०१
तैत्तिरीयारण्यके अष्टमः प्रपाठकः ॥
1अथ प्रवर्ग्यस्य पुराकल्पः - देवा वा इत्यादि ॥ देवाः पुरा सत्रमासत ऋद्धिपरिमितं कालं यावत्फलसिद्धिर्भवति तावन्तं कालं यशस्कामा वीर्यकामाः । ते अन्योन्यम् अब्रुवन् अस्माकं मध्ये यं प्रथमं यश ऋच्छात् प्राप्नुयात् तदीयं यशः सर्वेषाम् अस्माकं सत्रिणां सह भवेद् इति । तेषां कुरुक्षेत्रं नाम पुण्यो देशः महावेदिरासीत् तस्या वेदेर् दक्षिणपार्श्वं खाण्डवो देशोऽभवत् । तूर्घ्नो देश उत्तरपार्श्वमपरं पार्श्वम् । परीणन् नाम देशः जघनार्धः । उत्करो मरवः मरुदेशाः । तेषां मध्ये मखं यज्ञं वैष्णवं यशः विष्णोस्स्वभूतं वीर्यम् आर्छत् प्रापत् ॥
2स मखस् तद् यशो न्यकामयत चौर्येणात्मनि कर्तुमैच्छत् । तेन तस्माद्देशाद् अपाक्रामद् अपक्रान्तः । तम् अपक्रान्तं यशोऽवरुरुत्समाना लब्धुकामा देवा अन्वायन अन्वगच्छन् । तैर् अन्वागतस्य तस्य सव्याद् धनुरजायत दक्षिणादिषवः जाताः । यज्ञजातत्वाद् इषुधन्वम् इषवश्च धनुश्च समाहारः । पुण्यजन्म पुण्योपादानम् । तं धन्वानं यज्ञम् एकम् असहायं सन्तं बहवो देवा नाभ्यधृष्णुवन् अभिभवितुं न समर्थास्स्युः । तस्माद् अद्याप्य् एकमिषुधन्विनं बहवस् तद्रहिता न अभिभवन्ति ॥
3स यज्ञो ऽस्मयत दृप्तोऽभवत् । तस्य स्मयमानस्य तेजो वीर्यमपाक्रामत् । तद् वीर्यं न्यमृजुर् अलिम्पन् । तल्लिप्ता ओषधयः श्यामाकनामानो ऽभवन् । स्मयेन कृतत्वात् स्मयाकाः । अपिगृह्य मुखं सञ्च्छाद्य किमर्थं? तेजसो धारणाय ॥
4प्रतिष्कभ्य भूम्यामवष्टभ्य उपदीकाः स्त्रियः हे देवाः! इमं वरम् अस्माकं दत्त । अथ अनन्तरं युष्माकम् इमं यज्ञं रन्धयाम । रन्ध पाके पीडयामः । वर उच्यते - यत्र क्वचन देशे समजले वा निर्जले वा खनाम तत्रापोऽभिमृष्यामेति । वारे वरसम्बन्धिनि काले वृतं हि । ताः स्त्रियस् तस्य ज्याम् आऽभक्षयन् । विप्रवमाणं प्लवमानमुन्नम्यमानं तस्य यज्ञस्य शिर उदवर्तयद् उद्वृत्तमकरोद् अच्छिनदित्यर्थः । तत् शिरो द्यावापृथिव्य् अनुप्रावर्तत वेगातिरेकाद् उभौ लोकावस्पृशत् । प्रवर्तनात् प्रवर्ग्यः वर्णव्यत्ययः । घ्राँ इत्य् एवंरूपं शब्द कुर्वद् अपतत् । शब्दाद् घर्मः । महतो यज्ञस्य वीर्यमपतदिति महावीरः । अस्या भूमेः सम्भृतवन्तः मृत्खननादिरूपेण सम्भारेण । भकारलोपात् सम्राट् ॥
5तं स्तृतं हिंसितं यज्ञं देवास्त्रेधा विगृहीतवन्तः । तान् त्रीन् भागानग्न्यादयोऽगृह्णन् । अपशीर्ष्णा विशिरस्केन यज्ञेन यजन्त आशिषो ऽङ्गफलानि । प्रधानफलं स्वर्गः ॥
6शिरसस्सन्धानार्थम् अश्विनावब्रुवन् युवां भिषजौ स्थः खलु यज्ञस्य छिन्नम् इदं शिरः प्रतिधत्तं यथापूर्वं स्थापयतम् । तौ ऊचतुर् वचनम् अत्र यज्ञे आवयोः सोमग्रहो गृह्यतामिति । तदा आश्विनं प्रसिद्धम् । यदेतत्प्रवर्य इत्युक्तं तद् यज्ञस्य शिरोऽस्थापयताम् । तस्मात् सशिरस्केन यज्ञेन प्रवर्ग्यवता यज्ञेन यजन्त आशिषः स्वर्गं चावारुन्धत । तस्माद्यजमानोपि सप्रवर्येण यज्ञेन यजेतेति विधिः । आशिषं स्वर्गं च जयति । तस्मात् कारणाद् एष प्रवर्ग्य आश्विनप्रधान इव भवत्य् आश्विनभूयिष्ठ इव भवत्य् अश्विभ्यां संहितत्वात् ॥
इत्यष्टमप्रपाठके प्रथमोऽनुवाकः ॥
०२
1सावित्रमित्यादि ॥ सवितुः प्रसूत्यै अनुज्ञानार्थम् । चतुर्गृहीतेनेति विधिः । चतस्रो महादिशः । छन्दांसीत्यादि चतुर्गृहीतस्यार्थवादः । गायत्र्यादीनि मन्त्रगतानि छन्दांसि देवेभ्यो ऽपगतानि युष्माकं वयम् अभागानि सन्ति न हव्यं वक्ष्याम इत्युक्त्वा । ततस्ते देवास् तेभ्यश् छन्दोभ्यश् चतुर्गृहीतं निश्चितवन्तः पुरोनुवाक्यादिभ्य एकमेकमिति । यच्चतुर्गृहीतमिति । गतम् ॥
2दीक्षाहस्सु महावीरकरणे सावित्रं प्रति संशयाना वेदवादिन आहुः - दीक्षितस्य गृहे अग्निहोत्रे यत्किचिद्धोतव्यं न वेति । ‘विचार्यमाणानाम्’ इति प्लुतः । हविर्वै दीक्षितः हविरन्तरोत्पत्तेः प्राक् स्वयमेव हविर्भूतस्तिष्ठति । तथा च श्रूयते - ‘पुरा खलु वावैष मेधायात्मानमारभ्य चरति यो दीक्षितः’ इति । तस्माद् यदि जुहुयात् हविस्सामान्यादनुपूर्वहोमे यजमानमेव अग्नौ प्रदधाति । न जुहोति चेद् यज्ञपरुः ‘सावित्रं जुहोति’ इत्युक्तं यज्ञपर्वान्तरितं कुर्यात् । तस्माद् यजुरेव मन्त्रमेव वदेन् न होमः । एवं कृते उभयरूपो दोषः शाम्यति ॥
3अब्भ्रिवृक्षार्थवादः - गायत्र्य् अन्यानि छन्दांसि प्रकृत्यात्मानं महान्तं मेने । तस्या गायत्र्याः शिरः वषट्कारो ऽभ्येत्य अच्छिनत् । छिन्नशिरस्काया रसः सारं द्विधा परापतद् अर्ध एकोऽंशः पृथिवीं प्राप्तः खदिरोऽभवत् । पशुप्रविष्टोऽन्यो ऽजाऽभवत् । विभक्तिव्यत्ययः । यत्खादिर्यब्भ्रिरिति तस्माच् छन्दसां रसेन यज्ञस्य शिरः महावीरं सम्भरति । यद्य् औदुम्बर्य् ऊर्क् अन्नम् उदुम्बरः ‘देवा वा ऊर्जं व्यभजन्त’ इत्युक्तम् अन्नेनैव सम्भरति । ‘स वेणुं प्राविशत्’ इत्युक्तत्वात् तेजो वै वेणुः । ‘अग्नेस्सृष्टस्य यतः । विकङ्कतं भा आर्छत्'5 इत्युक्तत्वाद् वैकङ्कती चेद् भा दीप्तीर् एवावरुन्धे ॥
4देवस्येत्यादि ॥ प्रसूत्यै सवितुरनुज्ञानार्थम् । पुरा देवानाम् आश्विनौ अध्वर्य्व् आस्ताम् । यत्यै प्रयत्नार्थम् । वज्र इव तीक्ष्णाग्रत्वात् । नराणां हितेत्याह यज्ञस्य शान्यै । यज्ञो ह्य् अध्वरो ऽहिंस्यः । मृत्खननसाधनत्वाद् यज्ञकृत् । ब्रह्मणा परमात्मना सहायभूतेन महावीरं प्रतिगच्छति । ब्रह्मणा सह प्रेत्य गत्वा । यज्ञो वै सूनृता मन्त्रात्मिका वाक् । पाङ्क्तः हविष्पङ्क्त्यादिरूपेण यज्ञः पाङ्क्तः । यज्ञनायकान् देवानेव करोति नात्मानम् । आभ्यां द्यावापृथिवीभ्यामेवानुज्ञातः । अद्य यज्ञशिरः प्रत्य् ऋद्धो भूयासमित्येवाह । एतदहः निर्दिश्य यज्ञस्यैव तन्नान्यार्थमित्युक्त्वा हरति ॥
5त्रिर्हरणाद् लोकत्रयात्मानं सम्भरति । तूष्णीं चतुर्थम् अपरिमिताद् ब्रह्मणः । मृत्खनात् । प्रथमं खाता भूमिर् मृत्खनः करुण्यतमः कर्मण्यः श्रेष्ठः । अस्यां भूम्याम् एव अछम्बट्कारं सत्यङ्कारं वराहविहतत्वात् । एता उपदीकाः स्त्रियः पृथिव्या उर्जं बलवद्रसम् उद्दिहन्त्य् उर्ध्वं गमयन्ति यद् एतद् वल्मीकम् । वल्मीकवपा सम्भारो भवतीति यत् पृथिव्या बलवद् रसं लभते । अथो श्रोत्रमेव अथो अपि च श्रोत्रमिन्द्रियं लभते । तस्माद् वल्मीकः पृथिव्याः श्रोत्रं छिद्ररूपत्वात् । य एवं विद्वान् सो ऽबधिरो भवति ॥
6ऊतीकस्तम्बविधिः - वृत्राय वृत्रनाशाय वज्रमुदयच्छत् । स इन्द्रः यत्रयत्र स्थित्वा पराक्रममकरोत् तत्रतत्र नाध्रियत धृतिं नाविन्दत् । स पूतीकस्तम्बे स्थित्वा पराक्रमत । स धृतिमविन्दत् । हे पूतीक! मे ऊतिं रक्षणम् अधा अददः । ऊतिशब्दोक्त्या पूतीका ऊतीका इत्युच्यन्ते । एतेन यज्ञाय रक्षणं दधति ॥
7पशुप्रविष्टं रसं लभते । पञ्चैते मृत्खननवराहविहतवल्मीकवपोतीकस्तम्बाजापयांसि । पाङ्क्तो यज्ञ इत्यादि गतम् ॥
8यदि ग्राम्याणां गवादीनां शुचा शोकेन छिन्नशिरस्समुत्थेन अर्पयेत् संयोजयेत् । आरण्यान् द्विखुरादीन् एव । तस्मात् कारणात् समावत् सममेव प्रजायमानानां पशूनां मध्ये आरण्याः कनीयांसो ऽल्पतराः शुचा शोकेन ऋता गताः प्राप्ता हि । लोमतः रोमशप्रदेशे सम्भरति । अस्य कृष्णाजिनस्य अतो ऽयं प्रदेशो मेध्यं यज्ञार्हं सम्भृतं प्रवर्ग्यं परितो गृहीत्वाऽऽयन्ति रक्षसाम् अपहननाय । बहवो ऽपचितिं पूजाम् । उद्धते स्फ्यादिना सिकतोपोप्ते परिश्रिते खरे निदधति शान्त्यर्थम् ॥
9मदन्तीभिर् उष्णाभिर् अद्भिर् उपसृजति सम्भारान् संसृजति । उष्णत्वात् तेजः ब्रह्मणा रसात्मकेन परमात्मना ग्राम्याणां पात्राणां कपालैः । तान् शोकेन । संसृजत्य् अर्मकपालैः । धृत्यै धारणर्थं शन्त्वाय शङ्करत्वाच्छान्तत्वाय । अग्नेः पिया तनूः शरीरम् अजा सहोत्पन्नत्वात् । तेजसा अग्निजत्वात् । यज्ञो वै कृष्णाजिनं यतः यज्ञो देवेभ्यः कप्णो भूत्वा निरार्छत् । ऋक्सामरूपत्वाच्च । यज्ञं यज्ञशिरः ॥
इति द्वितीयोऽनुवाकः ॥
०३
1परिश्रिते देशे महावीरं करोति ब्रह्मवर्चसस्य परिग्रहार्थम् । महावीरं कुर्वाणस्तं न अभ्युच्छ्वसेत् । तत्संसर्गात् स्वीयान् प्राणान् शोकेन संयोजयति । तस्माद् अपहाय अन्यत्र प्राणिति गोपीथाय रक्षणार्थम् । प्रवर्ग्यसाधनादित्ययोर् अन्तरा मध्ये न गच्छेत्! यद्य् अन्तरा गच्छेद् द्वयोस्तेजसोर् दहनाद् दश्चर्मा कुष्ठी भवति । तस्माद् अन्तरा न गन्तव्यम् । वेणुना वेणुकाण्डेन करोति । प्रवर्ग्यस्य आदित्यात्मकत्वात् तेजः । तेजसा तेजः समृद्धं करोति । महावीरं यज्ञशिरस्त्वान् मखस्य शिरोसीति ब्रूयात् । एते अङ्गुष्ठे यज्ञस्य पदे स्थाने द्वित्वात् प्रतिष्ठार्थं च । छन्दोभिरेव नात्मना । त्रिःप्रदानं त्रिःकरणं त्र्युद्धिः । वीर्यं [वीर्यप्रदं] छन्दः वीर्यम् ॥
2यजुषा बिलं व्यावृत्त्यर्थं लौकिकवैदिकयोः । इयन्तं प्रादेशमात्रम् । यज्ञसाधनानां समिदादीनां प्रमाणत्वाद् यज्ञपरुषा सम्मितम् । यद्वा यज्ञशिरः प्रादेशमात्रं परुः । एतावन् मुखसम्मितं वीर्यम् । अपरिमितं परिमाणरहितम् । परिग्रीवं परितो ग्रीवाकारं मध्ये लग्नमिति यावत् । धृत्यै धारणार्थम् । अश्वशकेन अश्वशकृता । निष्पन् निष्पन्नम् । अभीद्धः दीप्तः । ब्रह्मणा परमात्मना देवताभिश्च । आशा दिश आपृणेत्युक्तो ऽग्निः सर्वतो विभाति ॥
3सूर्यस्य चक्षुषा दर्शनाच् चक्षुः रक्षितं भवति । विशेति राजन्यस्येति विकल्पः । असुर्यम् असुरदेवत्यम् अनाच्छृण्णम् अनक्तं देवत्रा देवयोग्यम् अकः करोति । परमम् आग्नेयत्वात् ॥
इति तृतीयोऽनुवाकः ॥
०४
1ब्रह्मण एव निवेदयित्वा प्रचरति ॥
2अभिपूर्वं सादनक्रमेण । अनवानम् अनुच्छ्वसन् ॥
3त्रिष्टुभस्सतीरित्यादिविकल्पः । सन्ततमिति तस्यैव ॥
4मध्वा आज्येन । तद्धि तेजः ॥
5प्रलवान् छिन्नान् मुञ्जान् उपास्यति महावीरस्याधस्तात् क्षिपति ॥
6यजमानस्याशीःकामा अन्ये ऋत्विजो न सन्ति । पुरस्तादाशीः प्रवर्ग्यादिः । उपरिष्टादाशीर् दर्शपूर्णमासादिः । शीर्षतः मुखतः ॥
7दिशोऽनुभ्रमितुं समर्थः ॥
8राजा ऐश्वर्येण सजातैर् ज्ञातिभिः पर्यूढः परिहितः ॥
9द्यावापृथिवीव्यावृत्त्यर्थम् ॥
10त्र्यावृत् त्रित्वभूयिष्ठम् ॥
11एतां प्रियां तनुवं राजन्यापत्यम् उग्रदेव आक्रमितवान् ॥
12अव्यतिषङ्गम् अविपर्यस्तम् ॥
13विनिषद्य विविधमुपविश्य । ऊर्ध्वं नावाचीनम् । सर्वतः सर्वासु दिक्षु । अयं वायुः सर्वतः सर्वत्र गच्छति ॥
इत्यष्टमप्रपाठके चतुर्थोऽनुवाकः ॥
०५
1अग्निष्ट्वेति स्पष्टः ॥
2अरोचयित्वा मन्त्रदीप्तिमकृत्वा । अरोचुकः रुचिहीनः ॥
इत्यष्टमप्रपाठके पञ्चमोऽनुवाकः ॥
०६
1ग्रीवास्थानीया उपसदः । अग्निष्टोमं प्रकृत्य उच्यते प्रवृणक्तीत्यनारभ्याधीतत्वात् ॥
2द्वादशकृत्व इत्याद्यहीनेषु । सकृदेव सद्य एव सुत्यायाम् ॥
3उक्थ्यसंस्थे क्रतौ न प्रवृञ्जयात् । ‘तन्तुरसि प्रजाभ्यस्त्वा पृतनाषाडसि पशुभ्यस्त्वा रेवदस्योषधीभ्यस्त्वा’ इत्युक्थ्यानि ॥
4विश्वजित्य् उक्थ्यसंस्थेऽपि । पृष्ठानि सम्भूय स्थितान्य् अच्युतं चालयितुमशक्यं धनादिकं परेभ्यश् च्यावयन्ति ॥
5वियातयति विविधं यत्नं करोति । मधुमाध्वीभ्यामिति मन्त्रशब्दाद्वसन्तत्वम् । अग्निरग्निनेति घर्मरूपत्वाद् ग्रीष्मः । समग्निरग्निना गतेति पूर्वोक्तमर्थं स्वाहा समग्निरित्य् अभिगृणाति पुनर्वदति । त्रैलोक्याधारत्वाद् वार्षिकत्वम् । हृदयादेस्तुष्टत्वात् शरत् । विश्वभुवनपतित्वात् हैमन्तिकत्वम् । देवेषु श्रूयमाणत्वात् शिशिरः ॥
6मेध्या यज्ञीया ॥
7आदित्यत्वेन घर्मस्स्तूयते - गर्भो देवानामित्यादिना ॥
8आदित्यप्रवर्ग्यौ अविवादं प्रतिशास्ति ॥
9अवकाशास् तत्सञ्झा मन्त्राः ॥
10होत्राभिर् ऋत्विग्भिः ॥
11रुचित दीप्तम् ॥
12अपश्यं गोपामिति मन्त्रत्रातृत्वाद् आयुष्मन्तः ॥
13पुरुषनिरीक्षणात् पत्नी प्रसूयते । तिरस्कृत्य वेदेन ॥
14त्वष्टीमतीति ॥ पत्या सपान् मेहनात् ॥
इत्यष्टमप्रपाठके षष्ठोऽनुवाकः ॥
०७
1यजुष्कृत्यै मन्त्रसंस्काराय ॥
2शफोपयमान् शफौ उपयमं च ॥
3ऊर्जो ऽन्नस्य भागं करोति । प्रतिदधतौ यथास्थानं स्थापयन्तौ । वषट्क्रियातै होतव्यम् ॥
4पुनरपि वषट्कारे यातयामत्वम् ॥
6गार्हपत्याग्नौ प्रवृज्याहवनीयहोमे व्यृद्धिः ॥
6यज्ञस्य आत्मा वायुः ‘अयं वाव यः पवते स यज्ञः’ इत्युक्तत्वात् । उद्यत्य आदाय पञ्चानवानमित्युक्तम् आह ॥
7यमसवित्रोर्विशेषणैः सह दश सम्पद्यन्ते देवताः ॥
8रौहिणाभ्यां हुताभ्यां स्वर्गारोहणम् ॥
9अह्ना परस्ताद् उर्ध्वं दाधार अवस्तात् पाताळे । अहोरात्राभ्यां धृतस् तदायत्तस्थितिर्भवति ॥
इत्यष्टमप्रपाठके सप्तमोऽनुवाकः ॥
०८
1एनमभिघारयत्येव । हविरेव करोति ॥
2उभयेषु देवपितृषु । पिन्वते रक्षति । पिन्वमानः दानशीलः पुण्यः देवत्रा देवेषु करोति । समेधन्ते वर्धन्ते ॥
3निरर्थ नाशं गमयति ॥
4रौद्रस्य सर्वतः पात्रात् । शान्त्यै रौद्रं नान्वीक्षेत न पश्येच् चक्षुः प्रमायुकं मरणशीलं स्याद् अन्धो भवतीति यावत् ॥
5प्रथमप्रवर्ग्यं प्रति विकारः भूस्स्वाहेति प्रथमे ॥
6इन्द्रतम ईश्वरतमः ॥
7प्रवर्ग्यं भक्षयिता संवत्सरं न मांसमश्नीयान् न रामां शूद्राम् उपेयात् । रामः शूद्रः । संश्यति तीक्ष्णीकरोति ॥
8विभ्राजि विम्राजमाने सौर्ये सूर्यापत्ये ब्रह्म प्रवर्ग्यमन्त्रं सन्न्यदधत सन्न्यदधुः । दिवाकीर्त्यं सौर्यत्वात् । एतेन व्रतेन अमांसाशनादिना तद् ब्रह्म अरक्षत् । सौर्यस्य सूर्यापत्यस्य विभ्राजः विभ्राण्णाम्नः ॥
इत्यष्टमे अष्टमोऽनुवाकः ॥
०९
1अवयजते नाशयति । इयतीति त्रिर्वचनेन जानुनाभिग्रीवामात्रा उच्यन्ते ॥
2दिव एव स्वर्गार्थम् । प्रजा वर्णान् ॥
3दक्षिणा दक्षिणायाम् । प्रत्यञ्चं प्रतीच्याम् उदश्चम् उदीच्यां च यद्य् उद्वासयेज् जिह्मं कुटिलम् । औदुम्बर्यामुद्वासयेत् ॥
4वर्ल्सना मार्गेण अन्वित्यानुगत्य । पुरुषःपुरुष एकैकशः पृथग्भिः रक्षोभिर् बाध्यते ॥
5यत्पृथिव्यामिति हिरण्यनिधानार्थवादः ॥
6अनशनायुको ऽशनापीडारहितः । रन्तिं गन्धर्वं प्रवर्ग्यम् । अनुव्रजनादिकम् उद्वास उवासयितुम् ॥
इति नवमोऽनुवाकः ॥
१०
1प्रजापतिं गोभूतं शुक्रं सारं पयः देवा दुदुहुः । न व्यभवद् अभिवृद्धं नाभूत् । तदग्निर् व्यकरोद् विकृतमकरोत् । तानि विकृतानि दैवतानि सामानि । तेषां साम्नां शुक्रं यजूंषि प्रवर्ग्यमन्त्राः । एतानि यजूंषि सारात् सारतराणि । एतयोर् गोऽजापयसोर् अन्यत् सामपयसम् अन्यदेवानां यजुषाम् । तदेव स्पष्टयति - यद्गोरिति । तत्पयसा प्रजापतिः [तेः] पयसा ॥
2मुखम् आस्यम् । यत्रोद्वासितं वयांसि पक्षिणः । परि समां परितस्संवत्सरम् एताः प्रजाः पक्षिण आसते तस्यामेव ॥
3पुरो वेत्यादि ॥ एतद् आदित्याख्यं ज्योतिः ॥
4ताजक् शीघ्रम् । अपामनूज्झावर्यः सारतर इतो ऽस्माल्लोकाद् उदीरयत्य् उर्ध्वं गमयति । नियच्छति नियमयति । धन्वना भूप्रदेशेन यन्ति गच्छन्ति ॥
इति दशमोऽनुवाकः ॥
११
1प्रायश्चित्तार्था देवताः - प्रजापतिरित्यादि ॥
2वसीयांसं श्रेष्ठं यथानामम् अनर्थकृतेन नाम्ना उपचरति पूजयति स तस्य पुण्यार्तिं पुण्यनाशं कामयते । एवं विदुषः पुण्यस्यार्तिं कामयन्ते । तस्मात् कारणाद् एवं विद्वान् - घर्म इत्यादि । यद्वा - विद्यादिना श्रेष्ठं यो यथामानं कालानुकूलेन नाम्ना आह्वयति स तस्य पुण्ये आर्तिं व्यसनं पुण्यार्तिं तस्य पुण्यशीलतां कामयते । तस्माद् घर्मकालानुकूलेन नाम्ना वदेदित्यर्थः ॥
3जनतां ग्रामादि । अनुव्यभवन् अन्वगच्छन् चतुर्विंशतिर् द्वादशाहं प्रकृत्य जनं ग्रामम् । अभिकीर्यमाणो ऽङ्कुरैः ॥
4अमृन्मयम् उदपात्रम् आहुतिं हविर् नाश्नुते । अथ कस्मात् । यज्ञे क्रियते वागेष इति । प्रवर्ग्य इयं वाक् द्वादशाहे द्वादशधा प्रजापतिरेव कृतः । अवकाशेभ्यो ऽवकाशमन्त्रेभ्यः । एष आदित्यः ॥
इत्य् एकादशोऽनुवाकः ॥
१२
1प्रथमेऽह्नि प्रवृज्यते तेन सविता भूत्वा यजमानस्सर्वान् कामान् प्राप्नोति । एतेन उत्तरे व्याख्याताः ॥
2तस्मात् कर्मण इतो लोकाद् गच्छन् स्वर्गादिं तपन् गच्छति । अमुतो लोकाद् इमान् लोकान् सर्वत आदित्यात्मा तपतीत्येव । आदित्यो भवतीत्यर्थः ॥
इति भट्टभास्करमिश्रविरचिते तैत्तिरीयारण्यकभाष्ये अष्टमप्रपाठके द्वादशोऽनुवाकः ॥
सम्पूर्णमारण्यकम् ॥