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह । (13)

पाङ्क्तो॒ हि य॒ज्ञः । दे॒वा य॒ज्ञन्न॑यन्तु न॒ इत्या॑ह । दे॒वाने॒व य॑ज्ञ॒नियः॑ कुरुते । देवी॑ द्यावापृथिवी॒ अनु॑ मे मँसाथा॒मित्या॑ह । आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिर॒स्संभ॑रति । ऋ॒द्ध्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह । य॒ज्ञो वै म॒खः । ऋ॒द्ध्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति वावैतदा॑ह । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्ण इत्या॑ह । नि॒र्दिश्यै॒वैन॑द्धरति । (14)

त्रिर््ह॑रति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिर॒स्संभ॑रति । तू॒ष्णीञ्च॑तु॒र्थँ ह॑रति । अप॑रिमितादे॒व य॒ज्ञस्य॒ शिर॒स्संभ॑रति । मृ॒त्ख॒नादग्रे॑ हरति । तस्मा॑न्मृत्ख॒नः क॑रु॒ण्य॑तरः । इय॒त्यग्र॑ आसी॒रित्या॑ह । अ॒स्यामे॒वाछं॑बट्कारय्यँ॒ज्ञस्य॒ शिर॒स्संभ॑रति । ऊर्जं॒व्वाँ ए॒तँ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । (15)

यद्व॒ल्मीक॑म् । यद्व॑ल्मीकव॒पा सं॑भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ । अब॑धिरो भवति । य ए॒वव्वेँद॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स यत्र॑यत्र प॒राक्र॑मत । (16)

तन्नाद्ध्रि॑यत । स पू॑तीकस्तं॒बे परा॑क्रमत । सो॑ऽद्ध्रियत । सो॑ऽब्रवीत् । ऊ॒तिव्वैँ मे॑ धा॒ इति॑ । तदू॒तीका॑नामूतीक॒त्वम् । यदू॒तीका॒ भव॑न्ति । य॒ज्ञायै॒वोतिन्द॑धति । अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑ प॒शून्प्रावि॑शत् । (17)

तमे॒वाव॑रुन्धे । पञ्चै॒ते सं॑भा॒रा भ॑वन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिर॒स्संभ॑रति । यद्ग्रा॒म्याणां॑ पशू॒नाञ्चर्म॑णा सं॒भरे॑त् । ग्रा॒म्यान्प॒शूञ्छु॒चाऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ संभ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छु॒चार्प॑यति । तस्मा॑त्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानाम् । (18)

आ॒र॒ण्याः प॒शवः॒ कनी॑याँसः । शु॒चा ह्यृ॑ताः । लो॒म॒तस्संभ॑रति । अतो॒ ह्य॑स्य॒ मेद्ध्य॑म् । प॒रि॒गृह्या य॑न्ति । रक्ष॑सा॒मप॑हत्यै । ब॒हवो॑ हरन्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्ध॑ते॒ सिक॑तोपोप्ते॒ परि॑श्रिते॒ निद॑धति॒ शान्त्यै॑ । मद॑न्तीभि॒रुप॑ सृजति । (19)

तेज॑ ए॒वास्मि॑न्दधाति । मधु॑ त्वा मधु॒ला क॑रो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मि॒न्तेजो॑ दधाति । यद्ग्रा॒म्याणां॒ पात्रा॑णाङ्क॒पालै॑स्सँसृ॒जेत् । ग्रा॒म्याणि॒ पात्रा॑णि शु॒चाऽर्प॑येत् । अ॒र्म॒क॒पा॒लैस्सँसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शु॒चार्प॑यति । शर्क॑राभि॒स्सँसृ॑जति॒ धृत्यै॑ । अथो॑ श॒न्त्वाय॑ । अ॒ज॒लो॒मैस्सँसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यद॒जा । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सँसृ॑जति । अथो॒ तेज॑सा । कृ॒ष्णा॒जि॒नस्य॒ लोम॑भिः॒ सँसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नम् । य॒ज्ञेनै॒व यज्ञँ सँसृ॑जति ।। (20)

या॒ज्या॑यै॒ न जु॑हु॒यादवि॑श॒द्वेणु॒श्शान्त्यै॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह हरति दिहन्ति प॒राक्र॑म॒तावि॑शत् प्र॒जाय॑मानानाँ सृजति श॒न्त्वाया॒ष्टौ च॑ ॥ 2 ॥

परि॑श्रिते करोति । ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै । न कु॒र्वन्न॒भि प्रा॑ण्यात् । यत्कु॒र्वन्न॑भि प्रा॒ण्यात् । प्रा॒णाञ्छु॒चार्प॑येत् । अ॒प॒हाय॒ प्राणि॑ति । प्रा॒णाना॑ङ्गोपी॒थाय॑ । न प्र॑व॒र्ग्य॑ञ्चादि॒त्यञ्चा॒न्तरे॑यात् । यद॑न्तरे॒यात् । दु॒श्चर्मा॑ स्यात् । (21)

तस्मा॒न्नान्त॒राय्य॑म् । आ॒त्मनो॑ गोपी॒थाय॑ । वेणु॑ना करोति । तेजो॒ वै वेणुः॑ । तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्द्धयति । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्प्र॑व॒र्ग्यः॑ । (22)

तस्मा॑दे॒वमा॑ह । य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह । य॒ज्ञस्य॒ ह्ये॑ते प॒दे । अथो॒ प्रति॑ष्ठित्यै । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करो॒मीत्या॑ह । छन्दो॑भिरे॒वैन॑ङ्करोति । त्र्यु॑द्धिङ्करोति । त्रय॑ इ॒मे लो॒काः । ए॒षाल्लोँ॒काना॒माप्त्यै॑ । छन्दो॑भिः करोति । (23)

वी॒र्य॑व्वैँ छन्दाँ॑सि । वी॒र्ये॑णै॒वैन॑ङ्करोति । यजु॑षा॒ बिल॑ङ्करोति॒ व्यावृ॑त्यै । इय॑न्तङ्करोति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम् । इय॑न्तङ्करोति । य॒ज्ञ॒प॒रुषा॒ संमि॑तम् । इय॑न्तङ्करोति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् । वी॒र्य॑संमितम् । (24)

अप॑रिमितङ्करोति । अप॑रिमित॒स्याव॑रुद्ध्यै । प॒रि॒ग्री॒वङ्क॑रोति॒ धृत्यै॑ । सूर्य॑स्य॒ हर॑सा श्रा॒येत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अ॒श्व॒श॒केन॑ धूपयति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ । वृष्णो॒ अश्व॑स्य नि॒ष्पद॒सीत्या॑ह । अ॒सौ वा आ॑दि॒त्यो वृषाऽश्वः॑ । तस्य॒ छन्दाँ॑सि नि॒ष्पत् । (25)

छन्दो॑भिरे॒वैन॑न्धूपयति । अ॒र्चिषे॑ त्वा शो॒चिषे॒ त्वेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । वा॒रु॒णो॑ऽभीद्धः॑ । मै॒त्रियोपै॑ति॒ शान्त्यै॑ । सिद्ध्यै॒ त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑पति । अप॑द्यमानः पृथि॒व्यामाशा॒ दिश॒ आपृ॒णेत्या॑ह । (26)

तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒ विभा॑ति । उत्ति॑ष्ठ बृ॒हन्भ॑वो॒र्द्ध्वस्ति॑ष्ठ द्ध्रु॒वस्त्वमित्या॑ह॒ प्रति॑ष्ठित्यै । ई॒श्व॒रो वा ए॒षो॑ऽन्धो भवि॑तोः । यः प्र॑व॒र्ग्य॑म॒न्वीक्ष॑ते । सूर्य॑स्य त्वा॒ चक्षु॒षाऽन्वी॑क्ष॒ इत्या॑ह । चक्षु॑षो गोपी॒थाय॑ । ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॒ भूत्यै॒ त्वेत्या॑ह । इ॒यव्वाँ ऋ॒जुः । अ॒न्तरि॑क्षँ सा॒धु । अ॒सौ सु॑क्षि॒तिः । (27)

दिशो॒ भूतिः॑ । इ॒माने॒वास्मै॑ लो॒कान्क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै । इ॒दम॒हम॒मुमा॑मुष्याय॒णव्विँ॒शा प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हा॒मीत्या॑ह । वि॒शैवैनं॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हति । वि॒शेति॑ राज॒न्य॑स्य ब्रूयात् । वि॒शैवैनं॒ पर्यू॑हति । प॒शुभि॒रिति॒ वैश्य॑स्य । प॒शुभि॑रे॒वैनं॒ पर्यू॑हति । अ॒सु॒र्यं॑ पात्र॒मना॑च्छृण्णम् । (28)

आच्छृ॑णत्ति । दे॒व॒त्राकः॑ । अ॒ज॒क्षी॒रेणाच्छृ॑णत्ति । प॒र॒मव्वाँ ए॒तत्पयः॑ । यद॑जक्षी॒रम् । प॒र॒मेणै॒वैनं॒ पय॒साच्छृ॑णत्ति । यजु॑षा॒ व्यावृ॑त्त्यै । छन्दो॑भि॒राच्छृ॑णत्ति । छन्दो॑भि॒र्वा ए॒ष क्रि॑यते । छन्दो॑भिरे॒व छन्दाँ॒स्याच्छृ॑णत्ति । छृ॒न्धि वाच॒मित्या॑ह । वाच॑मे॒वाव॑रुन्धे । छृ॒न्ध्यूर्ज॒मित्या॑ह । ऊर्ज॑मे॒वाव॑रुन्धे । छृ॒न्धि ह॒विरित्या॑ह । ह॒विरे॒वाकः॑ । देव॑ पुरश्चर स॒घ्यास॒न्त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् ।। (29)

स्या॒द्यत् प्र॑व॒र्ग्य॑श्छन्दो॑भिः करोति वी॒र्य॑सम्मित॒ञ्छन्दाँ॑सि नि॒ष्पत्पृ॒णेत्या॑ह सुक्षि॒तिरना॑च्छृण्ण॒ञ्छन्दाँ॒स्याच्छृ॑णत्त्य॒ष्टौ च॑ ॥ 3 ॥

ब्रह्म॒न्प्रच॑रिष्यामो॒ होत॑र्घ॒र्मम॒भिष्टु॒हीत्या॑ह । ए॒ष वा ए॒तर््हि॒ बृह॒स्पतिः॑ । यद्ब्र॒ह्मा । तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॒ प्रच॑रति । आ॒त्मनोऽना॑र्त्यै । य॒माय॑ त्वा म॒खाय॒ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वताः॑ । ताभि॑रे॒वैनँ॒ सम॑र्द्धयति । मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न्दधाति । (30)

अ॒भि॒पू॒र्वं प्रोक्ष॑ति । अ॒भि॒पू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ । होताऽन्वा॑ह । रक्ष॑सा॒मप॑हत्यै । अन॑वानम् । प्रा॒णानाँ॒ सन्त॑त्यै । त्रि॒ष्टुभ॑स्स॒तीर्गा॑य॒त्रीरि॒वान्वा॑ह । (31)

गा॒य॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति । सन्त॑त॒मन्वा॑ह । प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सा॒मप॑हत्यै । यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमित॒स्याव॑रुद्ध्यै । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । (32)

यत्प्र॑व॒र्ग्यः॑ । ऊर्ङ्मुञ्जाः॑ । यन्मौ॒ञ्जो वे॒दो भव॑ति । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒स्सम॑र्द्धयति । प्रा॒णा॒हु॒तीर्जु॑होति । प्रा॒णाने॒व यज॑माने दधाति । स॒प्त जु॑होति । स॒प्त वै शी॑र््ष॒ण्याः॑ प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽन॒क्त्वित्या॑ह । (33)

तेज॑सै॒वैन॑मनक्ति । पृ॒थि॒वीन्तप॑सस्त्राय॒स्वेति॒ हिर॑ण्य॒मुपा॑स्यति । अ॒स्या अन॑तिदाहाय । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । प्र॒ल॒वाना॒दीप्योपा॑स्यति । दे॒वता॑स्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । अप्र॑तिशीर्णाग्रं भवति । ए॒तद्ब॑र््हि॒ऱ्ह्ये॑षः । (34)

अ॒र्चिर॑सि शो॒चिर॒सीत्या॑ह । तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति । सँसी॑दस्व म॒हाँ अ॒सीत्या॑ह । म॒हान् ह्ये॑षः । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । ए॒ते वाव त ऋ॒त्विजः॑ । ये द॑र््शपूर्णमा॒सयोः॑ । अथ॑ क॒था होता॒ यज॑मानाया॒शिषो॒ नाशा॑स्त॒ इति॑ । पु॒रस्ता॑दाशीः॒ खलु॒ वा अ॒न्यो य॒ज्ञः । उ॒परि॑ष्टादाशीर॒न्यः । (35)

अ॒ना॒धृ॒ष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजूँ॒ष्याह॑ । शी॒र््ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑रुन्धे । आयुः॑ पु॒रस्ता॑दाह । प्र॒जान्द॑क्षिण॒तः । प्रा॒णं प॒श्चात् । श्रोत्र॑मुत्तर॒तः । विधृ॑तिमु॒परि॑ष्टात् । प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति । ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति । (36)

मनो॒रश्वा॑सि॒ भूरि॑पु॒त्रेती॒माम॒भिमृ॑शति । इ॒यव्वैँ मनो॒रश्वा॒ भूरि॑पुत्रा । अ॒स्यामे॒व प्रति॑तिष्ठ॒त्यनु॑न्मादाय । सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । चित॑स्स्थ परि॒चित॒ इत्या॑ह । अप॑चितिमे॒वास्मि॑न्दधाति । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ । (37)

स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यँ र॒श्मिभिः॒ पर्यू॑हति । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मि॑ल्लोँ॒के र॒श्मिभिः॒ पर्यू॑ढः । तस्मा॒द्राजा॑ वि॒शा पर्यू॑ढः । तस्मा॑द्ग्राम॒णीस्स॑जा॒तैः पर्यू॑ढः । अ॒ग्नेस्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आ॑र्च्छत् । यद्वैक॑ङ्कताः परि॒धयो॒ भव॑न्ति । भा ए॒वाव॑रुन्धे । द्वाद॑श भवन्ति । (38)

द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । स॒व्वँ॒त्स॒रमे॒वाव॑रुन्धे । अस्ति॑ त्रयोद॒शो मास॒ इत्या॑हुः । यत्त्र॑योद॒शः प॑रि॒धिर्भव॑ति । तेनै॒व त्र॑योद॒शं मास॒मव॑रुन्धे । अ॒न्तरि॑क्षस्यान्त॒र्द्धिर॒सीत्या॑ह॒ व्यावृ॑त्त्यै । दिव॒न्तप॑सस्त्राय॒स्वेत्यु॒परि॑ष्टा॒द्धिर॑ण्य॒मधि॒ निद॑धाति । अ॒मुष्या॒ अन॑तिदाहाय । अथो॑ आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । अर््ह॑न् बिभर््षि॒ साय॑कानि॒ धन्वेत्या॑ह । (39)

स्तौत्ये॒वैन॑मे॒तत् । गा॒य॒त्रम॑सि॒ त्रैष्टु॑भमसि॒ जाग॑तम॒सीति॑ ध॒वित्रा॒ण्याद॑त्ते । छन्दो॑भिरे॒वैना॒न्याद॑त्ते । मधु॒ मध्विति॑ धूनोति । प्रा॒णो वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति । त्रिः परि॑यन्ति । त्रि॒वृद्धि प्रा॒णः । त्रिः परि॑यन्ति । त्र्या॑वृ॒द्धि य॒ज्ञः । (40)

अथो॒ रक्ष॑सा॒मप॑हत्यै । त्रिः पुनः॒ परि॑यन्ति । षट्त्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑तिष्ठन्ति । यो वै घ॒र्मस्य॑ प्रि॒यान्त॒नुव॑मा॒क्राम॑ति । दु॒श्चर्मा॒ वै स भ॑वति । ए॒ष ह॒ वा अ॑स्य प्रि॒यान्त॒नुव॒माक्रा॑मति । यत् त्रिः प॒रीत्य॑ चतु॒र्थं पर्ये॑ति । ए॒ताँ ह॒ वा अ॑स्यो॒ग्रदे॑वो॒ राज॑नि॒राच॑क्राम । (41)

ततो॒ वै स दु॒श्चर्मा॑ऽभवत् । तस्मा॒त्त्रिः प॒रीत्य॒ न च॑तु॒र्थं परी॑यात् । आ॒त्मनो॑ गोपी॒थाय॑ । प्रा॒णा वै ध॒वित्रा॑णि । अव्य॑तिषङ्गन्धून्वन्ति । प्रा॒णाना॒मव्य॑तिषङ्गाय॒ क्लृप्त्यै॑ । वि॒नि॒षद्य॑ धून्वन्ति । दि॒क्ष्वे॑व प्रति॑तिष्ठन्ति । ऊ॒र्द्ध्वन्धू॑न्वन्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स॒र्वतो॑ धून्वन्ति । तस्मा॑द॒यँ स॒र्वतः॑ पवते ।। (42)

द॒धा॒ती॒वान्वा॑ह य॒ज्ञस्या॑है॒ष उ॒परि॑ष्टादाशीर॒न्यो व्या॑स्था॒पय॑न्ति र॒श्मयो॑ भवन्ति॒ धन्वेत्या॑ह य॒ज्ञश्च॑क्राम॒ सम॑ष्ट्यै॒ द्वे च॑ ॥ 4 ॥

अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता॑द्रोचयतु गाय॒त्रेण॒ छन्द॒सेत्या॑ह । अ॒ग्निरे॒वैन॒व्वँसु॑भिः पु॒रस्ता॑द्रोचयति गाय॒त्रेण॒ छन्द॑सा । समा॑रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॒सेत्या॑ह । इन्द्र॑ ए॒वैनँ॑ रु॒द्रैर्द॑क्षिण॒तो रो॑चयति॒ त्रैष्टु॑भेन॒ छन्द॑सा । समा॑रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । वरु॑णस्त्वाऽऽदि॒त्यैः प॒श्चाद्रो॑चयतु॒ जाग॑तेन॒ छन्द॒सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा । (43)

समा॑रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॒सेत्या॑ह । द्यु॒ता॒न ए॒वैनं॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्यानु॑ष्टुभेन॒ छन्द॑सा । समा॑रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । बृह॒स्पति॑स्त्वा॒ विश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॒सेत्या॑ह । बृह॒स्पति॑रे॒वैन॒व्विँश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयति॒ पाङ्क्ते॑न॒ छन्द॑सा । समा॑रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । (44)

रो॒चि॒तस्त्वन्दे॑व घर्म दे॒वेष्वसीत्या॑ह । रो॒चि॒तो ह्ये॑ष दे॒वेषु॑ । रो॒चि॒षी॒याहं म॑नु॒ष्ये॑ष्वित्या॑ह । रोच॑त ए॒वैष म॑नु॒ष्ये॑षु । सम्रा॑ड्घर्म रुचि॒तस्त्वन्दे॒वेष्वायु॑ष्माँ स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सीत्या॑ह । रु॒चि॒तो ह्ये॑ष दे॒वेष्वायु॑ष्माँस्तेज॒स्वी ब्र॑ह्मवर्च॒सी । रु॒चि॒तो॑ऽहं म॑नु॒ष्ये॑ष्वायु॑ष्माँस्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यास॒मित्या॑ह । रु॒चि॒त ए॒वैष म॑नु॒ष्ये॑ष्वायु॑ष्माँस्तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति । रुग॑सि॒ रुचं॒ मयि॑ धेहि॒ मयि॒ रुगित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । तय्यँदे॒तैर्यजु॑र्भि॒ररो॑चयि॒त्वा । रु॒चि॒तो घ॒र्म इति॑ प्रब्रू॒यात् । अरो॑चुकोऽद्ध्व॒र्युस्स्यात् । अरो॑चुको॒ यज॑मानः । अथ॒ यदे॑नमे॒तैर्यजु॑र्भी रोचयि॒त्वा । रु॒चि॒तो घर्म॒ इति॒ प्राह॑ । रोचु॑कोऽद्ध्व॒र्युर्भव॑ति । रोचु॑को॒ यज॑मानः ।। (45)

प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा॒ पाङ्क्ते॑न॒ छन्द॑सा॒ समा॑रुचि॒तो रो॑च॒येत्या॑हा॒शिष॑मे॒वैतामाशा॑स्ते शास्ते॒ऽष्टौ च॑ ॥ 5 ॥

शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्र॑व॒र्ग्यः॑ । ग्री॒वा उ॑प॒सदः॑ । पु॒रस्ता॑दुप॒सदां॑ प्रव॒र्ग्यं॑ प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । त्रिः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । षट्त्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । (46)

ऋ॒तुभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । द्वाद॑श॒कृत्वः॒ प्रवृ॑णक्ति । द्वाद॑श॒ मासा॑स्सव्वँत्स॒रः । स॒व्वँ॒त्स॒रादे॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । चतु॑र्विँशति॒स्संप॑द्यन्ते । चतु॑र्विँशतिरर्द्धमा॒साः । अ॒र्द्ध॒मा॒सेभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । अथो॒ खलु॑ । स॒कृदे॒व प्र॒वृज्यः॑ । एकँ॒ हि शिरः॑ । (47)

अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति । ए॒तावा॒न् वै य॒ज्ञः । यावा॑नग्निष्टो॒मः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । नोक्थ्ये॑ प्रवृ॑ञ्ज्यात् । प्र॒जा वै प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्ये॑ प्रवृ॒ञ्ज्यात् । प्र॒जां प॒शून॑स्य॒ निर्द॑हेत् । वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ प्रवृ॑णक्ति । (48)

पृ॒ष्ठानि॒ वा अच्यु॑तञ्च्यावयन्ति । पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तञ्च्यावयि॒त्वाऽव॑रुन्धे । अप॑श्यङ्गो॒पामित्या॑ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व प्र॒जासु॒ विया॑तयति । अप॑श्यङ्गो॒पामित्या॑ह । अ॒सौ वा आ॑दि॒त्यो गो॒पाः । स हीमाः प्र॒जा गो॑पा॒यति॑ । तमे॒व प्र॒जाना॑ङ्गो॒प्तार॑ङ्कुरुते । अनि॑पद्यमान॒मित्या॑ह । (49)

न ह्ये॑ष नि॒पद्य॑ते । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्त॒मित्या॑ह । आ च॒ ह्ये॑ष परा॑ च प॒थिभि॒श्चर॑ति । स स॒द्ध्रीची॒स्स विषू॑ची॒र्वसा॑न॒ इत्या॑ह । स॒द्ध्रीची॑श्च॒ ह्ये॑ष विषू॑चीश्च॒ वसा॑नः प्र॒जा अ॒भि वि॒पश्य॑ति । आव॑रीवर्ति॒ भुव॑नेष्व॒न्तरित्या॑ह । आ ह्ये॑ष व॑री॒वर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीर्मधु॒ माद्ध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्या॒मित्या॑ह । वास॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह । (50)

ग्रैष्मा॑वे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह । अ॒ग्निर्ह्ये॑वैषो॑ऽग्निना॑ स॒ङ्गच्छ॑ते । स्वाहा॒ सम॒ग्निस्तप॑सा ग॒तेत्या॑ह । पूर्व॑मे॒वादि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः पृथि॒व्या इत्या॑ह । वार्षि॑कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । हृ॒दे त्वा॒ मन॑से॒ त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । (51)

दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वेमाल्लोँ॒कान्त्सन्द॑धाति । विश्वा॑सां भुवां पत॒ इत्या॑ह । हैम॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । दे॒व॒श्रूस्त्वन्दे॑व घर्म दे॒वान्पा॒हीत्या॑ह । शै॒शि॒रावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । त॒पो॒जाव्वाँच॑म॒स्मे निय॑च्छ देवा॒युव॒मित्या॑ह । या वै मेद्ध्या॒ वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे । (52)

गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो॒ ह्ये॑ष दे॒वाना॑म् । पि॒ता म॑ती॒नामित्या॑ह । प्र॒जा वै म॒तयः॑ । तासा॑मे॒ष ए॒व पि॒ता । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । पतिः॑ प्र॒जाना॒मित्या॑ह । पति॒र्ह्ये॑ष प्र॒जाना॑म् । मतिः॑ कवी॒नामित्या॑ह । (53)

मति॒र्ह्ये॑ष क॑वी॒नाम् । सन्दे॒वो दे॒वेन॑ सवि॒त्रा य॑तिष्ट॒ सँ सूर्ये॑णारु॒क्तेत्या॑ह । अ॒मुञ्चै॒वादि॒त्यं प्र॑व॒र्ग्य॑ञ्च॒ सँशा॑स्ति । आ॒यु॒र्दास्त्वम॒स्मभ्य॑ङ्घर्म वर्चो॒दा अ॒सीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । पि॒ता नो॑ऽसि पि॒ता नो॑ बो॒धेत्या॑ह । बो॒धय॑त्ये॒वैन॑म् । न वै॒ ते॑ऽवका॒शा भ॑वन्ति । पत्नि॑यै दश॒मः । नव॒ वै पुरु॑षे प्रा॒णाः । (54)

नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा॑क्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत । तद्दे॒वा होत्रा॑भिः॒ प्रत्य॑दधुः । ऋ॒त्विजोऽवे॑क्षन्ते । ए॒ता वै होत्राः॑ । होत्रा॑भिरे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । (55)

रु॒चि॒तमवे॑क्षन्ते । रु॒चि॒ताद्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जानाँ॒ सृष्ट्यै॑ । रु॒चि॒तमवे॑क्षन्ते । रु॒चि॒ताद्वै प॒र्जन्यो॑ वर््षति । वर््षु॑कः प॒र्जन्यो॑ भवति । सं प्र॒जा ए॑धन्ते । रु॒चि॒तमवे॑क्षन्ते । रु॒चि॒तं वै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति । (56)

अ॒धी॒यन्तोऽवे॑क्षन्ते । सर्व॒मायु॑र्यन्ति । न पत्न्यवे॑क्षेत । यत्पन्त्य॒वेक्षे॑त । प्रजा॑येत । प्र॒जान्त्व॑स्यै॒ निर्द॑हेत् । यन्नावेक्षे॑त । न प्रजा॑येत । नास्यै॑ प्र॒जान्निर्द॑हेत् । ति॒र॒स्कृत्य॒ यजु॑र्वाचयति । प्रजा॑यते । नास्यै॑ प्र॒जान्निर्द॑हति । त्वष्टी॑मती ते सपे॒येत्या॑ह । सपा॒द्धि प्र॒जाः प्र॒जाय॑न्ते ।। (57)

ऋ॒तवो॒ हि शिर॒स्सर्व॑पृष्ठे॒ प्रवृ॑ण॒क्त्यनि॑पद्यमान॒मित्या॑ह ग॒तेत्या॑ह शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति रुन्धे कवी॒नामित्या॑ह प्रा॒णाः प्रति॑दधाति भवन्ति वाचयति च॒त्वारि॑ च ॥ 6 ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ । आद॒देऽदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह॒ यजु॑ष्कृत्यै । इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै देवना॒मानि॑ । दे॒व॒ना॒मैरे॒वैना॒मा ह्व॑यति । असा॒वेह्यसा॒वेह्यसा॒वेहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै मनुष्यना॒मानि॑ । (58)

म॒नु॒ष्य॒ना॒मैरे॒वैना॒मा ह्व॑यति । षट्त्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैना॒मा ह्व॑यति । अदि॑त्या उ॒ष्णीष॑म॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् । वा॒युर॑स्यै॒ड इत्या॑ह । वा॒यु॒दे॒व॒त्यो॑ वै व॒त्सः । पू॒षा त्वो॒पाव॑सृज॒त्वित्या॑ह । पौ॒ष्णा वै दे॒वत॑या प॒शवः॑ । (59)

स्वयै॒वैन॑न्दे॒वत॑यो॒पाव॑सृजति । अ॒श्विभ्यां॒ प्रदा॑प॒येत्या॑ह । अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति । यस्ते॒ स्तन॑श्शश॒य इत्या॑ह । स्तौत्ये॒वैना॑म् । उस्र॑ घ॒र्मँ शिँ॒षोस्र॑ घ॒र्मं पा॑हि घ॒र्माय॑ शिँ॒षेत्या॑ह । यथा॑ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑ । ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑ सीद॒त्वित्या॑ह । (60)

ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैना॒मुप॑सीदति । दान॑वस्स्थ॒ पेर॑व॒ इत्या॑ह । मेद्ध्या॑ने॒वैना॑न्करोति । वि॒ष्व॒ग्वृतो॒ लोहि॑ते॒नेत्या॑ह॒ व्यावृ॑त्त्यै । अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व॒ बृह॒स्पत॑ये पिन्व॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्यः॒ पिन्व॑ते । इन्द्रा॑य पिन्व॒स्वेन्द्रा॑य पिन्व॒स्वेत्या॑ह । इन्द्र॑मे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । द्विरिन्द्रा॒येत्या॑ह । (61)

तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑मः । गा॒य॒त्रो॑ऽसि॒ त्रैष्टु॑भोऽसि॒ जाग॑तम॒सीति॑ शफोपय॒मानाद॑त्ते । छन्दो॑भिरे॒वैना॒नाद॑त्ते । स॒होर्जो भा॒गेनोप॒मेहीत्या॑ह । ऊ॒र्ज ए॒वैनं॑ भा॒गम॑कः । अ॒श्विनौ॒ वा ए॒तद्य॒ज्ञस्य॒ शिरः॑ प्रति॒दध॑तावब्रूताम् । आ॒वाभ्या॑मे॒व पूर्वा॑भ्या॒व्वँष॑ट्क्रियाता॒ इति॑ । इन्द्रा॑श्विना॒ मधु॑नस्सार॒घस्येत्या॑ह । अ॒श्विभ्या॑मे॒व पूर्वा॑भ्या॒व्वँष॑ट्करोति । अथो॑ अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । (62)

घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वडित्या॑ह । वसू॑ने॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । यद्व॑षट्कु॒र्यात् । या॒तया॑माऽस्य वषट्का॒रः स्या॑त् । यन्न व॑षट्कु॒र्यात् । रक्षाँ॑सि य॒ज्ञँ ह॑न्युः । वडित्या॑ह । प॒रोक्ष॑मे॒व वष॑ट्करोति । नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति । न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति । (63)

स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहो॒मीत्या॑ह । यो वा अ॑स्य॒ पुण्यो॑ र॒श्मिः । स वृ॑ष्टि॒वनिः॑ । तस्मा॑ ए॒वैन॑ञ्जुहोति । मधु॑ ह॒विर॒सीत्या॑ह । स्व॒दय॑त्ये॒वैन॑म् । सूर्य॑स्य॒ तप॑स्त॒पेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । द्यावा॑पृथि॒वीभ्या॑न्त्वा॒ परि॑गृह्णा॒मीत्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॒ परि॑गृह्णाति । (64)

अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छा॒मीत्या॑ह । अ॒न्तरि॑क्षेणै॒वैन॒मुप॑यच्छति । न वा ए॒तं म॑नु॒ष्यो॑ भर्तु॑मर््हति । दे॒वाना॑न्त्वा पितृ॒णामनु॑मतो॒ भर्तुँ॑ शकेय॒मित्या॑ह । दे॒वैरे॒वैनं॑ पि॒तृभि॒रनु॑मत॒ आद॑त्ते । वि वा ए॑नमे॒तद॑र्द्धयन्ति । यत्प॒श्चाप्र॒वृज्य॑ पु॒रो जुह्व॑ति । तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । दि॒वि॒स्पृङ्मा मा॑ हिँसीरन्तरिक्ष॒स्पृङ्मा मा॑ हिHँसीः पृथिवि॒स्पृङ्मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । (65)

सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिव॑य्यँच्छ दि॒वो मा॑ पा॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । आ॒त्मा वा॒युः । उ॒द्यत्य॑ वातना॒मान्या॑ह । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । अन॑वानम् । प्रा॒णानाँ॒ सन्त॑त्यै । पञ्चा॑ह । (66)

पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह । अ॒सौ वा आ॑दि॒त्यो॑ऽग्निर्वसु॑मान् । तस्मा॑ ए॒वैन॑ञ्जुहोति । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह । च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवा॑न् । तस्मा॑ ए॒वैन॑ञ्जुहोति । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह । (67)

अ॒प्सु वै वरु॑ण आदि॒त्यवा॑न् । तस्मा॑ ए॒वैन॑ञ्जुहोति । बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहेत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑ञ्जुहोति । स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते॑ प्रभु॒मते॒ वाज॑वते॒ स्वाहेत्या॑ह । स॒व्वँ॒त्स॒रो वै स॑वि॒तर्भु॒मान्् वि॑भु॒मान्प्र॑भु॒मान्् वाज॑वान् । तस्मा॑ ए॒वैन॑ञ्जुहोति । य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहेत्या॑ह । प्रा॒णो वै य॒मोऽङ्गि॑रस्वान्पितृ॒मान् । (68)

तस्मा॑ ए॒वैन॑ञ्जुहोति । ए॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्यो जुहोति । दश॒ संप॑द्यन्ते । दशा॑क्षरा वि॒राट् । अन्न॑व्विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । रौ॒हि॒णाभ्या॒व्वैँ दे॒वास्सु॑व॒र्गल्लोँ॒कमा॑यन् । तद्रौ॑हि॒णयो॑ रौहिण॒त्वम् । यद्रौ॑हि॒णौ भव॑तः । रौ॒हि॒णाभ्या॑मे॒व तद्यज॑मानस्सुव॒र्गल्लोँ॒कमे॑ति । अह॒र्ज्योतिः॑ के॒तुना॑ जुषताँ सुज्यो॒तिर्ज्योति॑षाँ॒ स्वाहा॒ रात्रि॒र्ज्योतिः॑ के॒तुना॑ जुषताँ सुज्यो॒तिर्ज्योति॑षाँ॒ स्वाहेत्या॑ह । आ॒दि॒त्यमे॒व तद॒मुष्मि॑ल्लोँ॒केऽह्ना॑ प॒रस्ता॑द्दाधार । रात्रि॑या अ॒वस्ता॑त् । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मि॑ल्लोँ॒के॑ऽहोरा॒त्राभ्या॑न्धृ॒तः ।। (69)

म॒नु॒ष्य॒ना॒मानि॑ प॒शव॑स्सीद॒त्वित्या॒हेन्द्रा॒येत्या॑हार्द्धयति घ्नन्ति गृह्णा॒त्यहिँ॑सायै॒ पञ्चा॑ऽहादि॒त्यव॑ते॒ स्वाहेत्या॑ह पितृ॒माने॑ति च॒त्वारि॑ च । 7 ।

विश्वा॒ आशा॑ दक्षिण॒सदित्या॑ह । विश्वा॑ने॒व दे॒वान्प्री॑णाति । अथो॒ दुरि॑ष्ट्या ए॒वैनं॑ पाति । विश्वा॑न्दे॒वान॑याडि॒हेत्या॑ह । विश्वा॑ने॒व दे॒वान्भा॑ग॒धेये॑न॒ सम॑र्द्धयति । स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्वि॒नेत्या॑ह । अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शय्यँजु॑र्भि॒रित्या॑ह । अ॒भ्ये॑वैन॑ङ्घारयति । अथो॑ ह॒विरे॒वाकः॑ । (70)

अश्वि॑ना घ॒र्मं पा॑तँ हार्दिवा॒नमह॑र्दि॒वाभि॑रू॒तिभि॒रित्या॑ह । अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । अनु॑ वा॒न्द्यावा॑पृथि॒वी मँ॑साता॒मित्या॒हानु॑मत्यै । स्वाहेन्द्रा॑य॒ स्वाहेन्द्रा॒वडित्या॑ह । इन्द्रा॑य॒ हि पु॒रो हू॒यते॑ । आ॒श्राव्या॑ह घ॒र्मस्य॑ य॒जेति॑ । वष॑ट्कृते जुहोति । रक्ष॑सा॒मप॑हत्यै । अनु॑यजति स्व॒गाकृ॑त्यै । घ॒र्मम॑पातमश्वि॒नेत्या॑ह । (71)

पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । अनु॑वा॒न्द्यावा॑पृथि॒वी अ॑मँसाता॒मित्या॒हानु॑मत्यै । तं प्रा॒व्य॑य्यँथा॒वण्णमो॑ दि॒वे नमः॑ पृथि॒व्या इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । दि॒विधा॑ इ॒मय्यँ॒ज्ञय्यँ॒ज्ञमि॒मन्दि॒विधा॒ इत्या॑ह । सु॒व॒र्गमे॒वैन॑ल्लोँ॒कङ्ग॑मयति । दिव॑ङ्गच्छा॒न्तरि॑क्षङ्गच्छ पृथि॒वीङ्ग॒च्छेत्या॑ह । ए॒ष्वे॑वैन॑ल्लोँ॒केषु॒ प्रति॑ष्ठापयति । पञ्च॑ प्र॒दिशो॑ ग॒च्छेत्या॑ह । (72)

दि॒क्ष्वे॑वैनं॒ प्रति॑ष्ठापयति । दे॒वान्घ॑र्म॒पान्ग॑च्छ पि॒तॄन्घ॑र्म॒पान्ग॒च्छेत्या॑ह । उ॒भये॑ष्वे॒वैनं॒ प्रति॑ष्ठापयति । यत्पिन्व॑ते । वर््षु॑कः प॒र्जन्यो॑ भवति । तस्मा॒त्पिन्व॑मानः॒ पुण्यः॑ । यत्प्राङ्पिन्व॑ते । तद्दे॒वाना॑म् । यद्द॑क्षि॒णा । तत्पि॑तृ॒णाम् । (73)

यत्प्र॒त्यक् । तन्म॑नु॒ष्या॑णाम् । यदुदङ्ङ्॑ । तद्रु॒द्राणा॑म् । प्राञ्च॒मुद॑ञ्चं पिन्वयति । दे॒व॒त्राकः॑ । अथो॒ खलु॑ । सर्वा॒ अनु॒ दिशः॑ पिन्वयति । सर्वा॒ दिश॒स्समे॑धन्ते । अ॒न्तः॒प॒रि॒धि पि॑न्वयति । (74)

तेज॒सोऽस्क॑न्दाय । इ॒षे पी॑पिह्यू॒र्जे पी॑पि॒हीत्या॑ह । इष॑मे॒वोर्ज॒य्यँज॑माने दधाति । यज॑मानाय पीपि॒हीत्या॑ह । यज॑मानायै॒वैतामा॒शिष॒मा शा॑स्ते । मह्य॒ञ्ज्यैष्ठ्या॑य पीपि॒हीत्या॑ह । आ॒त्मन॑ ए॒वैतामा॒शिष॒माशा॑स्ते । त्विष्यै॑ त्वा द्यु॒म्नाय॑ त्वेन्द्रि॒याय॑ त्वा॒ भूत्यै॒ त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । धर्मा॑सि सु॒धर्मा मे॑न्य॒स्मे ब्रह्मा॑णि धार॒येत्या॑ह । (75)

ब्रह्म॑न्ने॒वैनं॒ प्रति॑ष्ठापयति । नेत्त्वा॒ वात॑स्स्क॒न्दया॒दिति॒ यद्य॑भि॒चरे॑त् । अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयाम्य॒मुना॑ स॒ह नि॑र॒र्थङ्ग॒च्छेति॑ ब्रूया॒द्यन्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तेनै॑नँ स॒ह नि॑र॒र्थङ्ग॑मयति । पू॒ष्णे शर॑से॒ स्वाहेत्या॑ह । या ए॒व दे॒वता॑ हु॒तभा॑गाः । ताभ्य॑ ए॒वैन॑ञ्जुहोति । ग्राव॑भ्यः॒ स्वाहेत्या॑ह । या ए॒वान्तरि॑क्षे॒ वाचः॑ । (76)

ताभ्य॑ ए॒वैन॑ञ्जुहोति । प्र॒ति॒रेभ्य॒स्स्वाहेत्या॑ह । प्रा॒णा वै दे॒वाः प्र॑ति॒राः । तेभ्य॑ ए॒वैन॑ञ्जुहोति । द्यावा॑पृथि॒वीभ्याँ॒ स्वाहेत्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैन॑ञ्जुहोति । पि॒तृभ्यो॑ घर्म॒पेभ्यः॒ स्वाहेत्या॑ह । ये वै यज्वा॑नः । ते पि॒तरो॑ घर्म॒पाः । तेभ्य॑ ए॒वैन॑ञ्जुहोति । (77)

रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहेत्या॑ह । रु॒द्रमे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धयति । स॒र्वत॒स्सम॑नक्ति । स॒र्वत॑ ए॒व रु॒द्रन्नि॒रव॑दयते । उद॑ञ्च॒न्निर॑स्यति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । अ॒प उप॑स्पृशति मेद्ध्य॒त्वाय॑ । नान्वी॑क्षेत । यद॒न्वीक्षे॑त । (78)

चक्षु॑रस्य प्र॒मायु॑क स्यात् । तस्मा॒न्नान्वीक्ष्यः॑ । अपी॑परो॒ माऽह्नो॒ रात्रि॑यै मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑द्ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा माञ्जी॒रित्या॑ह । आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑द्ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा माञ्जी॒रित्या॑ह । आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्रा (३) न्न हो॑त॒व्या (३) मिति॑ । (79)

यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः परा॑भवेत् । भूस्स्वाहेत्ये॒व हो॑त॒व्य॑म् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्निः परा॑भवति । हु॒तँ ह॒विर्मधु॑ ह॒विरित्या॑ह । स्व॒दय॑त्ये॒वैन॑म् । इन्द्र॑तमे॒ऽग्नावित्या॑ह । (80)

प्रा॒णो वा इन्द्र॑तमो॒ऽग्निः । प्रा॒ण ए॒वैन॒मिन्द्र॑तमे॒ऽग्नौ जु॑होति । पि॒ता नो॑ऽसि॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒ वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । स्व॒धा॒विनो॑ऽशी॒महि॑ त्वा॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । तेज॑सा॒ वा ए॒ते व्यृ॑द्ध्यन्ते । ये प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्राश्ञ॑न्ति । तेज॑ ए॒वात्मन्द॑धते । (81)

स॒व्वँ॒त्स॒रन्न माँ॒सम॑श्ञीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नास्य॑ रा॒म उच्छि॑ष्टं पिबेत् । तेज ए॒व तत्सश्य॑ति । दे॒वा॒सु॒रास्सय्यँ॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॒सन्न्य॑दधत । यत्किञ्च॑ दिवाकी॒र्त्य॑म् । तदे॒तेनै॒व व्र॒तेना॑गोपायत् । तस्मा॑दे॒तद्व्र॒तञ्चा॒र्य॑म् । तेज॑सो गोपी॒थाय॑ । तस्मा॑दे॒तानि॒ यजूँ॑षि वि॒भ्राज॑स्सौ॒र्यस्येत्या॑हुः । स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रा॒तस्सँसा॑दयति । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यम् । ए॒ता वा ए॒तस्य॑ दे॒वताः॑ । ताभि॑रे॒वैनँ॒ सम॑र्द्धयति ।। (82)

अ॒क॒र॒श्वि॒नेत्या॑ह प्र॒दिशो॑ ग॒च्छेत्या॑ह पितृ॒णाम॑न्तःपरि॒धि पि॑न्वयति धार॒येत्या॑ह॒ वाचो॑ घर्म॒पास्तेभ्य॑ ए॒वैन॑ञ्जुहोत्य॒न्वीक्षे॑त होत॒व्या (३) मित्य॒ग्नावित्या॑ह दधतेऽगोपायत्स॒प्त च॑ ॥ 8 ॥

घर्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्य॒श्शुच॒मव॑ यजते । इय॒त्यग्रे॑ जुहोति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । अनु॑ नो॒ऽद्यानु॑मति॒रित्या॒हानु॑मत्यै । दि॒वस्त्वा॑ पर॒स्पाया॒ इत्या॑ह । दि॒व ए॒वेमाल्लोँ॒कान्दा॑धार । ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह । (83)

ए॒ष्वे॑व लो॒केषु॑ प्र॒जा दा॑धार । प्रा॒णस्य॑ त्वा पर॒स्पाया॒ इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान्दा॑धार । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तय्यँद्द॑क्षि॒णा प्र॒त्यञ्च॒मुद॑ञ्चमुद्वा॒सये॑त् । जि॒ह्मय्यँ॒ज्ञस्य॒ शिरो॑ हरेत् । प्राञ्च॒मुद्वा॑सयति । पु॒रस्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । (84)

प्राञ्च॒मुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदे॑ति । श॒फो॒प॒य॒मान्ध॒वित्रा॑णि॒ धृष्टी॒ इत्य॒न्वव॑हरन्ति । सात्मा॑नमे॒वैनँ॒ सत॑नुङ्करोति । सात्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति । य ए॒वव्वेँद॑ । औदुं॑बराणि भवन्ति । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । वर्त्म॑ना॒ वा अ॒न्वित्य॑ । (85)

य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति । साम्ना॑ प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सा॒मप॑हत्यै । त्रिर्नि॒धन॒मुपै॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षाँ॒स्यप॑हन्ति । पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति । पुरु॑षःपुरुषो॒ हि र॑क्ष॒स्वी । रक्ष॑सा॒मप॑हत्यै । (86)

यत्पृ॑थि॒व्यामु॑द्वा॒सये॑त् । पृ॒थि॒वीँ शु॒चाऽर्प॑येत् । यद॒प्सु । अ॒पश्शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धीश्शु॒चाऽर्प॑येत् । यद्वन॒स्पति॑षु । वन॒स्पती॑ञ्छु॒चार्प॑येत् । हिर॑ण्यन्नि॒धायोद्वा॑सयति । अ॒मृत॒व्वैँ हिर॑ण्यम् । (87)

अ॒मृत॑ ए॒वैनं॒ प्रति॑ष्ठापयति । व॒ल्गुर॑सि श॒य्युँधा॑या॒ इति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति । त्रि॒वृद्वा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचँ॑ शमयति । त्रिः पुनः॒ पर्ये॑ति । षट्त्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयति । चतु॑स्स्रक्ति॒र्नाभि॑ऱ्ऋ॒तस्येत्या॑ह । (88)

इ॒यव्वाँ ऋ॒तम् । तस्या॑ ए॒ष ए॒व नाभिः॑ । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयम् । अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै । घर्मै॒तत्तेऽन्न॑मे॒तत्पुरी॑ष॒मिति॑ द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति । ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्द्धयति । (89)

अन॑शनायुको भवति । य ए॒वव्वेँद॑ । रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानँ॒ रन्तिं॑ ब॒न्धुता॒व्व्याँच॑ष्टे । सम॒हमायु॑षा॒ सं प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । व्य॑सौ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । अचि॑क्रद॒द्वृषा॒ हरि॒रित्या॑ह । वृषा॒ ह्ये॑षः । (90)

वृषा॒ हरिः॑ । म॒हान्मि॒त्रो न द॑र््श॒त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत् । चिद॑सि समु॒द्रयो॑नि॒रित्या॑ह । स्वामे॒वैन॒य्योँनि॑ङ्गमयति । नम॑स्ते अस्तु॒ मा मा॑ हिँसी॒रित्या॒हाहिँ॑सायै । वि॒श्वाव॑सुँ सोम गन्ध॒र्वमित्या॑ह । यदे॒वास्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेना प्या॑ययति । वि॒श्वाव॑सुर॒भि तन्नो॑ गृणा॒त्वित्या॑ह । (91)

पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भि गृ॑णाति । धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्या॒दित्या॑ह । ऋ॒तूने॒वास्मै॑ कल्पयति । प्रासा॑ङ्गन्ध॒र्वो अ॒मृता॑नि वोच॒दित्या॑ह । प्रा॒णा वा अ॒मृताः॑ । प्रा॒णाने॒वास्मै॑ कल्पयति । ए॒तत्त्वन्दे॑व घर्म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह । दे॒वो ह्ये॑ष सन्दे॒वानु॒पैति॑ । इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह । (92)

म॒नु॒ष्यो॑ हि । ए॒ष सन्म॑नु॒ष्या॑नु॒पैति॑ । ई॒श्व॒रो वै प्र॑व॒र्ग्य॑मुद्वा॒सय॑न् । प्र॒जां प॒शून्त्सो॑मपी॒थम॑नू॒द्वास॒स्सोम॑ पी॒थानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व प॒शून्त्सो॑मपी॒थमा॒त्मन्ध॑त्ते । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्स॒न्त्वित्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्य॑मुद्वा॒सयति॑ । उदु॒त्यञ्चि॒त्रमिति॑ सौ॒रीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॒ गार््ह॑पत्ये जुहोति । अ॒यव्वैँ लो॒को गार््ह॑पत्यः । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यस्सु॑व॒र्गो लो॒कः । यत्सौ॒री भव॑तः । तेनै॒व सु॑व॒र्गाल्लो॒कान्नैति॑ ।। (93)

ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह दधात्य॒न्वित्य॑ रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ वै हिर॑ण्यमाहार्द्धयति॒ ह्ये॑ष गृ॑णा॒त्वित्या॑ह मनु॒ष्या॑नित्या॑हास्यै॒षो॑ऽष्टौ च॑ ॥ 9 ॥

प्र॒जाप॑ति॒व्वैँ दे॒वाश्शु॒क्रं पयो॑ऽदुह्रन् । तदे॑भ्यो॒ न व्य॑भवत् । तद॒ग्निर्व्य॑करोत् । तानि॒ शुक्रि॑याणि॒ सामा॑न्यभवन् । तेषा॒य्योँ रसो॒ऽत्यक्ष॑रत् । तानि॑ शुक्रय॒जूँष्य॑भवन् । शुक्रि॑याणा॒व्वाँ ए॒तानि॒ शुक्रि॑याणि । सा॒म॒प॒य॒सव्वाँ ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत्पयः॑ । यद्गोः पयः॑ । (94)

तत्साम्नः॒ पयः॑ । यद॒जायै॒ पयः॑ । तद्दे॒वानां॒ पयः॑ । तस्मा॒द्यत्रै॒तैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति । प्र॒जाप॑तिमे॒व तत्पय॑सा॒ऽन्नाद्ये॑न॒ सम॑र्द्धयन्ति । ए॒ष ह त्वै सा॒क्षात्प्र॑व॒र्ग्यं॑ भक्षयति । यस्यै॒वव्विँ॒दुषः॑ प्रव॒र्ग्यः॑ प्रवृ॒ज्यते॑ । उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒त्तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवे॒दिः । (95)

तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्द्धयति । उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒दन्न॑कामस्य । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । मुख॑मुत्तरवे॒दिः । शी॒र्ष्णैव मुखँ॒ सन्द॑धात्य॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति । यत्र॒ खलु॒ वा ए॒तमुद्वा॑सित॒व्वँयाँ॑सि प॒र्यास॑ते । परि॒ वै ताँ समां॑ प्र॒जा वयाँ॑स्यासते । (96)

तस्मा॑दुत्तरवे॒द्यामे॒वोद्वा॑सयेत् । प्र॒जाना॑ङ्गोपी॒थाय॑ । पु॒रो वा॑ प॒श्चाद्वोद्वा॑सयेत् । पु॒रस्ता॒द्वा ए॒तज्ज्योति॒रुदे॑ति । तत्प॒श्चान्निम्रो॑चति । स्वामे॒वैन॒य्योँनि॒मनूद्वा॑सयति । अ॒पां मद्ध्य॒ उद्वा॑सयेत् । अ॒पाव्वाँ ए॒तन्मद्ध्या॒ज्ज्योति॑रजायत । ज्योतिः॑ प्रव॒र्ग्यः॑ । स्वयै॒वैन॒य्योँनौ॒ प्रति॑ष्ठापयति । (97)

यन्द्वि॒ष्यात् । यत्र॒ स स्यात् । तस्या॑न्दि॒श्युद्वा॑सयेत् । ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निनै॒वैन॑व्वैँश्वान॒रेणा॒भि प्रव॑र्तयति । औदु॑म्बर्याँ॒ शाखा॑या॒मुद्वा॑सयेत् । ऊर्ग्वा उ॑दुं॒बरः॑ । अन्नं॑ प्रा॒णः । शुग्घ॒र्मः । (98)

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा॒मीत्या॑ह । शु॒चैवास्य॑ प्रा॒णमपि॑ दहति । ता॒जगार्ति॒मार्च्छ॑ति । यत्र॑ द॒र्भा उ॑प॒दीक॑सन्तता॒स्स्युः । तदुद्वा॑सये॒द्वृष्टि॑कामस्य । ए॒ता वा अ॒पाम॑नू॒ज्झाव॑र्यो॒ नाम॑ । यद्द॒र्भाः । अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो वृष्टि॒मुदी॑रयति । अ॒सावे॒वास्मा॑ आदि॒त्यो वृष्टि॒न्निय॑च्छति । ता आपो॒ निय॑ता॒ धन्व॑ना यन्ति ।। (99)

गोः पय॑ उत्तरवे॒दिरा॑सते स्थापयति घ॒र्मो य॑न्ति ॥ 10 ॥

प्र॒जाप॑तिस्संभ्रि॒यमा॑णः । स॒म्राट्त्संभृ॑तः । घ॒र्मः प्रवृ॑क्तः । म॒हा॒वी॒र उद्वा॑सितः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा॑न्यकुरुत । य ए॒वव्वेँद॑ । वि॒दुरे॑न॒न्नाम्ना॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । (100)

यो वै वसी॑याँसय्यँथाना॒ममु॑प॒चर॑ति । पुण्या॑र्ति॒व्वैँ स तस्मै॑ कामयते । पुण्या॑र्तिमस्मै कामयन्ते । य ए॒वव्वेँद॑ । तस्मा॑दे॒वव्विँ॒द्वान् । घ॒र्म इति॒ दिवाऽऽच॑क्षीत । स॒म्राडिति॒ नक्त॑म् । ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ॑ । ए॒ते अ॑स्य प्रि॒ये नाम॑नी । प्रि॒ययै॒वैन॑न्त॒नुवा॑ । (101)

प्रि॒येण॒ नाम्ना॒ सम॑र्द्धयति । की॒र्तिर॑स्य॒ पूर्वाग॑च्छति ज॒नता॑माय॒तः । गा॒य॒त्री दे॒वेभ्योऽपा॑क्रामत् । तान्दे॒वाः प्र॑व॒र्ग्ये॑णै॒वानु॒ व्य॑भवन् । प्र॒व॒र्ग्ये॑णाप्नुवन् । यच्च॑तुर्विँशति॒कृत्वः॑ प्रव॒र्ग्यं॑ प्रवृ॒णक्ति॑ । गा॒य॒त्रीमे॒व तदनु॒ विभ॑वति । गा॒य॒त्रीमा॑प्नोति । पूर्वा॑ऽस्य॒ जन॑य्यँ॒तः की॒र्तिर्ग॑च्छति । वै॒श्व॒दे॒वः सँस॑न्नः । (102)

वस॑वः॒ प्रवृ॑क्तः । सोमो॑ऽभिकी॒र्यमा॑णः । आ॒श्वि॒नः पय॑स्यानी॒यमा॑ने । मा॒रु॒तः क्वथ॑न् । पौ॒ष्ण उद॑न्तः । सा॒र॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्रश्शरो॑ गृही॒तः । तेज॒ उद्य॑तः । वा॒युर्ह्रि॒यमा॑णः । प्र॒जाप॑तिर््हू॒यमा॑नः । (103)

वाग्घु॒तः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा॑न्यकुरुत । य ए॒वव्वेँद॑ । वि॒दुरे॑न॒न्नाम्ना॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यन्मृ॒न्मय॒माहु॑ति॒न्नाश्ञु॒तेऽथ॑ । कस्मा॑दे॒षो॑ऽश्ञुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । (104)

वा॒च्ये॑व वाच॑न्दधाति । तस्मा॑दश्ञुते । प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तः । यत्प्र॑व॒र्ग्यः॑ । यत्प्राग॑वका॒शेभ्यः॑ । तेन॑ प्र॒जा अ॑सृजत । अ॒व॒का॒शैर्दे॑वासु॒रान॑सृजत । यदू॒र्द्ध्वम॑वका॒शेभ्यः॑ । तेनान्न॑मसृजत । अन्नं॑ प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ।। (105)

व॒द॒न्ति॒ त॒नुवा॒ सँस॑न्नो हू॒यमा॑नो ब्रूया॒दन्नं॑ प्र॒जाप॑ति॒रेक॑ञ्च ॥ 11 ॥

स॒वि॒ता भू॒त्वा प्र॑थ॒मेऽह॒न्प्रवृ॑ज्यते । तेन॒ कामाँ॑ एति । यद्द्वि॒तीयेऽह॑न्प्रवृ॒ज्यते॑ । अ॒ग्निर्भू॒त्वा दे॒वाने॑ति । यत्तृ॒तीयेऽह॑न्प्रवृ॒ज्यते॑ । वा॒युर्भू॒त्वा प्रा॒णाने॑ति । यच्च॑तु॒र्थेऽह॑न्प्रवृ॒ज्यते॑ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति । यत्प॑ञ्च॒मेऽह॑न्प्रवृ॒ज्यते॑ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति । (106)

यत्ष॒ष्ठेऽह॑न्प्रवृ॒ज्यते॑ । ऋ॒तुर्भू॒त्वा स॑व्वँत्स॒रमे॑ति । यत्स॑प्त॒मेऽह॑न्प्रवृ॒ज्यते॑ । धा॒ता भू॒त्वा शक्व॑रीमेति । यद॑ष्ट॒मेऽह॑न्प्रवृ॒ज्यते॑ । बृह॒स्पति॑र्भू॒त्वा गा॑य॒त्रीमे॑ति । यन्न॑व॒मेऽह॑न्प्रवृ॒ज्यते॑ । मि॒त्रो भू॒त्वा त्रि॒वृत॑ इ॒माल्लोँ॒काने॑ति । यद्द॑श॒मेऽह॑न्प्रवृ॒ज्यते॑ । वरु॑णो भू॒त्वा वि॒राज॑मेति । (107)

यदे॑काद॒शेऽह॑न्प्रवृ॒ज्यते॑ । इन्द्रो॑ भू॒त्वा त्रि॒ष्टुभ॑मेति । यद्द्वा॑द॒शेऽह॑न्प्रवृ॒ज्यते॑ । सोमो॑ भू॒त्वा सु॒त्यामे॑ति । यत्पु॒रस्ता॑दुप॒सदां॑ प्रवृ॒ज्यते॑ । तस्मा॑दि॒तः परा॑ङ॒मूल्लोँ॒काँस्तप॑न्नेति । यदु॒परि॑ष्टादुप॒सदां॑ प्रवृ॒ज्यते॑ । तस्मा॑द॒मुतो॒ऽर्वाङि॒माल्लोँ॒काँस्तप॑न्नेति । य ए॒वव्वेँद॑ । ऐव त॑पति ।। (108)

नक्ष॑त्राण्येति वि॒राज॑मेति तपति ॥ 12 ॥

दे॒वा वै स॒त्रँ सा॑वि॒त्रं परि॑श्रिते॒ ब्रह्म॒न् प्रच॑रिष्यामो॒ऽग्निष्ट्वा॒ शिरो॑ ग्री॒वा दे॒वस्य॑ रश॒नाव्विँश्वा॒ आशा॒ घर्म॒ या ते॑ प्र॒जाप॑तिँ शुक्रं प्र॒जाप॑तिस्संभ्रि॒यमा॑णस्सवि॒ता भू॒त्वा द्वाद॑श ॥ 12 ॥ दे॒वा वै स॒त्रँ स ख॑दि॒रः परि॑श्रितेऽभिपू॒र्वमथो॒ रक्ष॑सा॒ङ्ग्रैष्मा॑वे॒वास्मै॒ ब्रह्म॒ वै दे॒वाना॒मश्वि॑ना घ॒र्मं पा॑तं प्रा॒णो वै वृषा॒ हरि॒र्यो वै वसी॑याँसय्यँथाना॒मम॒ष्टोत्त॑रशतम् ॥ 108 ॥ दे॒वा वै स॒त्रमैव त॑पति ॥ ओम् शान्तिश्शान्तिश्शान्तिः ॥ हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ॥