०१
1अथ शौक्रियं काण्डमारभ्यते । आरण्यकत्वाद् अस्मिन्प्रदेशे मन्त्रब्राह्मगयोराम्नानम् । उभयं सोमार्षेयम् । तत्रादौ शान्तिमुपयन्ति - नमो वाच इति ॥ नमो वाचे वेदात्मिकायै मन्त्रात्मने ब्राह्मणात्मने च । या च अस्माभिर् उदिता उक्ता अधीता । या च अनधीता तस्यै सर्वस्यै वाचे नमः । अथ नमो वाचे वागभिमानिन्यै सरस्वत्यै देव्यै नमः । अथ नमो वाचस्पतये ब्रह्मणे । अथ नम ऋषिभ्यः द्रष्टृभ्यः मन्त्रकृद्यः मन्त्राणां द्रष्टृभ्यः । दर्शनमेव कर्तृत्वं वेदस्य कर्तुरस्मरणात् । मन्त्रपतिभ्यः मन्त्रदेवताभ्यस् ते च मन्त्रकृतो मन्त्रपतयश्च मा मां परादुर् मा त्याक्षुः । अहं च तानुभयान् मा परादां मा त्याक्षम् । किञ्च - वैश्वदेवीं विश्वेषां देवानां सम्बन्धिनीं तेभ्यो हितत्वात् तादृशीमेव वाचम् उद्यासं वदितुं समर्थो भूयासं शिवां सुखहेतुम् अदस्ताम् अनुपक्षीणां देवेभ्यो जुष्टां प्रियम् ॥
2शर्म मे द्यौरित्य् अनुष्टुप् ॥ द्युप्रभृतयोऽधुना शर्म सुखहेतवो भवन्तु मे तादृशीं वाचं वदतः ब्रह्मा स्रष्टा प्रजापतिः परमात्मा तावुभौ शर्म यच्छताम् ॥
3अतः परम् अहं भूतं यथार्थमेव वदिष्ये वदिष्यामि । भुवनं सर्वभावभवन साधनं तदनुकूलं वदिप्यामि तस्मै तादृशाय विशिष्टाय प्रयोजनाय अहमिदमुपस्तरणस्थानीयं कर्म उपस्तृणे आरभे । उपस्तरणमास्तर आसनाधारः । इदं च मे प्रजायै पशूनाम् उपस्तरणं भूयात् । अहं च प्रजायै पशूनाम् उपस्तरणं भूयासम् अनेन कर्मणा । तथा वर्तमानं मां हे प्राणापानौ ! मृत्योः पातम् । मा च मा हासिष्टं मा त्याक्तं येनाहं मृत्योः रक्षितस्स्याम् ॥
4मधु मनिष्ये इत्यादि व्याख्यातं ; ‘वायुर्हिङ्कर्ता’ इत्यत्र ॥
इति सप्तमे प्रश्ने प्रथमोऽनुवाकः ॥
०२
1प्रवर्ग्यं सम्भरिष्यन् सावित्रं चतुर्गृहीतं जुहोति - युञ्जते मन इति जगती ॥ व्याख्यातेयं ‘युञ्जानः प्रथमम्’ इत्यत्र ॥
2अब्भ्रिमादत्ते - देवस्य त्वा इति ॥
3अभिमन्त्रयते - अब्भ्रिरसीति ॥ उभयं व्याख्यातम् । अभिमन्त्रणशेषः - देवेभ्यः देवार्थम् । अध्वरकृद् अध्वरकर्ता त्वमसि ॥
4ब्रह्माणमामन्त्रयते - उत्तिष्ठेति ॥ द्वे पथ्याबृहत्यौ । हे ब्रह्मणस्पते! परिबृढस्य कर्मणः पालक ! उत्तिष्ठ देवकार्यार्थमुद्युक्तो भव । ‘उदोऽनूर्ध्वकर्मणि’ इति व्यत्ययेन न प्रवर्तते । यद्वा - उत्थानमवधानम् ईहाऽभावा दात्मनेपदाभावः । देवयन्तः देवानिच्छन्त आराधनेन आत्मसात्कर्तुं प्रवृत्ता वयं त्वाम् ईमहे भजामहे, याचामह इति यावत् । देवशब्दात् क्यचि ‘न छन्दस्यपुत्रस्य’ इति ईत्वदीर्घाभावः । ई गतौ, देवादिकः ‘बहुलं छन्दसि’ इति शपो लुक् ॥
अध्वर्युब्रह्माणौ उत्तरमर्धं जपतः - उपप्रयन्त्विति ॥ हे इन्द्र! त्वाम् उपप्रयन्तु उपसम्प्राप्नुवन्तु मरुतः देवाः सुदानवः शोभनदानाः सुष्ठु सम्भाराणां दातारः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्य् उत्तरपदाद्युदात्तत्वं च । सचा तैस्समवेतः । सचतेः क्विपि ‘सुपांसुलुक्’ इति प्रथमाया आकारः । प्राशूः प्रकर्षेण शीघ्रकार्येषु प्रवृत्तः प्रकृष्टो व्यापको वा भव । ‘कृवापाजि’ इत्युण्प्रत्ययः । ‘प्रादस्वाङ्गम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
5प्राञ्चोश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तस्स्युः - प्रैत्विति ॥ ब्रह्मणस्पतिः प्रैतु प्रथममग्रतो गच्छतु । देवी च सूनृता यज्ञात्मिका सत्या वाक् प्रैतु । देवाश्च नोऽस्माकं यज्ञमानयन्त्व् आभिमुख्येन अविघ्नेन वा प्रापयन्तु । वीरं यजमानम् अस्मान्वा अच्छानयन्तु मृत्सम्पादनद्वारेण । यद्वा - हे इन्द्र! त्वां वीरम् अच्छानयन्तु । मृदेव वा यजनसाधनत्वाद्यज्ञ उच्यते । मृदमस्मानच्छानयन्तु देवाः । नर्यं नरेभ्यो हितं पङ्किराधसं धनादिपञ्चधनवन्तं पाङ्कानां वा पशूनां साधयितारम् । ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च ॥
6मृत्खनमभिमन्त्रयते - देवी इति ॥ हे देव्यौ ! द्योतनवत्यौ ! द्यावापृथिवी ! मे मम इदं कर्म मृत्खननलक्षणम् अनुमंसाथाम् ॥
7मृत्खनेऽब्भ्र्या प्रहरन्ति - ऋध्यासमद्येति ॥ अद्य अस्मिन्खननदिने खननकर्मणि वा अहम् ऋध्यासम् अभिमतसम्पत्तिमान् भूयासम् ॥
8मृदमुपादत्ते – मखस्येति ॥ मखस्य यज्ञस्य शिरः प्रवर्ग्यः शिरस्थानीयस् तत्साधनत्वात् हे मृत् । तादृशीं त्वाम् अपादद इति शेषः ॥
9महावीरकरणाय हरति - मखाय त्वेति ॥ मखसाधनाय महावीराय त्वां हरामीति शेषः ॥
10कृष्णाजिने निवपति - मखस्य त्वेति ॥ मखस्य यज्ञस्य शीर्ष्णे प्रवर्ग्याय त्वां निर्वपामीति शेषः ॥
11वराहविहतमभिमन्त्रयते - इयतीति ॥ हे वराहविहते! मृत् ! अग्रे कल्पादौ आदिवराहविहरणे इयत्य् एतावन्महिमैव आसीः । यावती पृथिवी ‘अस्यामेवाछम्बट्कारम्’ इति ब्राह्मणम् । यद्वा - इयती प्रादेशमात्री त्वम् अग्रे यज्ञोपयोगात् प्राचीनकाले आसीः । इदानीं यज्ञोपयोगाद् विश्वं त्वया व्याप्तमिति भावः ॥
12प्रहरणापादानाहरणनिवपनमन्त्राः ‘ऋद्ध्यासमद्य’ इत्यादयो व्याख्याताः ॥
13वल्मीकवपामभिमन्त्रयते - देवीरिति ॥ हे देव्यः ! द्योतनवत्यः ! वम्रीः ! वम्र्यः ! वमनादुदकस्य स्त्रीनाम्न्यः ! अस्य भूतस्य वल्मीकवपात्मनः पृथिव्या हे प्रथमजाः! प्रागाविर्भूताः ! प्रधानार्थं वा जाताः! ऋतावरी:! उदकवत्यः ! । ‘छन्दसीवनिपौ’ इति नित्ययोगे वनिपि ‘वनोरच’ इति ङीब्रेफौ । युष्माभिरुपचितामेतां वल्मीकवपामभिमन्त्रयामहे इति शेषः । प्रहरणादिमन्त्रा गताः ॥
14पूतीकानभिमन्त्रयते - इन्द्रस्येति ॥ श्यामा दूर्वाः पूतीका इन्द्रस्य यदोजः पराक्रमस् तदेवासि । इन्द्रपराक्रमप्रभवत्वात् ‘स यत्रयत्र पराक्रमत’ इत्यादि ब्राह्मणम् । ऋद्ध्यासमित्यादयः स्पष्टाः ॥
15अजलोमानि कृष्णाजिनलोमानि च संसृज्याभिमन्त्रयते - अग्निजा इति ॥ अग्नेर्जनयिता । अन्तर्भावितण्यन्तात् ‘जनसन’ इति विट्, पूर्ववदात्वम् । अजादिलोमसमुदाय उच्यते । यद्वा - अग्निना सह जाता अजादयो ऽभेदेन तल्लोमसमुदाय उच्यते । प्रजापतेः रेतः सारभूतः ‘य एव रसः पशून् प्राविशत्’ इति ब्राह्मणम् । ‘ऋद्ध्यासम्’ इत्यादयो गताः ॥
16अश्वेन सम्भारानवघ्रापयति - आयुर्धेहीति ॥ आयुरादीन्य् अन्यूनानि मयि धेहि स्थापय, मह्यं वा धेहि । आत्मानं शरीरं स्थिरं धेहि । प्रतिष्ठां क्षेत्रादिं धेहि । मां च स्वदत्तानाम् आयुरादीनां भोगाय स्थापय । मय्येव आयुरादीनि धेहि मदीनानि न परायत्तानि ॥
17सम्भारानजयाऽभिदोहयति मदन्तीभिश्चोपसृजति – मधु त्वेति ॥ मधु मन्तव्यं सारभूतं ब्रह्म तदेव त्वा त्वामजाक्षीरेण मदन्तीरूपेण मधुलाकरोतु मधुरीकरोतु । सिध्मादित्वाद् लच् । छान्दसश्च च्व्यर्थे डाच् । कपिलकादित्वाल्लत्वविकल्पः ॥
18पिण्डं करोति - मखस्यति ॥ यज्ञस्य शिरः प्रवर्ग्यस् तत्साधनमहावीरोपादानत्वात् पिण्डस्य यज्ञस्य शिरस्त्वम् ॥
19अङ्गुष्ठाभ्यां निगृह्णाति - यज्ञस्येति ॥ यज्ञस्यैव ह्येते पदे अङ्गुष्ठग्रहणे यज्ञस्यैव पदन्यासावेतौ नाङ्गुष्ठनिग्रहणमात्रे मन्तव्ये तादृशे युवां स्थः ॥
20प्रतिमन्त्रं महावीरान् करोति - गायत्रणेत्यादिभिः ॥ हे । महावीर ! त्वां गायत्रेण छन्दसा करोमि तदीयेन वीर्येण करोमि । एवमुत्तरत्र द्रष्टव्यम् । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’ इत्य् अण् । त्रिष्टुब्जगतीशब्दाभ्याम् उत्सादित्वादञ् ॥
21रास्नां करोति - मखस्येति ॥ गतम् । रास्ना रशना ॥
22बिलं गृह्णाति - अदितिरिति ॥ अदितिरेव स्वयं ते बिलं गृह्णातु पाङ्क्तेन पशव्येन छन्दसा ॥
23उत्तरतस्सिकतासु प्रतिष्ठापयति - सूर्यस्येति ॥ सूर्यस्यैव हरसा तेजसा श्राय पक्वो भव । श्रै पाके ॥
24अनुवीक्षते - मखोसीति ॥ यज्ञ एव त्वमसि प्रधानसाधनत्वात् ॥
इति सप्तमे प्रश्ने द्वितीयोऽनुवाकः ॥
०३
1अश्वशकेन धूपयति - वृष्ण इति ॥ वृषा सेक्ता आदित्यो ऽश्वश्च आदित्योऽश्वः व्यापकत्वात् तस्मात्त्वं हे अश्वशक ! सूर्यस्यैव निष्पदसि निष्पत्तिरसि परिणामोसि योऽश्वस्यासि । यद्वा - आदित्यस्य निष्पद् अतिच्छन्दस् तदेव त्वमसि वीर्यवत्त्वात् । त्वां तादृशमादाय । विभक्तिव्यत्ययो वा । त्वया वरुणो वारको देव आधूपयतु महावीरं धृतव्रतः स्थिरकर्मा मित्रावरुणयोः सम्बन्धिना ध्रुवेण अविचलितेन धर्मणा कर्मणा ॥
2गार्हपत्ये मुञ्जानादीप्योपोषति प्रतिदिशं, सर्वैर्वा सर्वतः - अर्चिषे त्वेत्यादिभिः ॥ अर्चिराद्यर्थं त्वां ज्वलयामीति शेषः । अर्चिर्दीप्तिः । शोचिश्शोषणम् । ज्योतिर् द्योतनं रुचिः । तपः सन्तापः ॥
3-5मैत्र्योपचरति तप्यमानम् - अभीममिति ॥ गायत्रीयं ‘वसवस्त्वा धूपयन्तु’ इत्यत्र उखासम्भरणे व्याख्याता । इह त्व् इममिति पुल्लिङ्गता विशेषः । तत्र त्विमामिति ॥
6प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति - देवस्त्वेति गायत्र्या ॥ तत्रैव व्याख्याता12 ॥
7उत्तरतस्सिकतासु प्रतिष्ठापयति - अपद्यमान इत्यनुष्टुभा ॥ व्याख्याता तत्रैव12 । पुल्लिङ्गताऽत्र पदानां विशेषः ॥
8अनुवीक्षते - सूर्यस्य त्वेति ॥ सूर्यस्यैव चक्षुषा अहं त्वा अन्वीक्षे नात्मीयेन । अतो मां मा धाक्षीर् मा चान्धं कार्षीः । ‘ईश्वरो वा एषोऽन्धो भवितोः’ इति । यागसाधनद्वारेण ऋज्वादिलोकस्थित्यर्थं त्वामन्वीक्षे । ऋजुः पृथिवी न तत्र कुटिलमस्तीति । व्यवधानाभावात् । साध्वन्तरिक्षं समीचीनस्वभावत्वात् स्वच्छत्वाच्च । सुक्षितिर् द्युलोकः शोभनवासस्थानत्वात् । भूतिर् दिशः सर्वार्थभवनाधारत्वात् । ‘इयं वा ऋजुः'14 इत्यादि ब्राह्मणम् ॥
9अथेनं सिकताभिः पर्यूहति – इदमिति ॥ अमुम् अमुकनामानम् आमुष्यायणम् अमुकनाम्नोपत्यं यजमानं विशा प्रजया पशुभिर् ब्रह्मवर्चसेन अहं पर्यूहामि परितः पूरयामि । इदमिति क्रियाविशेषणम् । अनेन सिकतापर्यूहणेनेति भावः । अन्ते ब्रह्मवर्चसनिर्देशात् त्रिभिरपि ब्राह्मणस्य, विशेत्येव राजन्यस्य, पशुभिरित्येव वैश्यस्य, सर्वैर्वा सर्वेषाम् ॥
10अजाक्षीरेणाच्छृणत्ति - गायत्रेण त्वेति ॥ गायत्रेण छन्दसा त्वा आच्छृणद्मि सन्दीपयामि सर्वतः । उ छृदिर् दीप्तिदेवनयोः । एवं त्रैष्टुभेन जागतेन च छन्दसा । अथवा गायत्र्यादीनि त्वाऽऽच्छृन्दन्तु तत्सम्बन्धेन त्वं सन्दीप्तो भव । वाक् मन्त्रात्मिका ऊर्क् हविर्गतो रसः । हविर् हविष्ट्वमापाद्यमानं द्रव्यम् । अथ त्वमपि वागादीनि छृन्धि त्वत्सम्बन्धेन तानि सन्दीप्तानि भवन्तु ॥
11अथैनां कृष्णाजिन उपनह्यासजति - देवपुरश्चरेति ॥ अग्रेण गार्हपत्यं दर्भान् संस्तीर्य तेषु महावीरानुपावहरत्य् अनेनेति पक्षान्तरम् । कृष्णाजिने अप्रचरणीयौ महावीरावनेन उपावहरतीत्यन्यः पक्षः । प्रचरणीयं महावीरं शफाभ्यां परिगृह्य अव्युच्छिन्नाग्रेण वेदेनोपरिष्टात् सम्मार्ष्ट्य् अनेनेति पक्षोऽन्यः । देवपुरश्चर! देवानां पुरस्ताद् गन्तः! ध्वज इव | यद्वा - भूमिष्ठोपि तेजसा देवानामग्रे चरति देवानामतिवल्लभतया वा सदा अग्रे वर्तमानं त्वां तादृशं महानुभावम् अहं सघ्यासं प्राप्तुं योग्यो भूयासम् । सघ्यतिर्गतिकर्मा ॥
इति सप्तमे प्रश्ने तृतीयोऽनुवाकः॥
०४
1ब्रह्माणमामन्त्रयते - ब्रह्मन्निति ॥ होतर्घर्ममभिष्टुहि । इत्य् एकपदा गायत्री ॥
2अथ - यजुर्युक्तम् इति पञ्चपदा शक्करी यजुरन्ता ॥ उपांशूक्त्वा ‘ओमिन्द्रवन्तः प्रचरत’ इत्युच्चैरनुजानाति ब्रह्मा । महावीरस्तूयते - यजुर्युक्तं यजुर्भिर्मन्त्रैः संस्कारकैर्युक्तं संस्कृतं सामभिर् गीतिभिर् आक्तखं सामोपवाज समुपजातेन तेजसा व्याप्ताकाशं व्यक्ताकाशं वा विश्वैर्देवैर् मरुद्भिश् च अनुमतम् अनुज्ञातं दक्षिणाभिश्च चोदिताभिः प्रततं विस्तीर्णं पारयिष्णुं यज्ञस्याविघ्नेन समापयितारं सुमनस्यमानं सानुग्रहमनसम् ईदृशं त्वां स्तुभः स्तोत्राणि वहन्तु प्राप्नुवन्तु । स च त्वम् अहृणीयमानः केनचिदपि प्रकारेणाहीयमानः नो ऽस्मभ्यं रुचं दीप्तिं घेहि देहि भूर्भुवस्सुवः लोकत्रयव्यापि । अथ हे ऋत्विग्यजमानाः ! ओं लोकत्रयव्यापितेजसा अनेन इन्द्रेण ईश्वरेण महावीरेण तद्वन्तः प्रचरत यागं निर्वर्तयत ॥
इति सप्तमे प्रश्ने चतुर्थोऽनुवाकः ॥
०५
1एवं त्वयाऽनुज्ञातानामस्माकम् अयं प्रचरणकाल इति तद्बहुमानाय पुनरपि ब्रह्माणमामन्त्रयते - ब्रह्मन्निति ॥ प्रचारविधिपरत्वाद् अत्र प्रवर्ग्येणेति नोक्तम् । होतरिति । तवायं घर्माभिष्टवनकाल इति तमवसरे बोधयितुं पुनर्वचनम् ॥
2सर्वं परिघर्ममभिपूर्वं त्रिः प्रोक्षति - यमाय त्वेति त्रिभिः ॥ यमोऽग्निः ‘अग्निर्वाव यमः’ इति । मखो वायुः परिस्पन्दरूपत्वात् । सूर्यस्य हरसे तेजसे मण्डलात्मने । ‘एता वा एतस्य देवताः’ इति ब्राह्मणम् ॥
3आहवनीये स्रुवेण प्राणाहुतीरेकादश जुहोति - प्राणायेत्यादि ॥ गतम् । दक्ष उत्साहः क्रतुः सङ्कल्प औजो दीप्तिः ॥
4स्रुवेणोपर्य् आहवनीये महावीरमनक्ति – देवस्त्वेति ॥ देवः सविता सर्वस्य प्रेरकस् त्वां मध्वा मधुना मधुरेण अनेन आज्येन अनक्तु । नुमभावश्छान्दसः ॥
5अपरस्मिन्खरे राजतं रुक्मं निदधाति - पृथवीमिति ॥ महावीरसम्बन्धिनस् तपसः दाहात् पृथिवीं त्रायस्व रक्ष ; यथा पृथिवीमयं न दहेत् तथा कुरु ॥
6 द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयति - अर्चिषे त्वेति ॥ अर्चिर् ज्वाला तदर्थं त्वां प्रदीपयाम्य् अथ तेषामग्रैरुत्तरेषां मूलानि प्रदीपयति - शोचिषे त्वति । शोचिः शोषणम् । अथ तेषां मूलैर् दक्षिणेषां मूलानि प्रदीपयति - ज्योतिषे त्वेति ज्योतिर्दीप्तिः । अथ तेषां मूलैर् उत्तरेषाम् अग्राणि प्रदीपययि - तपसे त्वेति । तपस्सन्तापः ॥
7अथ तान् व्यत्यस्तान् उपरि रुक्मे निदधाति - अर्चिरसि शोचिरसि ज्योतिरसि तपोसीति ॥
8तेषु महावीरं प्रतिष्ठापयति - संसीदिस्वेति पथ्याबृहत्या ॥ व्याख्यातेयम् अग्निकाण्डे देवस्य त्वेत्यत्र ॥
9स्रुवेण महावीरमनक्त्य् अभिपूरयति वा - अञ्जन्ति यमिति - त्रिष्टुभा ॥ विप्रा मेधाविन ऋत्विजः यं महावीरं प्रथयन्तः न विस्तारयन्त इव स्नेहेन देहस्याप्यायनमिव कुर्वन्तो ऽञ्जन्ति मृक्षयन्ति वपावन्तं न मेदस्वन्तं पशुमिव अग्निना तपन्तः रसपाकाय सोऽयं घर्मः प्रवर्ग्यः महावीर ऋतयन् ऋतं यज्ञं यजमानेभ्यः कुर्वन् यज्ञमुत्पादयितुं त्वरमाणस्सन् अग्निम् आऽसादीद् आभिमुख्येनासदद् आसीदतु । छान्दसो लुङ् । वर्णव्यत्ययः । पितुर्न पितुरिव उपस्य् उपस्थे उत्सङ्गे । तिष्ठतेर्गतिकर्मणश् छान्दसोऽसुङ् । प्रेष्ठः प्रियतमः पुत्र इवासीदतु । एवं विभक्तिमत्त्वमुपमानोपमेययोरयुक्तम् । एवं वा - अग्निमृतयन् ऋतवन्तं कुर्वन् आऽसीदत् । अञ्जनेन ॥
10अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति - अनाधृष्या पुरस्तादित्येतैर् यथालिङ्गम् । पूर्वैव दिक् पुरस्तात् । ‘दिक्शब्देभ्यः’ इत्यादिना प्रथमासमर्थादस्तातिः । पूर्वा दिक् अनाधृष्या केनचिदपि धर्षयितुमशक्या । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अनाधृष्यत्वे हेतुमाह - अग्नेराधिपत्ये रक्षःप्रभृतीनां हन्तुरग्नेराधिपत्यस्य विषयभूता प्राची दिक्, तस्मादनाधृष्या मरणादिभयरहिता सा तादृशी त्वं मे दीर्घ आयुर् दा देहि हे प्राचि! । एवमुत्तरत्र द्रष्टव्यम् । पुत्रवती बहुपुत्रा दक्षिणा दिक् । इन्द्रियस्य दातुर् इन्द्रस्याधिपत्यविषयत्वात् । ’ दक्षिणोत्तराभ्यामतसुच्’ । सुषदा सुष्ठ्व् अहिंसया प्राणानां सदनीया अभिगन्तव्या पश्चाद् अपरा दिक् सवितुर् अनुज्ञातुर् देवस्य आधिपत्यविषयत्वात् । पश्चादित्यपरस्य निपात्यते । आश्रुतिः समन्ताच्छ्यूमाणा प्रधाना दिक् उत्तरा मित्रावरुणयोर् जगतां धारकयोर् आधिपत्यविषयत्वात् । विधृतिर् विविधानां ब्रह्मवर्चसादीनां धारणाद् ऊर्द्ध्वा दिक् । ‘उपर्युपरिष्टात्’ इति निपात्यते । बृहस्पतेर् बृहतां गुणानां पत्युर् आधिपये वर्तमानत्वात् । त्वम्मे ब्रह्म ब्रह्मवर्चसं क्षत्रं बलं ब्राह्मणक्षत्रियौ वा देहि । तेजःप्रभृतीनि पञ्च मे स्वभूतानि धेहि स्थापय अविनष्टानि कुरु ॥
11उत्तरतः पृथिवीमभिमृशति - मनोरश्वासीति ॥ पृथिव्य् उच्यते । ब्राह्मणं च - ‘इयं वै मनोरश्वा भूरिपुत्रा’ इति । मनुः प्रजापतिस् तत्सम्बन्धिन्य् अश्वा व्यापनवती भोगहेतुर्वा भूरिपुत्रा बह्वपत्या देवमनुष्याणां धारयित्री ईदृशी त्वम् असि । सा त्वं मां विश्वाभ्यो नाष्ट्राभ्यः नाशयित्रीभ्य ईतिभ्यः पाहि । सूपसदा सुष्ठूपस्थेया उपचरितव्या अभिगम्या मम भूयाः । मा च मां हिंसीर् उन्मादहेतुर्मा भूः । ब्राह्मणं च - ‘अस्यामेव प्रतितिष्ठत्यनुन्मादाय'21 इति ॥
12गार्हपत्यादुदीचोङ्गारान्निरूहति – तपोष्वग्न इति त्रिष्टुभा ॥ हे अग्ने! प्रथमम् अन्तरान् अभ्यन्तरान् अमित्रान् शत्रून् तपोषु सुष्ठु तपैव नाशयैव । उ अवधारणे । अररुष आगतवन्तः । क्वसुरूपमुन्नेयम् । परस्य बाह्यस्य शत्रोस् त्वामुपागतस्य अशंसम् अस्तुतिम् आक्रोशं तप नाशय । किञ्च - हे वसो! जगतां वासयितः! अस्माकं वा धनभूत! चिकितानः सम्यक् जानानस्सन् अचित्तान् चित्तहीनान् अस्निग्धान् तप नाशय । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् । तदर्थं ते तव अयासो ऽयनशीलाः सत्वरस्वभावा ज्वाला: अजरा अश्रान्ता वितिष्ठन्तां विश्वत्राप्रतिहतास्तिष्ठन्तु । ‘समविप्रविभ्यस्स्थः’ इत्यात्मनेपदम् ॥
13अङ्गारैः प्रदक्षिणं परिचिनोति - चितस्स्थेति ॥ हे अङ्गाराः! चितस्स्थ चेतव्यास्स्थ । अपि च परितश् चेतव्याश्च स्थ तस्मान्मया परिचितः मया चेतव्यास् तिष्ठत । अथ हे महावीर! त्वमपि स्वाहा स्वाहुत्यर्थं मरुद्भिर् मरुत्तुल्यैः रश्मिभिः परिश्रयस्व परिवार्यात्मानं वर्तस्व । यद्वा - मरुद्भिः सन्दीपकैः रश्मिभिर् आत्मानं परिश्रयस्व सर्वतः पावय । श्रिञ् पाके ; व्यत्ययेन शप् - ब्राह्मणं च - ‘असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः’ इति ॥
14वैकङ्कतैः परिधिभिः परिधत्तः - मा असीति प्राञ्चावध्वयुर्निदधाति । प्रमा असीत्य् उदञ्चौ प्रतिप्रस्थाता । एवमवशिष्टानां पूर्वेणपूर्वेण मन्त्रेण अध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता । अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधाति - अन्तरिक्षस्यान्तर्धिरसीति । मीयते परिच्छिद्यते अनुभूयत इति मा पृथिवी । कर्मणि क्विप् । यद्वा - मात्री निर्मात्री विश्वस्य । कर्तरि क्विप् । एवं सर्वत्र । प्रकर्षेण मीयत इति प्रमा अन्तरिक्षं प्रकर्षों महत्त्वादिः । प्रतीपं मीयत इति प्रतिमा द्यौः । एभिर्लोकैः सङ्गतं मीयत इति सम्मा दिशः । विविधं दिग्द्वयात्मना मीयत इति विमा कोणदिक् । उर्ध्वं मीयत इत्य् उन्मा ऊर्ध्वा दिक् । अन्तरिक्षस्यान्तः मध्ये धारक उत्तम्भनं त्वमसि हे त्रयोदश! अन्येभ्योपि विशिष्टोसि ॥
15सौवर्णेन रुक्मेणापिदधाति - दिवामिति ॥ तपसः दाहान् महावीराद् दिवं त्रायस्व रक्षस्व यथाऽयं दिवं न दहेत् तथा कुरु । ब्राह्मणं च - ‘अमुष्या अनतिदाहाय'22 इति ॥
16-17अभिमन्त्रयते - आभिरिति तिसृभिस् त्रिष्टुग्भिः ॥ प्रथमा अच्छिद्रेषु व्याख्याता । द्वितीया तु ‘अग्ने यं यज्ञम्’ इत्यत्र ॥
18अर्हन्निति तृतीया - हे देव ! त्वमेव सायकानि धन्य धनुश्च अर्हन् तन्निमित्तां पूजाम् अधिगच्छन् बिभर्षि धारयसि । अन्येषामल्पशौर्याणां विडम्बनैव स्यात् । किञ्च - निष्कम् आभरणजातं यजतं पूजितम् । औणादिकोऽतच्प्रत्ययः । विश्वरूपं विश्वाश्चर्यरूपं शोभितं त्वमेवार्हन् विभर्षि तवैतच्छोभामावहत्य् अन्येषां त्वल्पकान्तीनां भार एव सः । किञ्च - इदं विश्वं कृत्स्नमप्य् अब्भुवम् अद्भ्यस्सम्भूतं विकारजातं त्वमेवार्हन् दयसे रक्षस्य् अन्येषां त्वल्पशशक्तीनां श्रम एव सः । दय दानगतिरक्षणेषु । अद्भ्यो भवतीत्यब्भुवम् । छान्दसः कः । तस्मात् हे रुद्र! घर्मात्मना स्थितत्वात् त्वत् त्वत्त ओजीय ओजस्वितरं बलवत्तरं वा वस्तु न खल्वस्ति । ओजस्विशब्दादीयसुनि ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः । एवम् ओजसा तुल्यस्य प्रतिषिद्धत्वान् न पुष्कला स्तुतिः । अथ ब्रूमः - त्वत्तोऽन्यत्किञ्चिदपि वस्तु लोके ओजीयो नास्ति त्वमेव ओजीयान् । स्वव्यतिरिक्तं सर्वं प्रकृष्यते । त्वमेव सर्वस्मादोजस्वितरस् तस्मात्तुल्य उत्कृष्टो भव । प्रतिषेधाद्देवस्योचिता पुष्कला स्तुतिः कृता भवति ॥
19धवित्राण्यादत्ते - गायत्रमसि इत्यादिभिस् तिसृभिः ॥ गायत्र्याद्यात्मना लोकत्रयात्मना त्रयाणां स्तुतिः ॥
20तैरेनं त्रिरूर्ध्वम् उपवाजयति – मधुमध्विति ॥ मदनहेतुत्वात् प्राणो मधु स एव त्वमसि यजमानस्य । यद्वा - मन्तव्यं ब्रह्म मधु तदेव त्वमसीत्यन्ते स्तुतिः ॥
इति सप्तमे प्रश्ने पञ्चमोऽनुवाकः ॥
०६
1यत्राभिजानाति ‘याभिर्वर्तिकां ग्रसिताममुञ्चतम्’ इति तदध्वर्युर्महावीरमभिमन्त्रयते - दश प्राचीर्दश भासि दक्षिणा इत्यनुवाकेन । प्रथमा त्रिष्टुप् ॥ प्राचीः प्रागञ्चना दश रुचः भासि भासयसि प्रकाशयसि । अन्तर्भावितण्यर्थो द्रष्टव्यः । दक्षिणा दक्षिणाञ्चनाः । ‘दक्षिणादाच्’ । प्रतीचीः प्रत्यगञ्चना उदीची: उदगञ्चाना ऊर्ध्वा ऊर्ध्वाञ्चना दश दश भासि भासयसि प्रतिदिशं दशदश रुचः प्रवर्तयन् ज्वलयसि । ‘स नो रुचं धेहि’ इति वक्ष्यमाणत्वाद् विशेष्यविशेषलाभः । दशशब्दो बहुत्ववचनः । यद्वा - एकैकस्यां दिशि दशदिगञ्चना दशप्रकारा रुचस् तास्तथाविधाः सर्वासु दिक्षु भासयसि प्रागादिपञ्चकोपादानं प्राधान्यात् । कोणाधारपञ्चकमपि गृह्यते दश इति वचनान् । एतदुक्तं भवति - दशस्वपि दिक्षु दशदिगञ्चना रुचो भासयसीति । तदेव स्पष्टयति - अहृणीयमानः कया चिदपि भानविधया अहीयमानः स त्वं नो ऽस्मभ्यं रुचं धेहि देह्य् अस्मासु वा सुमनस्यमानः सानुग्रहमना भव । मां रोचय दीप्तं कुरु । एवं दक्षिणादिषु व्याख्येयम् । द्युतानो नाम विशिष्टो मारुतः ॥
2देवानामौदुम्बरं मिनोति - रोचितस्त्वमित्यादि ॥ देवेषु मध्ये हे देव ! देवनशील ! घर्म ! स्वयमेव सर्वदा दीप्त ! इदानीं त्वं रोचितो ऽसि दिशिदिशि देवादिभिरुद्दीपितदीप्तिरसि । तस्मात्तस्य तादृशस्य तव प्रसादादहमपि मनुष्येषु रोचिषीय रुचिमान्भूयासम् ॥
3सम्राडित्यादि । हे सम्राट् ! सङ्गतदीप्ते ! घर्म! स्वयमेव दीप्त! त्वं देवेषु मध्ये रुचितो दीप्तश्च अस्य् आयुरादिमांश्च । तव प्रसादादहमपि मनुष्येषु मध्ये रुचित आयुरादिमांश्च भूयासम् । रुक् दीप्तिः सैव त्वम् असि तन्मयत्वात् । स त्वं तादृशीं रुचं मयि धेहि स्थापय । यथा मय्येव सर्वा रुक् तिष्ठति । यद्वा - यथा मयि रुगेव सर्वदा रुङ्मयो भूयासम् ॥
4दशेत्यादि ॥ सङ्गतदीप्तित्वं सम्राट् चास्य प्रतिपादयति - पुरस्तात् पूर्वाञ्चनस् त्वं दश दिशो रोचसे रोचयसि स त्वमपि भासिति वक्ष्यते । दक्षिणा दक्षिणाञ्चनः प्रत्यङ् प्रत्यगञ्चन उदङ् उदगञ्चन ऊर्ध्व ऊर्ध्वाञ्चनः । एवं सर्वत्र सर्वप्रकारा दिशो रोचयसि । सुमनस्यमानस् त्वमपि भासि । हे सम्राट् ! सङ्गतदीप्ते ! नो ऽस्मभ्यम् इषम् अन्नम् ऊर्जं रसं च धेहि देहि । किञ्च - वाज्य् अन्नवांस्त्वं स्वयमेव इदानीमस्माकं वाजिने अन्नवते हविषे पवस्व पावनमात्मानं ख्यापय । इत्थम् अयं धर्मः रोचित उत्तेजितदीप्तिस्सञ्जातः । तेन अहमपि रुचीय रोचितुमर्हामि । अर्हार्थे लिङ्, ‘बहुलं छन्दसि’ इति शपो लुक् । समानवाक्ये पदात्परत्वाभावान् निघाताभावः ॥
इति सप्तमे षष्ठोऽनुवाकः ॥
०७
1यथा लोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते - अपश्यं गोपामिति । प्रथमा त्रिष्टुप् ॥ अग्निरूपेण आदित्यरूपेण वा महावीरस्स्तूयते - अपश्यं पश्यामि पश्येयं वा त्वां गोपां सर्वस्य गोप्तारम् । आयप्रत्ययान्तात् क्विप् । गवां वा पातारम् । पातेर्विच् । अनिपद्यमानम् अन्यग्भवन्तं पथिभिर् मार्गैर् यज्ञियैर् आचरन्तम् इहागच्छन्तम् इतश्च परागच्छन्तं यज्ञार्थं सोऽस्माभिर् दृश्यमानः सध्रीचीः सहाञ्चतीर् विषूचीर् विष्वक् नानाऽञ्चतीश्च दीप्तीर् वसान आच्छादयन् । सहपूर्वादञ्चतेः क्विनि ‘सहस्य सध्रिः’ इति सध्र्यादेशः । अन्तोदात्तश्चेष्यते । नकाराकारयोर् लुप्तयोः ‘चौ’ इति दीर्घत्वम् । विषुशव्दस्य ऊर्यादित्वेन गतित्वात् ‘अनिगन्तोऽञ्चतौ’ इति प्रकृतिस्वरत्वम् । आवरीवर्ति इत्थं पुनःपुनरावर्ततां भुवनेष्वन्तः लोकमध्ये तद्रक्षणार्थम् । यङ्लुगन्तात् पञ्चमो लकारः ॥
2अत्र प्रावीरित्यादि यजुरादिका एकपदा गायत्री ॥ अनु वामित्यश्विनावुच्येते । हे अश्विनौ! अत्र महावीरे प्रावीः प्राविष्टं प्राप्नुतं मधु मधुरं हविः । प्राप्तिकर्मणो वेतेर्लुङि वचनव्यत्ययः । प्रत्येकं वोच्यते । केचिदाहुः - पूर्वस्यास् त्रिष्टुभश्शेषमिदं यजुः - य एवमावरीवर्ति स त्वं हे सूर्य ! अत्र महावीरे स्थितः प्रावीः प्रकर्षेण भुवनान्यवसि रक्षसि रक्ष वा ॥
3अथ मधु माध्वीभ्यामित्यादिकया अनुवामिति गायत्र्या अश्विनावुच्येते । मध्व् अस्या अस्तीति माध्व्य् अश्विनोर्मधुकुम्भ्य् उच्यते । ‘मधोर्ङ्यच’ इति मत्वर्थे ङ्यप्रत्ययः ‘ऋत्व्यवास्त्व्य’ इति निपात्यते । कुम्भी विशेष्यते - माधूची मध्वञ्चतीति मध्वः वसन्तस् तत्सम्बन्धिनी माधूची तत्राप्यायमानत्वात् । ब्राह्मणं च - ‘वासन्तिकावेवास्मा ऋतू कल्पयति’ इति । उत्सादित्वादञ् । पूर्ववत् ‘चौ’ इति दीर्घत्वम् । तादृश्यौ द्वे कुम्भ्यौ द्वयोर् हे अश्विनौ! ताभ्यामित्थम्भूतयोर् वां युवयोस् तादृशमधुकुम्भीसम्बन्धिनोर् देववीतये यागाय मध्येवानुरूपं हविर् घृतमिति यावत् । यथा ‘अश्विना धर्मं पातं हार्दिवानं’ इति । अनुशब्देनानुरूप्यं द्योत्यते । उभयविशेषणानुरूप्यं मधुनो द्योतयितुं मधुशब्दावृत्तिः । देववीतिशब्दो दासीभारादिर्द्रष्टव्यः । तस्मान्मधुरमिदं हविर् अत्र प्राप्नुतमिति । पक्षान्तरे मधुरं हविर् निवर्तयाम इति शेषः ॥
4समग्निरग्निनेति गायत्री ॥ अयमग्निर् धर्मो ऽग्निना महता लोकशोषकेण तापेन समगत सङ्गच्छताम् । ब्राह्मणं च - ‘ग्रैष्मावेवास्मै'27 इति । यद्वा - परेणाग्निना आत्मज्योतिषा सङ्गच्छतां देवेन च सवित्रा भास्करेण सर्वस्य प्रेरकेण वा परेण देवेन सङ्गच्छताम् । ततश्चायमग्निः सूर्येण संरोचते सह रोचतां, समानमिति यावत् । परस्य देवस्य तेजस्त्वात् सूर्यस्य; यथा - ‘तत्सवितुर्वरेण्यं भर्गः’ इति ॥
5स्वाहेत्वादि ॥ अथ स्वाहुतश्चायमग्निर् आनीतगोपयस् तपसा भृशं तापेकन तेजसा परेण समगत सङ्गंस्यते । यद्वा - स्वाहा सुष्ठु वागाह । समग्निरित्यादि । पूर्वमन्त्रोक्तस् तदिति देवेन सवित्रा सङ्गंस्यते ततस्सूर्येण समरोचिष्ट समानं रोचिष्यते । यथा - ‘स्वाहा त्वा सूर्यस्य रश्मये’ इति । ‘आशंसायां भूतवच्च’ इति भविष्यति लुङ् ॥
6धर्तेत्यादि ॥ धर्ता धारयिता भूत्वा दिवो रजसः धुलोकस्य उदकस्य वा विभासि विविधं दीप्यस्व । एवं पृथिव्या अन्तरिक्षस्य वा विस्तीर्णस्य देवानां च हविनिर्वहणादिना धर्ता देवः देवनशीलो ऽमर्त्यो ऽमरणधर्मा तपोजास् तपःप्रभवस् तापार्थं वा जातः । पूर्ववद्विट्, ‘विडनोरनुनासिकस्यात्’ इत्यात्वं च । एवं सर्वस्य वृष्ट्युत्पादनद्वारेण धर्ता भवन् भासीति । ब्राह्मणं च - ‘वार्षिकावेवास्मा ऋतू कल्पयीत’ इति ॥
7’हृदे त्वा’ इति व्याख्यातं सोमे सस्यसम्पत्त्या यज्ञं निवर्तयत इति । ब्राह्मणं च - ‘शारदावेवास्मा ऋतू कल्पयति'33 इति ॥
8विश्वासामित्यादि । भवन्तीति भुवः प्रजास् तासां पते! पातः!। इदं यजुः । अथैतदादिका पतिः पञ्चपदा अनवसाना - विश्वस्य भुवनस्पत इत्यादि । भुवनशब्दात् षष्ठ्येकवचनस्य व्यत्ययेन स्यादेशाभावे अतो गुणे पररूपत्वम् । सर्वत्र ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । ब्रह्म परिबृढं कर्म अत्र सविशेषणस्य षष्ठ्यन्तस्य ‘सुबामन्त्रिते’ इति पराङ्गवद्भावादामन्त्रितानामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । द्वितीयादीनां पूर्वपूर्वाविद्यमानतया निघाताभावः । हे देव! घर्म! देवश्रूर् देवेषु श्रूयमाणः ख्यातिं गतस्त्वं देवान् पाहि । तपोजां तपसो जनयित्रीं तपःप्रभावजातां वा देवायुवं देवानात्मन इच्छन्तीं देवप्रियां वाचम् अस्मे अस्मासु नियच्छ नियमेन स्थापय । देवशब्दात् क्यचि ‘क्याच्छदसि’ इत्युप्रत्ययः । तन्वादित्वादुवङ् । यद्वा - देवैर्मिश्रयित्री यजमानस्य देवायूः । यौतेः क्विपि ‘ऊङ्चगमादीनाम्’ इत्यूकारः । ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम् ॥
9गर्भो देवानामिति चतुष्पदा अक्षरपङ्क्तिर् मध्येऽनवसाना ॥ देवानाम् इन्द्रादीनां गर्भस् त्वमसि प्रशस्तः पुत्र इव धारयिताऽसि। यद्वा - देवानां व्यवहर्तॄणाम् ऋत्विजां गर्भ उत्पाद्यस् तनयोसि । मतीनां ‘प्रजा वै मतयः'32 इति ब्राह्मणम् । यद्वा - प्रजानां पिता पाताऽसि प्रकाशप्रदानात् । पतिः स्वामी प्रजानाम् असि कवीनां क्रान्तदर्शिनां मतिः सूक्ष्मबुद्धिरसि तत्प्रदानत्वात् ॥
10सन्देव इत्यादि ॥ इदानीमयं धर्मो देवः सवित्रा देवेन समयतिष्ट संयतते संयत्तो भवति । तेजसाऽतिशयानो विगृह्णातीव सूर्येण देवेन समरुक्त संरुजति तेन समं प्रहर्तुमिवारभते केशाकेशीव करोति । रुजो भङ्गे, लुङि व्यत्ययेनात्मनेपदम् । ‘लिङ्सिचावात्मनेपदेषु’ इति सिचः कित्त्वम् । यद्वा - रोचतेर्लङि ‘बहुलं छन्दसि’ इति शपो लुक् । सूर्येण समं रोचते समं वा दीप्यते (तेन सङ्गतोपि दीप्यते) ॥
11आयुर्दा इत्यादि ॥ हे धर्म ! आयुषो वर्चसश्च अस्मभ्यं दाता त्वमसि । अस्माकं पितृस्थानीयस् त्वमसि । तस्मात् पिता पाता सन् नो ऽस्मान् बोध बोधय । हितेष्व् आयुश्शरीरमुदकं च अस्मासु धेहि स्थापय दीप्तेः प्रजाया धनस्य चास्मभ्यं दाताऽसि । हे अन्तरिक्षप्र! अन्तरिक्षस्य निजेन तेजसा पूरयितः ! । प्रा पूरणे, ‘आतोऽनुपसर्गे कः’ उरोर् विस्तीर्णादप्याकाशादेर् वरीयान् उरुतरोसि । तादृशं त्वाम् अशीमह्य् आप्नुयाम त्वदीयास्स्याम । छान्दसः शपो लुक् । त्वमप्य् अस्मान् विशेषेण मा हिंसीः ॥
12त्वमग्न इति शक्करी षट्पदा द्वयोर्द्वयोः पादयोर् अवस्यति ॥ हे अग्ने! विश्वासां मानुषीणां विशां प्रजानां साधारणो गृहपतिस्त्वमसि गृहपतित्वहेतुर् ग्रहाणां वा पाता । कथमेको विश्वासाम् उपकरोतीत्याह - पूर्भिः पुरैः शरीरैः शतं शतसङ्ख्योस्य् अनेकोसि नैकः विविधानन्तविग्रहपरिग्रहेण अनुगृहीताऽसि सर्वासां विशामित्यर्थः । हे यविष्ठ! सर्वदा युवतम ! हविषां वा मिश्रयितः! । युवशब्दात् ‘तुच्छन्दसि’ इति इष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः । स त्वं माम् अंहसः पाहि रक्ष समेद्धारं तव सन्दीपयितारं मां शतं हिमा बहून् संवत्सरान् नित्यं त्वत्समिन्धनपरमिति यावत् । तं तादृशं त्वां द्राविणं त्वामेव भजमानम् । ग्रहादित्वाण्णिनिः । यद्वा - तमेव त्वां द्रवतीति तन्द्रवी । द्वितीयाया अलुक्, निपातश्चोपपद्यते । हार्दिवानं हृदि वननीयोऽभिप्रेतार्थो हृदिवानः । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । तत्सम्बन्धी हार्दिवानः । यद्वा - हृदि भवं हार्दै अभिप्रेतोऽर्थस् तद्वन्मनो हार्दि, तेन वननीयः घङि ताथादिना उत्तरपदान्तोदातत्वम् । वातेर्वा कर्मणि ल्युटि ‘अनो भावकर्मवचने’ इत्युत्तरपदान्तोदात्तत्वम् । तदेव हार्दि दर्शयति - इहेति । इहैव मय्येव रातयः दातव्यानि धनानि सन्तु सर्वा विशो मह्यमेव धनानि ददत्विति ॥
13परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति - त्वष्टीमतीति ॥ अयं च बृहतीविशेषो व्याख्यातः ‘वस्व्यसि’ इत्यत्र ॥
इति सप्तमे सप्तमोऽनुवाकः ॥
०८
1रशनामादत्ते - देवस्य त्वेति ॥ सावित्रो व्याख्यातः ‘कर्मणे वाम्’ इत्यत्र । आदद इति विशेषः ॥
2तामभिमन्त्रयते - अदित्यै रास्नाऽसीति ॥ व्याख्यातं ‘यज्ञस्य घोषदसि’ इत्यत्र ॥
3पूर्वया द्वारोपनिष्क्रम्य त्रिरुपांशु धर्मदुघमाह्वयति - इड एहीत्यादिभिः ॥ इडादीनि गोर्देवनामानि । ब्राह्मणं च - ‘एतानि वा अस्यै देवनामानि’ इति । हे इडे ! अन्नहेतोरेह्य् आगच्छ । हे अदिते ! अखण्डिते! हे सरस्वति! सरणशीलं पयः सरस् तद्वति! ॥
4दक्षिणया द्वारोपनिष्क्रम्य मनुष्यनामभिस्त्रिरुच्चैर् आह्वयति - असावेहीति ॥ असावित्यत्र तदीयं नाम निर्दिशति । यथानामा भवति सा लोके कमला पार्वती विशालाक्षीति । हे कमले! एहीति । अदश्शब्दोऽन्तोदात्तः । तस्येहामन्त्रिताद्युदात्तत्वम् । अत्र ब्राह्मणं - ‘एतानि वा अस्यै मनुप्यनामानि'37 इति ॥
5रशनया घर्मदुघमभिदधाति - अदित्या इति ॥ हे घर्मधुक् ! अदित्याः पृथिव्या देवमातुर्वा उष्णीषं शिरोवेष्टनमसि, उत्तमाङ्गालङ्करणमसीति यावत् । उष्णमज्ञातस्यैषणम् उष्णीषम् ॥
6वत्समभिदधाति - वायुरस्यैड इति ॥ वाय्वधिष्ठातृकत्वाद् वायुरिति वत्स उच्यते, यथा - ‘वायवस्स्थ’ इति । ऐड इडासन्बन्धी स त्वमसि । सम्बन्धसामान्यस्य विवक्षितत्वादपत्यत्वमपि ॥
[7उपावसृजति वत्सं - पूषेति ॥ पूषा त्वा त्वाम् उपावसृजतु स्तनपानार्थं मुञ्चतु । त्वं च] अश्विभ्याम् अश्व्यर्थं प्रदापय प्रस्नावयपयः ॥
8धर्मदुधमभिमन्त्रयते – यस्त इति इयं त्रिष्टुबनवसाना ॥ हे सरस्वति! गौः ! यस्ते त्वदीयः स्तनः शशयः शयानो ऽप्रस्नुतत्वात् । पचाद्यच् । छान्दसं द्विवचनम् । यः स्तनः मयोभूः क्षीरदानेन सुखस्य भावयिता लोकस्य । येन स्तनेन विश्वा वार्याणि वरणीयानि दधिक्षीरघृतादीनि पुप्यसि पुष्णासि । यश्च ते स्तनः रत्नधा रमणीयानां धनानां घृतादीनां धारयिता अत एव वसुविद् बहुनो वसुनो धनस्य वेत्ता लब्धा बहुमूल्य इति यावत् । यश्च सुदत्रः शोभनदानः न तु धनवत्वमात्रमेव । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । तं तादृशं महानुभावं स्तनम् इह अस्मिन्वत्से निमित्ते धातवे पातुं योग्यं प्रस्नुतक्षीरम् अकः कुरु । यद्वा - इह कर्मणि देवेभ्यो दातुं शक्तं हविर्दानसमर्थं तं स्तनं कुरु । करोतेर्लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । धयतेर्दधातेर्वा ‘तुमर्थे सेसेन्’ इति तवैन्प्रत्ययः ॥
9वत्सं निदधाति - उस्र धर्ममिति ॥ हे उस्र! वत्स! घर्मम् एतत् क्षीरादिकं जीवनं शिंष स्थितिमन्तं कुरु । सर्वपानेन मानीनशः । हे उस्र! धर्मं पाहि रक्ष । त्वमेव हि तस्य पाता तदर्थं घर्माय शिंष अवशेषय पयः मा सर्वं पाः । शिनष्टेर्लोटि द्वितीयो विकरणः श्लुः ॥
10उपसीदति - वृहस्पतिस्त्वेति ॥ ‘ब्रह्म वै देवानां बृहस्पतिः’ । ब्रह्मैव स्वयं त्वां दोग्धुम् उपसीदतु ॥
11स्तनान् सम्मृशति - दानवस्स्थेति ॥ दानवः दातारः पयसः स्थ पेरवः पातव्याः पयोर्थिना वत्सेन । यद्वा - दानवः शुद्धाः पेरवः पातव्या वत्सेन । लोहितेन पयसा अमेध्येन विष्वग्वृतः सर्वतोऽव्रियमाणाः । कर्मणि क्विप् । अक्षरत आवृत्तिः ॥
12रक्ष्य[क्षर]माणा वर्षीयसि दोग्ध्रे दोग्धि - अश्विभ्यामित्यादि ॥ अश्व्याद्यर्थं पयः पिन्वस्व क्षारय । पिवि सेचने । द्विरिन्द्रायेत्युच्यते भूयिष्ठभाक्त्वादिन्द्रस्य । ब्राह्मणं च - ‘द्विरिन्द्रायेत्याह । तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः'41 इति ॥
13शफावादत्ते - गायत्रोसि त्रैष्टुभोसीति ॥ छन्दस्त्वेन शफयोः स्तुतिः । उपयमनं प्रतिप्रस्थाताऽऽदत्ते - जागतमसीति । गतम् ॥
14पय आह्रीयमाणं समीक्षते - सहोर्ज इति ॥ ऊर्जो रसस्य भागेन अंशेन सह मामुपेह्य् आगच्छ । आङ इकारेण सह आद्गुणे पूर्वं प्रत्यन्तवद्भावेन तस्याङ्ग्रहणेन ग्रहणात् ‘ओमाङोश्च’ इति पररूपत्वम् । एकादेशस्वरेण तस्योदात्तत्वम् आङ उदात्तत्वात् ॥
15महावीरे गोपय आनयति - इन्द्रेति ॥ हे इन्द्र ! हे अश्विना ! ते यूयं घर्मं तप्तं पयः पात पिबत । ‘बहुलं छन्दसि’ इति शपो लुक् । कीदृशं सारघस्य मधुन एकदेशं तत्तुल्यमिति यावत् । सरघा मधुमक्षिका । ताभिरुत्पादितस्य । हे वसवः ! यूयम् एतद् यजत इन्द्रादिभ्यो दत्त सङ्गमयत वा तैः । वषट्करोति - वडिति । सम्प्रदानार्थस्य वषट्कारस्य विकृतनिर्देशः परोक्षत्वाय । ब्राह्मणं च भवति – ‘वडित्याह । परोक्षमेव वषटुरोति'41 इति ॥
16उद्यन्तमूष्माणमनुमन्त्रयते - स्वाहेति ॥ स्वाहुतं त्वां करोमीति स्वाहा सूर्यस्य रश्मये वृष्टिवनये वृष्टेस्सम्भक्त उत्पादयित्रे जुहोमि । इति प्रक्षेपार्थः । ‘छन्दसि वनसन’ इति वनतेरिन्प्रत्ययः ॥
17अजापय आनयति - मध्विति ॥ मधुरं हविस्त्वमेवासि ॥
18तस्योष्माणमनुमन्त्रयते - सूर्यस्येति ॥ सूर्यस्यापि यत्तपस् तापस् तदप्य् ऊर्ध्वं गत्वा तप तापय त्वदीयेन तापेनाभिभव ॥
19महावीरं शफाभ्यां परिगृह्णाति - द्यावापृथिवीभ्यां त्वेति ॥ द्यावापृथिवीत्वेन शफयोः स्तुतिः ॥
20उपयमनेन प्रतिप्रस्थाता उपयच्छति - अन्तरिक्षेणेति ॥ पूर्ववत् स्तुतिः । उपयमनम् अधस्तात्ग्रहणम् ॥
21आदायोत्तिष्ठति - देवानां त्वा पितृणामिति ॥ विभक्तिव्यत्ययः । देवैः पितृभिश्च अनुमतोऽहम् । यद्वा - देवानां पितृणां च सम्बन्धी तैरनुमतत्वात् । अहं त्वां भर्तुं शकेयं शक्तो भूयासम् । लिङ्याशिष्यङ् ॥
22प्राङ्हरति - तेजोसीति ॥ तेजस्वी त्वमसि हे महावीर ! तस्माद् आहवनीयाख्यं तेजो ऽनुप्रेह्य् अनुलक्ष्य प्रागच्छ । गमनकाले च दिवि स्पृक् दिवं स्पृशन् । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । त्वदीयेन तापेन दिवं दहन् तत्कारिणं मां मा हिंसीर् दिव्यजनकोपसञ्जातबाधं मा कार्षीः । एवम् अन्तरिक्षस्पृक् पृथिविस्पृक् च मां मा हिंसीः । ‘ङ्यापोस्सञ्ज्ञाच्छन्दसोः’ इति ह्रस्वत्वम् । सुवः सुष्ठु प्राप्यं परमं सुखम् असि त्वदधीनत्वात्तस्य । तस्मान् मह्यं सुवः यच्छ देहि । दिवं द्युलोकं तादृशं सुखानुभवस्थानं मह्यं देहि । तत्रस्थं मां तस्या दिवः पाहि तदुपघातशङ्कासम्भवाद् व्यसनाद् रक्ष । यथा दिवि वसतो मे न कश्चिदुपघातो भविष्यति तथा कुरु ॥
इति सप्तमे अष्टमोऽनुवाकः ॥
०९
1व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे - समुद्राय त्वेत्यादीनि ॥ अपान्य पञ्चोत्तराण्य् अग्नये त्वा इत्यादि । अवशिष्टानि यथोपपातम् । समुद्रः समुद्द्रवणशीलः समुद्द्रवन्त्य् अस्मादाप इति वा वृष्टिहेतुः । तादृशाय वाताय स्वाहा स्वाहुतिकल्पमेतद् वचः प्रीतिहेतुत्वात् । यद्वा - तादृशो वातो वायादिति त्वां त्वदीयं नाम ब्रवीति । इत्थमिदं कर्तव्यमिति स्वा वागाह प्रजापतेः । एवमुत्तरत्रापि द्रष्टव्यम् । सलिलः गत्वरः । सल गतौ । महासलिलहेतुर्वा । अनाधृष्य ईषदपि धर्षयितुमशक्यः महावातः । ‘ऋदुपधाद्वा’ इति क्यप् , ‘ययतो श्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अप्रतिधृष्यः स्वयं धर्षयन्नप्य् अन्येन प्रधर्षयितुमशक्यः वात्यावातः । अवस्युः रक्षां तृप्तिं वा सर्वस्येच्छन् साध्यसिद्धिहेतुः । ‘छन्दसि परेच्छायामपि’ इति क्यप् , ‘क्याच्छन्दसि’ इत्युप्रत्ययः । दुवस्वान् परिचरणवान् पूज्यः दक्षिणावातः । शिमिद्वान् कर्मवान् मन्दकरे हि वाते वाति कर्माणि न शक्यन्ते कर्तुम् । शिमिति कर्मनाम । अकारोपजनश् छान्दसः । वसुमान् अग्निरादित्यः प्रातस्सवने आदित्यरश्मयो वसवः वसुगणत्वेन वर्तन्ते । रुद्रवान् सोमश्चन्द्रमा रुद्रवद्गणत्वान् माध्यन्दिने सोमस्य रसात्मनः स्वयं चन्द्रमाः शीतरश्मिर् ओषधिवृद्धिहेतुत्वात् । आदित्यवान् वरुण आपस् तृतीयसवने आदित्यवद्गणत्वाद् आदित्येन निजरश्मिषु गर्भत्वेन वर्धितत्वात् । विश्वदेव्यावान् बृहस्पतित्वेन देवेषु वर्तते । देवेषु साधवो देव्या विश्वेऽपि देवा यस्मिन् गणे स विश्वदेव्यः । ‘बहुव्रीहौ विश्वं सञ्ज्ञायाम्’ इति विश्वशब्दो ऽन्तोदात्तः । ततो मतुपि ‘मन्त्रे सोमाश्व’ इत्यादिना दीर्घत्वम् । ऋभुमदादिनामा सविता संवत्सरः । तादृशसंवत्सरकारित्वात् सवितुः । ऋभुमान् देववान् देवप्रियः यज्ञोत्सवादियोग्यः । विविधम् ऋद्धिहेतुर् विभुमान् । प्रभवसमृद्धिहेतुः प्रभुमान् । अन्नसमृद्धिहेतुर् वाजवान् । अङ्गिरस्वान् पितृमान् यमः प्राणः यमोङ्गिरोभिस् तपस्विभिस् तद्वान् तेषां प्रभावस्याग्निसम्पाद्यत्वात् । स स्वयं प्राण एव बलवन्मथनप्रभावत्वात् ॥
2अपरेणाहवनीयं दक्षिणातिक्रामन् ब्राह्मणमीक्षते - विश्वा आशा इति । अनुष्टुबेषा ॥ विश्वा आशा आशिषो ऽभिप्रेतान्य् अयं दक्षिणसद् ब्रह्मा विहारस्य दक्षिणतस्सीदतीति दक्षिणसत् । एतदधीना इति भावः । अस्य हि दृष्ट्याऽविकलया यागनिर्वृत्तौ सर्वाभिमतकर्मफलसिद्धिरस्माकं भवतीति ख्यापयति ॥
3होतारमीक्षते - विश्वानिति ॥ इह अस्मिन् कर्मणि विश्वान् देवान् यष्टव्यान् अयम् अयाट् यक्ष्यति । ‘आशंसायां भूतवच्च’ इति भविष्यति लङ् । हलन्तलक्षणा वृद्धिः । ‘बहुलं छन्दसि’ इतीडभावे हल्ङ्यादिसंयोगान्तलोपयोर् व्रश्चादिना षत्वम् ॥
4घर्ममभिमन्त्रयते - स्वाहाकृतस्येति ॥ स्वाहाकारेण संस्कृतस्य प्रत्तस्य मधोर् मधुरस्य घर्मस्य पयसः पिबतं हे अश्विनौ ! इदं चास्तु - अग्नये यज्ञियाय यज्ञसम्पादिने स्वाहाकृतमिदं हविः शं शान्तिहेतुरस्तु शमयितृ वाऽस्तु यजुभिश्च ॥
5संस्कृते वषट्कृते जुहोति - अश्विना घर्ममिति ॥ हे अश्विनौ! धर्मं पातं पिबतं हार्दिवानं व्याख्यातम् । कथं नाम पिबावेति हृदि चिरकालाशंसितमिति यावत् । कीदृशम् अहर्दिवाभिरूतिभिर् इत्थम्भूतं पिबतम् । क्रियाविशेषणम् । यथा अहर्दिवाभिरूतिभिर् इत्थम्भूतं भवति तथा पिबतम् । अहश्च दिवा च अहर्दिवम् । अचतुरादौ निपात्यते । तत्र भवाभिः । भवप्रत्ययस्य छान्दसो लुक् । तादृशीभिर् ऊतिभिस् तृप्तिभिः सर्वाहोरात्रानुवृत्ताभिरित्यर्थः । अथ तथा पिबन्तों वां युवां द्यावापृथिवी द्यावापृथिव्यौ अनुमंसातां सहमाने अभूताम् । छान्दसो लुक् । छान्दसत्वमेव दर्शयितुमिडभावः । इन्द्रायैवेदं हविः स्वाहुतमस्तु ॥
6अनुवषट्कृते जुहोति - स्वाहेन्द्रा वडिति ॥ इन्द्रा इन्द्राय । ‘सुपां सुलुक्’ इत्याकारः । स्वाहुतमिदं हविरस्त्व् इन्द्राय । वडिति वषट्कारविकारः प्रदानार्थः ।
7अनुवाकशेषेणोपतिष्ठते - धर्ममपातमिति ॥ समानं पूर्वेण । भूतकालत्वं विशेषः । तं प्राव्यमिति प्रकर्षेणावन्ति तृप्यन्त्यनेनेति प्राव्यो ऽहर्दिवाऽनुवृत्तितृप्तिहेतुः । करणे ण्यत् । तद् घर्मं वषट्कृतं प्राव्यं यथा अन्वमंसातां तथा तदनुमत्यै (?) स हि प्राव्यत्वमभिभवति । तस्मादुभयमप्य् अन्वमंसाताम् इत्युक्तं भवति । यद्वा - यथा वट् वषट्कारः कृतस् तस्यतस्य तं प्राव्यमन्वमंसातां यथास्वं तृप्तिहेतुमनुमतवत्यौ । यथेत्यसमस्त एव । यस्मादनुमंसातां तस्माद्दिवे पृथिव्यै च अनुमतवत्यै नम इमं युष्मदनुमत्या सम्यक् निर्वर्तितं यज्ञं हे पृथिवि ! दिवि द्युलोके देवेषु धा धेहि स्थापय । अथ यज्ञमिमं पृथिव्या दिवि स्थापितं हे द्यौः! त्वमपि दिवि नाके वाताख्ये परमे व्योनि धाः । यथा - ‘इमं नो देव देवेषु यज्ञं स्वाहा वाचि स्वहा वाते धाः’ इति । अग्निर्वोच्यते - हे अग्ने! इममस्मदीयं यज्ञं प्रथमं दिव्य् आदित्ये धास् तत इममादित्ये निहितं दिवि द्युलोके देवेषु धा इति । दधातेर्लेटि शपो लुक् । लुङि वा छान्दसः ‘गातिस्था’ इति सिचो लुक् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । हे यज्ञ ! त्वमपि द्युप्रभृतीन् गच्छ । यत्रयत्र भोक्तुमिच्छामि तत्रतत्र मम भोगाय भव । प्रदिशः प्राच्यादयः पञ्च उर्ध्वया सह । ये घर्ममेव पिन्वन्ति तेषामपि लोके मम भोगाय भव । यद्वा - द्युप्रभृतीनां स्थित्यर्थं तत्रतत्र गच्छ ॥
इति सप्तमे नवमोऽनुवाकः ॥
१०
1उपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाऽभिपूरयति । तत्राभिपूरणे विक्षरन्तं महावीरमभिमन्त्रयते - इषे पीपिहीति ॥ इडादिसमृद्धये लोकस्य पीपिहि त्वं समन्तात् क्षर । पिवि सेचने, छान्दसश्शपः श्लु । ‘तुजादीनां’ इत्यभ्यासस्य दीर्घत्वम् । वलिलोपानुनासिकलोपौ । तनोत्या दिर् द्रष्टव्यः । सुष्ठु सम्पन्नता सुभूतं मह्यं मदर्थं पीपिहि । मह्यं ज्यैष्ठ्यं सम्यगनुष्ठानेन प्राशस्त्यं यथा स्यादिति । गतमन्यत् ॥
2अथैनं दिशोऽनुप्रवाहयति - त्विष्यैत्वेत्यादि । त्विष्याद्यर्थं त्वां क्षारयामि प्रतिदिशम् ॥
3पूर्वस्मिन्खरे राजतं रुक्मं निधाय तस्मिन्महावीरं प्रतिष्ठापयति - धर्माऽसीति ॥ धर्मा धारयिता विश्वस्य असि । सुधर्मा धारणं धर्मस् तच्छोभनं यस्य स सुधर्मा । ‘सोर्मनसि’ इत्युत्तरपदाधुदात्तत्वम् । अमेन्य् अक्रुध्यन् । मन्यते अभिमन्यत इति मेनिः । ग्रहादिलक्षणो णिनिः । ‘नयमन्योरलिङ्गवम्’ इति नकारः [एकारः] । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । मिदोवा हिंसाकर्मण औणादिके निप्रत्यये - निर् हिंसकः । ततो नञ्समासे ‘सुपां सुलुक्’ इति पूर्वसवर्ण ईकारः । तादृशस् त्वम् अस्मे अस्मासु ब्रह्माण्य् अन्नानि ब्राह्मणान्वा धारय स्थापय विधेयीकुरु । इति ब्राह्मणस्य । क्षत्राणि बलानि क्षत्रियान्वा धारय । इति राज्ञः । विशं प्रजाः सर्वा धारय । इति वैश्यस्य । अत्र स्थितं त्वां वातोपि नेन् नैव स्कन्दयात् स्कन्दयेच् चालयेत् ॥
4अथ यद्यभिचरेद् अनेन सादयति - अपुष्येति ॥ योऽस्मान् द्वेष्टि यं च वयं द्विष्मो ऽमुष्य अमुकनाम्नः प्राणे त्वा सादयामि हे महावीर! । ततो ऽमुना अमुकनाम्ना त्वया निर्दग्धप्राणेन सह त्वमपि निरर्थं गच्छ कृत्याभावात् समाप्तिं गच्छ । अर्थाभावे निः । अर्थाभावेऽव्ययीभावः । समासान्तोदात्तत्वम् ॥
5अथैताञ्छकलान् षडुपयमने जुहोति - पूष्णे शरस इति ॥ पूष्णे पूषयित्रे अस्माकं शरसे शर्महेतवे शत्रूणां वा हिंसकाय एतत्कर्मसम्बन्धिने देवगणाय स्वाहुतमिदमस्तु । गृणन्ति शब्दायन्त इति ग्रावाणः मध्यमस्थानस्था वाचः । प्रतिरन्ति वर्धयन्ति प्रजा इति प्रतिराः प्राणाः । इगुपधलक्षणः कः । घर्मस्यैव पातारः घर्मपाः ॥
6षष्ठं शकलं सर्वेषु लेपेष्वङ्क्त्वाऽनन्वीक्षमाण उदञ्चं निरस्यति - रुद्राय रुद्रहोत्र इति ॥ रुद्र एव होता आह्वाता यस्य नाम रुद्र आह्वातुमर्हतीति स्वस्य स्वयमेव होता यस्य स रुद्र होता । ‘ऋतश्छन्दसि’ इति कबभावः ॥
7रौहिणयोर्मन्त्रः - अहरित्यादि ॥ धानादिहोमपञ्चकानन्तरं दक्षिणस्य शकलहोमात्प्रागुत्तरस्य अहराख्यं ज्योतिर् द्योतमानं वा । अहः ज्योतिष्मद्वा ज्योतिषां मध्ये । सुज्योतिः शोभनज्योतिष्कं भवतु केतुना आत्मनः केतयित्रा आदित्येन जुषतां सङ्गच्छतां स्वाहा स्वाहुतमिदमस्तु तस्मै । रात्रिरप्य् आत्मनः केतयित्रा चन्द्रमसा सङ्गच्छताम् । यद्वा - अहश्च रात्रिश्च केतुना आदित्येन जुषतां तमेव वरयितुं पुरस्तादवस्ताच्च अहोरात्राभ्यां प्राणापानस्थानीयाभ्याम् आदित्यो धार्यते इति । ब्राह्मणं च - ‘तस्मादसावादित्योऽमुष्मिन् लोकेऽहोरात्राभ्यां धृतः’ इति ।
8अग्निहोत्रे समिधोराधानमन्त्रौ - अपीपर इति ॥ प्रथमः सायं होमस्य । द्वितीयः प्रातर्होमस्य । हे अग्ने अपीपरः पूरितवानसि मां कामैर् अह्नः सम्बन्धिनं मा माम् अह्नो वा हेतोः । इदानीं रात्र्यै मा पाहि रात्रिसम्भविभ्यो व्यसनेभ्यो मां रक्ष । एषा तुभ्यं समिद् दीयते । तया समिध्यस्व सम्यक् ज्वल । आयुर्मे दा आयुर्मे देहि वर्चमा दीप्त्या मा माम् अञ्जीः प्रकाशय ॥
9अपीपर इत्यादि ॥ रात्रौ मां कामैरपीपरः । इदानीम् अह्नस्सम्बन्धिभ्यो व्यसनेभ्यो मां पाहि । शेषं समानम् ॥
10सायमग्निहोत्रहोममन्त्रः - अग्निर्ज्योतिरिति । एकपदा त्रिष्टुप् ॥ अग्रिरेव ज्योतिरादित्य आदित्य एवाग्निर् इदानीम् अग्नावादित्यस्य समारूढत्वात् । यथा ‘उभे हि तेजसी सम्पद्येते’ इति । रात्रावग्नेः प्राधान्यात् तस्य प्रथमं ग्रहणम् अस्मिन्मन्त्रे । तस्मै सूर्यसहिताय अग्नये स्वाहुतमिदमस्तु । यद्वा - अग्निरेव ज्योतिर् द्योतमानम् । इदानीमग्निरेवादित्यः । तस्मादग्निरेव ज्योतिः । तस्मादग्नये स्वाहेति । एवं ह्यसंसर्ग उपपद्यते । संसृष्टिहोमे मन्त्रान्तरस्य विधानात् ॥
11अथ प्रातरग्निहोत्रहोममन्त्रः - सूर्य इति । त्रिष्टुबेकपदा ॥ पूर्वेण गतार्थः ॥
12भूस्स्वाहेति ॥ अयमपि होममन्त्रः । विकल्प इत्येके । भूरिति गार्हपत्ये अन्यत्रान्येनेत्यन्ये । ब्राह्मणं च ‘भूस्स्वाहेत्येव होतव्यम्’ इति ॥
13सर्वे समुपहूय भक्षयन्ति – हुतं हविरिति ॥ हुतं हविर् असि हुतस्य घर्मस्य हविषश्शेषस् त्वमसि हे घर्मशेष! त्वं हि मधु मधुरं हविर् होमार्हं च । तस्माद् इन्द्रतमे ईश्वरतमे अग्नौ स्वादिष्ठम् आदित्ये प्राणे वा हुतं हविस्त्वमसि । तस्मादस्माकं भक्षयतां पिता माता त्वमसि । तस्मान् मा मा हि:सीर् हे देव ! द्योतनशील ! घर्म! ते अश्याम भक्षीयतुं शक्ता भूयास्म । कीदृशस्येति चेन् मधुमतः माधुर्यवतः वाजवतः वेगवतः पितुमतो ऽन्नवतो ऽङ्गिरस्वतो ऽङ्गिरोभिस् तद्वतस् तैरपि भक्षितत्वात् स्वधाविनो ऽमृतत्ववतः पुष्टिमतो वा इत्थं महागुणस्य तवाश्याम । सुहितार्थयोगे षष्ठी ज्ञापिता । अथ अशीमहि त्वा व्याप्नुयाम । त्वं प्रतिष्टितश्चास्मासु भव । मा मा हिंसीः पवनातपवनाभ्याम् । सर्वत्र सङ्घाभिप्रायेण बहुवचनम् । आत्माभिप्रायेण एकवचनम् । अश्नोतेराशिषि लिङि शकारलोपश्छान्दसः । अश्नोतेर्लिङि ‘बहुलं छन्दसि’ इति शपो लुक् ॥
14 सर्वं परिघर्म्यम् आसन्द्यां सादयति प्रातः - स्वाहेति ॥ सूर्यस्य रश्मीनां प्रवृत्त्यर्थं रश्मिभ्यो वा देवताभ्यस्त्वा सादयामि इत्थमिदं कर्तव्यमिति स्ववागाह प्रजापतेः ॥
15सायं सादयति - नक्षत्रप्रवृत्त्यर्थं नक्षत्रेभ्यो वा देवताभ्यस्त्वा सादयामीति ॥
इति सप्तमे दशमोऽनुवाकः ॥
११
1अथ प्रतिप्रस्थाता त्रीन्सन्नखान् शलाकान्मुष्टीनादाय तेषामेकमाहवनीये प्रदीप्य आस्यदघ्ने धारयति । तमध्वर्युरभिजुहोति - घर्म या ते दिवि शुगिति । तस्मिन्नपरं प्रदीप्य नाभिदघ्ने धारयति तमध्वर्युरभिजुहोति - घर्म या ते अन्तरिक्षे शुगिति । तस्मिन्नपरं प्रदीप्य जानुदघ्ने धारयति तमध्वर्युरभिजुहोति - घर्म या ते पृथिव्यां शुगिति । हे घर्म! द्युप्रभृतिषु तव या शुक् पापं तां त्वदीयां त्वत्कर्तृकां वा लोकस्य बाधिकाम् एतेन होमेन अवयजे नाशयामि । द्युप्रभृतिचतुष्टयम् उत्तमस्थानमुक्तम् । अन्तरिक्षादिचतुष्टयं मध्यमस्थानम् उक्तम् । पृथिव्यादिचतुष्टयमधमस्थानमुक्तम् ॥
2-3उपनिष्क्रामन्ति - अनु नोऽद्यानुमतिरन्विदनुमते त्वमिति ॥ द्वयोरनुष्टभोः प्रतीकग्रहणम् । व्याख्याते चेमे ‘इदं वामास्ये’ इत्यत्र ।
4प्रथमद्वितीयतृतीयविभागेनाव्वसु प्रव्रजतां त्रयो मन्त्राः - दिवस्त्वेत्याद्या बृहतीविशेषा वयमन्तास् तृतीयाः पादाः ॥ अत्र धर्म प्रति परिपालनप्रार्थनावाचो युक्तिं त्रेधा लोकादिषु करोति । हे धर्म ! दिवस्सवन्धिनी तव या परस्पा प्रकृष्टं पालनं तदर्थं त्वामनुक्रामाम अनुगच्छामः प्रकर्षेण दिवं पाहीति । स त्वम् अन्तरिक्षस्यापि सम्बन्धिनीस् तनुवः पाहि शरीराण्य् अन्तरिक्षचारिणो गन्धर्वान् शरीरिणः पाहि स्पष्टार्था । अथ पृथिव्यास्सम्बन्धिना धर्मणा धारणेन पालनेन रक्षाकर्मणा वा प्रसिद्धेन इत्थम्भूतं त्वां वयमनुक्रामाम पृथिवीमपि धारयेति । प्रार्थितमेतेन सविताय फलाय एवं लोकानां सुरक्षितत्वात् तेषु भोगफलं सुखेन गम्यं भवति । तन्वादित्वादुवङ् । सूपमानात्कृदुत्तरपदान्तोदात्तत्वम् । नव्यसे अभिनवतराय फलाय अनुक्रामामेति ॥
5ब्रह्मणस्त्वेति ॥ द्वितीयेन तेषु लोकेषु प्रजापालनप्रार्थना पूर्वेण गता ॥
6प्राणस्य त्वेति ॥ तृतीयया तासु प्रजासु प्राणप्रार्थना अत्र स्पष्टा । तादर्थ्ये चतुर्थी ॥
7उदकुम्भमादायाध्वर्युस्त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन् पर्येति - वल्गुरिति ॥ वल्गुः शोभनो ऽसि । वल्गनशीलो वा । शंयुधायाः शंयुर् उदकं सुखहेतुत्वात् तस्य धाता धारयिता शंयुधायाः ‘वहिहाधाञ्भ्यश्छन्दसि’ इति कारकपूर्वत्वादसुन् । पूर्वपदप्रकृतिस्वरत्वं च शिशुः शितधीर् जनधाया जनानां सर्वेषां धारयिता । पूर्ववदसुन् स्वरश्च ॥
8निधाय कुम्भं त्रिः प्रतिपर्येति - शं च वक्षीति ॥ सम्यक्च सर्वतश्च वह यद्वोढव्यम् । वर्णान्यत्वं छान्दसं वहेर्लटि शपो लुक् ॥
9उत्तरं नाभिमभिमृशति - चतुस्स्रक्तिरिति ॥ चतुस्स्रक्तिश् चतुष्कोणा ऋतस्य यज्ञस्य भूमेर् नाभिर् नहनस्थानं त्वमसि हे प्रवर्ग्य! ॥
10उत्तरवेदिमभिमृशति - सद इति ॥ सदस्थानं च त्वमसि । कीदृशं? विश्वायुर् विश्वमायुर् येन तादृक् शर्म शरणं सुखहेतुर्वा सप्रथाः प्रथावद् विस्तीर्णम् । लिङ्गव्यत्ययः । यस्मात्सर्वस्य ईदृशं सुखस्थानं त्वमसि तस्माद्वयमपि त्वामाश्रित्य ईदृशा भूयास्म ॥
11मार्जालीयदेश उच्छिष्टखरम् - अपद्वेष इति । द्विपदा गायत्री ॥ द्वेषः द्वेषयुक्तं ह्वरः कुटिलं पापम् । द्विष अप्रीतौ, ह्वृ कौटिल्ये, द्वाभ्यामसुन् । अन्यतस्य अन्यज् ज्योतिष्टोमादिव्यतिरिक्तमशास्त्रीयं व्रतं कर्म यस्य तस्य ह्वरस् तेन युक्तं वधादिप्रयोगश्च उभयमप्य् अपसश्चिम अपनयामः । छान्दसोऽडादेशस्य लुक् नकारोपजनह्रस्वत्वे । छान्दसे लिट्य् उत्तमपुरुषबहुवचने छान्दस उपधालोपः व्यत्ययेन परस्मैपदम् ॥
12पात्राणि पूरयति यान्यासेचनवन्ति दध्ना मधुमिश्रेण - घर्मेति ॥ हे घर्म ! एतद् दध्यादि तव अन्नम् अदनीयम् एतच्च तव पुरीषं पूरणम् आप्यायनम् । तस्मात् तेन अनेन वर्धस्व च अन्नत्वाच्चिरमनेन जीवय आप्यायस्व च । तेन पूरणत्वात् पुष्टदेहो भव । ततस्त्वत्प्रसादाद् वयम् अपि वर्धिषीमहि च आप्यासिषीमहि च । वर्णान्यत्वं छान्दसं, विकारान्तरं वा सकारः ॥
13अथैनमुपतिष्ठते - रन्तिर्नामासीति ॥ हे घर्मपुरुष! रतिहेतुस्त्वं भूतानामसि । ‘क्तिचि क्तौ च’ ‘न क्तिचि दीर्घश्च’ इति दीर्घत्वलोपयोरभावः । वृषादिर्द्रष्टव्यः । क्तिरेव छान्दसो लोपाभावः । दिव्यः दिवि भवः गन्धर्वः गोर्वाच उदकस्य पृथिव्या वा धारयिता । तस्य तादृशस्य ते पद्वत् पादा विवर्तत हविर्धानं प्रतिष्ठानहेतुत्वात् । अग्निरध्यक्षा अध्यक्षिता रक्षिता सामीप्यादाहवनीयः । अक्षतेः ‘गतिकारकयोरपि’ इत्यसुन् । रुद्रोऽधिपतिः स्वामी तवात्र । अत ईदृशेन महानुभावेन त्वया अहमप्य् आयुरादिभिः सङ्गसीय । असौ त्व् अमुकनामा विहीयताम् आयुरादिभिः । योग्यक्रियापदाध्याहारः ससाधनक्रियावाचित्वादुपसर्गाणाम् । अदश्शब्दो ऽन्तोदात्तः ‘उदात्तस्वरितयोः’ इत्याकारः स्वर्यते । असावित्युक्तम् । क इत्याह - य इत्यादि ॥
14अचिक्रददिति गायत्री ॥ अचिक्रदत् क्रन्दयति स्तनयति वृषा वर्षतेर् अनि णिजन्ताद् लुटि वृषादिः । हरिर् मनोहरः प्राणिनाम् उपमानपदं वा इन्द्र इव वर्षिता । महान् पूजितः मित्रो न प्रिय इव दर्शतः दर्शनीयो ऽयं सूर्येण संरोचते समं दीप्यते रोचतां वा ॥
15चिदसीति पङ्क्तिश् चतुष्पदा यजुरन्ता ॥ अग्नौ व्याख्याता ॥
16विश्वावसुमिति ॥ अतः परास् तिस्रस्त्रिष्टुभः - आप इति प्रथमपादान्ता । एताभिस् तिसृभिर् आदित्यपर्जन्यद्वारेण वृष्टेः प्रवर्तयितारं घर्मपुरुषं स्तौति । विश्वावसुं विश्वानि वसूनि वरिष्ठान्य् उदकान्य् उदकहेतवो रश्मयो वा यस्मिन् तं सोमगन्धर्वं सोमेन हेतुना गन्धर्वं गोरुदकस्य धारयितारं यागाभिनिवृत्तिद्वारेण वृष्टेरुत्पादयितारम् आपः ददृशुषीर् दृष्टवत्यः । तत् तत्र आदित्ये ‘सुपां मुलुक्’ इति लुक् । ऋते सत्ये अविनाशे यज्ञात्मनि वा नावि नौस्थानीये गगनार्णवमध्यवर्तिनि परमात्मनि महार्णवमध्यवर्तिनि वा आयन् अवस्थितः । नौशब्दात् सप्तम्याः ‘सावेकाचः’ इत्युदात्तत्वे ‘उदात्तस्वरितयोः’ इत्यादिना स्वरितत्वम् । अथ इन्द्रस् तासाम् अयनम् अन्ववैद् अनुक्रमेण गतवान् । अथ रारहाण आसां सूर्यसम्बन्धिनीनां राहणं तत्र स्थानाच् च्यावनाद् वृष्टिं कर्तुं क्षम इन्द्र आसां परिधीन् परितो धारयितॄन् मेघान् पर्यपश्यत् सर्वत उदपादयद् यथा सूर्यस्य परिधिस्थानीयान् समन्ताच्छेषयितॄन् वर्षहेतून् मेघान् पर्यपश्यत् । ते च सूर्यात् स्वात्मनि सङ्क्रान्तमुदकं पृथिव्यां मुञ्चन्तीति ॥
17विश्वावसुरियादि ॥ विश्वावसुर् अपामर्थज्ञो दिवि भवः दिव्यः गन्धर्वो ऽपां धारयिता रजस उदकस्य विमानः विविधनिर्माता परिच्छेत्ता वा नो ऽस्मदर्थं तम् इन्द्रम् अभिगृणातु वृष्ट्यर्थमुत्साहयतु । यद्वा - तदुदकस्य स्थानं स एव नो ऽस्मभ्यम् अभिगृणात्व् आभिमुख्येन शब्दयतु कथयतु । कस्मादेवमुच्यत इति चेत् - यच्च सत्यं चक्षुषा दृष्टं ‘चक्षुर्वै सत्यम्’ यदपि न विद्म मनसाऽपि न जानीमः सर्वं तत् स एवाभिगृणातु तेन विना को विजानीयात् । अथवा – यच्चापि सत्यम् आत्मस्वरूपं तदपि यस्मान्न विद्म न जानीमस् तस्मात्स एवाभिगृणात्व् अस्माकं धियः कर्माणि हिन्वानः प्रेरयन् प्रवर्तयन् स एवास्माकं धियः कर्माणि प्रज्ञा वा अव्याद् रक्षतु तर्पयतु वा वृष्टिद्वारेण । युक्तमिदं प्रकाशप्रदानेन यः कर्मसु प्रेरयति स एव वृष्टिप्रदानेन रक्षितुं तर्पयितुं वा अर्हतीति । रहि गतौ भौवादिकः । हिवि प्रीणने दैवादिकः । स्वादिभ्यः नः । ताच्छीलिके चानशि मुगभावस् तस्मादित्यस्य ज्ञापितत्वात् ; यथा - ‘अपि शाकं पचानस्य’ इति ॥
18सस्निमविन्ददित्यादि ॥ अत्र वृष्टिक्रमं दर्शयति - नदीनां नदनशीलानाम् अपां चरणे सञ्चारणायां वृष्टौ सस्निं शोधनां शुद्धं वा मार्गं स गन्धर्वो ऽविन्दद् विन्दति लभते प्रथमम् । ततोऽयम् अश्मव्रजानाम् अश्म व्यापकम् अन्तरिक्षं व्रजं स्थानं येषां तेषां मेघानां दूरो ऽपां द्वाराण्य् अपावृणोद् उद्घाटितवान् । तत आसाम् अपाम् अमृतानि रूपाणि प्रावोचद् ब्रवीति व्याकरोति प्रजाभ्य इदमुदकम् इदमस्य रूपम् इयं वृष्टिरिति ॥
19अथेन्द्रस्य प्रवृत्तिमाह - इन्द्रो दक्षमिति ॥ इन्द्रः पर्जन्यः दक्षम् उदकदानसमर्थं मेघं परिजानात् सर्वात्मना जानात्य् अहीनम् अनल्पोदकम् । तादृङ्मेघं वृष्टौ नियुङ्क्ते इति भावः । यद्वा - अहीनामिति मेघानां मध्ये । वर्णविकारश्छान्दसः । अहीनाम् इनं वा । सर्वथा ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - अह्नां समूहः क्रतुर् अहीनः । ‘अह्नः खः क्रतौ’ इति खः । वृष्टिप्रदानदक्षं क्रतुमिन्द्रो जानाति । प्रदर्शनत्वात् क्रतुमात्रं गृह्यते । तादृशं क्रतुम् इन्द्रो वृष्टौ नियुङ्क्ते । ततस् तत्सामर्थ्येन वृष्टिर्भवति । तत्र प्रत्ययाद्युदात्तत्वेन ईकार उदात्तः । तादृशश्च क्रतुरयमेव घर्म इति घर्मपुरुष एव स्तुतो भवति ॥
20अभिमन्त्रयते - एतदिति ॥
21प्रदक्षिणमावर्तते - इदमिति ॥ उभयं ‘त्वं सोम'59 इत्यत्र व्याख्यातम् । अत्र घर्मेति विशेषः । सोमपीथेति । हे धर्म ! सोमपीथा सोमपीथेषु सोमपानवत्क्रतुषु, सोमपान एव वा निमित्ते । ‘सुपां सुलुक्’ इत्याकारः । अन्वेहि माम् अनुगच्छ प्रजया रायस्पोषेण च मह्यं देयेन सहागच्छ । ओमाङोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावेन आङ्ग्रहणेन ग्रहणात् ‘ओमाङोश्च’ इति पररूपत्वम् । एकादेशस्वरेण एकार उदात्तः ॥
22मार्जालीयदेश उच्छिष्टखरे मार्जयन्ते - सुमित्रा न इति ॥ ‘उरुं हि राजा’ इत्यत्र व्याख्यातम् ॥
23आदित्यमुपतिष्ठते - उद्वयं तमस इति ॥
24-25गार्हपत्ये जुहोति - उदु त्यं चित्रमिति द्वाभ्याम् ॥ एतास्तिस्रो गायत्र्यः व्याख्याताः । अत्रासां प्रतीकग्रहणम् ॥
26आहवनीये जुहोति - इममूषुत्यम् इति गायत्र्या ॥ हे अग्ने ! इममूषु त्यं तम् इममेव सनिं सम्भजनीयम् अस्मदीयं त्वदीयं वा लाभं यज्ञात्मकं गायत्रं स्तोतव्यं प्रशस्तं नवीयांसम् अभिनवतरम् अभूतपूर्वं देवेषु देवसङ्घेषु प्रवोचः सुष्ठु प्रब्रूहि व्याकुरु सम्यगिष्टमनेनेति ख्यापय । अस्मभ्यम् अस्मदर्थम् अस्मदुपकारार्थम् इममेव यथाऽनुष्ठितं समीचीनं प्रब्रूह्य् अयमस्माकं तव च लाभ इति भावः ॥
इति सप्तमे एकादशोऽनुवाकः ॥
१२
1महावीरे गोपय आनयति - महीनामिति ॥ हे गोपयः ! महीनां महनीयानां गवां पयोसि देवत्रा देवेषु देवनिमित्तं विहितं कॢप्तम् ॥
2मध्वानयति - ज्योतिर्भा इति ॥ हे मधो! ज्योतिर्भा ज्योतिषामपि भासयितृ त्वम् असि वनस्पतीनाम् ओषधीनां च रसः सारः ॥
3दध्यानयति - वाजिनमिति ॥ हे दधि ! वाजिनम् अन्नवन्तम् अन्नहेतुं त्वा त्वाम् अवनयामः वाजिनो ऽन्नवन्तः वयम् अन्नलिप्सावन्त ऊर्ध्वम् उच्छ्रितं त्वां मनः मननीयम् । यद्वा - उच्छ्रितस्य मनसो हेतुं सुवर्गं स्वर्गं सुखरूपं स्वर्गहेतुं वा ॥
इति सप्तमे द्वादशोऽनुवाकः ॥
१३
1-2यदि धर्मः स्कन्देद् अस्कान्द्यौर् इति द्वाभ्याम् अनुष्टुब्गायत्रीभ्यां घर्ममभिमन्त्रयते - अस्कानिति ॥ व्याख्याते चैते ॥
इति त्रयोदशोऽनुवाकः ॥
१४
1यदि घर्मेण चरत्सु विद्युदापतेत् पूर्वादिषु दिक्षु यथालिङ्गं जुहुयात् सर्वतो यदि सर्वैर्वा जुहुयात् - या पुरस्तादिति ॥ पुरस्तात् पूर्वस्यां दिशि या विद्युद् आपतत् तां तन्निमित्तमनिष्टं ते तव सम्बन्ध्य् एतेन होमेनावयजे अपनयामि । दक्षिणादिषु विद्युदादेरनुषङ्गः ॥
इति चतुर्दशोऽनुवाकः ॥
१५
1घर्मप्रायश्चित्तानि प्राणाय स्वाहा पूष्णे स्वाहेति ॥ द्वावनुवाकौ । प्रथम प्राणव्यानापानचक्षुश्श्रोत्रमनोवाग्भिः सप्त होमाः ॥
इति पञ्चदशोऽनुवाकः ॥
१६
1अथ पूषविशेषेभ्यः सप्तभ्यो होमः - पूषा पुष्टिकरः पशूनाम् । शरः शर्म सुखं तद्धेतुभावेन पोषयिता हिंसिता वा शत्रूणाम् । प्रकृष्टः पथ्यः प्रथमस् तत्र साधुस् तस्मै वा हितः प्रपथ्यः । नराणां सर्वेषामपि धारयिता नरन्धिषः । पृषोदरादिः । अङ्घ्रिण आगतघृणिर् आगतदीप्तिर्वा । घृणि दीप्तौ । अंहसां हन्ता वा । नरुणः नेता । नृ नये । न रुजतीति वा नरुणो ऽहिंसकः । सकेतुषु समाहितमतिषु सङ्गतदीप्तिषु वा सकेतेषु वा मर्यादात्मसु भवः साकेतः ॥
इति षोडशोऽनुवाकः ॥
१७
1घर्मेष्टकामुपदधाति - उदस्येति । द्वे अक्षरपङ्क्ती चतुष्पदे ॥ बिभर्ति भारमिति प्रथमायास्तृतीयः पादः । पादादित्वादाख्यातस्य निघाताभावः । देवमनीषेति द्वितीयाया द्वितीयः पादः । अर्चन्त इति पुरउष्णिक् । धर्मश्शिर इति गायत्री यजुरन्ता । प्रजयेति तृतीयपादादिः । अस्य घर्मेष्टकाधारस्याग्नेः शुष्माद् बलात् हेतोर् भानुर् आदित्योपि न उद् आर्त (नोदार्त) उदार्तो नाभवत् । ल्यब्लोपे पञ्चमी । अस्य शुष्ममभिसमीक्ष्य भानुरुदारमना अभवत् तेजसा महानासीत् । अर्तेर्लुङि व्यत्ययेनात्मनेपदं शपश्च लुक् । आडागमे कृते ‘आटश्च’ इति वृद्धिः । अयमग्निः पृथिवी न पृथिवीव भारं बिभर्ति लोकभारं वहति । भूम भूम्ना भूमवन्तं वा भारम् । ‘सुपां सुलुक्’ इति लुक् ॥
2प्रशुक्रेति द्वितीयेष्टकोच्यते । शुक्रा निर्मला देवी द्योतनवती मनीषा मनस एषणीया इयम् इष्टका प्रैतु प्रयाणं यज्ञस्यारम्भं करोतु ; गमनारम्भं वा स्वर्गं प्रति करोतु । अस्मद् अस्मत्तो ऽस्मत्सकाशात् प्रथमं गच्छतु सुतष्टो रथो न सुसंस्कृतो रथ इव वाज्य् अन्नवान् पाथेयसम्भृतो ऽश्ववान्वा तादृशो रथ इव इयं प्रैतु ॥
3अर्चन्त इत्यादि ॥ तम् इमम् अग्निम् अर्चन्तः पूजयन्त एके केचिन् महि महत् पर्याप्तं साम सान्त्वनं गानं वा मन्वत प्रशस्तमाराधनसाधनम् । मन्यतेश् छान्दसो लङ् वर्णव्यत्ययः । तेन साम्ना इममग्निमर्चयित्वा सूर्यमधारयन् दिवि स्थापितवन्तः । तेनैव द्वारेण सूर्यमरोचयन् रोचयन्ति दीपयन्ति ॥
4घर्मश्शिर इति ॥ घर्मः यज्ञस्य शिरः स एवायमैष्टकोऽग्निस् तस्याग्नेः पुरीषं पूरणं च त्वम् असि हे इष्टके ! सम्प्रियं सम्यप्रियं प्रियतमं पूरणमसि । तस्मात् त्वया उपहितया स घर्मः प्रजया पशुभिश्च इत्थम्भूतः भुवद् भवतु । लेट्य् अडागमे शपो लुक् ‘भूसुवोस्तिङि’ इति गुणाभावः । विकरणव्यत्ययेन वा शः ॥
5प्रजापतिस्त्वा इत्यादि व्याख्यातम् ॥
इति सप्तदशोऽनुवाकः ॥
१८
1कुलायिनीमुपदधाति - यास्त इति ॥ इयमतिशक्करी पञ्चपदा यजुरन्ता । प्रथमः पादो विवृद्धः । हे अग्ने ! अग्न्याधारभूते इष्टके! यास्ते तव आर्द्रा रसवत्यः योनयः कारणभूता ओषधिवनस्पतयः याः स्वयोनयः कुलायिनीः कुलायवत्यः नीडाः शुष्का हे अग्ने! ते तव य इन्दव ऐश्वर्यहेतवः योनयः याश्च तव नाभयः नहनस्थानानि योनयः हे अग्ने! याश्च ते तव तनुवः शरीराण्णि शरीरस्थितिहेतव ऊर्जों नाम रसास् ताभिर् उभयीभिर् योनिभिस् तनुभिश्च संविदान ऐकमत्यं गतः हे अग्ने! त्वं प्रजाभिर् द्रविणा द्रविणैश्च सह अस्मभ्यं देयैर् इह सीद । ‘सुपां सुलुक्’ इति तृतीयाया आकारः । प्रजापतिस्त्वेत्यादि गतम्64 ॥
इत्य् अष्टादशोऽनुवाकः ॥
१९
1ऐष्टिक्या चित्याऽध्वर्युरग्निमभिमृशति - अग्रिरसीयादि॥ अग्निश् चयनात्मा त्वम् असि । वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी स त्वं संवत्सरोसि तेषामविकलप्रवृत्तिहेतुत्वात् । संवत्सरादयो व्याख्याताः । बार्हस्पत्ययुगपञ्चकविषयाः । तस्य संवत्सराद्यात्मनस् ते तव शिरःप्रभृतय अवयवा वसन्तादिस्थानीयास् तस्य तव संवत्सराद्यात्मकत्वात् । तत्र मासादयः कल्पन्तां स्वकार्यसमर्था विधेया भवन्तु । एतीत्यादिपञ्चभिरुपसर्गैः कल्पनं विशेष्यते । एभिरर्थैर्विशिष्टः कल्पन्तामिति समन्तात् प्रकर्षेण विविधं सम्यक् उच्छ्रितं च लोकहितानुरूपं मासादयः कल्पन्तामिति यावत् । प्रजापतिस्त्वेत्यादि गतम् । ध्रुव इति पुल्लिङ्गता विशेषः ॥
इत्य् एकोनविंशोऽनुवाकः ॥
२०
1सर्व प्रायश्चित्तानि जुहोति - भूर्भुवस्सुवरिति ॥ व्याख्यातम् ॥
2-3यदि महावीरः पद्येतोर्ध्व ऊषुण इत्य् ऊर्ध्वो न इति द्वाभ्यामेनमुच्छ्रयते । व्याख्याते चैते पथ्याबृहत्य् अस्तारपङ्क्तिश्च । अत्र तयोः प्रतीकग्रहणम् ॥
4यदि भिद्येत सन्दध्याद् विधुं दद्राणमिति त्रिष्टुभा ॥ अयेति चतुर्थपादादिः । विधुं विधानकुशलम् । विध विधाने । दद्राणम् आद्रीयमाणम् । दृङ् आदरे । समने अवैकल्ये पथि बहूनां जीवानां मार्गाणां युवानं तरुणम् ईदृशमेव सन्तं प्रसह्य पलितो जगार गिरति ग्रसते । यद्वा - विधुं व्याद्धव्यं दद्राणं दिव्यमानुषदेहम् । ताच्छीलिकश्चानश् । स्वपन्तं वा भुञ्जानं तमेव पलितो गिरति पलिततनुकेशविकारेण तत्करणं जरा लक्ष्यते । किञ्च - अद्य अस्मिन्नन्हि ममार म्रियते गतप्राणो भवति पुरुषः स एव ह्यः पूर्वस्मिन्नहनि समान सम्यक् प्राणितवान् येनैवं देहस्थितिर् जीवस्थितिश्चान्या च भवते तदिदं देवस्य भूतग्रामव्यवहारिण ईश्वरस्य काव्यं कवित्वं क्रान्तदर्शिनः कर्मसामर्थ्यं पश्य महित्वा विश्वमवष्टभ्य स्थितं महत्त्वेन वा इत्थम्भूतं महाकवित्वमिति यावत् । त्वप्रत्ययान्तात् तृतीयाया आकारः । ननु दृष्टमिदं काव्यं देवस्य किमागतं महावीरस्य भिन्नस्य । अयं भावः - यथाऽयं महान् कविर्देवो युवानं पलितदेहं करोति सम्यक् प्राणन्तं च मृतं करोति तथा पलितदेहमपि युवानं कुर्याद् गतप्राणमपि सम्यक् प्राणितारम् । अतस्स देव इममपि महावीरं भिन्नं सन्दधात्विति । ‘निपातस्य च’ इत्य् अद्यशब्दस्य संहितायां दीर्घत्वम् ॥
5अथ दृढार्थे यानि संश्लेषणानि स्युस् तैरेनमभिदध्यात् - यदृते चिदिति पथ्याबृहत्या ॥ हे महावीर ! यद् यस्मात् त्वम् ऋते चिद् यज्ञ एव यज्ञनिमित्तमेव अभिश्रिषो ऽभ्यश्लिषः । शिष्यतिः पृषादिः कपिलकादित्वाद् लत्वविकल्पः । पुरा प्रागेव जर्तृभ्यः जरयितृभ्यः भेदकारणेभ्य आतृद आतर्दनात् हिंसायाः प्रागेव ते यावद्धिंसन्ति तावदेव तस्माद् यज्ञेऽभूदित्यर्थः । उ तृदिर् हिंसायाम् । ‘स्वपितृदोः कसुन्’ । तस्मान् मघवा इन्द्रः पुरोवसुः पुरस्ताद्वासयिता लोकस्य वसूनां वा पुरस्सरः स एवात्र सन्धिं सन्धाता अस्तु साधु सन्धानं करोतु । यत्पुनरत्र विहृतं कुटिलं पापं भेदनिमित्तं तदपि निष्कर्ता साध्वपनेताऽस्तु । उभयत्र ‘साधुकारिणि’ इति तृन् । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
6-7धर्मं पर्यूहति - पुनरूर्जेति । प्रतिपरीयुः - सह रय्येति । गायत्र्यौ व्याख्याते भूमिर्भूम्नेत्यत्र ॥ प्रतीकग्रहणम् अत्रैतयोः ॥
8घर्मे व्यथिते प्रायश्चित्तानि मा नो घर्मेत्यष्टौ - मा नो घर्मेति ॥ आद्ये त्रिष्टुभौ । हे घर्म! व्यथितश् चलितस् त्वमस्मान् मा विव्यथः मा स्म व्यथयः मा च कम्पयः मा विभीषयः । किञ्च - अस्मान् परं परकीयम् अनात्मीयं रजः लोकं मा नैर् मा नैषीर् अधरं निकृष्टं लोकं मा नैषीः । ‘बहुलं छन्दसि’ इतीडभावे हल्ङ्यादिलोपः । अपि च - अस्मान् तमसि तामसे लोके व्यामोहे वा अन्तरा मध्ये तमसि मा धा मयि माऽतिष्ठिपः । ‘गातिस्था’ इति सिचो लुक् । सुशब्दस्स्वातन्त्र्यं सूचयति - सुष्ठु स्वैरं मा धा इति । ‘सोमे सुङ्यः’ इति षत्वम् । किञ्च - रुद्रियासः रुद्रस्य स्वभूता गणाः प्रमथादयो ऽस्मान् माऽभिगु: मा भिगमन् मासमाधिषत । तदर्थं त्वं वृध वर्धस्व मा व्यधिष्ठाः । विकरणव्यत्ययेन शः । तिङः परत्वाभावान्निघाताभावः ॥
9मा नः क्रतुभिरियादि । क्रतुभिः कर्मभिर् हीडितेभिर् अनादृतैः श्रद्धारहितैर् हेतुभिर् अस्मान् मा द्विष मा द्विक्षः । अलुङ्यपि माङ् दृश्यते । ल्यब्लोपे वा अचि ? अन्त्यलोपः । हे असुनीते! असूनां प्रापयितः ! माऽस्मान् परादाः कुतश्चिदपि कारणान् मा त्याक्षीर् मा चास्मान् रुद्रो रक्षो भूद् अभिमन्यमानो मा हिंसीत् । ताच्छीलिके तृनि रथादित्वादिडभावः । निर्ऋतिर् अलक्ष्मीश्च अस्मान् माऽस्ता अस्त्री माऽभूत् । द्यावापृथिव्यौ चास्मान् मा हीडिषाताम् अनादृत्य मा बाधिषाताम् । हेड अनादरे, वर्णविकारश्छान्दसः । ईकारोपधं वा धात्वन्तरं द्रष्टव्यम् ।
10उप न इति त्रिष्टुप् जगती वा ॥ उग्रान्तस् तृतीयः पादः । व्याख्यातैषा ॥
11-15इमं मेवरुण इत्यादीनां पञ्चानां प्रतीकग्रहणं प्रथमा गायत्री । ततस्तिस्रस्त्रिष्टुभः । पञ्चम्यनुष्टुप् । व्याख्याताश्चैताः ॥
16-19यदि घर्मेण चरत्स्वादित्योऽस्तमियाद् अपरस्यां द्वारि दर्भेण हिरण्यं प्रबद्ध्य उद्वयं तमसस्परीत्यादित्यमुपस्थायोदुत्वं चित्रमिति द्वाभ्यां गार्हपत्ये हुत्वा प्रव्रज्य श्वोभूते वयस्सुपर्णा इति त्रिष्टुभा आदित्यमुपतिष्ठन्ते । व्याख्याताश्चैताः । प्रतीकमात्रमासां गृह्यते ॥
इति विंशोनुवाकः ॥1
२१
सोमे दधिघर्मं भक्षयति - भूर्भुवस्सुवरिति ॥ प्रथमं यजुः । ततो गायत्री । ततः कृतिर् दशपदा यजुरन्ता । लोकत्रयस्थितिहेतुस् त्यद् इदं दधि मयि इन्द्रियम् इन्द्रदत्तं मयि धायि इन्द्रियहेतुर्मयि धीयते । महत् प्रभूतं महनीयं वा । दक्ष उत्साहहेतुः । क्रतुः प्रज्ञाहेतुः क्रियाहेतुर्वा । सुवीर्यं शोभनपुत्रादिवृद्धि हेतुः ॥
2त्रिशुगित्यादि ॥ त्रिशुक् त्रिलोक विषया दीप्तयः यस्य तादृशोऽयं घर्मः मे मदीयः मम भक्षत्वेन सम्बन्धी विभातु । आकूत्या अभिप्रायेण तद्धेतुना मनसा च सह विभातु । विराजा अन्नेन तद्धेतुना च ज्योतिषा दीप्त्या सह । यज्ञेन तत्फलेन च पयसा वृष्ट्या सह । ब्रह्मणा ब्राह्मणजात्या तदीयेन तेजसा ब्रह्मवर्चसेन सह । क्षत्रेण क्षत्रियजात्या तदीयेन च यशसा सह । सत्येन तद्धेतुकेन च तपसा सह मयि विभातु । तस्य दोहं कामानां समृद्विं तेन कृतम् अशीमहि प्राप्नुवाम । छान्दसश्शपो लुक् । तस्य सुम्नं सुखं तन्निमित्तमिहैव अशीमहि । तस्य भक्षं सर्वदा अशीमहि ॥
3तस्य त इन्द्रेणेत्यादि । व्याख्यातम् ॥
इत्य् एकविंशोऽनुवाकः ॥
२२
1घोरास्तनूरादिशति - यास्त इति ॥ हे अग्ने ! यास्तव घोरा अशान्ता उग्रास् तनुवः क्षुदाद्यास् ताभिर् अमुम् अमुकनामानम् अस्माकं द्वेष्टारं द्वेप्यं च गच्छ ताभिस् तं बाधस्व । शिवाभिस् तनूभिर् अस्मान् आगच्छ । देहशोषहेतुत्वाद् अग्नेस् तनव एताः । क्षुध्यन्त्यनयेति क्षुद् बुभुक्षा । तृप्यन्त्यनयेति तृष्णा पिपासा । ष्णिह उद्गिरणे । शरीरान्तर्गतानां निस्सरणनिरोधिन्य् अस्नुक् । बहिस्स्थितानामन्नानाम् अन्तराहरणनिवारण्य् अनाहुतिः । अत्यर्थमशनेच्छा अशनया यया अशित्वाऽप्यशिशिषति । अत्यर्थं पातुमिच्छा पिपासा पीत्वाऽपि यया पिपासति । ‘अशनायोदन्य’ इति निपातनेऽपि दीर्घत्वं ‘न छन्दस्यपुत्रस्य’ इति निषिद्ध्यते । सादयति शरीरमिति सेदिर् आलस्यहेतुः । ‘उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्’ इति सदेः किप्रत्ययः । अमतिर् देहभञ्जिनी । अमतेस् तिन् प्रत्ययः । मतिविपर्यासहेतुर्वा ॥
इति द्वाविंशोऽनुवाकः ॥
२३
1स्निक्चेत्यादि ॥ स्निह्यन्ति भावेषु यया सा स्निक् । अनिष्टेऽपि विषये या स्नेहितिः सा स्नीहितिः । ण्यन्ताद्युजपवादः क्तिन् । ‘तितुत्रेष्वग्रहादीनाम्’ इति वचनादिटोऽप्रतिषेधः । स्नेहितिरिति प्राप्ते वर्णविकारश्छान्दसः । देहस्याकस्मात् स्निग्धताहेतुः स्निहितिश्च । अत्यर्थमुष्णकारिण्य् उष्णा । अत्यर्थं शीतकारिणी शीता । उद्गूर्णाङ्गा उग्रां या प्रजानां सर्वाण्यङ्गानि पुनःपुन उत्पादयति । यया सर्वतो बिभेति जन्तुः सा भीमा । सदाम्नी सम्बन्धनाय स्तब्धानि चङ्गानि करोति । सेदिरुक्ता । अनिरा या अनन्ना अन्नरुचिं निवर्तयति वाङ्निवृत्तिहेतुर्वा । एतास्त इत्यादि गतम्84 ॥
इति त्रयोविंशोऽनुवाकः ॥
२४
1राजसूयिको मरुद्गणः - धुनिश्चेत्यादि ॥ सप्तैतानि मरुतां नामानि । धुनिः कम्पयिता पादपानां धूनयतीति धुनिः । ‘धूञ्प्रीङोर्नुग्वक्तव्यः’ इति नुक् , छान्दसं ह्रस्वत्वम् । धुनोतेर्वा औणादिको निप्रत्ययः । ध्वान्तवान् ध्वान्तः । अत उर्ध्वं भाषान्तरं - ध्वनः यः परं ध्वनिभिरन्धीकरोति वायुः । ध्वन शब्दे । पादपानां शब्दयिता ध्वनयन् । पांसुभिर् लेपयिता निलिम्पः । तमपनेता विलिम्पः । गृहादीनां विक्षेप्ता विक्षिपः ॥
इति चतुर्विंशोऽनुवाकः ॥
२५
1उग्रश्चेत्याद्यग्निचित्यः । इन्द्र उग्र उद्गूर्णः महावातः । धुन्यादयो व्याख्याताः । सहसह्वान् पर्णादिभिस्सहागत्याभिभविता । सहमानो ऽभिभवनशीलः । सहस्वान् बलवान् । सहीयान् अतिशयेन बलवान् । एत्य इतो गत्वा विक्षेप्ता । प्रेत्य तत आगत्य विक्षेप्ता । अनियतवृत्तिर् विक्षिपः ॥
इति पञ्चविंशोऽनुवाकः ॥
२६
1घर्मधुक्स्तेन निवारणे मन्त्रः - हे स्तेन ! अहोरात्रे त्वाम् उदीरयताम् ऊर्ध्वं प्रेरयताम् । अर्धमासास्त्वोदीङ्गयन्तु न्यग्भूतं कुर्वन्तु । मासास्त्वा श्रपयन्तु तपन्तु । पचन्तु दहन्तु । हन्तु मारयत्व् असौ अमुकः ॥
इति षड्विंशोऽनुवाकः ॥
२७
1वाचः क्रूराणि - खडिति ॥ खट् एनं खण्डय । फट् नाशय । फडि नाशने । जहि मारय । छिन्धि द्विधा कुरु । भिन्धि नानाकुरु । हन्ध्य् उत्सारय । हद पुरीषोत्सर्गे । कट् आवृणु । कट आवरणे । इति वाचः क्रूराण्य् उक्तानि । तैरभिचरन् वषट्कुर्यात् ॥
इति सप्तविंशोऽनुवाकः ॥
२८
1घर्मेण चरत्स्व् एकसृक आगच्छेद् वाश्येत वा तमभिमन्त्रयते - विगा इन्द्रेति ॥ हे इन्द्र ! विचरन् स्वा गा मदीया विस्पाशयस्व विविधं सञ्चारयस्व । स्वपन्तम् अलसं मां पशुमन्तम् इच्छ कुरु । अमुम् एकसृकादिं दुर्विदत्रं दुष्टाभिप्रायं वज्रेण बोधय शिक्षय । स्वपतो मम अस्य भोजनेभ्यः । कर्मणि षष्ठी । भोजनानि प्रहर तदीयं भोजनं मम प्रयच्छ ॥
2उल्मुकं प्रक्षिपति - अग्ने इति ॥ हे अग्ने! अग्निना उल्मुकस्थेन संवदस्व दुष्टं नाशयितुम् ऐकमत्यं व्रज । हे मृत्यो! मृत्युना अग्निना संवदस्व । हे भगवः ! ऐश्वर्ययुक्त ! नमस्ते अस्तु ॥
3उपतिष्ठते - सकृदित्यादि ॥ सकृद् एकवारम् । द्विर् द्विवारम् । एवमुत्तरत्र । आसहस्रकृत्वः सहस्रसङ्ख्यायाः प्राग्भूतसङ्ख्याकृत्वः । अपरिमितम् अयुतादि ॥
इत्य् अष्टाविंशोऽनुवाकः ॥
२९
1यदि गृध्रो वाश्येत तमनुमन्त्रयते - असृङ्मुख इति ॥ असृङ्मुखः रुधिरपूर्णास्यः रूधिरेणाव्यक्त आलिप्तदेहः यमस्य दूतः किङ्करः श्वपात् श्वसदृशपादः विधावसि इतश्चेतश्च धावसि । गृध्रो जात्या त्वं सुपर्णः शोभनपत्रः कुणपं निषेबसे । यमस्य दूतः भवस्य रुद्रस्य चोभयोः प्रहितः प्रेषितः दूतस्त्वमसि । तस्माद्द्रुतं गन्तव्यम् ॥
इत्य् एकोनत्रिंशोऽनुवाकः ॥
३०
1आर्ता वा वागुदीयात्तामभिमन्त्रयते - यदेतदिति ॥ हे वाग्देवि ! यदेतत् त्वं वृकस आदानशीलो भूत्वा आर्तो भूत्वा अभिरायसि शब्दयसि । तेन मम द्विषन्तं शत्रुमभिराय तदुद्देशेन शब्दय । हे मृत्यो! तं द्विषन्तं मृत्यवे नय । स शत्रुर् आर्त्या पीडया आर्तिं विनाशम् आर्छतु प्राप्नोतु ॥
इति त्रिंशोऽनुवाकः ॥
३१
1भयेडकमभिमन्त्रयते - यदीषित इति ॥ यदीषितः यदि केनचित्प्रेषितः स्वकामी स्वेच्छावान् भयेडकः कुक्कुट एतां वाचं वदति तां वाचं ब्रह्मणा संविदानौ ऐकमत्यं गतौ इन्द्रानी युवाम् अस्मभ्यं गृहेषु शिवां कृणुतं कुरुतम् ॥
इत्य् एकत्रिंशोऽनुवाकः ॥
३२
सलावृकीमभिमन्त्रयते - दीर्घमुखीति ॥ हे दीर्घमुखि! दुर्हणु दुष्टहनो! अस्माकं दक्षिणतो मा वदः । यदि सर्वदा दक्षिणपार्श्वे वदात् शब्दयसि मम शत्रुम् अवबाधासै अवबाधिष्ठाः ॥
इति द्वात्रिंशोऽनुवाकः ॥
३३
उलूकमभिमन्त्रयते - इत्थादिति ॥ अयम् उलूकः हिरण्यसदृशाक्षो ऽयस्सदृशतुण्ड इत्थाद् अनेन प्रकारेण आपप्तद् आगतः । अयं रक्षसां दूत एवागतः । तमितो देशाद् अग्ने! नाशय ॥
इति त्रयस्त्रिंशोऽनुवाकः ॥
३४
यदि भूतोपसृष्ट उन्मत्तो वदेत् तमभिमन्त्रयते - यदेतदिति ॥ यदेतत् त्वं भूतानि देवनिकायान्य् अन्वाविश्य दैवीं मानुषीं वा वाचं वदासि तेनास्माकं द्विषतः परावद विनष्टान् वद । तान् मृत्यो इत्यादि स्पष्टम् ॥
इति चतुस्त्रिंशोऽनुवाकः ॥
३५
शकुनिमभिमन्त्रयते - प्रसार्येति ॥ हे काक ! सक्थ्यौ प्रसार्य जानुनी वितत्य पतसि सव्यं चाक्षि निपेपि च नितराम् आप्यायमानं कृत्वा पतसि । इत्थं मङ्गलमपतन् इह अस्मत्पार्श्वं कस्यचिदपि मा आममन् मा आगमद् व्यत्यय आगमः ॥
इति पञ्चत्रिंशोऽनुवाकः ॥
३६
यदि घर्मधुक् क्रिमिणा दुष्टा तं हन्यात् - अत्रिणेति ॥ हे क्रिमे ! त्वामत्र्यादिभिर् हन्मि । त्वं विश्वावसोर् आदित्यस्य ब्रह्मणा मन्त्रेण हतः क्रिमीणां राजाऽपि हतः । एषां स्थपतिः स्थापयिता । अथो अपि च मात्रादयः । स्थूराः स्थूलाः । आशातिका अशिते भवा अन्नदोषप्रभवाश्च । किं बहुना - श्वेताभिः सह अत्र्यादिभिस्सर्वे क्रिमयो हताः॥
इति षट्त्रिंशोऽनुवाकः ॥
३७
1अभिचरतो मन्त्रः - आहरावद्येति ॥ अमुं शत्रुम् आहर । आहृत्य अवद्य यथा शृतस्य हविषः पुरोडाशादेर् यमस्य जम्भयोर् दंष्ट्रयोर् आदधामि । इति यत्तत्सत्यम् अमोघमस्तु यन्मयोक्तं तथैव तद्भवति । खण्फण्म्रसि इति प्रक्षिप्यते । खण्डितो नाशितो म्रितत्वेत्यर्थः ॥
इति सप्तत्रिंशोऽनुवाकः ॥
३८
1अभिव्याहरणमन्त्रः - ब्रह्मणा त्वेति ॥ ब्रह्मणा मन्त्रेण त्वा शपाम्य् अनिष्टं प्रापयामि । ब्रह्मण ईश्वरस्य शपथेन समयेन अलङ्घ्येन । भृगूणां घोरेण अशान्तेन चक्षुषा प्रेक्षे । अङ्गिरसां रौद्रेण मनसा ध्यायामि । अघस्य धारया आस्येन विध्यामि ताडयामि । स त्वं मद् अधरो निकृष्टः पद्यस्व असौ अमुक! ॥
इत्य् अष्टत्रिंशोऽनुवाकः ॥
३९
1शत्रोर्द्वारि जपति - उत्तुदेति ॥ हे द्वारशाखे! शिमिजावरि ! कर्म सामर्थ्यवति ! उत्तुद उत्पीडय शत्रुम् । हे तल्पेजे! शयनस्थाने जाते ! तल्पे! उत्तुद शयन एवोत्पीडय । गिरीन् पर्वतान् अनुप्रवेशय । तत्र च मरीचीर् मारयित्रीर् दीप्तीर् उपसन्नुद समीपं नीत्वा मारय । यावद् यावति काले इतस् त्वत्स्थानादारभ्य पुरस्तात् सूर्य उदयात्य् उदेति तावत् तावति काले इतो ऽस्माद्देशाद् अमुं शत्रुं नाशय । योऽस्मानित्यादि गतम् ॥
इत्य् एकोनचत्वारिंशोऽनुवाकः ॥
४०
1महापातक प्रायश्चित्तम् - भूर्भुवस्सुवरिति ॥ व्याहृतयो व्याख्याताः । भुवः भवतो स्मात् स्थानाद् उद्धाय्य् उद्ध्रियताम् ऊर्ध्वं नीयताम् । नृम्णे सुखे नृम्णं सुखम् आत्मनि निधायि निधीयताम् । ओवायि इति स्तोमः । आत्मनाम ए इत्यामन्त्रणद्योतको हेपर्यायः हे आत्मन् ! सुवर्नज्योतीर् आदित्यवज् ज्योतिरात्मत्वम् ॥
इति चत्वारिंशोऽनुवाकः ॥
४१
1शुक्रियव्रते चतस्र औदुम्बरीः समिध आदधाति - पृथिवी समिदिति ॥ पृथिव्येव इयं समित् । तामग्निस्समिन्धे दीपयति । साऽग्निं समिन्धे समेधयति । तामहं समिन्धे समेधयामि । सा मा समिद्धा समिद्धा सा समिद् आयुरादिभिर् मां समिन्तां सन्दीपयतु ॥
2-3उत्तरे व्याख्याताः ॥
4प्राजापत्येति ॥ प्राजापत्या प्रजापतेस्स्वभूता सपत्नक्षयणी शत्रुनाशिनी समिदसि तस्माद् भ्रातृव्यहा पाप्मनां हन्त्री भव । स्वाहा सुहुतमस्तु ॥
5-8अथ देवता उपतिष्ठते - अग्ने व्रतपत इति ॥ हे अग्ने ! व्रतपते! व्रतं शुक्रियं व्रतं चरिष्यामि । तच्छकेयं कर्तुं शक्तोऽहं भवेयम् । तद् व्रतं मे राध्यतां सिद्ध्यताम् ॥
9-12व्रतविसर्गे द्यौस्समिदित्यादि प्रतीपम् ॥
13-16आदित्येत्याद्य् उपस्थानमन्त्राः । व्रतानामिति चतुर्थः ॥
इत्य् एकचत्वारिंशोऽनुवाकः ॥
४२
1उत्तरां शान्तिमुपयन्ति - शं न इति ॥ शं सुखं वातादयो ऽस्माकं सुखहेतुं कुर्वन्तु । रात्रेर् अह्नः प्रतिरूपकत्वेन धीयतां राज्ञः प्रतिहतैव [रात्रिरप्रतिहतैव] स्थाप्यताम् । उषा व्युच्छतु विभातु ॥
2शिवा न इति व्याख्यातम् । हे सरस्वति! नः शिवा त्वं शन्तमा भव सुष्ठु सुखयित्री च । तव सन्दृशि सम्यक्दर्शने वर्तमानानाम् अस्माकं मा व्योम स्यान् मा शून्यता स्यात् ॥
3इडायै वृष्टेर् वास्तु गृहम् असि । वास्तुमद् अभ्यन्तरग्रहयुक्तम् । मा वास्तोश् छित् स्महि भिन्ना मा भूम शत्रुर् अवास्तुर्भूयात् ॥
4प्रतिष्ठाऽसीत्य् अनेन व्याख्यातम् ॥
5हे वात! भेषजम् औषधम् आवाह्य् आगमय । यद् रपः दृष्टं विवाहि विगमय । विश्वस्य भेषजभूतो देवानां दूतो भूत्वा ईयसे ॥
6इमो द्वौ वातौ वातः गच्छतः । एक आसिन्धोर् आसमुद्राद्वाति । एक आपरावत आस्वर्गात् । तयोरेको मम दक्षं प्रज्ञानम् आवातु । अन्यः यद् रपः पापं तत् परावातु ॥
7हे वात! तव गृहे यददोऽमृतस्य निधिर्हितस् ततोऽस्माकं जीवनं धेहि तत एव भेषजं च ॥
8ततः नो ऽस्माकं महस् तेज आवह वातो भेषजमावातु शम्भूः सुखस्य भावयिता मयोभूरपि सुखस्य भावयिता नो हृदे हृदयस्य अस्माकम् आयूंषि प्रतारिषत् प्रतिरतु ॥
9त्वमिन्द्रस्य गृहोसि सगुः साश्वः । तं त्वां प्रपद्ये प्रविशामि । किं बहुना - यद् वस्तु मे अस्ति तेन सर्वेण सह ॥
10भूरादिं शरणं प्रपद्ये । अनार्ता अविनाशिनी देवता वाक् । अश्मानं विश्वव्यापिनम् आखणं खननस्थानं प्रकृतिमित्यर्थः । प्रजापतेः स्रष्टुर् ब्रह्मकोशं ब्रह्मणस्थानं ब्रह्म परमात्मानं प्रपद्ये । ओं प्रपद्ये ओङ्कारवाच्यं ब्रह्म प्रपद्ये ॥
11अन्तरिक्षम् उरु विस्तिर्णावकाशो ऽग्नयः पर्वताश्च बृहन्तो ऽवकाशाः । यया स्वस्त्या अविनाशाय असानि स्वस्तिमान् भूयासम् ॥
12प्राणापानाविति व्याख्यातम् ॥
13अग्निर् मयि मेधादिकं स्थापयतु । इन्द्रः सूर्यश्च ॥
14हे अश्विना ! अश्विनौ ! युवां द्युभिर् दिवसैर् अक्तुभिः रात्रिभिश्च सह अस्मान् परिपातं रक्षतम् अरिष्टेभिर् अहिंसकैः सौभगेभिः सौभाग्यैः । तं मित्रादयोऽपि मामहन्तां पूजयन्त्व् अनुमन्यन्ताम् ॥
15कया कः प्रजापतिः । ‘सुपां सुलुक्’ इति सोर्यादेशः । चित्रश् चायनीयः सदावृधः सदा वर्धयिता सखा समानख्यानो ऽस्माकं सखा भूत्वा ऊत्य् ऊत्या रक्षणेनास्मान् आभुवद् आभजतु पुनःपुनरवत्विति वा । किञ्च - कः शचिष्ठया शक्ततमया आवृता क्रियया अस्मान् आभुवत् ॥
16कः प्रजापतिः सत्यो नित्यः मदानां मदयितॄणां मध्ये मंहिष्ठः वृद्धतमः । महि वृद्धौ । अन्धसोऽन्नादपि त्वां मत्सन् मदयेत् । दृढाचिद् दृढान्यप्यङ्गान्य् आरुजे आरुजत् सर्वतो रुजति वसु वरिष्ठमिदमन्धः ॥
17सखीनां समानख्यानानाम् अविता रक्षिता जरितॄणां स्तोतॄणां रक्षाकाले ऊतिभिरभितः सुष्ठु च शतम् अनेको भवासि ॥
18वयस्सुपर्णा इति ॥ व्याख्यातम् ॥
19शन्नो देवीरिति ॥ देवीर् देव्यः देवनवत्य आपः नो ऽस्माकम् अभिष्टये अभीष्टाय पीतये पानाय शम्भवन्तु । किञ्च - अस्माकं शं च योश्च अभिस्रवन्तु ॥
20वार्याणां वरणीयानाम् ईशानाश् चर्षणीनां मनुष्याणां क्षयन्तीर् निवासभूता अपो भेषजं याचामि ॥
21सुमित्रा न इति ॥ व्याख्यातम् ॥
22आप इति ॥ हे आपः! यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ । ता यूयम् ऊर्जे अन्नाय अन्नं दधातन दत्त । किमर्थं महे महते रणाय रमणीयाय चक्षसे दर्शनाय च ॥
23यो वश्शिवतमः शान्ततमो रसस् तमिहास्मान् भाजयत उशतीः कामयमाना मातर इव ॥
24तस्मै रसाय अरं शीघ्रं पर्याप्तं वा गमाम गच्छेम । युष्मान्रसपानार्थं गच्छेम । हे आपः! यूयं यस्य निवासाय जिन्वथ प्रीता भवथ तस्मै तम् अरं तूर्णं गमाम । अस्माकं जनयथ च ॥
25पृथिवीति ॥ पृथिवी शान्ता निरुपद्रवा । सा अग्निना स्वामिना शान्ताऽभूत् सा शान्ता मम शुचं शोकं शमयतु । एवमन्येषु ॥
26पृथिव्यादयः शान्तिरूपा उपद्रवनिवृत्तिहेतवः । शान्तिरेव देवी स्वयं सर्वोपद्रवनिवृत्तिहेतुः । तस्मात् सैव मम शान्तिर्भूयात् ॥
27सर्वशान्तिप्रदया तया शान्त्या अहं मह्यं द्विपदादिभ्यः शान्तिं करोमि । सा शान्तिरेव सुखकरी भूयात् ॥
28इह लोके श्र्यादीनि मामुत्तिष्ठन्तं कर्मसु प्रवर्तमानम् अनूत्तिष्ठन्तु उपलक्ष्य ओत्तिष्ठन्तु समन्तादुत्तिष्ठन्तु । श्र्यादीनि कदाचिदपि मा मा हासिषुर् मा त्यजेयुः ॥
29उदायुषेति ॥ उदायुषा उदस्थामिति सर्वत्र । आयुषा जीवनेन स्वायुषा पूर्णायुषा ओषधीनां रसेन पर्जन्यस्य शुष्मेण अमृतान् देवान् अनु उदस्थाम् उच्छ्रितोऽभवम् ॥
30तच्चक्षुरिति ॥ तच्चक्षुस्स्थानीयं देवहितं देवेन परमात्मना स्थापितं शुक्रं शुद्धं पुरस्तात् पूर्वस्यां दिश्य् उच्चरद् उद्यत्तेजः वयं शरदश्शतं शतसंवत्सरान् पश्येम तत्प्रसादाद् अविकलचक्षुषः स्यास । जीवेम प्राणान् धारयाम । नन्दाम समृद्धास्स्याम । मोदाम हृष्याम । भवाम भूतिमन्तस्स्याम । शृणवाम अविकलश्रोत्रा भवाम । प्रब्रवाम प्रवचनवन्तः स्याम । अजीता अनभिभूतास्स्याम । ज्योक्च शरदश्शतं दीर्घमपि कालं सूर्यं दृशे । सूर्य द्रष्टुम् अजीतास्स्याम ॥
31यो महतोऽर्णवान् नित्यम् उदगाद् उद्गच्छति सरिरस्य अन्तरिक्षस्य मध्यान् मध्ये । ‘सुपां सुलुक्’ इत्यादिना आदादेशः। विभ्राजमानः विविधं दीप्यमानः । हेतौ शानच् । लोकं भ्राजयितुं स देवः वृषभः वर्षिता लोहिताक्षो ऽनन्तपुरुष उच्यते पुण्डरीकाक्षः विपश्चित् सर्वज्ञो ऽन्तरात्मा भूत्वा स्वीरयतीति सूर्यः मनसा सानुग्रहेण पुनातु शोधयतु ॥
32ब्रह्मण इति ॥ शान्तिरुच्यते । हे शान्ते! ब्रह्मणो वेदस्य श्चोतनी त्वत्तो ब्रह्म श्चोतति क्षरति । ब्रह्मण आणी धारणशङ्कुः स्थः । वचनव्यत्ययः । आणिरसि । आवपनम् आधारस्त्वमसि । इयं मही महती पृथिवी ब्रह्मणा धारिता । एनेन महदन्तरिक्षं धारितम् । एतद् ब्रह्म पृथिवीं विस्तीर्णां सदेवां देवसहितां दिवं दाधार धारयति । यदहं पदार्थजातं वेद अनुग्रहाज् जानामि तदहं धारयाणि तस्याहं धारयिता भूयासम् । मन् मत्तो वेदो विस्मृतो मा भूत् ॥
33मेधा धारणशक्तिर् मनीषा बुद्धिस् ते समीची सङ्गते भूत्वा मा माम् आविशताम् । भूतस्य भव्यस्य श्रेयसो ऽवरुद्धयै लाभाय सर्वमायुरयाणि प्राप्नुयाम । आदरार्था द्विरुक्तिः ॥
34आभिर्गीभिरिति ॥ व्याख्यातम् ॥
35ब्रह्मेति ॥ ब्रह्म वेदं प्रावादिष्म । ‘आशंसायां भूतवञ्च’ इति लुङ् । प्रकर्षेण वदितुं समर्थाः स्याम । तद् अधीतं नो मा हासीन् मा त्यजतु । ततोऽस्माकं शान्तिरस्तु सर्वोपद्रवनिवृत्तिरस्तु । त्रिर्वचनं त्रैकालिकदोषशान्त्यर्थम् ॥
इति श्रीभट्टभास्करमिश्रविरचिते प्रवर्ग्यमन्त्रप्रपाठकभाष्ये द्विचत्वारिंशोऽनुवाकः ॥
इति तैत्तिरीयारण्यके सप्तमप्रपाठकः समाप्तः ॥