सह॒ वै दे॒वाना़॒ञ्चासु॑राणाञ्च य॒ज्ञौ प्रत॑तावास्ताव्वँ॒यस्व॒र्गल्लोँ॒कमे॑ष्यामो व॒यमे॑ष्याम॒ इति॒ तेऽसु॑रास्स॒न्नह्य॒ सह॑सै॒वाच॑रन्ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्तेऽसु॑रा अमुह्य॒॒स्ते न प्राजा॑न॒॒स्ते परा॑ऽभव॒न्ते न स्व॒र्गल्लोँ॒कमा॑य॒न्प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास्स्व॒र्गल्लोँ॒कमा॑य॒न्न प्रसृ॑ते॒नासु॑रा॒न्परा॑भावय॒न्प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञोऽप्र॑सृ॒तोऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत्तस्मा॑द्यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒द्यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑न॒व्वाँसो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बा॒हुमुद्ध॑र॒तेऽव॑ धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तँ स॒व्वीँतं॑ मानु॒षम् । 1 ।
। 1 ।
रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑मतिष्ठन्त॒ तान्प्र॒जाप॑तिर्व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ तान्प्र॒जाप॑तिरब्रवी॒द्योध॑य॒ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यय्योँध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्याया॑ङ्गायत्रि॒याऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाँ॑सि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत्प्र॑दक्षि॒णं प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑धून्वन्त्यु॒द्यन्त॑मस्त॒य्यँन्त॑मादि॒त्यम॑भिध्या॒यन्कु॒र्वन्ब्रा॑ह्म॒णो वि॒द्वान्त्स॒कलं॑ भ॒द्रम॑श्नुते॒ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन्ब्रह्मा॒प्येति॒ य ए॒वव्वेँद॑ ।2।
। 2 ।
यद्दे॑वा देव॒हेळ॑न॒न्देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त ।। देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म । तस्मा॑न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः ।। ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म ।। इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म ।। स॒जा॒त॒शँ॒सादु॒त जा॑मिशँ॒साज्ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टन्दे॒वकृ॑त॒य्यँदेन॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ।। यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याँ॑ शि॒श्नैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार््ह॑पत्यः॒ प्रमु़॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता ।। येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्य॒न्तम॑सो निर्मु॒मोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हञ्ज्योति॑षा॒ ज्योति॑रानशा॒न आ॑क्षि ।। यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि ।। यन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्ष॒य्यँदा॒शसाति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता यदाप॑ इ॒मम्मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ सत्वन्नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ । 3 ।
मु॒मु॒ग्धि॒ स॒प्त च॑ । 3 ।
यददी॑व्यन्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा सञ्ज॒गर॒ जने॑भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च सव्विँदा॒नौ प्रमु॑ञ्चताम् ।। यद्धस्ता॑भ्याञ्च॒कर॒ किल्बि॑षाण्य॒क्षाणा॑व्वँ॒ग्नुमु॑प॒जिघ्न॑मानः । उ॒ग्रं॒प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ ।। उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् । नेन्न॑ ऋ॒णानृ॒णव॒ इत्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑ ।। अव॑ ते॒ हेळ॒ उदु॑त्त॒ममि॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ सत्वन्नो॑ अग्ने । सङ्कु॑सुको॒ विकु॑सुको निर््ऋ॒थो यश्च॑ निस्व॒नः । तेऽस्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीचतम् । निर्य॑क्ष्ममचीचते कृ॒त्यान्निऱ्ऋ॑तिञ्च । तेन॒ योऽस्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि । दु॒श्शँ॒सा॒नु॒शँ॒साभ्या॑ङ्घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योऽस्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि । सव्वँर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् । 4 ।
कृ॒त्यान्निऱ्ऋ॑तिञ्च॒ पञ्च॑ च । 4 ।
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒यक्ष्मँ॑ सुवामि ते ।। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् ।। इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सँशि॑शाधि । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ।। अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । 5 ।
अ॒ग्निर् ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ।। अग्ने॑ जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ता- ञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ळ॒ञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ ।। सह॑सा जा॒तान्प्रणु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नस्स॒पत्ना॑न् ।। अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाँ॑सति । ताँस्त्वव्वृँ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒माभ॑र ।। अग्ने॒ यो नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ । तव्वँ॒यँ स॒मिध॑ङ्कृ॒त्वा तुभ्य॑म॒ग्नेऽपि॑ दध्मसि । 6 ।
यो न॒श्शपा॒दश॑पतो॒ यश्च॑ न॒श्शप॑त॒श्शपा॑त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पँ समू॑हताम् । यो न॑स्स॒पत्नो॒ यो रणो॒ मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न । यो मान्द्वेष्टि॑ जातवेदो॒ यञ्चा॒हन्द्वेष्मि॒ यश्च॒ माम् । सर्वाँ॒स्तान॑ग्ने॒ सन्द॑ह॒ याँश्चा॒हन्द्वेष्मि॒ ये च॒ माम् । यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा॑च्च॒ सर्वाँ॒स्तान्म॑ष्म॒षा कु॑रु । सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तव्वीँ॒र्य म् बल॑म् । सँशि॑तङ्क्ष॒त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः । उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वा म् अ॒हम् । पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्र॑म्म॒ आगा॒त्पुनः॑ प्रा॒णः पुन॒राधी॑तं म॒ आगा॑त् । वै॒श्वा॒न॒रो मेऽद॑ब्धस्तनू॒पा अव॑बाधतान्दुरि॒तानि॒ विश्वा॑ । 7 ।
पोष॑न्दध्मसि पु॒रोहि॑तश्च॒त्वारि॑ च । 5 ।
वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णँ स॑ङ्ग॒रो दे॒वता॑सु । स ए॒तान्पाशा॑न् प्र॒मुच॒न् प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् । वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यत्स॑ङ्ग॒रम॒भिधावा॑म्या॒शाम् । अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तत्सु॑वामि । अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् । विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒स्सर्वा॑न्प॒थो अ॑नुष्व । स प्र॑जा॒नन्प्रति॑गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तञ्ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒ सञ्च॑रेम । 8 ।
त॒तन्तन्तु॒मन्वेके॒ अनु॒ सञ्च॑रन्ति॒ येषा॑न्द॒त्तं पित्र्य॒माय॑नवत् । अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातु॒ञ्चेच्छ॒क्नवाँ॒सस्स्व॒र्ग ए॑षाम् । आर॑भेथा॒मनु॒ सँर॑भेथाँ समा॒नं पन्था॑मवथो॒ घृ॒तेन॑ । यद्वां॑ पू॒र्तं परि॑विष्ट॒य्यँद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सँर॑भेथाम् । यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याय्यँन्मा॒तरं॑ पि॒तर॑व्वाँ जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गाऱ्ह॑पत्य॒ उन्नो॑ नेषद्दुरि॒ता यानि॑ चकृ॒म । भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त एनः । द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑वित्सि लो॒कात् । यत्र॑ सु॒हार्द॑स्सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोग॑न्त॒न्वाँ॒ स्वाया॑म् । अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तर॑ञ्च पु॒त्रम् । यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त वा॑ करि॒ष्यन् । यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु । यदन्न॒मद्मि॑ बहु॒धा विरू॑प॒व्वाँसो॒ हिर॑ण्यमु॒त गाम॒जामवि॑म् । यद्दे॒वाना॒ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णङ्कृ॑णोतु । यन्मे॒ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन । सर्वस्मा॑न्मेळि॑तो मो॒ग्धि॒ त्वँ हि वेत्थ॑ यथात॒थम् । 9 ।
च॒रे॒म॒ पु॒त्रँ षट्च॑ । 6 ।
वात॑रशना ह॒ वा ऋष॑यश्श्रम॒णा ऊ॒र्ध्वम॑न्थि॒नो ब॑भूवु॒स्तानृष॑यो॒ऽर्थमा॑य॒॒स्ते नि॒लाय॑मचर॒॒स्तेऽनु॑प्रविशुः कूश्मा॒ण्डानि॒ ताँस्तेष्वन्व॑विन्दञ्छ्र॒द्धया॑ च॒ तप॑सा च॒ तानृष॑योऽबुवन्क॒था नि॒लाय॑ञ्चर॒थेति॒ त ऋषी॑नब्रुव॒न्नमो॑ वोऽस्तु भगवन्तो॒ऽस्मिन्धा॑म्नि॒ केन॑ वस्सपर्या॒मेति॒ तानृष॑योऽब्रुवन्प॒वित्र॑न्नो ब्रूत॒ येना॑रे॒पस॑स्स्या॒मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न् यद्दे॑वा देव॒हेळ॑न॒य्यँददी॑व्यन्नृ॒णम॒हं ब॒भूवायु॑ष्टे वि॒श्वतो॑ दध॒दित्ये॒तैराज्य॑ञ्जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम॒ इत्युप॑तिष्ठत॒ यद॑र्वा॒चीन॒मेनो॑ भ्रूणह॒त्याया॒स्तस्मा॑न्मोक्ष्यध्व॒ इति॒ त ए॒तैर॑जुहवु॒स्तेऽरे॒पसो॑ऽभवन्कर्मा॒दिष्वे॒तैर्जु॑हुयात्पू॒तो दे॑वलो॒कान्त्सम॑श्नुते । 10 ।। 7 ।
। 7 ।
कू॒श्मा॒ण्डैर्जु॑हुया॒द्योऽपू॑त इव॒ मन्ये॑त॒ यथा॑ स्ते॒नो यथा॑ भ्रूण॒हैवमे॒ष भ॑वति॒ योऽयोनौ॒ रेत॑स्सि॒ञ्चति॒ यद॑र्वा॒चीन॒मेनो॑ भ्रूणह॒त्याया॒स्तस्मा॑न्मुच्यते॒ याव॒देनो॑ दी॒क्षामुपै॑ति दीक्षि॒त ए॒तैस्स॑त॒ति जु॑होति सव्वँत्स॒रन्दी॑क्षि॒तो भ॑वति सव्वँत्स॒रादे॒वात्मानं॑ पुनीते॒ मास॑न्दीक्षि॒तो भ॑वति॒ यो मास॒स्स स॑व्वँत्स॒रस्स॑व्वँत्स॒रादे॒वात्मानं॑ पुनीते॒ चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्स॑व्वँत्स॒रस्स॑व्वँत्स॒रादे॒वात्मानं॑ पुनीते॒ द्वाद॑श॒ रात्री॑र्दीक्षि॒तो भ॑वति॒ द्वाद॑श॒ मासा॑स्सव्वँत्स॒रस्स॑व्वँत्स॒रादे॒वात्मानं॑ पुनीते॒ षड्रात्री॑र्दीक्षि॒तो भ॑वति॒ षड्वा ऋ॒तव॑स्सव्वँत्स॒रस्स॑व्वँत्स॒रादे॒वा- त्मानं॑ पुनीते ति॒स्रो रात्री॑र्दीक्षि॒तो भ॑वति त्रि॒पदा॑ गाय॒त्री गा॑यत्रि॒या ए॒वात्मानं॑ पुनीते॒ न माँ॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नोपर्या॑सीत॒ जुगु॑प्से॒तानृ॑ता॒त्पयो॑ ब्राह्म॒णस्य॑ व्र॒तय्यँ॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्याथो॑ सौ॒म्येप्य॑ध्व॒र ए॒तद्व्र॒तं ब्रू॑या॒द्यदि॒ मन्ये॑तोप॒दस्या॒मीत्यो॑द॒नन्धा॒नास्सक्तू॑न्घृ॒तमित्यनु॑व्रतयेदा॒त्मनोऽनु॑पदासाय । 11 ।। 8 ।
। 8 ।
अ॒जान् ह॒ वै पृश्नीँ॑स्तप॒स्यमा॑ना॒न् ब्रह्म॑ स्वय॒म्भ्व॑भ्यान॑ऱ्ष॒त्त ऋष॑योऽभव॒न्तदृषी॑णामृषि॒त्वन्तान्दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञका॑मा॒स्त ए॒तं ब्र॑ह्मय॒ज्ञम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ यदृ॒चोऽध्यगी॑षत॒ ताः पय॑आहुतयो दे॒वाना॑मभव॒न् यद्यजूँ॑षि घृ॒ताहु॑तयो॒ यत्सामा॑नि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतयो॒ यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर्मे॑दाहु॒तयो॑ दे॒वाना॑मभव॒न्ताभिः॒ क्षुधं॑ पा॒प्मान॒मपा॑घ्न॒न्नप॑हतपाप्मानो दे॒वास्स्व॒र्गल्लोँ॒कमा॑य॒न् ब्रह्म॑ण॒स्सायु॑ज्य॒मृष॑योऽगच्छन् । 12 ।। 9 ।
। 9 ।
पञ्च॒ वा ए॒ते म॑हाय॒ज्ञास्स॑त॒ति प्रता॑यन्ते सत॒ति सन्ति॑ष्ठन्ते देवय॒ज्ञः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ इति॒ यद॒ग्नौ जु॒होत्य॒पि स॒मिध॒न्तद्दे॑वय॒ज्ञस्सन्ति॑ष्ठते॒ यत्पि॒तृभ्य॑स्स्व॒धा क॒रोत्यप्य॒पस्तत्पि॑तृय॒ज्ञस्सन्ति॑ष्ठते॒ यद्भू॒तेभ्यो॑ ब॒लिँ हर॑ति॒ तद्भू॑तय॒ज्ञस्सन्ति॑ष्ठते॒ यद्ब्रा॑ह्म॒णेभ्योऽन्न॒न्ददा॑ति॒ तन्म॑नुष्यय॒ज्ञस्सन्ति॑ष्ठते॒ यत्स्वा॑ध्या॒यमधी॑यी॒तैका॑मप्यृ॒चय्यँजु॒- स्साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञस्सन्ति॑ष्ठते॒ यदृ॒चोऽधी॑ते॒ पय॑सः॒ कूल्या॑ अस्य पि॒तॄन्त्स्व॒धा अ॒भिव॑हन्ति॒ यद्यजूँ॑षि घृ॒तस्य॑ कूल्या॒ यत्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गि॒रसो॒ मधोः॑ कूल्या॒ यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर्मेद॑सः॒ कूल्या॑ अस्य पि॒तॄन्त्स्व॒धा अ॒भिव॑हन्ति॒ यदृ॒चोऽधी॑ते॒ पय॑आहुतिभिरे॒व तद्दे॒वाँस्त॑र्पयति॒ यद्यजूँ॑षि घृ॒ताहु॑तिभि॒र्यत्सामा॑नि॒ सोमा॑हुतिभि॒र्यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑हुतिभि॒र्यद्ब्रा॑ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीर्मे॑दाहु॒तिभि॑रे॒व तद्दे॒वाँस्त॑र्पयति॒ त ए॑नन्तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ।। 13 ।। । 10 ।।
। 10 ।
ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒ प्राच्या॑न्दि॒शि ग्रामा॒दछ॑दिर्द॒ऱ्श उदी॑च्यां प्रागुदी॒च्याव्वों॒दित॑ आदि॒त्ये द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒ हस्ता॑वव॒निज्य॒ त्रिराचा॑मे॒द्द्विः प॑रि॒मृज्य॑ स॒कृदु॑प॒स्पृश्य॒ शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॒ यत्त्रिरा॒चाम॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः प॑रि॒मृज॑ति॒ तेन यजूँ॑षि॒ यत्स॒कृदु॑प॒स्पृश॑ति॒ तेन॒ सामा॑नि॒ यच्छिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ॑ते॒ तेनाथ॑र्वाङ्गि॒रसो॑ ब्राह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराशँ॒सीः प्री॑णाति॒ दर्भा॑णां म॒हदु॑प॒स्तीर्यो॒पस्थ॑ङ्कृ॒त्वा प्राङासी॑नस्स्वाध्या॒यमधी॑यीता॒पाव्वाँ ए॒ष ओष॑धीनाँ॒ रसो॒ यद्द॒र्भास्सर॑समे॒व ब्रह्म॑ कुरुते दक्षिणोत्त॒रौ पा॒णी कृ॒त्वा सप॒वित्रा॒वोमिति॒ प्रति॑पद्यत ए॒तद्वै यजु॑स्त्रयीव्विँ॒द्यां प्रत्ये॒षा वागे॒तत्प॑र॒मम॒क्षर॒न्त- दे॒तदृ॒चाऽभ्यु॑क्तमृ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न् यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॒ त्रीने॒व प्रायु॑ङ्क्त॒ भूर्भुव॒स्स्व॑रित्या॑है॒तद्वै वा॒चस्स॒त्यय्यँदे॒व वा॒चस्स॒त्यन्तत्प्रायु॒ङ्क्ताथ॑ सावि॒त्रीङ्गा॑य॒त्रीन्त्रिरन्वा॑ह प॒च्छो॑ऽर्धर्च॑शोऽनवा॒नँ स॑वि॒ता श्रियः॑ प्रसवि॒ता श्रिय॑मे॒वाप्नो॒त्यथो॑ प्र॒ज्ञात॑यै॒व प्र॑ति॒पदा॒ छन्दाँ॑सि॒ प्रति॑पद्यते । 14 । 11 ।
। 11 ।
ग्रामे॒ मन॑सा स्वाध्या॒यमधी॑यीत॒ दिवा॒ नक्त॑व्वेँ॒ति ह॑स्मा॒ह शौ॒च आ॑ह्ने॒य उ॒तार॑ण्ये॒बल॑ उ॒त वा॒चोत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न उ॒त शया॑नो॒ऽधीयी॑तै॒व स्वा॑ध्या॒यन्तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वव्विँद्वान्त्स्वा॑ध्या॒यमधी॑ते॒ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि । (15) । 12 ।
। 12 ।
म॒ध्यन्दि॑ने प्र॒बल॒मधी॑यीता॒सौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रा॑ह्म॒णस्तस्मा॒त्तऱ्हि॒ तेऽक्ष्णि॑ष्ठन्तपति॒ तदे॒षाऽभ्यु॑क्ता । चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॒श्चेति॒ स वा ए॒ष य॒ज्ञस्स॒द्यः प्रता॑यते स॒द्यस्सन्ति॑ष्ठते॒ तस्य॒ प्राक्सा॒यम॑वभृ॒थो नमो॒ ब्रह्म॑ण॒ इति॑ परिधा॒नीया॒न्त्रिरन्वा॑हा॒प उ॑प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किञ्च॒ ददा॑ति॒ सा दक्षि॑णा । (16) ।। 13 ।
। 13 ।
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ मेघो॑ हवि॒र्धान॑व्विँ॒द्युद॒ग्निऱ्व॒ऱ्षँ ह॒विस्स्त॑नयि॒त्नुर्व॑षट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑वषट्का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्विष्ट॒कृद्य ए॒वव्विँ॒द्वान्मे॒घे व॒ऱ्षति॑ वि॒द्योत॑माने स्त॒नय॑त्यव॒स्फूर्ज॑ति॒ पव॑माने वा॒याव॑मावा॒स्या॑याँ स्वाध्या॒यमधी॑ते॒ तप॑ ए॒व तत्त॑प्यते॒ तपो॑ हि स्वाध्या॒य इत्यु॑त्त॒मन्नाकँ॑ रोहत्युत्त॒मस्स॑मा॒नानां॑ भवति॒ याव॑न्तँ ह॒ वा इ॒माव्विँ॒त्तस्य॑ पू॒र्णान्दद॑त्स्व॒र्गल्लोँ॒कञ्ज॑यति॒ ताव॑न्तल्लोँ॒कञ्ज॑यति॒ भूयाँ॑सञ्चाक्ष॒य्यञ्चाप॑पुनर्मृ॒त्युञ्ज॑यति॒ ब्रह्म॑ण॒स्सायु॑ज्यङ्गच्छति ।।17।।14।
। 14 ।
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑नध्या॒यौ यदा॒त्माऽशुचि॒र्यद्दे॒शस्समृ॑द्धिर्दैव॒तानि॒ य ए॒वव्विँ॒द्वान्म॑हारा॒त्र उ॒षस्युदि॑ते॒ व्रज॒॒स्तिष्ठ॒न्नासी॑न॒श्शया॑नो॒ऽरण्ये॑ ग्रामे॒ वा याव॑त्त॒रस॑ स्वाध्या॒यमधी॑ते॒ सर्वा॑ल्लोँ॒काञ्ज॑यति॒ सर्वा॑ल्लोँ॒कान॑नृ॒णोऽनु॒ सञ्च॑रति॒ तदे॒षाभ्यु॑क्ता । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिस्तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणा॒स्सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मेत्य॒ग्निं वै जा॒तं पा॒प्मा ज॑ग्राह॒ तन्दे॒वा आहु॑तीभिः पा॒प्मान॒मपा॑घ्न॒न्नाहु॑तीना- य्यँ॒ज्ञेन॑ य॒ज्ञस्य॒ दक्षि॑णाभि॒र्दक्षि॑णानां ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भि॒श्छन्द॑साँ स्वाध्या॒येनाप॑हतपाप्मा स्वाध्या॒यो॑ दे॒वप॑वित्र॒व्वाँ ए॒तत्तय्योँऽनू॑त्सृ॒जत्यभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के तदे॒षाऽभ्यु॑क्ता । यस्ति॒त्याज॑ सखि॒विदँ॒ सखा॑य॒न्न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीँ॑ शृ॒णोत्य॒लकँ॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॒ तस्मा॑त्स्वाध्या॒योऽध्ये॑त॒व्यो॑ यय्यँ॑ड्क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यङ्गच्छति॒ तदे॒षाऽभ्यु॑क्ता । ये अ॒र्वाङु॒त वा॑ पुरा॒णे वे॒दव्विँ॒द्वाँस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते परि॑वदन्ति॒ सर्वे॑ अ॒ग्निन्द्वि॒तीय॑न्तृ॒तीय॑ञ्च हँ॒समिति॒ याव॑ती॒र्वै दे॒वता॒स्तास्सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा॑ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वेदि॑वे॒ नम॑स्कुर्या॒न्नाश्ली॒लङ्की॑र्तयेदे॒ता ए॒व दे॒वताः॑ प्रीणाति । (18) ।। 15 ।
। 15 ।
रिच्य॑त इव॒ वा ए॒ष प्रेव रि॑च्यते॒ यो या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑ या॒जयि॑त्वा प्रतिगृ॒ह्य वाऽन॑श्न॒न्त्रिः स्वा॑ध्या॒यव्वेँ॒दमधी॑यीत त्रिरा॒त्रव्वाँ॑ सावि॒त्रीङ्गा॑य॒त्रीम॒न्वाति॑रेचयति॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वर॑स्पृणोत्या॒त्मा हि वरः॑ । (19) ।। 16 ।
। 16 ।
दु॒हे ह॒ वा ए॒ष छन्दाँ॑सि॒ यो या॒जय॑ति॒ स येन॑ यज्ञक्र॒तुना॑ या॒जये॒त्सोऽर॑ण्यं प॒रेत्य॑ शुचौ दे॒शे स्वा॑ध्या॒यमे॒वैन॒मधी॑यन्नासी॒त तस्या॒नश॑नन्दी॒क्षा स्था॒नमु॑प॒सद॒ आस॑नँ सु॒त्या वाग्जु॒हूर्मन॑ उप॒भृद्धृ॒तिर्ध्रु॒वा प्रा॒णो ह॒विस्सामा॑ध्व॒र्युस्स वा ए॒ष य॒ज्ञः प्रा॒णद॑क्षि॒णोऽन॑न्तदक्षिण॒स्समृ॑द्धतरः । (20) ।। 17 ।
। 17 ।
क॒ति॒धाव॑कीर्णी प्रवि॒शति॑ चतु॒र्धेत्या॑हुर्ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण॒ तस्यै॒तां प्राय॑श्चित्तिं वि॒दाञ्च॑कार सुदे॒वः का॑श्य॒पो यो ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑याँ॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घात॑ञ्जुहोति॒ कामाव॑कीर्णो॒ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒ स्वाहेत्य॒मृत॒व्वाँ आज्य॑म॒मृत॑मे॒वात्मन्ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ॒ग्निम॒भिम॑न्त्रयेत॒ सम्मा॑ऽऽसिञ्चन्तु म॒रुत॒स्समिन्द्र॒स्सं बृह॒स्पतिः॑ । सम्मा॒यम॒ग्निस्सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तङ्करोत॒मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान्द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॑र्ब्रह्मवर्च॒सं प्रत्य॒ग्निरि॒तर॒त्सर्वँ॒ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा योऽपू॑त इव॒ मन्ये॑त॒ स इ॒त्थञ्जु॑हुयादि॒त्थम॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒मायु॑रे॒वात्मन्ध॑त्ते॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वर॑ स्पृणोत्या॒त्मा हि वरः॑ । (21) ।। 18 ।
। 18 ।
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भुव॒स्स्वः॑ प्रप॑द्ये॒ ब्रह्म॒ प्रप॑द्ये ब्रह्मको॒शं प्रप॑द्ये॒ऽमृतं॒ प्रप॑द्येऽमृतको॒शं प्रप॑द्ये चतुर्जा॒लं ब्र॑ह्मको॒शय्यँम्मृ॒त्युर्नाव॒पश्य॑ति॒ तं प्रप॑द्ये दे॒वान् प्रप॑द्ये देवपु॒रं प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ऽहन्तेज॑सा॒ कश्य॑पस्य॒ यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मू॒र्धानं॑ ब्र॒ह्मोत्त॑रा॒ हनु॑र्य॒ज्ञोऽध॑रा॒ विष्णु॒र् हृद॑यँ सव्वँत्स॒रः प्र॒जन॑नम॒श्विनौ॑ पूर्व॒पादा॑व॒त्रिर्मध्यं॑ मि॒त्रावरु॑णावपर॒पादा॑व॒ग्निः पुच्छ॑स्य प्रथ॒मङ्काण्ड॒न्तत॒ इन्द्र॒स्ततः॑ प्र॒जाप॑ति॒रभ॑यञ्चतु॒र्थँ स वा ए॒ष दि॒व्यश्शा॑क्व॒रश्शिशु॑मार॒स्तँ ह॒ य ए॒वव्वेंदाप॑ पुनर्मृ॒त्युञ्ज॑यति॒ जय॑ति स्व॒र्गल्लो॒कन्नाध्वनि॒ प्रमी॑यते॒ नाप्सु प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नान॒पत्यः॑ प्रमी॒यते॑ ल॒घ्वान्नो॑ भवति ध्रु॒वस्त्वम॑सि ध्रु॒वस्यक्षि॑तमसि॒ त्वं भू॒ताना॒मधि॑पतिरसि॒ त्वं भू॒तानाँ॒ श्रेष्ठो॑ऽसि॒ त्वां भू॒तान्युप॑ प॒र्याव॑र्तन्ते॒ नम॑स्ते॒ नम॒स्सर्व॑न्ते॒ नमः॑ । (22) ।। 19 ।
। 19 ।
सह॒ रक्षाँ॑सि॒ यद्दे॑वास्स॒प्तद॑श॒ यददी॑व्यं॒ पञ्च॑द॒शायु॑ष्टे॒ चतु॑स्त्रिँशद्वैश्वान॒राय॒ षड्विँ॑शति॒र्वात॑रशना ह कूश्मा॒ण्डैर॒जान् ह॒ पञ्च॑ ब्रह्मय॒ज्ञेन॒ ग्रामे॑ म॒ध्यन्दि॑ने॒ तस्य॒ वै मेघ॒स्तस्य॒ वै द्वौ रिच्य॑ते दु॒हे ह॑ कति॒धाव॑कीर्णी॒ भूरेका॒न्नविँ॑शतिः । 19 । सह॒ वै कू॑श्मा॒ण्डैः क॑ति॒धाव॑कीर्णी॒ द्वार्विँ॑शतिः ॥ 22 ॥ सह॒ वै सर्व॑न्ते॒ नमः॑ ॥ हरिः ओम् । श्रीकृष्णार्पणमस्तु । द्वितीयः प्रश्नः समाप्तः ॥