प॒रे॒यु॒वाँसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् । वै॒व॒स्व॒तँ स॒ङ्गम॑न॒ञ्जना॑नाय्यँ॒मँ राजा॑नँ ह॒विषा॑ दुवस्यत । इ॒दन्त्वा॒ वस्त्रं॑ प्रथ॒मन्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टा॒पू॒र्तमनु॒ संप॑श्य॒ दक्षि॑णा॒य्यँथा॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु । इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे॑ । याभ्या॑य्यँ॒मस्य॒ साद॑नँ सु॒कृता॒ञ्चापि॑ गच्छतात् । पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑ स्सुवि॒दत्रे॑भ्यः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स्सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् । (1)
आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । भुव॑नस्य पत इ॒दँ ह॒विः । अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ । पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे । यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति । पुरु॑षस्य सयावरि वि ते॑ प्रा॒णम॑सि स्रसम् । शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह । मैव॑म्माँ॒स्ता प्रि॑ये॒ऽहन्दे॒वी स॒ती पि॑तृलो॒कय्यँदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्यँ॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व । (2)
इ॒यन्नारी॑ पतिलो॒कव्वृँणा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् । विश्वं॑ पुरा॒णमनु॑ पा॒लय॑न्ती॒ तस्यै॑ प्र॒जान्द्रवि॑णञ्चे॒ह धे॑हि । उदी॑र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि संब॑भूव । सु॒वर्णँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । धनु॒ऱ््हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । मणिँ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॒ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यँ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । (3)
इ॒मम॑ग्ने चम॒सं मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् । अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च । नेत्त्वा॑ धृ॒ष्णुऱ् हर॑सा॒ जऱ्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै । मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वच॑ञ्चिक्षिपो॒ मा शरी॑रम् । य॒दा शृ॒तङ्क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ । शृ॒तय्यँ॒दा क॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वाना॑व्वँश॒नीर्भ॑वाति । सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्माH द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अ॒जो भा॒गस्तप॑सा॒ तन्त॑पस्व॒ तन्ते॑ शो॒चिस्त॑पतु॒ तन्ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मँ सु॒कृता॒य्यँत्र॑ लो॒काः । अ॒यव्वैं त्वम॒स्मादधि॒ त्वमे॒तद॒यव्वैं तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मँ सु॒कृता॒य्यँत्र॑ लो॒काः । (4)
वि॒द्वान॒भ्याव॑वृत्स्वा॒भिमा॑तीर्जयेम॒ शरी॑रैश्च॒त्वारि॑ च ॥ 1 ॥
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो॑भिऽर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॑ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा॑ । यस्त॑ इ॒द्ध्मञ्ज॒भर॑त्सिष्विदा॒नो मू॒र्धान॑व्वाँत॒ तप॑ते त्वा॒या । दिवो॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्यः । अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ।। (5)
य ए॒तस्य॒ त्वत्पञ्च॑ ॥ 2 ॥
प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध । इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । स॒व्वेँश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तँ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्ष॒व्वँरु॑णस्य दू॒तय्यँ॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति । यौ ते॒ श्वानौ॑ यमरक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा । ताभ्याँ॑ राज॒न्परि॑ देह्येन स्व॒स्ति चा॑स्मा अनमी॒वञ्च॑ धेहि । (6)
उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशाँ॒ अनु॑ । ताव॒स्मभ्य॑न्दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒ वसु॑म॒द्येह भ॒द्रम् । सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् । ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँ श्चि॑दे॒वापि॑ गच्छतात् । तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः । तपो॒ ये च॑क्रि॒रे म॒हत्ताँश्चि॑दे॒वापि॑ गच्छतात् । अश्म॑न्वती रेवती॒स्सँ र॑भध्व॒ मुत्ति॑ष्ठत प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाश्शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम । (7)
यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रँ॑ स॒हस्र॑धार॒व्विँत॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हं माँ स॒र्वत॑नुं पुनामि । या रा॒ष्ट्रात्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒स्मान्र॒य्या वर्च॑सा॒ सँसृ॑जाथ । उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् । धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ।। (8)
धे॒ह्युत्त॑रेमा॒ष्टौ च॑ ॥ 3 ।
यन्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे । इ॒मन्तँ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च । यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ । क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा । शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति । म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒म स्व॑ग्निँ श॒मय॑ । शन्ते॑ धन्व॒न्या आप॒श्शमु॑ ते सन्त्वनू॒क्याः॑ । शन्ते॑ समु॒द्रिया॒ आप॒श्शमु॑ ते सन्तु॒ वर्ष्याः॑ । शन्ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः॑ । शन्ते॑ नीहा॒रो व॑ऱ्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् । (9)
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषँ॒ सङ्ग॑च्छतान्त॒नुवा॑ जातवेदः । सङ्ग॑च्छस्व पि॒तृभि॒स्स स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । यत्ते॑ कृ॒ष्णश्श॑कु॒न आ॑तु॒तोद॑ पिपी॒लस्स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्विश्वा॑दनृ॒णङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णमा॑वि॒वेश॑ । उत्ति॒ष्ठात॑स्त॒नुवँ॒ संभ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । इ॒दन्त॒ एकं॑ प॒र ऊ॑त॒ एक॑न्तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । स॒व्वेँश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ । उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् । य॒मेन॒ त्वय्यँ॒म्या॑ सव्विँदा॒नोत्त॒मन्नाक॒मधि॑ रोहे॒मम् । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुःH प॒वित्र॒य्याँ रा॒ष्ट्रात्प॒न्नादुद्व॒यन्तम॑स॒स्परि॑ धा॒ता पु॑नातु । अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यञ्जा॑यतां॒ पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा॑ ।। (10)
अव॑शीयताँ स॒धस्थे॒ पञ्च॑ च ॥ 4 ।
आया॑तु दे॒वस्सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताँ सुप्र॒यते॑ह ब॒ऱ्हिष्यूर्जा॑यजात्यै मम॑ शत्रु॒हत्यै॑ । य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्रवा॑म्भर॒न्मानु॑षा देव॒यन्तः॑ । आसी॑दत॒॒ स्वमु॑ लो॒कव्विँदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः । य॒माय॒ सोमँ॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मँ ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः । य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒ प्र जी॒वसे॑ । य॒माय॒ मधु॑मत्तमँ॒ राज्ञे॑ ह॒व्यञ्जु॑होतन । इ॒दन्नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ । (11)
योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी । य॒मं भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑नप॒रोद्ध्यः॑ । य॒मङ्गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑नप॒रोद्ध्यः॑ । येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा । हि॒र॒ण्य॒क॒क्ष्यान् सु॒धुरा॑न् हिरण्या॒क्षान॑यश्श॒फान् । अश्वा॑न॒नश्य॑तो दा॒न॒य्यँ॒मो रा॑जाभि॒ तिष्ठ॑ति । य॒मो दा॑धार पृथि॒वीय्यँ॒मो विश्व॑मि॒दञ्जग॑त् । य॒माय॒ सर्व॒मित्र॑स्थे॒ यत् प्रा॒णद्वा॒युर॑क्षि॒तम् । यथा॒ पञ्च॒ यथा॒ षड्य॒था पञ्च॑ द॒शऱ्ष॑यः । य॒मय्योँ वि॑द्या॒त्स ब्रू॑याद्य॒थैक ऋषि॑र्विजान॒ते । (12)
त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वीरेक॒मिद्बृ॒हत् । गा॒य॒त्री त्रि॑ष्टुप्छन्दाँ॑सि॒ सर्वा॒ ता य॒म आहि॑ता । अह॑रह॒र्नय॑मानो॒ गामश्वं॒ पुरु॑ष॒ञ्जग॑त् । वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः । वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः । ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॒ चानृ॑तवादि॒नः । ते रा॑जन्नि॒ह विवि॑च्यन्ते॒ऽथा य॑न्ति त्वा॒मुप॑ । दे॒वाँश्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाँश्चाप॒चित्य॑ति । यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैस्सं॒पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति ।। (13)
प॒थि॒कृद्भ्यो॑ विजान॒तेऽनु॑ वेनति ॥ 5 ॥
वै॒श्वा॒न॒रे ह॒विरि॒दञ्जु॑होमि साह॒स्रमुत्सँ॑ श॒तधा॑रमे॒तम् । तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीय॒य्योंनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ । इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्स॑व्व्यँ॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये॑ । घृ॒तन्दुहा॑ना॒मदि॑ति॒ञ्जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒ र्व्य॑क्तय्यँ॒मो द॑दात्वव॒सान॑मस्मै । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑र्युज्यन्तामघ्नि॒याः । (14)
शु॒नव्वाँ॒हाश्शु॒नन्ना॒राश्शु॒नङ्कृ॑षतु॒ लाङ्ग॑लम् । शु॒नव्वँ॑र॒त्रा ब॑द्ध्यन्ताँ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् । शुना॑सीरा वि॒माव्वाँच॒य्यँद्दि॒वि च॑क्र॒थुः पयः॑ । तेने॒मामुप॑ सिञ्चतम् । सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव । यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला स॑सि । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒ शं भव । विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य । ज्योति॑रापाम॒ सुव॑रगन्म । (15)
प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीँ रेत॒साऽव॑ति । यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः । ए॒वव्वँ॑पामि हा॒र्म्यय्यँथासा॑म जीवलो॒के भूर॑यः । चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितश्श्रयध्वं पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या । आप्या॑यस्व॒ सन्ते॑ ।। (16)
अ॒घ्नि॒या अ॑गन्म स॒प्त च॑ ॥ 6 ॥
उत्ते॑ तभ्नोमि पृथि॒वीन्त्वत्परी॒मल्लों॒कन्नि॒दध॒न्मो अ॒हँ रि॑षम् । ए॒ताँ स्थूणां॑ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मस्साद॑नात्ते मिनोतु । उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीँ सु॒शेवा॑म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निऱ्ऋ॑त्या उ॒पस्थे॑ । उछ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथा स्सूपाय॒नास्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रय्यँथा॑सि॒चाभ्ये॑नं भूमि वृणु । उ॒छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा॑स्मै शर॒णास्स॒न्त्वत्र॑ । एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ । तिल॑वत्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वनप॑स्फुरन्तीः । (17)
ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे । अक्षि॑ति॒र्नाम॑ ते असौ । इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒ऱ्हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम । तत्त्व॑मारो॒हासो॒ मेघ्यो॒ भव॑य्यँ॒मेन॒ त्वय्यँ॒म्या॑ सव्विंदा॒नः । मा त्वा॑ वृ॒क्षौ संबा॑धिष्टा॒म्मा मा॒ता पृ॑थिवि॒ त्वम् । पि॒तॄन् ह्यत्र॒ गच्छा॒स्येधा॑सय्यँम॒राज्ये॑ । मा त्वा॑ वृ॒क्षौ संबा॑धेथां॒ मा मा॒ता पृ॑थि॒वी म॒ही । वै॒व॒स्व॒तँ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि । न॒ळं प्ल॒वमारो॑है॒तन्न॒ळेन॑ प॒थोऽन्वि॑हि । स त्व॑न्न॒ळप्ल॑वो भू॒त्वा॒ सन्त॑र॒ प्रत॒रोत्त॑र । (18)
स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभ्यः॑ पृथिवि॒ शं भ॑व । षड्ढो॑ता॒ सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॒ गच्छ॑ पृथि॒वीञ्च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था॒य्यँस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाँ री॑रिषो॒ मोत वी॒रान् । शव्वाँत॒श्शँ हि ते॒ घृणि॒श्शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्ताम्मे॒ दिश॑श्श॒ग्माः । पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शान्त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।। (19)
अन॑पस्फुरन्ती॒रुत्त॑र दे॒वत॑या॒ द्वे च॑ ॥ 7 ।
अ॒पू॒पवा॑न्घृ॒तवाँ॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीन्द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वाना॑ङ्घृ॒तभा॑गा इ॒ह स्थ । ए॒षा ते यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । दशा॑क्षरा॒ ताँ र॑क्षस्व॒ ताङ्गो॑पायस्व॒ तान्ते॒ परि॑ददामि॒ तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒पू॒पवा॑ञ्छृ॒तवा॑न्क्षी॒रवा॒न्दधि॑वा॒न्मधु॑माँश्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीन्द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानाँ॑ शृ॒तभा॑गाः क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒युता॑क्ष॒राऽच्यु॑ताक्षरा॒ ताँ र॑क्षस्व॒ ताङ्गो॑पायस्व॒ तान्ते॒ परि॑ददामि॒ तस्या॑न्त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ।। (20) ।। 8 ।।
अ॒पू॒पवा॑नसौ॒ दश॑ ॥ 8 ॥ 10
ए॒तास्ते॑ स्व॒धा अ॒मृताः॑ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ । तास्ते॑ य॒मः पि॒तृभि॑स्सव्विँदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः॑ करोतु । त्वामर्जु॒नौष॑धीनां॒ पयो॑ ब्र॒ह्माण॒ इद्वि॑दुः । तासा॑न्त्वा॒ मध्या॒दा द॑दे च॒रुभ्यो॒ अपि॑धातवे । दू॒र्वाणाँ॑ स्तं॒बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मान्दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठानु॒ वि रो॑हतु । काशा॑नाँ स्तं॒बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै । य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ तेनाभ॑वा॒न्पुनः॑ । द॒र्भाणाँ॑ स्तं॒बमाह॑र पितृ॒णा मोष॑धीं प्रि॒याम् । अन्वस्यै॒ मूल॑ञ्जीवा॒दनु॒ काण्ड॒मथो॒ फल॑म् । (21)
लो॒कं पृ॑ण॒ ता अ॑स्य॒ सूद॑दोहसः । शव्वाँत॒श्शँहि ते॒ घृणि॒श्शमु॑ ते स॒न्त्वोष॑धीः । कल्पन्तान्ते॒ दिश॒स्सर्वाः॑ । इ॒दमे॒व मेतोप॑रा॒ मार्ति॑माराम॒ काञ्च॒न । तथा॒ तद॒श्विभ्या॑ङ्कृ॒तं मि॒त्रेण॒ वरु॑णेन च । व॒र॒णो वा॑रयादि॒दन्दे॒वो वन॒स्पतिः॑ । आर्त्यै॒ निऱ्ऋ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पतिः॑ । विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाँ॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाँ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाँ॑सि । पृ॒थि॒वीङ्ग॑च्छा॒न्तरि॑क्षङ्गच्छ॒ दिव॑ङ्गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिव॑ङ्गच्छा॒न्तरि॑क्षङ्गच्छ पृथि॒वीङ्ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॒य्याँ रा॒ष्ट्रात्प॒न्नादुद्व॒यन्तम॑स॒स्परि॑ धा॒ता पु॑नातु ।। (22)
फलं॑ पुनातु ॥ 9 ।
आ रो॑ह॒तायु॑र्ज॒रस॑ङ्गृणा॒ना अ॑नुपू॒र्वय्यँत॑माना॒ यति॒ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः । यथाहा॑न्यनुपूर्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ कॢ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूँ॑षि कल्पयैषाम् । न हि॑ ते अग्ने त॒नुवै॑ क्रू॒रञ्च॒कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॑र्ज॒रायु॒ गौरि॑व । अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् । अप॑ न॒श्शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा॑ । अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव । (23)
इ॒मे जी॒वा वि॑मृ॒तैराव॑वर्ति॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिन्नो अ॒द्य । प्राञ्जो॑गामानृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाः । मृ॒त्योः प॒दय्योँ॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रान्दधा॑नाःH । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः । इ॒मञ्जी॒वेभ्यः॑ परि॒धिन्द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तञ्जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युन्द॑द्महे॒ पर्व॑तेन । इ॒मा नारी॑रविध॒वास्सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम् । अ॒न॒श्रवो॑ अनमी॒वा स्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ । यदाञ्ज॑नन्त्रैककु॒दञ्जा॒तँ हि॒मव॑त॒स्परि॑ । तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जंभयामसि । यथा॒ त्वमु॑द्भि॒नत्स्यो॑षधे पृथि॒व्या अधि॑ । ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒जो॑ऽस्यजा॒स्मद॒घा द्वेषाँ॑सि य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषाँ॑सि ।। (24)
भ॒व॒ जं॒भ॒या॒म॒सि॒ त्रीणि॑ च । 10 ।
अप॑ न॒श्शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिम् । अप॑ न॒श्शोशु॑चद॒घम् । सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ न॒श्शोशु॑चद॒घम् । प्रयद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ न॒श्शोशु॑चद॒घम् । प्रयद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॒ न॒श्शोशु॑चद॒घम् । प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ न॒श्शोशु॑चद॒घम् । (25)
त्वँ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ न॒श्शोशु॑चद॒घम् । द्विषो॑ नो विश्वतोमु॒खाऽति॑ ना॒वेव॑ पारय । अप॑ न॒श्शोशु॑चद॒घम् । स न॒स्सिन्धु॑मिव ना॒वयाति॑ पऱ्षा स्व॒स्तये॑ । अप॑ न॒श्शोशु॑चद॒घम् । आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मत्स्य॑न्दताम॒घम् । अप॑ न॒श्शोशु॑चद॒घम् । उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मत्स्य॑न्दताम॒घम् । अप॑ न॒श्शोशु॑चद॒घम् । आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागाँ॒ स्वान्गृ॒हान् । अप॑ न॒श्शोशु॑चद॒घम् । न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒कमप॑ न॒श्शोशु॑चद॒घम् ।। (26)
अ॒घम॒घञ्च॒त्वारि॑ च ॥ 11 ।
अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै । मयै॒तां माँ॒स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कय्यँदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ सव्व्यँ॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि । रयि॑ष्ठाम॒ग्निं मधु॑मन्तमू॒र्मिण॒मूर्ज॑ स्सन्तन्त्वा॒ पय॒सोप॒ सँस॑देम । सँ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये॑ । ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः॑ । तेभ्यो॑ घ़ृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती । मा॒ता रु॒द्राणा॑न्दुहि॒ता वसू॑नाँ॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्रणु॒वोच़॑ञ्चिकि॒तुषे॒ जना॑य॒ मागामना॑गा॒मदि॑तिव्वँधिष्ट । पिब॑तूद॒कन्तृणा॑न्यत्तु । ओमुत्सृ॒जत ।। (27)
व॒धि॒ष्ट॒ द्वे च॑ ॥ 12 ।
प॒रे॒यु॒वाँसं॒ प्रवि॒द्वान्भुव॑नस्या॒भ्याव॑वृत्स्वा॒जो भा॒गो॑ऽयव्वैँ चतु॑श्चत्वारिँशत् । य ए॒तस्य॒ त्वत्पञ्च॑ । प्रके॒तुने॒दन्ते॒ नाके॑ सुप॒र्णमपी॑हि॒ यौ ते॒ ये युद्ध्य॑न्ते॒ तप॒साऽश्म॑न्वती रेवती॒स्सँर॑भध्वँ स॒हस्र॑धारम॒ष्टाविँ॑शतिः । यन्ते॒ यत्त॒ उत्ति॒ष्ठात॑ इ॒दन्त॒ उत्ति॑ष्ठ॒ प्रेह्यश्म॒न् यद्वा उद्व॒यम॒यं पञ्च॑विँशतिः । आया॑तु त्रिँ॒शत् । वै॒श्वा॒न॒रे तस्मि॑न्द्र॒प्स इ॒ममपे॒ताहो॑भिर्युज्यन्तामघ्नि॒या अ॑दिते पा॒रव्वँ॒ आप्या॑यस्व स॒प्तविँ॑शतिः । उत्ते॑ गृ॒हेऽक्षि॑ति॒स्तेभ्यः॑ पृथिवि॒ षड्ढो॑ता॒ परं॑ मे श॒ग्माः पृ॑थि॒व्या अ॒न्तरि॑क्षस्य॒ द्वात्रिँ॑शत् । अ॒पू॒पवा॑नसौ॒ दश॑ श॒त द॑श । ए॒तास्ते॑ ते॒ दिश॒स्सर्वा॑ इ॒दमश्म॑न्विँश॒तिः । आरो॑हत त॒नुवै॑ ििक्रू॒ऱञ्च॒कार॒ पुन॑र्मृ॒त्यवे॒ मा नोनु॑गाद्दद्मह इ॒मा नारीः॒ परि॒ त्रयो॑विँशतिः । अप॑नस्सुक्षेत्रि॒या प्रयद्भन्दि॑ष्ठः॒ प्रयद॒ग्नेः प्रयत्ते॑ अग्ने॒ त्वँ हि द्विष॒स्सन॒स्सिन्धु॒मापः॑ प्रव॒णादु॑द्व॒नादा॑न॒न्दाय॒ न वै तत्र॒ यत्रे॒दञ्चतु॑र्विँशतिः । अप॑श्या॒मावृ॑णीहि॒ द्वाद॑श द्वादश । 12 प॒रे॒यु॒वाँस॒माया॑त्वे॒तास्ते॑ स॒प्तविँ॑शतिः । 27 प॒रे॒यु॒वाँस॒मोमुत्सृ॒जत ।