०१
17उक्तं परप्रकृत्युपादानं भुवनाद्यात्मकं रूपप्रपञ्चं देवो दृष्टवानिति । इदानीं तदुपादानं नामप्रपञ्चमपि स एव दृष्टवानित्याह - प्रतदिति । शब्दस्य प्रथममाविष्करणं प्रवचनम् । नु पुराणे काले गां धारयतीति गन्धर्वः परनादात्मा देवस् तादृगवस्थो नाम भूत्वा तत् शब्दात्मकम् । तनोतेः क्विप् । तत्तत् प्रवोचे । अभ्यासस्य सम्प्रसारणाभावश् छान्दसः । प्रथममाविष्कृतवान् । अमृतम् अमृतत्वप्राप्तिहेतुं गुहासु शरीरावच्छिन्नात्मप्रदेशेषु निहितं वाचस्तुरीयं प्रोचे विद्वान् सर्वज्ञः । तथा अन्यानि च त्रीणि पदानि स देवः प्रोचे गुहासु संवृतेषु परमात्मप्रदेशेषु निहितानि यानि मनुष्या न वदन्ति । यथा - ‘गुहा त्रीणि निहिता नेङ्गयन्ति’ इति । तद् इदमर्थरूपं यः वेद सः सवितुर् उत्पादयितुः पितुरपि पिता उत्पादयिता रक्षकस् तारको ऽसत् स्यात् । वर्णव्यत्ययो वा - पितुः पिता । अस्तेर्लेटि ‘लेटोऽडाटौ’ इत्यडागमः ॥
18स न इति ॥ स एव देवः नो ऽस्माकं बन्धुः सुहृत् स एव जनिता जनयिता उत्पादयिता । ‘मन्त्रे’ इति णिलोपो निपात्यते । स एव विधाता श्रेयःकर्ता । स एव अस्माकं धामानि स्थानान्य् उचितानि वेद । स एव विश्वान्य् अपि भुवनानि भूतजातानि वेद । क इत्याह - यत्र देवे सुहृद्भूते देवा देवत्वं प्राप्ता अमृतम् अमृतत्वम् आनशानाः प्राप्नुवन्तः जीवास् तृतीये द्युसञ्ज्ञके लोके धामानि महिततमानि स्थानान्य् अन्यैरयन्त आभिमुख्येनागमयन् आत्मन्यधि कृतवन्तः स एव नो बन्धुरित्यादि ॥
19परीति ॥ सद्यः समानेऽह्नि द्यावापृथिव्यौ परियन्ति परिगच्छन्ति सर्वतो व्याप्नुवन्ति लोकान् ब्रह्मलोकादींश्च परियन्त्य् ऋतस्य यज्ञादेः कर्मणः विततं विस्तीर्णं तन्तुं भोगहेतुं फलं विवृत्य छित्वा प्रजासु मध्ये पूर्वोक्ता अमृतमानशानाः प्रजा एवं कर्मफलं छित्वा तत् परं वस्त्व् अपश्यत् पश्यन्ति ततस् ते देवा अभवद् भवन्ति तद्भावं प्राप्नुवन्ति । छान्दसोऽदादेशः । वचनव्यत्ययेन वा एकवचनम् ॥
20परीत्येति ॥ उक्तं मुक्तात्मनां देवेनैकात्म्यं फलम् । इदानीं देवस्य कार्यवर्गव्याप्तिं दर्शयति - अयं देवः प्रजापतिः प्रजानां विकाराणां पाता ऋतस्य यज्ञात्मनः परमात्मनः प्रथमजाः पूर्वमेव विद्यमानः लोकादीन् परीत्य परितो व्याप्य आत्मना आत्मीयेन रूपेण आत्मानम् आत्मसमष्टिं परव्योमाव्यं वस्त्व् अभिसंवभूव अभितस्सम्प्राप्तवान् सर्वत्रानुप्रविश्याधिष्ठातृत्वेन तस्थौ । मिथुनीभावः सम्भवः, यथा ‘तत्सृष्ट्वा । तदेवानुप्राविशत्’ इति ॥
21सदस इति गायत्री ॥ उक्तो दम्पत्योरिव मिथुनीभावो ब्रह्मणा परावरयोः । अधुना तमेवार्थं दर्शयन् स्पष्टयति सीदन्त्यस्मिन् सर्वे विकारा इति सदः प्रेयसीस्थानीया सर्वविकारहेतुः परा प्रकृतिस् तस्याः पतिः पाता नित्यसंश्लिष्टो भर्ता तादृशं देवम् अद्भुतम् आश्चर्यगुणं प्रियं प्रीणयितारम् इन्द्रस्य आत्मनस् तस्याः प्रकतेः कायं काम्यस्वभावं कामनार्हम् । अर्हे कृत्यप्रत्ययः । अत एव सानि सननीयं भजनीयं मेधां मेधाविनम् अतिविदग्धम् ईदृशं देवमहम् अयासिषम् अयानि प्राप्नवानि । छान्दसो लङ् । ‘यमरमनमातां’ इति सगिटौ । परप्रकृतिवशमापन्नं मामपि तामिवाङ्गीकरोतु ॥
22उद्दीप्यस्वेति ॥ द्वे अप्यनुष्टुभौ । हे जातवेदः! जातानां वेदितः! अग्निविशेषो जातवेदास् तदात्मानं देवं श्रियं प्रार्थयते ‘श्रियमिच्छेद्धुताशनात्’ इति दर्शनात् । हे जातवेदोरूप ! मदर्थमुद्दीप्यस्व मदीयां निर्ऋतिं पापदेवतामलक्ष्मीम् अपघ्नन् अपनीयं नाशयन् । हेतौ शता । तदर्थमुद्दीप्यस्व । ततो मह्यम् अपहतनिर्ऋतिकाय पशून् गवादीन् आवह च आनय च जीवनं च जीवनार्थं च सर्वा अपि दिशो दिश प्रयच्छ । अपहतपाप्मतया अमृतत्वप्राप्तिहेतु र्लक्ष्यते, ‘सर्वान् कामान् सह । ब्रह्मणा’ इति दर्शनात् । अत्र ‘चवायोगे प्रथमा’ इति हेत्यस्य निघाताभावो युक्तः ॥
23मा न इति ॥ हे जातवेदोरूप ! सा निर्ऋतिर् मम गवादीन् मा हिंसीत् त्वत्प्रसादेन मा वधिष्ट । पुरुषव्यत्ययो वा - हे देव त्वम् अस्माकं गवादीन् मा हिंसीः । अबिभ्रत् हिंसाधीकारात् तत्साधनान्यायुधान्य् अस्मदभयाय अधारयन् तानि च क्वचिन्निधाय आगह्य् आगच्छ ; यथा ‘परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि’ इति । गमेर्लेटि ‘शपो लुक्’ । अग्ने ! अङ्गनादिगुण! । यद्वा - अग्न्यात्मन्! । आगत्य मा मां श्रिया गवादिलक्षणया मोक्षात्मिकया वा परिपातय सर्वतस्सङ्गमय ॥
24पुरुषस्येति ॥ पुरउष्णिक् । कर्मणस्सम्प्रदानत्वात् सर्वा चतुर्थ्यर्थे षष्ठी । पुरुषं विश्वस्य पूरयितारं विश्वातीतं ध्यानाद्यविषयं परं वस्तु विद्म जानीम लभेमहि वा । विन्दतेर्विकरणव्यत्येन लुक् । सहस्राक्षस्य अनन्तज्ञानस्य अनन्तशक्तिकस्य वा पुरुषस्य विद्म महादेवस्य ध्यानादियोग्यविग्रहपरिग्रहक्रीडावन्तो देवास् तेषां प्रशस्तो महादेवः क्रियाशक्तिमधिष्टाय यो देव्या सह जगदनुगृह्णाति तं धीमहि ध्यायेम । सम्प्रसारणात्मनेपदे छान्दसे । अथ तत् तत्र नो ऽस्मान् रुद्रः ज्ञानशक्तेरधिष्ठाता यो विश्वं प्रेरयति सः प्रचोदयात् प्रचोदयतु वर्तयतु लेट्याडागमः ॥
१
25तत्पुरुषायेत्याद्याः पञ्च गायत्र्यः । तत्र प्रथमा गता । ‘तन्नो रुद्रः प्रचोदयात्’ इत्येतदन्तं सूक्तम् । ईश्वरार्चनेऽस्य विनियोगः । तदिति चतुर्थ्या लुक् । तस्मै प्रसिद्धैश्वर्याय । नतापतयानेत्येके(?) । क्विप् । अनुनासिकलोपे तुगागमः ॥
26अथ प्रसङ्गाद् विघ्नेश्वराद्याराधनार्था गायत्र्य आम्नाताः । द्वितीया विघ्नेशगायत्री । पराभेदात् पुरुषशब्देन सर्वदेवताभिधानम् । सर्वत्रावस्थात्रैविध्यं यथाकथञ्चिदुत्प्रेक्ष्यम् । वक्रतुण्डः कुटिलनासिकः । छान्दसष्टकारः । [छान्दसो हकारः] । दन्तिर् महादन्तः । छान्दसो ह्रस्वः ॥
27तृतीया गरुड़गायत्री - सुवर्णपक्षः शोभनपतनसाधनपक्षः गरुडः निगरणशीलः सर्पाणाम् । गिरतेरौणादिक उडन् ॥
28चतुर्थी दुर्गागायत्री ॥ तदभिमान्यग्निविशेषो मन्त्रप्रतिपाद्यः । कतस्यापत्यं कात्यायनः । यञन्तात् ‘यञिञोश्च’ इति फक् । कन्यकुमारि । कन दीप्तौ । दीपनशीला कुमारी कन्याकुमारी तादृग्रूपं धीमहि । छान्दसं हृस्वत्वं, विभक्तिलोपश्च, दुर्ग इत्यग्नेर्नाम तदात्मिका देवी दुर्गा ॥
29पञ्चमी विष्णुगायत्री - नृ नये, पचाद्यच् ॥ नरः नेता विश्वस्य । तस्य अपत्यानि नाराः सर्वे चेतना अचेतनाश्च तेषाम् अयनम् उपादानस्थानं नारायणः परमात्मा स एव भोक्तवर्गस्थो वासुदेवः जगतां वासहेतवो वागिन्द्रियाणि तैर्ये व्यवहरन्ति ते वासुदेवाः । तेषां समष्टिर् वासुदेवः विष्णुर् व्यापनशीलः विक्रमादिकर्ता । गतमन्यत् ॥
२
30स्नानकाले शिरसि मङ्गलार्थं दूर्वां धारयेत् - सहस्रपरमेत्यनुष्टुभा ॥ सहस्रपरमा सहस्रादभ्यधिका फलप्रदाने परिणामे वा देवी दीप्तमती शतमूला अनेकमूला शताङ्कुरा तादृशी दूर्वा दुस्स्वप्ननाशनी दुस्वप्नफलनाशनी मम सर्वं पापं हरतु । अत्र ‘काण्डात्’ इति द्वितीयां केचिदधीयते । ‘या शतेन'32 इति तृतीयां च । ते द्वे अग्निकाण्डे32 गते । ‘त्वया हतेन’ इति तस्या उत्तरमर्धर्चं पठन्ति ॥
31स्नानकाले मृद्ग्रहणमन्त्राः - अश्वक्रान्त इत्याद्याः । प्रथमा अनुष्टुप् । उद्धृताऽसीति द्वितीया परोष्णिक् । मृत्तिके हनेति तृतीया अनुष्टुप् । मृत्तिके देहीति चतुर्थ्यनुष्टुबेव । तस्याः पूर्वमर्धर्चं केचिदधीयते त्वया हतेनेति । द्वितीयमधर्चमनुषङ्गेणेच्छन्ति । अन्ये त्व् अन्यमर्धर्चमधीयते - यद्दैवं यच्च मानुषं ब्रह्मदत्ताऽसि काश्यपि इति ।गन्धद्वारामित्यनुष्टुप् । हे मृत्तिके ! अश्चक्रान्ते! अश्वेन व्यापकेन परमात्मना क्रान्ते ! व्याप्ते ! रथक्रान्ते ! रथेन रंहणशीलेन जीवसमष्ट्या पुरुषेण क्रान्ते! अधिष्ठिते! हे विष्णुक्रान्ते ! विष्णुना विक्रममाणेन क्रान्ते ! ‘विचक्रमे पृथिवीमेष एतां’ इति दर्शनात् । सा त्वं वसुन्धरा वसूनां धनानां धारयित्र्य् अद्य मया शिरसा धारिता देवनाद् देवी देवनशीला मां पदेपदे रक्षस्व स्थानेस्थाने रक्ष ॥
32त्वं ह्य् उद्धृता आसि पूर्वं वराहेण वराहवपुषा कृष्णेन कर्षणकुशलेन शतबाहुना अनन्तबाहुकार्येण उद्धृताऽस्य् अत एव त्वं भूमिः सर्वविकाराणां भवनाधिकरणं धेनुर् धेनुवत् सर्वस्य प्रीणयित्री धरणी ध्रियन्ते जीव्यन्ते अस्यामिति धरणी । धृङ् अवस्थाने, अधिकरणे ल्युट् । लोकधारिणी लोकस्य धारयित्री ॥
33हे मृत्तिके! मम पापं हन नाशय । व्यत्ययेन शप् । यन् मया दुकृतं दुष्कर्म विहिताकरणम् अन्यथाकरणं वा कृतं त्वया हेतुना हतेन नाशितेन पापेन इत्थम्भूतोऽहं शरदश्शतं जीवामि जीव्यासम् । पञ्चमो लकारः ॥
34हे मृत्तिके! मे पुष्टिं देहि त्वयि सर्वं पुष्टिकारणं प्रतिष्ठितं यद् दैवं देवसम्बन्धि यच्च मानुषं मनुष्यसम्बन्धि तत्सर्वं च त्वयि स्थितम् । ब्रह्मणा परेण लोकहितार्थं दत्ताऽसि हे काश्यपि ! काश्यपेन प्रजापतिना दृष्टा ॥
35गन्धद्वारामिति ॥ गोमयालेपने कैश्चिद्विनियुक्ता । श्रियो हेतुत्वात् तद्भावेन स्तूयते । गन्धद्वारां गन्धः प्रकाशः । इह तु तद्धेतुत्वाद् धर्म उच्यते । स द्वारमुपायो यस्यास्तां सुरभिगन्धद्वार शोभनां वा दुराधर्षाम् अमार्गेण प्राप्तुमशक्यां नित्यपुष्टां ध्रुवपुष्टिहेतुं करीषिणीं गोमयवतीं वा मृद्वतीं वा तद्रूपत्वात् सर्वभूतानां देवानामपि ईश्वरीं स्वामिनीं तादृशीं श्रियम् अस्मिन् कर्मण्य् उपह्वये मम समीपे आह्वयामि ॥
36स्नानकाले जपति - हिरण्यशृङ्गमिति द्वे ॥ प्रथमा पुरस्ताद्बृहती । हिरण्यशृङ्गं हितरमणीयदीप्तिं हिरण्यवदुज्ज्वलदीप्तिं वा वरुणं प्रपद्ये स त्वं मे मह्यं तीर्थं तारकं पुण्यं देहि याचितः प्रार्थितः । कुतस्तारकमित्याह - यन्मया भुक्तं प्रतिगृहीतम् असाधूनां कर्मणा अभोज्यान्नानां सम्बन्धि यदन्नं भुक्तं यश्च पापेभ्यः म्लेच्छादिभ्यः स्वतो ऽभोज्यान्नेभ्यः प्रतिग्रहस् ततस्सर्वस्मात्तारकमिति ॥
37यन्म इति पथ्याबृहती ॥ यन् मे मदीयैर् मनआदिभिर् दुष्कृतं कृतं तन् मे मत्तः । पञ्चम्यर्थे षष्ठी । इन्द्रादयः पुन:पुनः निरवशेषं पुनन्तु शोधयन्त्व् अपनयन्तु ॥
38-39अञ्जलिना उपहरति - सुमित्रा न इति ॥ अतः पराणि यजूंषि । तां दिशं निरुक्षयति यस्यां दिशि द्वेप्यो भवति - दुर्मित्रा इति । उभे व्याख्याते ॥
40दर्शपूर्णमासयोर् अप्पतीनुपतिष्ठते - नम इति ॥ अद्भिस्तद्वान् अप्सुमान् । वरुणस्य पत्नी वारुणी । गतमन्यत् ॥
41हस्तेन प्रदक्षिणमुदकमावर्तयति यस्मिन् प्रदेशे निमज्जति - यदपामिति यजुषैव ॥ अपां सम्बन्धि यत् क्रूरं हिंसकं यच् च अमेध्यम् अमेधार्हम् अशुद्धं यच्च अशान्तं सोपद्रवं मन्त्रादिनिरुद्धवीर्यं तत् सर्वम् आभ्यो ऽपगच्छताद् अपगच्छतु नश्यतु ॥
42उत्तरास्तिस्रो निमज्जनमन्त्राः - अत्याशनादित्याद्याः ॥ प्रथमे अनुष्टुभौ । शास्त्रमर्यादामतीत्य यदशनं यच्च पानं देवयज्ञतर्पणादिकार्यमतीत्य अत्यशनम् अतिपानं च यत् पापं यच्च पापम् उग्रात् प्रतिग्रहात् शास्त्रमर्यादाहिंसकात् प्रतिग्रहात् तत् सर्वं पापं मदीयं वरुणो राजा अपां स्वामी पाणिना अवमर्शत्व् अपनयतु । हिशब्दस्सम्भावनायाम् । एवं मां सम्भावयतु पाणिनाऽपि ह्यवमर्शतु पापं यथा न करोमीति ॥
43सोऽहं त्वया अपमृष्टपापः पापैरनभिभवनीयः विरजः विरजा आणवादिसमस्तमलरहितः । छान्दसो लिङ्गव्यत्ययः । निर्युक्तः विमुक्तसंसारबन्धः । मुक्तकिल्बिषः विगळितसर्वपाशः । ततः नाकस्य सर्वदा विद्यमानसुखस्य । स्थानं पृष्ठम् उच्छ्रितप्रदेशं परमाकाशम् आरुह्य ततो गच्छेयम् । पुरुषव्यत्ययः । ब्रह्मणा परेण विश्वातीतेन समानलोकतां समानावकाशतां गच्छेयं गन्तुमर्होऽस्मि सञ्जातः ॥
44इमं म इति जगती ॥ नदीनामान्येतानि । ‘स्वारितात्संहितायां’ इत्यैकश्रुत्यम्। हे गङ्गे! इमं मदीयं स्तोमं स्तोत्रं शृणुहि शृणु । ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्’ इति लोपाभावः । अस्मत्पार्श्वमागत्य शृणुहि । एवं यमुनादिषु द्रष्टव्यत् । ततः सर्वा यूयम् आसचत आगत्य मयि समवेता भवत शरीरमनुप्रविश्य तिष्ठत । तत्र गमनशीला गङ्गा । यमयित्री यमुना पापानामुपरतिकारिणी। विचित्रसरणा सरस्वती क्वचित्क्वचिदनुपलम्भात् । आशुप्रवृद्धद्रवणा शुतुद्री । परागतोष्णा अपरुष्णी । गौरादिर्द्रष्टव्यः । आकारेण सह यणादेशे इकारोपजनश्छान्दसः । असितवर्णा असिक्नी । ‘छन्दसि क्नमेक इच्छन्ति’ इति ङ्नीषि क्नादेशः । ‘उणादयः’ इति विभक्तेरुदात्तत्वम् । पूर्ववद् इकारोपजनः । हे मरुद्वृधे! मरुद्वद्वर्धिते । इगुपधलक्षणः कः । वितस्तया उपक्षयरहिता वितस्ता आर्जीकीये! अर्जीकेषु देशेषु भवे! सुषोमया सह शोभना सोमलता यस्यास्तीरे सा । सुषामादिर्द्रष्टव्यः ॥
45-47अन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयेत् - ऋतं चेत्यादि ॥ इत उत्तराः पञ्च अनुष्टुभः । ब्रह्मणो याथात्म्यविद् ऋषिः कश्चिदघमर्षणः । तत्प्रतिपादकं सूक्तमपीदमघमर्षणं तृचम् अघानामतिशयेनाभिभवितृ । स्नानेऽपि नित्येऽस्य विनियोगः । ‘सममश्वमेधावभृथेन’ इत्यादिदर्शनात् प्रायश्चित्ततया विनियुज्यते । ऋतं समस्तचिदचित्प्रपञ्चोपादानं परा प्रकृतिश् चेतनसमष्टिः सत्यं विज्ञानात्मा क्षेत्रज्ञः प्रवृत्तिज्ञानाश्रयः सति साधु सत्यं तदुभयमपि परस्माद् ब्रह्मणः प्रकरणाल्लभ्यते । ततोऽध्यजायत रूपाधिक्येन ततः प्रादुरभूत् । कीदृशाद् अभीद्धाद् इच्छाशक्तिसमालिङ्ग उक्तः । अथ भोग्यवर्गसृष्टिमाह - ततः विज्ञानात्मसृष्टेः परिणामक्रमेण रात्रिर् अचित्प्रकृतिः प्रधानं नाम अजायत रात्रिवद्रात्रिस् तमोरूपत्वाद् ब्रह्मगुणानां प्रकाशादीनां तिरोधानहेतुत्वात् । रमन्तेऽस्मिन् सर्वे भावा इति रात्रिः । अहोरात्रपरिच्छेदकारिणोस्सूर्याचन्द्रमसोस्सृष्टेर्वक्ष्यमाणत्वान् न मुख्या रात्रिर्गृह्यते । ततः रात्रेः समुद्रो ऽजायत समुद्द्रवन्त्यस्मात्’ सर्वे भावा इति समुद्रः महान् यत्रोन्मिषति भोग्यवर्गस् तदेवार्णवो ऽर्णवन् चेत्यावस्थानं(?) अर्णवः ‘अर्णसो लोपश्च’ इति वप्रत्ययः । अत्रापि भूतानाम् अस्पष्टत्वाद् अपां निधानस्य ग्रहणम् । यद्वा - गतसृष्टिरेवानेन प्रकारेणोच्यते । ततः समुद्रात् संवत्सरोऽजायत संवसन्त्यस्मिन् सर्वाः प्रजा इति संवत्सरः समस्तप्रजाधारभूतो विराट् प्रजापतिर् योऽण्डात् प्रादुरभवत् ‘संवत्सरः प्रजापतिः’ इति च श्रुतिः । कीदृश इत्याह - अहोरात्राण्य् अहोरात्रजीविनः प्राणिनः सर्वान् विदधद् विविधं स्थापयन् कर्मानुरूपेण नानायोनिप्राप्तया सुखदुःखयोर्नियमयन् । यद्वा - कालसृष्टिरेषा संवत्सरावयवः कालः संवत्सरः यो ऽहोरात्राणि विदधाति यश्च विश्वस्य मिषतश् चेतनाचेतनवर्गस्य वशी नियन्ता । ननु दिनकररजनीकरयोरसृष्टयोः कथमहोरात्राणां तज्जीविनां च प्राणिनामयं विधाता स्यात् । तत्राह - सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयद् आनुपूर्व्येण स्थितयोस्तत्परिच्छेद्याहोरात्राद्यवस्थानोपपत्तिर् अण्ड इव सृष्ट्यनन्तरं सूर्याचन्द्रमसौ धाता विश्वस्य धारयिता देवो ऽकल्पयत् । ततस् ताभ्यामहोरात्राणि विविधं स्थापयामास अनेनाभिप्रायेण अहोरात्राणि विदधत् संवत्सरोऽजायत इत्यवोचामेति यथापूर्वग्रहणेन दर्शितम् । यद्वा - यथोचितकार्यकारणक्रमेण पूर्वसृष्टसदृशं वा सर्वमकल्पयद् यथा - सूर्याचन्द्रमसौ पूर्वसृष्टिभवाविहाहोरात्रयोः परिच्छेत्तारौ अकल्पयद् वयोविद्याऽऽचारादीनां विहरणार्थं सुवः नाकस्य पृष्ठं परमसुखस्थानम् अकल्पयत् । यद्वा - द्युप्रभृतिनिवासिनः सर्वान् यथायथं स्वेस्वे अधिकारे अकल्पयत् । सामर्थ्यात् सा परा देवता अस्मान् पुनावित्यवगम्यते ॥
48अघमर्षणोत्तरकालम् उत्तराभिस्तिसृभिः स्नायात् - यत्पृथिव्यामिति ॥ रजः मलं पृथिव्यां पृथिवीवासिनां स्वम् आत्मीयं मलं पृथिव्यां तद्धेतोः कर्मणः कृतत्वात् स्वमित्युच्यते । अथ आन्तरिक्षे अन्तरिक्षनिवासिन आगतं त्यक्तदेहाद् अपरिगृहीतदेहान्तराद् अनुबद्धात् । अथ रोदसी रोदस्योः । ‘सुपां सुलक्’ इति सप्तम्या लुक् । द्यावापृथिव्योर् विगतफलद्वारेण दिवि पृथिव्यां च विविधमेव स्थितं यथाकर्मयोगं तत् तस्माद् इमान् अस्मान् आपः वरुणश्च तासां राजा पुनातु शोधयत्व् अघमर्षणः पापानामभिभविता अप्त्वेन वरुणत्वेन च वर्तमानो देवः पुनात्विति प्रकरणाद्गम्यते । अत्र आपो वरुण इति स्वरान्यत्वं छान्दसम् । केचिदैकपद्यादैकस्वर्यमिच्छन्ति - आपोवरुणरूप्य् आपोवरूण इति । तदानीं पूर्वपदस्य असुगागमो ऽन्तोदात्तत्वं छान्दसम् । आप्तिमान्वरुणः ॥
49एष इत्यादि ॥ एषः देवः भूतस्य जातस्य भव्ये भव्यस्य जनिष्यमाणस्य उपलक्षणत्वाज् जायमानस्य च भुवनस्य भुवनजातस्य गोप्ता रक्षिता हेतौ शता । रक्षार्थं स्थितः । किञ्च - एषः देवः पुण्यकृताम् आर्जितसुकृतानां प्रजानां लोकान् सुवः संश्रितः सुखं भूत्वा संश्रितः । आदित्यो वा भूत्वा मृत्योरपि सुवर्णतयाऽवस्थितः । हिरण्मयं हितरमणीयं हिरण्मयरूपं वा ॥
50द्यावापृथिव्योर्हिरण्मयमिति ॥ एष देवः द्यावापृथिव्यावपि लोकौ संश्रितः हितरमणीयसुखरूपः हे देव! स त्वं सुवस् तादृशसुखरूपो भूत्वाऽस्मान् संशिशाधि संशितव्रतान् अस्मानपापान् कुर्व् आदित्यरूपो वा । श्यतेर् लेटि छान्दसः ‘अङितश्च’ इति धिभावः । एषा च पञ्चपदसमा । चतुरक्षरास्सर्वे पादाः । प्रथमः पञ्चाक्षरः । तेनेयं शङ्कुमती । यथाऽऽहुः -‘एकस्मिन्पञ्चके सर्वं छन्दश्शङ्कुमती’ इति । तृतियोऽपि पादश्चतुरक्षर एव । एवं स्वरिति ह्येकाक्षरम् अध्ययनधर्मेण द्व्यक्षरं ज्ञायते । न तद्ध्येतच् छन्दसां योनेर्जन्मना अधिकाक्षरत्वेनाद्रियते ‘यामिनामर्यमा’ (?) इति वचनात् । यथा स नस्सुवरिति वचनात् ॥
51अप आचामति - आर्द्रमिति यजुषा ॥ आद्रं सरसं विजृम्भणोन्मुखं भूत्वा ज्वलति वर्धते ज्योतिर् आत्मज्योतिः प्रसवोन्मुखात्मज्योतिर्भावेन सृष्टिकाले परं वस्तु ज्वलति पञ्च[प्रपञ्च] रूपेण वर्धते इत्यर्थः । यज् ज्वलति तदेव अहमस्मि न ततोऽन्योऽस्म्य् अथ ज्योतिर्भूत्वा ज्वलति परं ब्रह्म दाहकाग्निरूपेण प्रतिसर्गकाले परं ब्रह्म ज्वलत्य् उपसंहाररूपेण वर्धते यत् तथा ज्वलति तदेव अहमास्मि न ततोऽन्योऽस्मि तस्मादुक्तेन प्रकारेण योऽहमस्मि यादृक्स्वरूपोऽहमस्मि तथा ब्रह्माहमास्मि सर्वतः परिबृढं वस्त्वस्मि न मत्तोऽन्यदस्त्य् अत इदानीमहमेवाहमास्म्य् एतावन्तमनेहसमन्तरोऽन्योऽहमभूवम् इदानीं नान्यं पश्यामि । सोऽहमिदानीं मां जुहोमि मय्येव मां प्रक्षिपाम्य् अभेदध्यानव्याजेन परं ज्योतिर्हुताशने विज्ञानात्मलक्षणं हविः स्वाहा स्वाहुतामाहुतिमिव प्रक्षिप्य स्वरूपाभिनिष्पत्त्याऽऽविर्भावफलं होमं निर्वर्तयामीति स्वाहाकारेण सूचयति ॥
52पुनः स्नाति - अकार्यकारीति पुरस्ताद्बृहत्या ॥ स्तेनान्तः प्रथमः पादः । अकार्यकारी प्रतिषिद्ध सेवनशीलो ऽवकीर्णी भग्नव्रतः ब्रह्मचर्यादिहीनः स्तेनः ब्राह्मणस्वर्णापहारादिकृत् । भ्रूणहा वेदवेदाङ्गविदो हन्ता । गुरुतल्पगः गुरूभार्यागामी । सर्वेऽप्येते तस्माद् आत्मीयात् पापाद् अमुच्यते अनेन मन्त्रेण दहनात् । एतदाह - अयं ह्य् एतत्प्रतिपाद्योऽपां स्वामी वरुणस् तदात्मना तिष्ठन् देवो ऽघमर्षणः पापानामभिभविता तस्मादेतदनुभावेन प्रमुच्यते इति ॥
53रहस्यपापक्षयार्थं स्नाति - रज इति मध्येज्योतिर्जगती, पङ्क्तिर्वा अक्षरसम्पदा ॥ रजोभूमिः कर्मफलानां भोगभूर् अमां मद्व्यतिरिक्तम् अनेन मन्त्रेण स्नानमाचरन्तं रोदयस्व रोदयतु दुःखयतु । पुरुषव्यत्ययः, पुण्यफलभूमेर्व्यावर्तयिता तुशब्दः । फलभूमिर्मां मोदयति रजोभूमिस्तु मद्व्यतिरिक्तं रोदयत्विति । यद्वा - हे देव! रजोभूम्यात्मा त्वं मद्व्ययतिरिक्तं रोदयस्वेति । अमामिति प्रतिषेधार्थस्य अकारस्य ‘सुप्सुपा’ इति समासः । तेन समासान्तोदात्तत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वे ‘अव्यये नञ्कुनिपातानां’ इति नञो ग्रहणात् । उक्तमघमर्षणस्नायिनं मां विहाय मद्व्यतिरिक्तं रजोभूमिर्दुःखयत्विति; इत्थमेवेदं कर्तव्यमिति धीरा धीमन्तः प्रवदन्ति प्रकर्षेण कथयन्ति । किञ्च - ऋष्यादयोऽपि मां पुनन्त्व् अघमर्षणेन पूयमानम् एतेऽप्यनुजानन्त्वित्यर्थः ॥
54अथ जपति - आक्रानिति ॥ अतः परास्त्रिष्टुभ आन्तादनुवाकस्य । अयं देवः समुद्रः समुद्द्रवत्यस्माद्विश्वमिति समुद्द्रः पृषोदरादिः । सर्वकारणं व्याक्रान् विक्रामति विविधकार्यवर्गरूपेण तिष्ठति । विक्रमेर्लुङि छान्दसे हलन्तलक्षणा वृद्धिः । इडभावे ‘मोनोधातोः’ इति नत्वम् । ‘छन्दस्यपि दृश्यते’ इत्याडागमः । कुतस्स्थित्वा आक्रानित्याह - प्रथमे आद्ये प्रथमस्वभावे उपादानात्मनि धर्मन् धारणकुशले विश्वस्य । किमर्थमित्याह - प्रजास्सर्वा जनयन् हेतौ शता । भुवनस्य भूतजातस्य कृत्स्नस्य राजा स्वामी वृषा वर्षिता कामानां पवित्रे पावने स्मर्तॄणां सानो सर्वस्मादुच्छ्रिते । वर्णव्यत्ययेन औकारस्य ओकारः, अव्ये अवनशीले प्रणवात्मनीति यावत् । ‘अवतेष्टिलोपश्च’ इत्यवतेर्मनिन्प्रत्यये ज्वरत्वरादिना ऊठि गुणे प्रत्ययस्य च टिलोपे ओमिति भवति । अवतेश्छान्दसे यत्य् अव्यम् । यद्वा - ऊठि ‘तत्र साधुः’ इति यत्य् ओर्गुणे अवादेशे अव्यम् । स एवार्थः । ईद्दशे व्योम्न्य् अधिष्ठातृत्वेन स्थित्वा विक्रामति । अथ अयम् इन्दुर् ईश्वरः बृहद् भृशं वावृधे वर्धते सोम उम इति विपर्यस्तस्वरप्रणवात्मिकया परया शक्त्या सहितः भृशं वर्धते अभिलषिताप्रतिहतवृद्धिः । तत्र देवांश्च सुवान ईश्वरो भवन् स्वकार्ये अनुजानन् विश्वं वर्धमानम् । षु प्रसवैश्वर्ययोः, ताच्छीलिकश्चानश् । सूतेर्वा सुवानः विश्वमुत्पादयन् इति ॥
केचित्तु देवमादित्यात्मना वर्णयन्ति - समुद्द्रवन्त्यस्माद्रश्मय इति समुद आदित्यः सः विक्रामति लोकत्रयं व्याप्य तिष्ठति प्रथमे प्रकृष्टे धर्मे जगद्रक्षणे स्थितः प्रकाशादिना प्रजा जनयन् भुवनस्य राजा स्वामी स इन्दुर् ईश्वरः विश्वमुत्पादयन् पवित्रे दशापवित्रे सानौ उच्छ्रिते अव्ये रक्षणशीले अध्य् उपर्य् अधिष्ठितस्सन् सोमलता सोमरसो भूत्वा वृषा यागद्वारेण वृष्टिहेतु: बृहद्वावृधे वर्धत इति ॥
३
55जातवेदस इति ॥ एतत्प्रभृतयः पञ्च दौर्गा मन्त्राः प्रकरणादात्मनि व्याख्येयाः । चोरव्याघ्रपिशाचादिभये समुपस्थिते दौर्गत्ये च जपहोमादिकर्म एभिः कुर्यात् । जातवेदसे जातानां वेदिवे नित्याविर्भूतज्ञानादिकाय वा देवाय सोमं सुनवाम तदाराधनाय अभिषुतसोमास्स्याम । अथ तस्य तद् वेदः ज्ञानादिकम् अस्माकम् अरातीयतः शत्रुत्वमिच्छतः जातान् निदहाति नियमेन दहतु । लेट्याडागमः । किञ्च - स देवः नो ऽस्मान् पर्षत् पालयतु । पृणातेर् लेटि सिप् । विश्वा विश्वानि दुर्गाणि स्थानानि संसारादीन्य् अतीत्य पालयतु । दुरितानि दुःखितानि च विश्वान्यतीत्य पालयतु नावा सिन्धुमिवातीत्य स्थितान् कृत्वा अस्मान् पालयतु । अग्निर् अग्रणीर् दुर्गारूपोऽग्निविशेषः प्रतिपाद्यते । तद्भावेन देवस्यैव वर्णना । भावनामयसोमयागाराधितः शत्रुत्वमस्माकमिच्छतो विषयादीन् नियमेन नाशयतु संसारनिमित्तविषयदुरितात्ययेनास्मान् पालयत्विति ॥
56तामिति ॥ ताम् अग्निवर्णां ज्योतीरूपां तपसा तपस्सामर्थ्येन ज्वलन्तीं दीप्यमानां वैरोचनीं विरोचनस्य विविधरोचनस्य विविधमाविर्भवतः देवस्य स्वभूतां परप्रकृतिं कर्मफलेषु कर्मसु तत्फलेषु च जुष्टां सामर्थ्याधायकत्वेन स्थितां दुर्गां देवीं देवनवतीम् अहं शरणं प्रपद्ये हे देवि! तरसे! तरस्विनि! तरणकुशले । अर्शआदित्वादच् । त्वमेव सुतरसि सुष्ठु तारयसि संसारगर्तात् । अन्तर्भावितण्यर्थस्तरतिर्द्रष्टव्यस् तस्यै तुभ्यं नमः ॥
57अग्ने त्वमिति व्याख्याता ‘उभा वां’ इत्यत्र । अत्र तु परवस्तुपरतया व्याख्येया ॥
58विश्वानि न इति ‘जुष्टो दमूनाः’ इत्यत्र व्याख्याता ॥
59पृतनाजितमिति ॥ पृतनानां तत्त्वसङ्घातानां जेतारम् अग्निम् अग्रण्यं सर्वस्य उग्रम् उद्गूर्णं सर्वदा हुवेम आह्वयाम आह्वानेन वशीकुर्मः । ह्वयतेः ‘बहुलं छन्दसि’ इति सम्प्रसारणम् । परमात् सधस्थात् प्रकृष्टं सहस्थानं परमव्योमात्मकम् अभिव्याप्य तत्र स्थिततया ध्यायाम इति ‘सधमादस्थयोः’ इति सधादेशः । स चास्माभिराहूतो ऽग्रणीर् देवः विश्वानि दुर्गाणि विश्वानि च दुरितानि विश्वं चराचरं क्षामत् क्षयशीलं वस्त्व् अतीत्य पर्षत् पालयतु पूरयतु वा । क्षै क्षये, क्विबन्तान्मतुप् मनिन्वा । तकारोपजनश्छान्दसः ॥
60प्रत्नोषीति ॥ हे अग्ने! अग्रणीः! अध्वरेषु यज्ञेषु के सुखं स्वर्गात्मकं त्वं प्रत्नोषि प्रतनोषि ‘तनिपत्योश्छन्दसि’ इत्य् उपधालोपः । ईड्यः सर्वेषु स्तुत्यः सनात् पुरातनश्च होता नव्यः नूतनश्च होता दैवो मानुषश्च तदुभयं भूत्वा सत्सि सीदस्य् अध्वराणां कर्ता च त्वमेवेति सदेर्लेटि ‘बहुलं छन्दसि’ इति शपो लुक् । स त्वम् आत्मीयां तनुं प्रपञ्चात्मिकां पिप्रियस्व तर्पयस्व । यद्वा - आत्मीयतनुस्थानीयविज्ञानात्मनः प्रीणय । प्रीङ् तर्पणे । शपः श्लुः । अस्मभ्यं च सौभगं सौभाग्यं देहशोभां त्वदीयतनूचितां निवृत्तसमस्तदुःखरूपताम् आयजस्व आभिमुख्येन देहि च । ‘सुभगं मन्त्रे’ इत्युद्गात्रादिषु पाठादञ् । ‘चवायोगे प्रथमा’ इति प्रथमाख्यातस्य निघाताभावः ॥
इति याज्ञिकीषूपनिषत्सु प्रथमोऽनुवाकः ॥
०२
1भूरग्नय इत्याद्यास्त्रयोऽनुवाका व्यष्टिसमष्टिरूपेण ब्रह्मण एव प्रतिपादका महाव्याहृतिनामानः ब्रह्मोपासनायां कर्मव्याप्त्यादिषु च विनियुक्ताः । तत्र भूर्भुवस्सुवरिति व्याहृतयः सृष्ट्यर्थं तपस्तप्यमानेन प्रजापतिना व्याहृतत्वात् । यथा - ‘स भूरिति व्याहरत् । स भूमिमसृजत’ इत्यादि । आसां परिणामोऽग्न्यादयः पृथिव्यादयश्च एतदधीनस्थितिका वा । स्वाहाकारसम्बन्धेऽपि निपातत्वाच् चतुर्थ्यभावः । भूरित्येतां व्याहृतिम् एतत्सम्बन्धिनीं पृथिवीम् अग्निं चानया स्वाहाकृतयाऽऽहुत्या तर्पयामीति । एवं सर्वत्र । व्याहृतित्रयाधीनस्थितिकाश्चन्द्रमा दिशश्च । अथ एतल्लोकत्रयवासिभ्यो देवेभ्यो नमः । पितृभ्यस्स्वधाऽस्तु । अथ एवम्प्रभावव्याहृतित्रयाविभागावस्थं परं ब्रह्म अहमस्मीत्य् उपासनाविधित्वेन योज्यम् । व्याख्यातः प्रणवः ॥
इति याज्ञिकीषूपनिषत्सु द्वितीयोऽनुवाकः ॥
०३
1भूरन्नमिति ॥ आनन्दब्रह्मणा ताद्रूप्येण व्याहृत्यादीनामुपासनामात्रम् अत्रानुवाके विशेषः । इतरत्समानम् । ईदृक्प्रभावव्याहृतित्रयात्मकमन्नं तदात्मना प्रणवेन प्रतिपाद्यं ब्रह्माहमस्मि इति ॥
इति याज्ञिकीषूपनिषत्सु तृतीयोऽनुवाकः ॥
०४
1भूरनये चेति ॥ अत्र परस्य ब्रह्मणो वाचिका चतुर्थी व्याहतिः प्रणवपर्यायतयोपादीयत इति विशेषः । यथोक्तं ‘भूर्भुवस्सुवरिति वा एतास्तिस्त्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म’ इति भूरादिभ्यो व्यष्टिभ्यस् तत्समष्टये महते देवाय स्वाहा । शिष्टं तुल्यम् । व्याहृतित्रयस्यात्मभूता या चतुर्थी मह इति यथा - ‘स आत्मा । अङ्गान्यन्या देवताः'61 इति तया चतुर्थ्या प्रणवे च प्रतिपाद्यं महद्वस्त्वहमस्मीति । महरोमिति रेफविकल्पः ॥
इति याज्ञिकीषूपनिषत्सु चतुर्थोऽनुवाकः ॥
०५
1पाहि न इति ॥ इत उत्तरे अनुवाका उपासनार्थाः । हे अग्ने! अग्रणीः! नो ऽस्मान् पाह्य् एनसे एनसः । विभक्तिव्यत्ययः । यद्वा - एनोरूपेण हिंसते तुभ्यं नमस् तथा पाह्यस्मान् संसारात् तुभ्यं विश्ववेदसे विश्वस्य वेदित्रे लब्ध्रे वा संसारात्मकाय नमः हे विभावसो! प्रभाधन! नो ऽस्मदीयं यज्ञं ज्ञानात्मकं पाहि त्वमेव जानासि तथा हे शतक्रतो! विचित्रानन्तकर्मन्! अस्मदीयं सर्वं कर्म उपासकानां ज्ञानं च पाहि करोमीति । स्वाहाकारान्तपादचतुष्टया अनुष्टुबेषा ॥
इति याज्ञिकीषूपनिषत्सु पञ्चमोऽनुवाकः ॥
०६
1यश्छन्दसामिति ॥ छन्दसां मन्त्राणाम् ऋषभः प्रधानभूतः विश्वरूपः वेदेतिहासपुराणवाड्मयरूपश् छन्दोभ्यः वेदेभ्य आविर्भूतः पुनरपि छन्दांसि गायञ्यादीनि विभक्तात्मा आविवेश पुनश्च कीदृशः सतां विदुषां शक्तिहेतुः शक्नुवन्त्यनेनेति शिक्यः । ‘शकिसहोश्च’ इति करणे कृत्यप्रत्ययः । वर्णान्यत्वं छान्दसम् । स इति सामर्थ्याल्लभ्यते । सः प्रोवाच इन्द्र ईश्वरः प्राणात्मा परमात्मोच्यते ज्येष्ठः प्रशस्यतम उपनिषत् तत्प्रतिपाद्यत्वात् ताच्छब्द्यम् । यद्वा - उपनिषद् ऋषीणां समीपे निषीदन् । यद्वा - ताम् उपनिषदं स प्रोवाच । द्वितीयाया लुक् । स इत्यस्यानुदात्तत्वं मृग्यम् । किमर्थम् इन्द्रियाय इन्द्रेण दृष्टं कर्म इन्द्रियं तदर्थं तत्सिद्ध्यर्थम् । यद्वा - इन्द्रियाय वीर्याय शक्तिमत्त्वाय । ऋषिभ्यः प्रोवाच नमो ऽन्नं तत्साधनं देवेभ्यः प्रोवाच स्वधा अमृतं पितृभ्यः प्रोवाच कथं भूर्भुस्सुवरोमिति समस्तप्रवचनात्मकभूरादिव्याहृतित्रयात्मा ओङ्कार एवायमुपासितव्य इति भगवाद् ऋषिभ्यः प्रोवाच । तस्मादित्थमुपासितव्य इति गम्यते ॥
इति याज्ञिकीषूपनिषत्सु षष्ठोऽनुवाकः ॥
०७
1नमो ब्रह्मण इति ॥ नमो ब्रह्मणे परस्मै । प्रह्वीभावो नमश्शब्दार्थः । तद्भावापत्तिस् तदर्थं धारणम् ऐकाग्र्यं मे अस्तु । तत् कथं स्यादित्याह - अनिराकरणम् अबाधितप्रतिष्ठम् । धारयिता धारणायाः कर्ता भूयासम् । हे तत्परिपन्थीनि! इन्द्रियाणि! कर्णयोश्श्रुतम् उभयमपि प्रदर्शनार्थं सवैरिन्द्रियैर् इतः पूर्वंस्वविषया अनुभूता इदानीं यूयं मा च्योढ्वं मा ब्रह्मणश्च्युतानि भूत । कस्य मम अमुष्य । अद इति परं ब्रह्माह । तदात्मनो ब्रह्मीभूतस्य मम मा च्योढ्वम् । ओमिति व्याप्तिं भावय [व्याप्तिभावाय] उपासीत इति दर्शयति । ईषाअक्षादित्वात् प्रकृतिभावः ॥
इति याज्ञिकीषूपनिषत्सु सप्तमोऽनुवाकः ॥
०८
1ऋतं तप इत्यादि ॥ ऋतं मानसं तथ्यम् । सत्यं वाचिकं तथ्यम् । श्रुतं वेदार्थज्ञानं तदर्थशास्त्रज्ञानं च । शान्तं शान्तिर् मिथ्येन्द्रियाणामप्रवृत्तिः । दानं स्वत्वनिवृत्तिर् अर्थेषु परस्वत्वापत्तिपर्यन्ता । यज्ञः द्रव्यदेवतादिसम्बन्धोऽग्निहोत्रादिलक्षणः । एतत्सर्वं श्रौतं स्मार्तं च तपःकृच्छ्रादिसाध्यम् । स्वातन्त्र्यख्यापनार्था तपश्शब्दावृत्तिः । इदानीम् ऋतादीनां मुक्तिहेतुत्वात् परज्ञानं प्रति गुणभावं मन्यमानस् तदेव प्रकृष्टं तप इति दर्शयति - भूर्भुवस्सुवरित्येतदात्मकं ब्रह्मोपास्व हे साधो ! । एतत् तप इयमुपासनैव प्रकष्टं तपः । ऋतादीनि त्वस्याङ्गतया कुरु तपःपूर्वकत्वाज् ज्ञानावाप्तेः । यथोक्तं - ‘तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्म’ इति । तस्मादृतादीन्युपासना हेतुत्वात् कर्तव्यानीति ॥
इति याज्ञिकीषूपनिषत्स्व् अष्टमोऽनुवाकः ॥
०९
1यथा वृक्षस्येति ॥ उपासनाशेषतया पुण्यापुण्ययोस्स्तुतिनिन्दे अनेनानुवाकेन विधीयते । यथा वृक्षस्य उद्यानादौ स्थितस्य चम्पकपाटलपुन्नागादेः सम्पुष्पितस्य दुराद् गन्धो वाति गच्छति दिगन्तेषु विसर्पति स्वयमेव एवं पुण्यस्य शास्त्रोक्तस्याग्निहोत्रादेः प्रशस्तस्य कर्मणो गन्धः गन्धनं प्रकाशनं दूराद् वाति दिगन्तेषु प्रथते । ततः यावत् प्रथा तावत् स्वर्गे महीयते न कदाचिच्च्यवते तस्मात् पुण्यार्थं यतेतेति । अथ पापस्य यत्नेन परिहर्तव्यतामाह - यथेति । यथा लोके निरूपको जनो ऽसिधारां कर्ते गर्ने कूपादौ अवहितां निजकौशलप्रकटनार्थमात्मनैवावस्थापिताम् अवक्रामेद् आक्रय्य गच्छेद् यथा असिधारां न प्रविशति कर्ते च न निपतति तथा अतिक्रम्य गन्तुमिच्छतीति रूपयति । यदि युवे ‘युव योवने मिश्रीभावे च’ ‘यु मिश्रणे’ । मिश्रीभवामि । वचनव्यत्ययः । पादाभिप्रायं वा द्विवचनम् । इह वेह वा । वर्णान्यत्वं छान्दसम् । इह वा असिधारां यौमि इह वा कर्तं यौम्य् उभयथाऽप्यनिष्टमेव । तथाहि - असिधाराप्रवेशे विह्वलिष्यामि चरणकर्तनविह्वलितो भविष्यामि । कर्तनिपातने कर्तमेव पतिष्यामि इत्य् अनुप्रवेक्ष्यामि नोत्तरणं लक्ष्ये । तस्मादुभयमपि परिहर्तव्यमिति निरूपयन् अवक्रामति निरूपकः । एवम् अमृताद् अपुण्यात् क्रियमाणात् करिष्यमाणाच्च आत्मानं जुगुप्सेत् तत्र प्रवृत्तिप्रसङ्गे आत्मानं निन्दित्वा निवारयेत् । विषयेभ्यो वैषायिकेभ्यश्च सुखेभ्यो निवर्तयेदिति प्रदर्शनार्थं परिहर्तव्यद्वयोपादानम् । अस्यापि वर्णान्यत्वं छान्दसम् । यद्वा - असंव्यवहार्यत्वं दृष्टं नरकपतनं चादृष्टमित्युभयोरपि परिहर्तव्यतामुभयोपादानेन सूचयति सर्वथा अनृताद् आत्मानं परिहर्तुं यतेतेति ॥
इति याज्ञिकीषूपनिषत्सु नवमोऽनुवाकः ॥
१०
1अणोरणीयानित्येतावनुवाकौ परमात्मोपवर्णनत्वान् महापुरुषा राधनायां विनियुक्तौ ॥ तत्र त्रैष्टुभोऽयमनुवाकः । विशेषो वक्ष्यते । अणोः सूक्ष्माद् बिसतन्त्वादेरप्य् अणीयान् निरूपणपदवीमतिक्रान्तत्वान् महतः स्थूलात् पृथिव्यादेरपि महीयान् महत्तरः स्थूलतरस् तन्मयत्वाद्विश्वस्य आत्मा व्यापी परमात्मा अस्य शरीरिणः जन्तोर् गुहायां गुह्ये संवृते हृदयाकाशे निहितः नित्यसन्निहितो ऽविकृतात्मैव परैक्येन तिष्ठति जन्तोरनुग्रहाय । परवस्तुनैव वा जन्तोरनुग्रहार्थं हृदि निहितस् तिष्ठति । तद्धि इमं देशं परमात्मलक्षणं प्राप्य जन्तोर नुग्रहादिकर्माणि करोति । निष्ठायां ‘गतिरनन्तर’ इति पूर्वपदप्रकतिस्वरत्वम् । केचिदाहुः - महतो महीयान् महापरिमाणादाकाशादिदेशादापि महान् अप्रमाणः स्वतोऽयमिदानीम् अस्य जन्तोरनुग्रहार्थं हृदयाकाशे निहितो ऽणोरणीयान् वर्तते सङ्कुचितात्मा तिष्ठति । सापि मात्रा परममात्रया तुल्यमहिमा । यथा - ‘यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति । तम् इममात्मानम् अक्रतुम् अकर्माणं निष्प्रपञ्च कालुष्यम् अव्यक्तावस्थं पश्यति वेत्त्य् अनुभवति वीतशोकः वीतदुःखः जन उपासकः धातुः परस्य देवस्य येनायमात्मा निहितो भवति तस्य प्रसादाद् अनुग्रहेण पश्यति । यथा ‘यमेवैष वृणुते तेन लभ्यः’ इति । कोऽस्य विशेष इत्याह - महिमानं महत्त्वं परस्य विभूतिम् अतस् तत्प्रसादेनैव पश्यति । पुनश्च कीदृशमित्याह - ईशं कृत्स्नोपादानसमर्थम् ईदृशम् आत्मानं धातुः प्रसादादेव पश्यति । तस्मात् सा परा देवता प्रसीदतु । तां वयं प्राप्नुयामेति वेदितव्योऽयमात्मा । यथोक्तं ‘ब्रह्मविदाप्नोति परं’ इति । एवमात्मोपासकः परेण वृतो मुच्यत इति तदुपासनाविधिरयमनुवाकः ॥
2उक्तमीशमिति तामेव विश्वोपादानशक्तिमस्य प्रपञ्चयति - सप्त प्राणा इति ॥ चरन्तीति तृतीयपादान्तः । तस्माद् आत्मनः सप्त प्राणा जन्तूनां प्राणयितारश् चक्षुरादयः प्राणा: शरीरगताः प्रभवन्ति प्रथमत उत्पद्यन्ते । सप्तस्कन्धाधिष्ठानाः सप्तवायवो वा । तथा सप्तार्चिषः ‘सप्त सूर्या दिवमनुप्रविष्टाः’ इति । आदित्यादीनि वा सप्त ज्योतींषि । सप्त समिधः समिद्धा अग्नयः गार्हपत्यादयः पञ्च और्ववेद्युतौ च । सप्त जिह्वा अग्नेर्जिह्वास्थानीयाः सप्तज्वालाः । सप्त इमे च लोका भूरादयः सत्यलोकपर्यन्ताः । ईषाअक्षादित्वात् प्रकृतिभावः । येषु लोकेषु चरन्ति प्राणाः प्राणिनस्सर्वे प्राणन्तीति प्राणाः । यद्वा - येषु चरन्ति प्राणाश् चक्षुरादयः, ते च सप्त महदादयः कीदृशा गुहाशयां गुहायां निहिता गुहायां शयनमभिलक्ष्य निहिता गुह्या महदादयः । यद्वा - गुहाशयाः शयानाः ‘सुपां सुलुक्’ इति जस आदेशः(?) । निहिताः स्थापिता येऽप्यन्ये सप्तसप्त सप्तसङ्ख्यावच्छिन्नाः सप्त छान्दांसि सप्तस्वरा इत्येवमादयस् ते सर्वे तस्मादेव प्रभवन्ति । यद्वा - सप्तसप्त ये च अन्येऽपि विविध स्फुरितास् ते सर्वे तस्मादेव प्रभवन्ति ॥
3अतस्समुद्रा इति ॥ अतः परमात्मनः समुद्रा गिरयश्च कुलपर्वता उपपर्वताश्च प्रभवन्ति । अस्माद् एव सर्वरूपाः कूप्यपल्वल्यनादेयरूपाः सिन्धव आपः स्यन्दनात् सिन्धवः । यद्वा - द्युपृथिव्यन्तरिक्षस्थिता विश्वरूपाः सिन्धवः नद्यः प्रभवन्ति । किञ्च-अत एव विश्वा बहुभेदभिन्ना ओषधयः बाह्यादयः प्रभवन्ति । रसाश्च मधुरादयो ऽत एव प्रभवन्ति । अयम् अन्तरात्मा जीवात्मा च परमात्मना हेतुना तद्बलेन भूतः परिनिष्पन्नः भोक्तृतां प्राप्तस् तिष्ठति स एव भोक्तृभावेन शरीरमध्ये तिष्ठतीति भोक्तृभोग्यात्मकः कृत्स्नः प्रपञ्चस् तस्मात् प्रभवतीत्युक्तम् ॥
4ब्रह्मा देवानामिति ॥ व्याख्याता ‘त्वमग्ने बृहद्वययः’ इत्यत्र । अयमेव तद्रूपेण वर्तत इति योज्यम् ॥
5अजामेकामिति ॥ अजाम् अजननशीलाम् अप्रसवधर्मिणीं प्रकृतिम् । पचाद्यच्य् अन्तोदात्तत्वम् । आख्यैषा प्रकृतेः । एकां सर्वभोक्तसाधारणीं लोहितशुक्लकृष्णां लोहितं रजः शुक्लं सत्त्वं कृष्णं तम एषां साम्यावस्थात्मिकां बह्वीं सुरनरतिर्यगादिभेदभिन्नाम् । प्रजां विकारात्मिकां सुरूपां सुगुणां त्रिगुणात्मिकां जनयन्तीम् उत्पादयन्तीम् । प्रकरणात् परमात्मनस्सम्भूतामिति गम्यते । तां तादृशीम् एकः कश्चिद् अजो ऽजननशीलः भोगलोलुपबुद्धिः । पूर्ववदच् । जुषमाणस् तद्भोगेन प्रीयमाणो ऽनुशेते अनुभुङ्क्ते कर्मवशात् सानुशय इव पुनस् तां भुङ्क्ते । अथ अन्यः कश्चिन्मुक्त एनाम् अजां भुक्तभोगां भुक्तभोक्तव्यां कर्मक्षयाद् भोक्तव्यशेषशून्यां तेन प्रयोजनाभावाज् जहाति त्यजति । कीदृशो ऽजः परमात्मीभूतः नित्यः न जायत इत्यजः । ‘अन्येष्वपि दृश्यते’ इति डः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । एवं बन्धहेतोः परमात्मन उत्पत्तिर् मुक्तात्मनश्च परमात्मनो पसंहारश्चोभयमनेनोक्तम् ॥
6हंसश्शुचिषदिति जगती ॥ व्याख्यातेयं ‘इन्द्रस्य वजोसि’ इत्यत्र । एवं कृत्यभेदेन परमात्मैव बहुधा वर्तत इति योज्यम् ॥
7यस्माज्जातेति ॥ विश्वानि भुवनानि यस्माजातानि न परा परस्मात् कुतश्चिज् जातानि । पूर्वत्र ‘शेश्छन्दसि’ इति लोपः । उत्तरत्र ‘सुपां सुलुक्’ इत्याकारः । किं सत्येव परस्मिन् नेत्याह - नैव किञ्चनास यस्मात् परस्मान् नैव किञ्चिदस्तीति तस्मादेव जातानि । किञ्च - तानि विश्वानि भूतानि य आविवेश अनुप्रविश्य तिष्ठति । यथा - ‘तत्सृष्ट्वा । तदेवानुप्राविशत्’ इति । स प्रजापतिः प्रजानां पालयिता पालनार्थी प्रजया संविदान ऐकमत्यं गत उपचिकीर्षुर्भूत्वा षोडशी षोडशभिर्विकारैर्भूतेन्द्रियैस्तद्वान् साहाय्यकानुत्पाद्य तैस्सहितस् त्रीणि ज्योतींषि द्योतमानान् लोकान् ज्योतिष्मतो वा सचते समवैत्य् अनुप्रविश्य धारयति ॥
8विधर्तारमित्याद्या गायत्र्यः ॥ विधर्तारं विविधं धारयितारं प्रजानाम् अनुज्ञातारं वा सवितृरूपेण जगदनुगृह्णानं परमात्मानं नृचक्षसं नॄणां साक्षिणं शुभाशुभानां कर्मणां द्रष्टारं हवामहे स्तुत्या आह्वयामः । स च नो ऽस्मभ्यं वसोर् वसु वरिष्ठं धनं वनाति ददातु । लेटयाडागमः । कुविद् बहु । ‘निपातैर्यद्यदिहन्त’ इति निघाताभावः ॥
9अद्या न इति ॥ हे देवः सवितः! सर्वस्यानुज्ञातः! अद्य अस्मिन्नहन्य् अस्मभ्यं प्रजावत् प्रजासमृद्धिमत् सौभगं सौभाग्यं सुश्रीकत्वं सावीर् अनुजानीहि । छान्दसे लुङि ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । ‘सुभगं मन्त्रे’ इति सुभगशब्दादञ् । किञ्च - दुष्ष्वप्नियं दुस्स्वप्नप्रभवं परासुव नाशय । ‘भवेच्छन्दसि’ इति दुस्स्वप्नाद्यत् । छान्दस इकारोपजनः ॥
10विश्वानीति ॥ हे देवः सवितः! विश्वा विश्वानि दुरितानि परासुव नाशय । किं विशेष्यते - दुष्ष्वप्न्यमिति । यद् भद्रं कल्याणं तत् सर्वं मे आसुव मदीयत्वेन अनुजानन् आनय ॥
11मधु वाता इति ॥ मननीयत्वाद् रसत्वाद्वसनीयत्वाद् वा मधु ब्रह्म । तदेव भूत्वा तद्वन्तो वाता वान्त्व् ऋतायते ऋतं यज्ञम् इच्छते यजमानय । सिन्धवो ऽपि मधुमत्यः क्षरन्त्व् ओषधयोऽपि माध्वीर् माध्व्यः मधुमत्यस्सन्तु । ‘ऋत्व्यवास्त्व’ इति निपात्यते । ‘छन्दसि’ इति पूर्वसवर्णदीर्वत्वम् ॥
12मधु नक्तमिति ॥ मध्वेवास्त्व् अस्माकं नक्तं रात्रौ उषस्य् अप्य् अहन्यपि । पार्थिवं रजः पृथिव्याख्यो लोकः मधुमानस्तु । द्यौश्च पिता नो ऽस्माकं मधुमत्यस्तु ॥
13मधुमान्न इति ॥ वनस्पतिश्च अस्माकं मधुमानस्तु । सूर्योऽपि मधुमानस्तु गावोऽपि मधुमत्यस्सन्त्व् अस्माकम् ॥
14घृतमिति ॥ इतः परास्त्रिष्टुभः । अग्न्यात्मना परमात्मनस्स्तुतिः । घृतम् अनेन मिमिक्षे सिच्यते उत्पाद्यते वा यागद्वारेणैव उदकमुत्पाद्यते । अस्य अग्नेर् घृतं योनिः कारणम् उदकपातस्य सर्वकारणत्वात् । घृते अयं श्रितो ऽवस्थितस् तत्प्रियत्वात् । घृतम् उ एव अस्य धाम स्थानं विश्रमस्थानम् । इदानीं प्रत्यक्षवदुच्यते - हे अग्ने ! त्वम् अनुष्वधम् अन्वन्नं हवींष्यात्मानम् आवह मादयस्व माद्य च हविषा । किञ्च स्वाहाकृतं स्वाहाकारेणास्माभिर्दत्तं हव्यं वक्षि वह । तेन आत्मानं तर्पयस्व । तेन सर्वतृप्तिस्स्यात् हे अग्न्यात्मन्! । वहेर्लटि शपो लुक् ॥
15समुद्रादिति ॥ समुद्रात् सर्वार्थसमुत्स्यन्दनस्थानात् परमात्मन ऊर्मिः रश्मिसङ्घातात्मा आदित्यः मधुमान् ब्रह्मवान् तदाविर्भावस्थानत्वात् । वेदवान् वा तन्मयत्वात् । उदारद् उदगच्छत् । अथ स आदित्य उपांशुना उपगच्छता अंशुना रश्म्यात्मना रूपेण । ‘उपाद्व्यजजिनमगौरादयः’ इत्युत्तरपदान्तोदात्तत्वम् । अमृतत्वम् अमृतात्मा चन्द्रस् तद्भावं समानट् समश्नुत चन्द्रत्वेन वर्तते । यथा - ‘तस्यैको रश्मिश्चन्द्रमसं प्रदीप्यते’ इति । अश्नोतेर्व्यत्ययेन लङि परस्मैपदम् । यद्वा - नशेर्गतिकर्मणो लङि ‘मन्त्रे घस’ इति च्लेर्लुक् । ‘छन्दस्यपि दृश्यते’ इत्यडागमः । समुपाश्नुत इति सम्बन्धम पवर्गस्यान्वये सर्वानुदात्तत्वं मृग्यम् । पुनश्च विशेष्यते - घृतस्य उदकस्य गुह्यं सूक्ष्मं नाम नमनम् उत्पादकं यदस्ति तादृशं ‘आदित्याज्जायते वृष्टिः’ इति जिह्वा जिह्वास्थानीया यागद्वारेण सर्वान्नलाभहेतुत्वाद् अमृतस्य अमृतत्वप्राप्तेर् नाभिर् नहनहेतुर् देवानाम् ॥
16वयमिति ॥ तद्धृतमिदानीं स्तूयते परत्माम एव वैभवप्रदर्शनार्थम् । नाम प्रसिद्धौ । वयं हि सर्वे घृतेन उदकेन प्रबवाम ब्रुवाणा भूयास्म नीव्यास्मेति यावत् । यद्वा - नामानि वेदशास्त्रपुराणानि पदानि प्रब्रवाम । किञ्च - अस्मिन् यज्ञे नमोभिर् अन्नैर् देवानपि धारयाम घृतेन स्वकारणत्वाद् अस्य । सांहितिकम् आख्यातस्य दीर्घत्वं छान्दसम् । तद् एतन् महाप्रभावं घृतं शस्यमानं स्तूयमानम् अस्माभिर् ब्रह्मा वाक्पतिर् उप शृणवद् उपेत्य शृणुयात् । लेट्याडागमः । अयमपरोऽस्य विशेषश्श्रूयतां - एतद् घृतं चतुश्शृङ्गस् तच्चोदितत्वाद् गौरः शुद्धः गौरमृगतुल्यः पावनो यज्ञो ऽवमीद् उद्भिरत्य् उत्पादयति यज्ञफलत्वाद्वृष्टेः ॥
17चत्वारीत्यादि ॥ स यज्ञोऽधुना स्तूयते - अस्य यज्ञस्य चत्वारि शृङ्गा शृङ्गाणि प्रधाना दीप्तिमन्तो वा ऋत्विजो ऽध्वर्युहोता ब्रह्मा उद्गाता च शृङ्गस्थानीयत्वात् प्रधानावयवत्वात्, अस्य यज्ञस्य त्रयः पादा गार्हपत्यादयो ऽग्नयस् त्रयः यत्र यज्ञः प्रतिष्ठितो ऽस्य शीर्षे शिरसी शिरस्थानीयौ पत्नीयजमानौ प्रायणीयोदयनीयौ वा । सप्त छन्दांसि गायत्र्यादीनि हस्तासः हस्तस्थानीयानि प्रधान[प्रदान] साधनत्वात् । त्रिधा त्रिभिः प्रकारैर् बद्धः बद्धशरीरः सवनत्रयात्मत्वात् तेषां च पृथक्स्वभावत्वाद् वृषभः वर्षिता कामानां रोरवीति भृशं शब्दायते त्रिषु सबनेष्व् ऋम्भिर्यजुभिस्सामभिः प्रयुज्यमानैर्महान्तं शब्दं करोति । किं बहुना - महो देवः महान् देवः परा देवता मर्त्यान् मनुष्यानपि यज्ञद्वारेण आविवेश मनुष्याधिकारो वर्तते । रुत्वानुनासिको उभौ ॥
18त्रिधा हितमिति ॥ त्रिधा त्रिप्रकारं घृतं हितं स्थापितं गवि शब्दब्रह्मणि मन्त्रे वा पणिभिर् व्यवहर्तृभिर् मन्त्रदृग्भिर् ऋषिभिर् गुह्यमानं सम्प्रीयमाणं देवासः देवा अन्वविन्दन् अनुक्रमेणालभन्त उपलब्धवन्त इन्द्रादयः । तदेव त्रैविध्यं दर्शयति - इन्द्रः पर्जन्यात्मा एकं जजान प्रकाशितवान् एकं स्वरूपं वृक्षलतादिषु रश्मिसंयोगेन परिणतं सूर्यो जनयति । छान्दसे लिटि ‘बहुलं सञ्ज्ञाछन्दसोः’ इति णिलुक् । अथ एकं स्वधया अमृतमावेन उपलक्षितम् अन्नेन वा हविषा तत्परिणामात्मकम् अमृतात्मकं वेनात् कान्तात् । परमात्मनः वस्वादयो निष्टतक्षुर् निष्कृप्य उत्पादितवन्तः ॥
19यो देवानामिति ॥ यो देवो विश्वाधिक: विश्वम् अधिकारिवर्गम् अतिक्रम्य स्थितः रुद्रः रोदयिता अन्तकाले विश्वस्य महर्षिर् महाद्रष्टा सर्वार्थसाधनदृष्टिर् देवानां प्रथमम् आद्यं हिरण्यगर्भं पुत्रस्थानीयं जायमानं योनिस्थानीयादस्मात् परमात्मन उत्पद्यमानं पुरस्तात् कल्पादौ पश्यत अपश्यद् दृष्टिविशेषेण दृष्टिसमर्थमकरोत् । स देवो नो ऽस्मान् तादृश्या शुभया अस्मदभिप्रेतसम्पादिन्या स्मृत्या अनुग्रहबुद्धया संयुनक्तु संयुक्तं करोतु । यद्वा - शुभया स्मृत्या विज्ञानेन अस्मान् संयोजयतु । एवं देवस्य अनुग्राहकत्वम् ॥
20यस्मात्परमिति ॥ यस्मात्परम् इममतीत्य स्थितं किञ्चिदपि नास्ति यस्माच् च अपरम् अधस्तात् स्थितं नास्ति किञ्चिदपि यस्माद् अणीयः सूक्ष्मतरं नास्ति यस्माच्च ज्यायः प्रवृद्धतरं स्थूलतरं नास्ति किञ्चित् । लिङ्गव्यत्ययः । यद्वा - यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चिदित्येव । ततः कश्चिद् वृक्ष इव स्तब्धः निश्चलः वृत्वा क्ष्मां सीदतीति वृक्षः क्ष्मामतिक्रम्य दिवि तिष्ठति दिवि द्योतनशीले परमात्मन्य् अपृथग्भावेन तिष्ठत्य् एकः साधारणः सर्वोपजीव्यस् तेन पुरुषेण पूरणेन व्यापकेन इदं सर्वं पूर्णं व्याप्तं परमात्मना ॥
21एवं देवानुग्राह्यतद्विभूत्युपवर्णनं प्रकरणार्थमुपसंहृत्य तत्प्राप्त्युपायमाह - न कर्मणेति ॥ कर्मणा अग्निहोत्रादिना ‘कर्मणाऽऽनन्त्यमश्नुते’ इति तेन फलाभिसन्धितेन नित्यकर्ममात्रेण एके केचिद् अमृतत्वं नानशुर् नाश्नुवते पुमांसः । तथा प्रजया पुत्रपौत्रादिकया यथा -
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥
इति । तयाऽप्यमृतत्वं नाश्नुवते । तथा धनेन पात्रेभ्यो दत्तेन अमृतत्वं नाश्नुवत इति । किन्तु कर्मणां त्यागेन फलत्यागेनैव केचिदमृतत्वमानशुर् अश्नुवते परज्ञानवन्तः । ते तस्मिन् सर्वकर्मफलानि न्यस्यन्ति, स्वयं च तैर्न लिप्यन्ते ।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥
इति स्मृतिः ।
‘मयि कर्माणि सन्न्यस्य’
इति च । श्रुतिश्च -
‘श्रोत्रियस्य चाकामहतस्य’
इति । उवाच भगवान् -
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥
इति च । किञ्च - कर्मत्यागवादिनां शरीरधारणादिकर्मकारिणां मुक्तिर्न स्यात् त्यागाभावात् । ऋणश्रुत्यैव नित्यानि कर्माणि न त्याज्यानि । तस्मात् फलत्यागिनोऽमृतत्वमश्नुवते । अर्चिरादिना मार्गेण अग्न्यहश्शुक्लपक्षमासोत्तरायणसंवत्सरदेवलोकवाय्वा दित्यविद्युद्वरुणेन्द्रप्रजापतिक्रमेण गत्वा ब्रह्मीभूय तिष्ठति ; न पुनरावर्तते । तस्मादाह - परेणेति । नाकं सुखैकरूपं ब्रह्मलोकं परेण तस्योपरि स्थितं यद् विभ्राजते । किञ्च - गुहायां निहितं स्थापितम् । कर्मणि निष्ठायां ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । गुहा हृदयावकाशः । तत्र निहितं धात्रा जगदनुग्रहाय । तदेव योगवतां हृदि विभ्राजते ‘स यश्चायं पुरुषे । यशासावादियो’ इति न्यायेन पञ्चकोशातिक्रमेण तदोकोग्रज्वलन न्यायेन शताधिकनाडीसम्पन्ने स्थाने यद् विभ्राजते विविधं दीप्यते आविर्भूतैकोदयस्वभावं निरुपमानं महाप्रकाशानन्दं यद् विभ्राजते तद् विशन्ति प्राप्नुवन्ति यतयस् तदर्थं यतमाना अधीतवेदा अधिगतसाङ्गवेदार्थपारमार्थ्यानुष्ठितयथोदितकर्माणो जितेन्द्रियाः प्रणिधानपरास् तद् विशन्ति तामवस्थां प्रपद्यन्ते यां प्राप्य न शक्यं निवर्तयितुम् । ईदृगवस्थितम् अमृतत्वं पुंसाम् आविर्भूतब्रह्मज्योतिषां परं ब्रह्म प्रसीदतीति ॥
22इदानीममुमेवामृतत्वप्राप्तिहेतुकर्मनिश्चयमेव दर्शयति - वेदान्तेति ॥ शारीरकमीमांसाशास्त्रोक्तन्यायकलापसचिवमनीषामहिमनिरूपितानां वेदान्तवाक्यानां यद् विज्ञानं तदर्थगतं विलक्षणं ज्ञानम् अभिधानतस् तात्पर्यन्तश्च ज्ञानान्तरविलक्षणं वा यज् ज्ञानं यत्रायमधिकारोऽवतरति ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादि । तेन वेदान्तविज्ञानेन सुनिश्चितार्थाः सुष्ठु निरूपितपरतत्त्वपारमार्थ्याः सन्न्यासयोगात् सन्न्यासेन योगेन च हेतुना । समाहारद्वन्द्वात् हेतौ पञ्चमी । ल्यब्लोपे वा कर्मणि - सन्न्यासयोगं प्राप्य कर्मफलानामीश्वरे समर्पणं सन्न्यासः । ब्रह्महुताशने आत्महविःप्रक्षेपलक्षणः समाधिसञ्ज्ञो योगः । ताभ्यां शुद्धसत्त्वा निर्मलात्मप्रकाशा यतय एवं यतमानास् ते सर्वेऽपि ब्रह्मलोके शुद्धसत्त्वतया ब्रह्मणः परमात्मनः लोके अवकाशे अवस्थितास् तस्य वा दर्शने सति । तुशब्दश्वावस्थाया विशेषत्वमाचष्टे । परान्तकाले परस्मिन्नन्तकाले पश्चिमजन्मसमाप्तिकाले परामृताद् अपुनरावृत्तिकारणात् तादृशकर्मकरणं प्राप्य । ल्यब्लोपे पञ्चमी । परिमुच्यन्ति सर्वतो मुच्यन्ते जीवन्मुक्ता एव हि ते इदानीं विगलितसर्वसांसारिकस्वभावास्स्वरूपेणावष्ठिन्ते सर्वेऽप्याश्रमिणः सर्वेऽपि वर्णिनः । यथा -
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
इति । केचिदाहुः - ब्रह्मलोके प्राजापत्यस्थाने यावदधिकारं तेन सह स्थिताः परान्तकाले महार्थोपसंहारकाले सर्वे युगपन् मुच्यन्त इति परमात्मतत्त्वदृष्टिरमृतत्त्वहेतुर् इति ॥
23अधुना किम् एनामवस्थां प्राप्तानाम् आविर्भूतात्मज्योतिषां कर्तव्यमन्यन्नास्त्येवेत्याह - दह्रमिति । यद्वा - यदुक्तम् अनुवाकादौ ‘धातुः प्रसादान्महिमानमीशं तमक्रतुं पश्यति’ इति तत्प्रसादनं कथं भवतीत्याह - दह्रमिति ॥ दहम् अल्पप्रमाणं विपाप्मं विगतपापं सर्वदुःखरहितं परवेश्मभूतं परवेश्म राजभवनादि तद्भावमापन्नम् उपासकानुग्रहाय निर्मितम् अनवद्यं वेश्म पुण्डरीकं पुण्डरीकसदृशं पुण्डरीकाख्यं वा हृदयम् । यद्वा - पुण्या पूता दरी गुहा पुण्डरी तां कायति शब्दायतीति पुण्डरीकं तत्तुल्यमिति यावत् । पुण्यकर्मणि शुभे । ‘ष्टुना ष्टुः’ इति ष्टुत्वम् । पुंसां वा दरी पुण्डरीकं पृषोदरादिः। यद् ईशं स्थानं पुरमध्यसंस्थं शरीरमध्ये सम्म्यक् स्थितं नगरमध्यस्थितानवद्यराजभवनस्थानीयं तत्रापि तथा दह्रेऽपि तस्मिन् स्थाने ततोऽपि दह्रं तदन्तर्गतत्वाद् गगनं गगनसञ्ज्ञं परमं व्योम गमनीयं वा सर्वैः । कः पुनस्सोऽर्थ इत्याह - विशोकः परमात्मेति यावद् यत्र प्रविष्टानां शोको नास्ति । आख्यातत्वात्पुल्लिङ्गता । उपासकानुग्रहाय सङ्कुचितात्मा यस्तत्र स्थितस् तस्मिन् अन्तः मध्ये यस्तु स्थितः परं ब्रह्म विश्वोत्तीर्णं तदुपासितव्यं ध्यातव्यं श्रेयोऽर्थिभिः । यथा - ‘परमात्मनि सम्प्रतिष्ठाप्य ध्यायीतेति शासनम्’ । इति ततस् तत्प्रसादात् परमव्योमप्रदेशं प्राप्यामृतो भवतीति पुरस्थानीये शरीरे राजस्थानीयं यत् पुण्डरीकाख्यम् आश्चर्यं तत्स्थानं तत्रापि मध्ये सुगुप्तापवरकस्थानीयं समस्तशोकरहितं यद् गगनाख्यं स्थानं तदन्तर्वतिराजस्थानीयं विभूतित्वं परं ब्रह्म उपासितव्यम् । ततस् तत् प्रसन्नं स्वां विभूति मस्मै प्रदर्शयति तां दृष्ट्वाऽमृतो भवतीति । तदुक्तम् - ‘तस्मिन् यदन्तस्तदुपासितव्यम्’ इति ॥
24तत्र क उपास्यः कीदृशो वा अयमित्याह - यद्वेदादावित्वनुष्टुप् ॥ यद् अक्षरं प्रणवात्मकं सर्वशब्दपरिणामाविभागावस्थं विश्वव्यापकं वेदादौ तत्परिणामात् प्राक् स्वरः प्रोक्तः नादात्माा प्रथमत उक्तः । मध्ये स एव वेदात्मना परिणतः सर्वश्रेयोहेतुर् अथ वेदान्ते वेदानामवसानेऽपि प्रतिष्ठितः स्वररूपेणा वस्थितः विश्वोपसंहारकालेऽपि प्रणवात्मना वेदास् तिष्ठन्तीति तस्य तादृशमहानुभावस्य वेदगर्भस्य प्रणवब्रह्मणः प्रतिलीनस्य प्रकृतौ परमप्रकृतौ परव्योमनि लीनस्य अविभागेन अवस्थितस्य ज्ञानक्रियाशक्त्यानन्दानामविभागावस्थानरूपत्वेन प्रणवब्रह्मगर्भत्वात् परप्रकृतेस् तस्य व्यापक समष्ट्यात्मनः प्रणवस्य यः परः प्रधानप्रतिपाद्यः यत्रास्य पारतन्त्र्यं ‘यत्परश्शब्दस्स शब्दार्थः’ इति सोऽर्थ उपास्य इति । यद्वा - तस्य प्रणवस्य प्रकृत्या तिसृभिर्मात्राभिर् लीनस्य व्याप्य स्थितस्य यः परो ऽर्धमात्राकालः स प्रतिपाद्योऽर्थ उपास्यः कीदृशः? महेश्वरो ऽत एव उपास्यः पूजनार्थं महत्त्वविशेषणं नाल्पेश्वरत्वनिवृत्त्यर्थं, पदश्रुत्यैव निरतिशयैश्वर्यवति तस्य वृत्तेः । ‘सन्महत्’ इत्यादिना समासः ॥
इति याज्ञिकीषूपनिषत्सु दशमोऽनुवाकः ॥
११
1सहस्त्रशीर्षमित्याद्याः पञ्चानुष्टुभः ॥ तत एका द्विपदा । शिष्टं ब्राह्मणमानुष्टुभम् । अन्ते एका द्विपदा । अत्रापि परमात्मा स्तूयते - सहस्रशीर्षं बहुशिरस्कं सर्वत्र शिरःकार्यसम्भवाद् बहुप्रकारशिरस्कत्वात् तादृशं देवं ‘विश्वमुपजीवति’ इति वक्ष्यमाणेनान्वीयते । तस्मात् तमेव स्तुम इति शेषः । विश्वाक्षं विश्वत्राक्षिकार्यवन्तम् । विश्वान्य् अक्षीणि प्रजासम्बन्धीनि इन्द्रियाण्य् अस्य अक्षीणि इन्द्रियाणि ॥
वर्णान्यत्वं स्वरान्यत्वं पञ्चप्रश्नेषु दृश्यते ।
इति स्वरव्यत्ययस्सर्वत्र द्रष्टव्यः । विश्वशम्भुवं विश्वस्य शं सुखं तस्य भावयितारं सर्वांशेऽप्यस्य आनन्दरूपत्वात् तादृशम् । विश्वं विश्वत्वेन स्थितं नारायणम् । ‘नृ नये’ पचाद्यच् । नरः नेता सर्वस्य स्वामी तस्य स्वभूताः पशवो नारास् तेषाम् अयनम् उपादानं नारायणम् । ‘पूर्वपदात्सञ्ज्ञायामगः’ इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन लित्स्वरः । देवं देवनशीलं द्योतमानं, सदा अक्षरं परमं परमव्यापकम् । अशेस्सरन्प्रत्यये अक्षरम् । प्रभुं प्रथमतस्सम्भूतं सर्वप्रपञ्चभरणक्षमं वा ॥
2विश्वत इत्यादि ॥ विश्वतः प्रजापत्यादेरपि परमं प्रकृष्टं नित्यं ध्रुवं विश्वं प्रपञ्चरूपमतीत्य स्थितम् अव्यक्तावस्थं ध्रुवं देवमिति नारायणं नराणां गन्तव्यम् । ‘अनो भावकर्मवचने ’ इत्युत्तरपदान्तोदात्तत्वम् । हरिं ह्रियते उपसंह्रियतेऽस्मिन् विश्वमित्य् अधिकरणे इन्प्रत्ययः । इदं विश्वं पुरुष एव पूरयिता पुरुषस् तत् तस्माद् विश्वं जगत् पुरुषम् उपजीवत्य् आत्मानं लभते तत्परिणामत्वाद्विश्वस्य ॥
3पतिमित्यादि ॥ पतिं पातारं विश्वस्य । पातेर्डतिः । आत्मेश्वरं क्षेत्रज्ञानामीश्वरं तद्भरणक्षमं तत्परिणामत्वात् तेषाम् । शाश्वतम् अविनाशं शिवं शान्तोपद्रवं क्षतिरहितं नारायणं नारा एव अयनम् आश्रयो यस्य ‘तत्सृष्ट्वा । तदेवानुप्राविशत्’ इति तद्रूपेणैव विज्ञेयं महाज्ञेयं सर्वज्ञेयसमष्टिभूतम् । यद्वा - प्रशस्तं ज्ञेयम् अपवर्गहेतुत्वात् । विश्वात्मानं विश्वमेव आत्मा शरीरं यस्य परायणं प्रकृष्टं गन्तव्यं तादृशं विश्वमुपजीवतीति ॥
4नारायणपरमिति ॥ नारायणपरतन्त्रं ब्रह्मपरं तद्भावापेक्षितत्वात् प्रपञ्चसृष्टेः । तत् कथमित्याह - तत्त्वं पृथिव्यन्तं सर्वं तत्त्वजातं नारायणः परः परतत्त्वात्मा नारायण एव तत्परिणामत्वाज् जगतः । तस्मान् मृत्परतन्त्रः कुलाल इव नारायणपरं ब्रह्मेति । एवमचिदुपादानत्वं परमात्मन उक्तम् । इदानीं चेतनानामप्ययमेवोपादानमिति दर्शयति - नारायणपरतन्त्रः ज्योतिर् द्योतमानः प्रकाशस्वभाव आत्मा विज्ञानात्मा तद्विष्फुलिङ्गत्वात् क्षेत्रज्ञानाम् । तस्मात् तत्परतन्त्रा आत्मानस् तद्भावे भावान् मृत्परतन्त्रा इव घटादयः । कथमित्याह - नारायणः परः नारायणो हि परमश्चेतनः सर्वचेतनानां समष्टिः ॥
5एवं चितामप्ययमेवोपादानमिति स्थितम् । यस्मादेवं तस्मात् - यच्चेति ॥ यच्च किञ्चिद् यत्किञ्चिदपि पदार्थजातं चेतनमचेतनं वा अस्मिन् जगति, परिणते प्रपञ्चे दृश्यते वा श्रूयते वा अन्तर्बहिश्च अन्तरिस्थतं वा बुद्ध्यादि बहिस्स्थितं वा घटादि तत्सर्वं व्याप्य स्थितो नारायणः ॥
6अनन्तमिति ॥ इयं द्विपदा गायत्री ॥ अनन्तम् अपरिच्छिन्नम् अव्ययं नव्येतीत्यव्ययं व्ययरहितं कविं मेधाविनं समुद्रे समुद्द्रवन्त्यस्मादिन्द्रियाणीति समुद्रो हृदयावकाशःस् तत्र स्थितम् अन्तं समस्ताध्वसमाप्तिस्थानं विश्वशम्भुवं व्यख्यातम् । ईदृशमिमं देवं विश्वमुपजीवतीति ॥
7अतःपरं ब्राह्मणं - ‘दह्रं विपाप्मं’ इत्यादि यदुक्तं तस्य शेषः - पद्मकोशेत्यादि ॥ पद्मकोशप्रतीकाशं पद्ममुकुळसङ्काशं स्थानं पद्मकोशवत् प्रकाशते हृदयं हृदयकोशम् आधेयापेक्षया समुच्चयार्थश्चशब्दः । ‘दह्रं विपाप्मं'105 इत्यत्र यत् स्वरूपेण प्रतिज्ञातम् उपासनस्थानम् उपासितव्यं च तत्र उपासितव्यं वर्णितमित्य् अनन्तरमुपासनास्थानं हृदयं च वर्णयाम इत्यर्थः । अपि च - इदं स्थानम् अधोमुखम् अवाञ्मुखं व्यवहारकाले तन्निवृत्तावूर्ध्वमुखं विकसति । अथ कुत्रेदं स्थानमित्याह - अधो ऽधस्तान् निष्टया निष्ट्याया निष्ट्यानाम स्थानं ध्वनेर् ग्रीवावन्धनम् । स्त्यायतेर्निपूर्वात् ‘आतश्चोपसर्गे’ इत्यङ् । ‘सुपां मुलुक्’ इत्याकारः । अधस्तात् कियति प्रदेश इत्याह - वितस्त्यां तु वितस्तिप्रमाणपरिमिते वितस्तिर् मध्यमाङ्गल्या विशेषः । स च पूर्वोक्तस्य स्थानस्यायमपि विशेषः यन् निष्ट्याया अधस्ताद् वितस्त्यन्ते तिष्ठतीति । नाभ्यामुपरीति नाभ्या उपरि वितस्त्यां त्वित्येव । विभक्तिव्यत्ययः । नाभ्यां वा स्थित्वा उर्ध्वं मीयमाने वितस्त्यां तिष्ठतीति तत्स्थानमिति हृदयं तद् इति तद् एतद्धृदयं विश्वस्यायतनं स्थानं विजानीयान् महद् असङ्कुचितं विश्वस्यासङ्कुचितवासस्थानं विजानीयाद् विश्वात्मनः परमात्मनस्स्थानत्वात् ॥
8पुनश्च विशिनष्टि - सन्ततं समन्ताद्विधृतं सिराभिर् लम्बति प्रलम्बते । तुशब्दः पूर्ववद्विशेषे । आकोशसन्निभम् ईषत्कोशसदृशं लम्बते विश्वस्यायतनं विजानीयात् । तस्यान्त इति तस्य पद्मकोशस्य अन्ते मध्ये सुषिरं छिद्रं सूक्ष्मं स्वल्पप्रमाणं विद्यते हृदयाकाशाख्यं तस्मिन् सुषिरे सर्वं जीवात्मप्रभृति चेतयमानपदार्थजातं प्रतिष्ठितं निश्चलं तिष्ठति ॥
9तस्य सुषिरस्य मध्ये महानग्निर् ज्वलति वैश्वानरः विश्वार्चिर् विश्वतः प्रसरज्ज्वालः विश्वतोमुखः विश्वावकाशोदीर्णमुखसामर्थ्यः । सोऽग्रभुक् सोऽग्निः स्वम् आश्रयं देहं सन्तापयत्य् उष्णं करोति । भुक्तस्य जरयितेत्यभिप्रायः । कविः क्रान्तदर्शनः ॥
10तस्य मध्ये इति । तस्य अग्नेर् मध्ये वह्निशिखासदृशो जीवो व्यवस्थितः । यद्वा - वह्निशिखा जीवप्रभा वहतीति वह्निर् जीवः सा व्यवस्थितः । लिङ्गव्यत्ययः । कीदृशो जीवः - अणीयोऽर्ध्वा । रेफोपजनश्छान्दसः । अणीयो ऽध्वा मार्गो यस्य तादृशो ऽणुतरस्वभाव इति भावः । यद्वा - कीदृशी वह्निशिखेत्याह । अणीयोर्ध्वा अणीयसामूर्ध्वभूता नातः परमणीयोऽस्ति । यलोपमाश्रित्य गुणः क्रियते । पुनश्च वह्निर्विशेष्यते - नीलतोयदमध्यस्था सजलजलदमध्यवर्तिनी विद्युल्लेखा परभागलाभेन यथा भास्वरा दीप्ततरा भवति तादृशी इयं वह्निशिखा भवति । व्यवहारकाले निमीलितपरतत्त्वानां प्रपञ्चोन्मीलनेन महामोहतमोमध्यवर्तिनी जीवप्रभा अतीव सङ्कुचिता मलिनेव भवति । व्यवहारनिवृत्तौ उन्मीलितपरतत्त्वानां प्रपञ्चनिमीलनेन महामोहनिवृत्तौ अनवच्छिन्ननिर्मलात्मभावोपपत्तिर्भवतीति ||
11नीवारेत्यादि ॥ नीवारशुकवत्तन्वी तनुप्रमाणा पीताभा पीतवर्णा तप्तकाञ्चनदीप्तिः । किञ्च - स्यात् तनूपमा स्यादियं तनूनामुपमा तनूनि वस्तून्य् अनया उपमीयन्ते परमतनुत्वाद् अस्याः । यथा -
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवस्स विज्ञेयः स चानन्त्याय कल्पते ॥
इति । तस्यास् तादृश्या वह्निशिखाया मध्ये परमात्मा आत्मप्रकृतिभूतो नारायणो व्यवस्थितः, जीवानुरोधेन सङ्कुचितस्तिष्ठति ॥
12स ब्रह्मेति द्विपदा ॥ स एव ब्रह्मा स एव स्रष्टा स एव शिवः रुद्रः स एव इन्द्रः देवराजः स एव अक्षरः क्षरणरहितः परमः प्रकृष्टः स्वराट् स्वे महिम्नि सदा राजमानः स्वतन्त्रो देवः सर्वस्य हेतुरीश्वरः । सर्वोपलब्धिस्थानत्वाद् अस्य परमात्मप्रदेशस्य तद्भावेनास्य स्तुतिः । एवमीदृग्गुणं परमात्मलक्षणं ब्रह्म विदित्वा सर्वमेव मन्त्रब्राह्मणविहितद्रव्यदेवताकर्मजातमत्रैव परमात्मन्य् उपसंहृत्य मनस्सम्प्रतिष्ठाप्य उपासनां कुर्वन् परं ब्रह्म आप्नोति ॥
इति याज्ञिक्युपनिषद्य् एकादशोऽनुवाकः ॥
१२
1कीदृशं पुनस्तत्प्राप्यं ब्रह्मेत्याह - ऋतमित्य् अनुष्टुप् ॥ मानस तथ्यम् ऋतम् । वाचिकं सत्यम् । उभयविपर्यासरहितम् । यद्वा - ऋतमिति सौत्रो धातुर् घृणायां वर्तते । ऋतीयते विश्वमनुगृह्णाति इत्यृतं शिवैकस्वरूपम् । इगुपधलक्षणः कः । ‘आयादय आर्धधातुके वा’ इत्य् ऋतेरियङ्न क्रियते । सति साधु सत्यम् । सते वा हितम् । स्यामिति व्यामिश्रकं सङ्कल्पप्रभवं परस्य रूपं सत् । तेन विश्वमनुगृह्णातीति । तादृशं परं सर्वस्मादुत्कृष्टं विश्वोत्तीर्णं ब्रह्म परिवृढं वस्तु पुरुषं पूरकं पालकं वा सर्वस्य चेतयमानं वा कृष्णपिङ्गलं देहपरिजिघृक्षायां स्त्रीपुंसशबलाकारं परशक्त्यविनाभूतं वा । केचिदाहुः - कृष विलेखने । कर्षणीया योनिः कृष्णा । पिजि हिंसादौ । पिञ्जनशीलं पिङ्गलं तदुभयभावेन जगद्वृद्धिक्षयं कुर्वाणम् । ऊर्ध्वरेतं स्वयं तु सर्वदा सन्दीप्ततपस्कं यद्वा - रेतोभ्यो विकारेभ्य ऊर्ध्ववर्ति विश्वविकारोत्तीर्णम् । छान्दसस्सकारलोपः । विरूपाक्षं विलक्षण लोचनम् ईदृशं परं ब्रह्म भवति । तस्मै विश्वरूपाय नमः विश्वत्वेन स्थितं तदेव रूपं रूपणस्थानं यस्य जगदनुग्रहार्थे विश्वरूपतां च दधते तस्मै नमः । प्रह्वीभावं कुर्मः । वैशब्दः साम्प्रतिकार्थः - इदं हि युक्तमिति । ‘तस्मै नमः’ इति दर्शनात् प्रजापशुविद्याविभूतिकामानाम् अपवर्गार्थिनां च जपोपासनहोमादिष्व् अयं विनियुज्यते ॥
इति याज्ञिक्युपनिषदि द्वादशोऽनुवाकः ॥
१३
1पुनरपि जगदनुग्रहार्थं प्रकारा देवस्योच्यन्ते - आदित्यो वा इत्यादि । एष इति दृश्यमानं तपनं प्रत्यक्षेण दर्शयति । आदिभूतो देव आदित्य ईश्वरः स एव स्वयं य एष तपनस् तदीयं तेजो जगदनुग्रहाय सूर्यत्वेन वर्तत इति । तदेवाह - एतन् मण्डलं तपति तत्र परस्मिन् देशेऽवस्थितम् । आत्मनो वा निमित्ते सत्य् एतद् दृश्यमानं मण्डलं तेजस्सङ्घातस् तपति । प्रकाशादिना जगदनुगृह्णाति तदीयं तेज इति यावत् । यथा ‘तत्सवितुर्वरेण्यं भर्गः’ इति । ता ऋच इति । तादृक् तपनशक्तियुक्तमण्डलम् ऋच ऋचां प्रभावः । ऋगपेक्षया स्त्रीत्वं बहुत्वं च । तस्मात् तदृचाम् एव मण्डलं सङ्घातः । तस्मादेव स ऋचां लोकः स्थानं तत्रैव ऋचो लोक्यन्ते । अथ एतस्मिन्मण्डले योऽर्चिर् ज्वाला दीप्यते प्रकाशते तानि सामानि साम्नां महिमा । तस्मात् तदेव सान्नां स्थानम् । अथ एतस्मिन् मण्डले आधारे अर्चिषि पुरुषस् तदभिमानी मण्डलक्षेत्रज्ञस् तानि यजूंषि यजुषां प्रभावपरिणामः । तस्मात् सः यजुस्सङ्घातात्मा यजुषां स्थानम् ॥
सैषेत्यादि ॥ यान्येतानि मण्डलमर्चिः पुरुष इति तान्येतानि त्रय्येव विद्या तपति मण्डलादिरूपेण त्रय्येव तपति । विद्याग्रहणं वेद्यप्राधान्यख्यापनार्थम् । यद्विद्या तपति वेद्यमेव तत्तपति । तदेवाह - य एष इति । सोऽयम् अन्तरादित्ये रसानामादातरि मण्डले उपास्यत्वेन श्रूयमाणो हिरण्मयो हिरण्यवर्णः हितरमणीयो वा पुरुष ईश्वरस् त्रयीवेद्यः स एव मण्डलार्चिःपुरुषभावमापन्न ऋक्सामयजुर्लक्षणविद्यारूपेण तपति । तस्मात् तमेवोपास्मह इति शेषः । यद्वा - योऽन्तरादित्ये हिरण्मयः पुरुषः स एव एवं त्रयी भूत्वा तपति । कीदृशी त्रयी विद्येत्याह - एषा । एतन्मण्डलादित्रितयात्मिकेत्यर्थः ॥
इति याज्ञिक्युपनिषदि त्रयोदशोऽनुवाकः ॥
१४
1आदित्यो वै तेज इति ॥ यदुक्तं त्रयी भूत्वा जगदनुगृह्णातीत्य् अल्पेयं मात्रेत्याह - तेजआदिसंवत्सरपर्यन्यः पदार्थवर्गः य एवमादिभूतो देवस् तत्तद्भावेनानुगृह्णाति तत्तदर्थिना स एवं ज्ञात्वोपासितव्य इति भावः । तेजो भूत्वा तेजयति । एवं सर्वत्र । देवताविशेषा एते तत्तदभिमानिनः । तेजो दीप्तिः । ओजः रूपशोभा । उब्जेरोजः । बलयतीति बलम् । बल प्राणने । यजतेर् यशः पूजनात् । चक्षुर् दर्शनात् । श्रोत्रं श्रवणात् । आत्मा अतनात् । मनः मननात् सङ्कल्पात् । मन्युः क्रोधो ऽभिमननात् । मनुर् मननाज् ज्ञानात् । मृत्युर् मरणात् । सत्यः सति साधुः साक्षी देवताविशेषः । मित्रो मित्रं प्रमितेस्त्राणात् । देवताविशेष एव । वायुर् वानात् प्रेरणात् । आकाश आकाशनाद् अवकाशप्रदानात् । प्राणः प्राणनाद् उच्छ्वासादिकात् । लोकपाल इन्द्रादिर् लोकानां पालनात् । कः प्रजापतिः कायनात् । नित्याव्यक्तं कायतेः किं नित्यं शब्द्यत एव । कं सुखं कमनीयत्वात् । तद् व्यापकं परोक्षं वा तनोतीति तत् । सत्यं सच्च त्यच्च मर्त्यामर्तम् । समाहारद्वन्द्वः । अन्नम् अदनीयम् । आयु: अयनाज् जीवद्दशया । अमृतो ऽमृतत्वनिमित्तम् । जीवो जीवात्मा जीवनात् ; जीवननिमित्तं वा । विश्वः विश्वात्मा सर्वत्र प्रवेशात् । कतमो ऽशक्यनिर्धारणः सर्वगतत्वात् परमात्मा । स्वयम्भु स्वयमेव भवनात् परम्ब्रह्म । प्रजापतिः प्रजानां पाता स्वामी ब्रह्म । संवत्सरः सम्यक् वसन्त्यनेनेति विश्वोपादानं ब्रह्म । इतिशब्दोऽनुक्तरूपपरिग्रहार्थः ॥
2संवत्सर इत्यादि । य उक्तः संवत्सर इति स एव स्वयम् असावादित्य आदित्यक्षेत्रज्ञभावेन वर्तते । अथ य एषः मण्डले उपास्यः हिरण्मयः पुरुष एष भूतानामधिपतिः स्वयं भूतानां स्वामी देवो मण्डले वर्तते । एतदुक्तं भवति - हिरण्यगर्भशरीरब्रह्माण्डावर्तिहृदयाकाशस्थानीयो भूताकाशस् तन्मध्यवर्तिवैश्वानराग्निस्थानीयं यदादित्यमण्डलं तदन्तर्वर्तिजीवात्मना वर्तमानपरमात्मस्थानीयो यो मण्डलपुरुषस् तत्र देव उपासितव्यः ‘तस्मिन् यदन्तस्तदुपासितव्यं’ इति । एवं ज्ञात्वा परं ब्रह्म उपासीतेति ॥
3अथ वेदितुः स्तुतिः - ब्रह्मणः परस्य प्रपञ्चोत्तीर्णस्य सायुज्यं सयुग्भावं समानलोकतां च आप्नोति । एतासां च देवतानां प्रपञ्चान्तवर्तिनीनां तेजःप्रभृत्यभिमानिनीनां वा सायुज्यं सयुग्भावं सार्ष्टितां मूर्त्यैक्यं समानलोकतां चाप्नोति । य एवं वेदापि किं पुनरुपासितेति । इयमेका उपनिषत् तत्प्रतिपाद्योपासना ज्ञातव्या ॥
इति याज्ञिक्युपनिषदि चतुर्दशोऽनुवाकः ॥
१५
1घृणिरित्यादि ॥ सावित्रोऽष्टाक्षरः प्रणवान्तो मन्त्रः काठके विख्यातवैभवः । सवितृरूपेण जगदनुगृह्णानं परं ब्रह्मास्य प्रतिपाद्यम् । घृणिर् दीपनशीला दीप्तिमद्वा प्रकाशस्वभावः । घृ क्षरणदीप्त्योः । घृ सेचने । अन्यतरस्य निपात्यते । सूर्यः सोता अनुज्ञाता सविता प्रेरयिता विश्वस्य उत्पादयिता वा । इयादिपूरणेन ‘सूर्य इति त्रीणि’ इति ब्राह्मणं नेयम् । केचित्तु - ‘सुवीर्यो मर्यायथा गोपायते’ इति ब्राह्मणानुसारेण सुवीर्यशब्दस्य मध्यमाक्षरलोपेन सूर्यपदं त्र्यक्षरत्वं चेति । आदत्ते ग्रसते विश्वमुपसंहारकाले स्वात्मनीत्य् आदित्यः । आदिभूतो वा सर्वस्य । ओमित्य् अवतेर्निरुक्तम् । यथोक्तगुणकं प्रणवस्य बोध्यं वाच्यं वा यत् तदुपास्महे, ब्रह्मेति शेषः । ब्रह्मस्थाने प्रणवः । यलोपासिद्धिमनादृत्य ‘ओ माङोश्च’ इति पररूपत्वम् । सवितृनामधेयैः परस्य प्रतिपादनात् सवितृरूपेण स्थितं ब्रह्म प्रतिपाद्यमिति गम्यते ॥
2अथैतस्य मन्त्रस्य स्तुत्यर्थं मन्त्रान्तरं यजुः । अनुष्टुप् इत्येके - अर्चयन्ति पूजयन्ति यत् तपः फलभूतं सत्यम् अविपर्यस्तं नित्यं यच्च मधु सर्वात्ममधुरं क्षरन्ति क्षारयन्त्य् अस्माद् ब्रह्मज्ञानात् तद्ब्रह्म तादृशं ब्रह्म तदापः । आप्नोतेरसुन्य् आपः । तदेव व्यापकं विश्वोपादानं ब्रह्म । आपो ज्योतीरसोऽमृतं ब्रह्म तेजोऽबन्नात्मिका या प्रकृतिस् तदात्मकं यद् ब्रह्म अमृतं नित्यं किञ्च यद् भूर्भुवस्सुवरों लोकत्रयव्यापकं परञ्ज्योतीरूपं यत्प्रणवात्मकं ब्रह्म तद्ब्रह्मोपास्मह इति शेषः । तदेव ब्रह्मायं सावित्र इत्यभिप्रायः ॥
इति याज्ञिक्युपनिषदि पञ्चदशोऽनुवाकः ॥
१६
…
१७
1कद्रुद्रायेति गायत्री यजुरन्ता ॥ पूर्ववद्विनियोगः । कत् प्रशस्तं श्लाघनीयं स्तोत्रम् । कत्थ श्लाघायाम्, क्विपि संयोगान्तलोपः । प्रशस्तवाची निपात इति केचित् । शन्तमं सुखसाधनतमं दुःखानां वा शमयितृतमं स्तोत्रं रुद्राय प्रचेतसे प्रकृष्टमनुग्रहश् चित्तं वा यस्य तादृशाय मीढुष्टमाय सेक्तृतमाय जगतां पित्रे तव्यसे तवो वृद्धिरतिशयेन तद्वते । तवसशब्दादीयसुनि ‘विन्मतोर्लुक्’ इति मतुपो लुक् । कृते टिलोपे ईयसुन ईकारस्य छान्दसो लोपः । प्रपञ्चरूपेण वर्तमानायेत्यर्थः । हृदे हृदिस्थिताय वोचेम ब्रूमहे । ‘लिङ्याशिष्यङ्’ ‘वच उम्’ ॥
2सर्वो ह्येष इत्यादि व्याख्यातम् ॥
इति याज़िक्युपनिपन्दि सप्तदशोऽनुवाकः ॥
१८
1नमो हिरण्यबाहव इति ॥ स एव विनियोगः । हिरण्यबाहवे हिरण्याभरणालङ्कृतबाहवे हिरण्यसवर्णसर्वाङ्गाय . बाहुग्रहणस्य उपलक्षणत्वात् । हिरण्यपतये हितरमणीयानामर्थानां स्वामिने हिरण्यस्यैव वा पात्रे । आत्मीयरेतस्त्वात्तस्य | अम्बिकापतये अम्बिकाया भर्त्रे । उमापतये उमावल्लभाय । आदरार्थं पुनर्वचनम् उमाशब्दप्रियत्वाद् वामदेवस्य । यद्वा - प्रपञ्चदशायाम् अम्बिका देवी भवति । अम्ब शब्दे । अम्बयति सविकल्पं जगदुत्पादयतीत्य् अम्बिका सर्वविकल्पोन्मेषवती परा शक्तिः । प्रपञ्चविलये तु परशक्तिरूपेण स्थिता प्रणवपर्यायेण उमाशब्देनोच्यते । तस्योक्तं निर्वचनम् । तादृशाय परस्मै ब्रह्मणे उमापतये नमः । उमायै च नम इति नमश्शब्दावृत्त्या वाक्यभेदाल्लभ्यते । नैतद्द्विर्वचनं द्वितीयस्याप्युदात्तत्वात् ॥
इति याज्ञिक्युपनिषद्य् अष्टादशोऽनुवाकः ॥
१९
1एवं परां देवतां स्तुतां पुनरप्यात्मना स्तौति । तत्रादौ अग्नेर् असाधारणाराधनेऽग्निहोत्रे गुणविधिः क्रियते - यस्येति ॥ ‘सा यत्राहुतिः प्रत्यतिष्ठत्ततो विकङ्कत उदतिष्ठत्ततः प्रजा असृजत’ इति विकङ्कतस्य प्रजासृष्टिहेतुत्वात् प्रपञ्चसृष्टिप्रतिपादनप्रकरणे अस्मिन्नग्निरूपेण प्रपञ्चवृद्धिं कुर्वतो देवस्य प्रीणनत्वाद् यस्य यजमानस्य वैकङ्कती विकङ्कतस्य विकारो ऽग्निहोत्रहवणी भवति । ‘पलाशादिभ्यो वा’ इत्यङ् । अग्नये होतव्यमित्यग्निहोत्रं हविः । तद्धूयतेऽनयेत्य् अग्निहोत्रहवणी विकङ्कतस्य प्राजापत्याहुतिप्रतिष्ठाप्रभवत्वात् तादृशी यस्याग्निहोत्रहवणी भवति । अस्य आहुतयः प्रतिष्ठिताः प्रतितिष्ठन्त्येव फलसाधनत्वस्वरूपान् न प्रच्यवन्ते अथो अपि च तस्यापि यजमानस्य प्रतिष्ठित्यै सा भवति । एवं ज्ञात्वाऽग्न्यात्मानं देवमाराधयेद् उपासीतेति ॥
इति याज्ञिक्युपनिषद्य् एकोनविंशोऽनुवाकः ॥
२०
1’कृणुष्व पाजः प्रसितिं न पृथ्वीम्’ इत्यादयः पञ्च राक्षोघ्न्यो ऽग्नयात्मनो देवस्य उपासनादौ विनियोज्याः । ताश्चात्र प्रकरणानुरोधाद् ब्रह्मप्रतिपादकतया व्याख्येयाः ॥
इति याज्ञिक्युपनिषदि विंशोऽनुवाकः ॥
२१
अदितिरित्यादि ॥ पृथ्वीरूपेण ब्रह्मणस्स्तुतिः । आदितिर् अखण्डनीया पृथिवी । देवादीनां पञ्चानां ग्रहणं प्राधान्यात् । ये देवादयस् तेषामन्येषामपि सर्वभूतानां विहगोरगादीनां माता मातृवत् पोषयित्री साक्षात्परम्परया च मेदिनी स्नेहवती महती महापरिमाणा मही पूजिता सावित्री सवितुः सर्वस्य नेतुः स्वभूता तनुत्वाद् गायत्री गातव्या जगती भृशमविच्छेदेन गच्छन्त्य् अनुपरतप्रभावा उर्वी गौरवेण मही पृथ्वी विस्तीर्णा बहुला बहूनामर्थानां लात्री विश्वा व्याप्तिमती भूता महाभूतात्मिका कतमा अशक्यनिर्धारणा का अव्यक्तरूपा या यादृशी भवति सा तादृशी सती सत्या अविपर्यस्तस्वभावा । इतिशब्दः प्रदर्शनार्थः । एवमादिभिरन्यैश्च गुणैर्धात्री विश्वम्भरा वसुन्धरा सर्वंसहेत्यादिभिस् तद्वती । किञ्च - अमृता अमरणा च । द्वितीय इतिशब्दो हेतौ । यस्मादियमेवंस्वभावा तस्मादिदमेव ब्रह्मणो रूपम् उपास्यमिति वसिष्ठः प्रशस्त आह । ब्रह्मज्ञो जनो वसिष्ठ एव भवति । तस्मादिदमुपास्मह इति शेषः ॥
इति याज्ञिक्युपनिषद्य् एकविंशोऽनुवाकः ॥
२२
1आपो वा इत्यादिनाऽप्त्वेन ब्रह्म स्तूयते । इदं दृश्यमानं श्रूयमाणं च सर्वमाप एव तदधीनत्वात् । किङ्किमित्याह - विश्वा विश्वानि भूतानि पृथिव्यादीनि प्राणाश् चक्षुरादयः पशवो द्विपादश् चतुष्पादश्च अमृतम् आत्मा अन्नम् अदनीयं सम्राट् सङ्गतदीप्तिर् विराट् विविधदीप्तिकं स्वराट् स्वायत्तदीप्तिकं छन्दांसि गायत्र्यादीनि ज्योतींष्य् आदित्यादीनि सत्यं ब्रह्म प्रपञ्चोत्तीर्णं सर्वा देवताः प्रपञ्चान्तर्वर्तिन्यः भूर्भुवस्सुवः व्याहृत्यात्मका लोका: ओं परमात्मा आप एव । तस्मात्ता उपास्मह इति शेषः ॥
इति याज्ञिक्युपनिषदि द्वाविंशोऽनुवाकः ॥
२३
…
२४
1पापशोधनार्थं सायम् अप आचामति - अग्निश्चेति ॥ मध्ये विरामास्सप्त । ‘अकार्षं मनसा’ इति तु सहाध्येतव्यम् । तत्र प्रथमा त्रिपदा गायत्री । यदह्नेति पङ्क्ति: अष्टाक्षरा पञ्चपदा । इदमहमिति विराट्, द्विपदा गायत्री वा । उपक्रान्ताया रात्रेरधिपतिर् अग्निः । तत्र करिष्यमाणानां पापानां तारयिता निवारयिता च मन्युर् मननशीलमन्तःकरणं सर्वप्रवृत्तिनिवृत्तिहेतुः । क्रोध इत्येके । मन्युपतयः मन्योः परिपालकाः प्राणादयश् चक्षुरादयश्च ते सर्वे मन्युकृतेभ्यः कृतशब्दः कारणवाची मन्युः कारणेभ्यः पापेभ्यः रक्षन्तां यथा चोरेभ्यो गृहं रक्ष्यतामिति चोराणामप्रवेशाय यतन्ते । यथा अहं पापं न करिष्यामि तथा कुर्वन्तु । किञ्च - अह्नाऽतिक्रान्तेन । ‘अपवर्गे तृतीया’ अतिक्रान्तेऽह्नि यत्पापम् अकार्षं कृतवानेवास्मि मनसा प्रतिषिद्धचिन्तनादिभिर् यच्च वाचा प्रतिषिद्धोच्चारणादिभिर् यच्च हस्ताभ्यां तृणादिहिंसादिभिर् यच्च पद्भ्याम् अनाक्रमितव्याक्रमणादिभिर् यच्च उदरेण अभोज्यभोजनादिभिः शिश्ना शिश्नेन अगम्यागमनादिभिः । ‘सुपां सुलुक्’ इत्याकारः । एतैर् यत्पापमकार्षम् अह्नि तत्सर्वं तदेवाहो ऽवलुम्पतु नाशयतु । अथेदानीं कृतकरिष्यमाणेषु पापेषु निहितेष्व् अन्यदपि यत्किञ्च दुरितं पापं प्राचीनजन्मसञ्चितं यद्वा मनआदिव्यतिरेकेण श्रोत्रादिना कृतम् अश्रोतव्यश्रवणादिभिः कृतम् अनिर्ज्ञातसाधनं वा यत्पापं मयि तिष्ठति इदं पापं मां चास्य कर्तारम् । यद्वा - मदीयं पापं धर्मधर्मिणोरभेद उपचर्यते । अमृतयोनौ अमृतत्वकारणे ब्रह्मणि किमात्मके सत्ये अविपर्यस्ते अग्नौ ज्योतिषि द्योतमाने ज्वलिते आत्मज्योतिष्य् अग्न्यात्मन्य् उपक्रान्तरात्र्यधिपतौ जुहोमि प्रक्षिपामि । यथा पापतां हित्वा अमृतत्वस्यैव कारणं स्यादिति भावः । होमप्रतिपत्तिसम्पादनेन श्रेयस्साधनतामेव पापप्रक्षेपस्य सूचयितुं जुहोमीत्युक्तम् । स्वाहुतं चेदमस्त्विति स्वाहाकारेण दर्शयति । यद्वा - इत्थमिदं कर्तव्यमिति प्रजापतेः स्वैव वागाहेति बोधयति ॥
इति याज्ञिक्युपनिषदि चतुर्विंशोऽनुवाकः ॥
२५
1सूर्यश्चेति प्रातराचमनीयम् । अन्यत्सर्वं पूर्ववत् । सूर्य उपक्रान्तस्य अह्नोऽधिपतिः । रात्रिया कृतं पापं रात्रिरवलुम्पत्विति विशेषः । सूर्ये ज्योतिषि जुहोम्य् उपक्रान्तस्यान्ह्नोऽधिपतौ होमः । गतमन्यत् ॥
इति याज्ञिक्युपनिषदि पञ्चविंशोऽनुवाकः ॥
२६
1आयात्विति गायत्र्यावाहने अनुष्टुप् यजुरन्ता ॥ आयात्व् आगच्छतु वरदा वरणीयानामर्थानां दात्री देवी द्योतनवती छन्दोऽभिमानिनी देवता । इदानीं प्रत्यक्षवदाह - हे देवि ! आगत्य छन्दसामुष्णिगादीनां माता योनिभूता त्वम् इदं नो ऽस्मदीयं ब्रह्म अक्षरं क्षतिरहितं ब्रह्मसम्मितं ब्रह्मसङ्काशं गायत्रीं गायत्रीछन्दस्कं जुषस्व सेवस्व । कस्मादेवमुच्यत इति चेत् - ओजः देहशोभा असि सहो ऽभिभवनशक्तिर् असि बलं सामर्थ्यम् असि भ्राजः दीप्तिर् असि देवानां धाम स्थानम् असि । कीदृशं नाम नमनं वशीकरणम् । किं बहुना विश्वं जगद् असि विश्वायुर् विश्वमायुर्जीवितमन्नं वा यस्यां तादृश्य् असि सर्वं सर्वप्रकारं श्रेयस्त्वम् असि । प्रकारकार्त्स्न्ये सर्वशब्दः । सर्वायुः सर्वप्रकारस्यायुषो हेतुर् अभिभूर् अभिभवित्री शत्रूणामसि । ओं व्याप्तिमतीं ब्रह्मात्मिकां तादृशीं गायत्रीमावाहयामि मम समीपं प्रापयामि ॥
इति याज्ञिक्युपनिषदि षड्विंशोऽनुवाकः ॥
२७
1ओं भूरित्यादि ॥ प्रणवव्याहृतिशिरोभिः सहिता सावित्री प्राणायामार्था । अस्यास्त्रिरावर्तनकालं प्राणापानवृत्तिनिरोधः प्राणायामः । यथोक्तम् -
ओङ्कारपूर्विकाभिस्तु लोकव्याहृतिभिस्सह ।
सावित्री शिरसा सार्धं प्राणायामः प्रकीर्तितः ॥
इति । एवं त्रीन् षोडश वा धारयेत् । तत्सवितुरिति सावित्री त्रिपदा निचृद्गायत्रीछन्दस्का अक्षरोनत्वादस्याः ! विश्वामित्रस्यार्षेयम् । सविता देवता । अस्यास्तु प्रणवव्याहृतिसहिताया उपनयनादिषु च विनियोग उक्तः ! प्रणवः स्वयम्भुवो ब्रह्मण आर्षेयम् । देवी गायत्री छन्दः ‘देवानामेकं’ इति वचनान् । परमात्मा वाच्या देवता । तात्पर्यप्रतिपाद्यं परब्रह्माधिदैवतम् । अनेन वाचकनोत्थापितसंस्कारः परमात्मा साधकाभिमुखो भूत्वा प्रणवाग्रस्थं परं ब्रह्म दर्शयति । यथोक्तम् -
तैलधारामिवाच्छिन्नं दीर्घं घण्टानिनादवत् ॥
अवाप्तं प्रणवस्याग्रं यस्तु वेद स वेदवित् ॥
इति ॥ सा अन्या अर्धमात्रा दर्पणवत् परम्ब्रह्म दर्शयति । इदमेवोक्तम् - ‘तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः’ इति । तस्य चानादिर्वाच्यवाचकभावो गुरुभिरुद्दीपित उपासकानाम् अपरोक्षावबोधगोचरो भवति । न तस्य लोके उज्ज्वलति । पिता पुत्रादीनां हि स्थित एव सम्बन्धो लौकिकैः ख्याप्यते - ‘अयं पिता अयं पुत्रः’ इति । अयं च कर्मार्थतया प्रयुज्यमानस्त्रिमात्रो भवति । ध्यानकाले वागोपासने विनियुज्यमानो ऽर्धमात्रातिरेकेण ध्वनति । तिसृभिर् मात्राभिः सर्वमिदं वाङ्मयं व्याप्तम् । आदिभूतस्सर्वः पदार्थोऽकारः, मध्यभूतस्सर्व उकारः, अन्त्यभूतस्सर्वो मकारः। व्यञ्जनस्यापि मात्रिकत्वमिष्यते । एवमनेन ओङ्कारात्मना सर्वभावसञ्चारिणा त्रयो लोकास्तिस्त्रोऽग्निवाय्वादित्यास् तद्देवतास्त्रयो देवा ब्रह्मविष्णुरुद्रास् त्रीणि तत्कार्याणि सृष्ट्यादीनि त्रयो वेदास् त्रयोऽग्नयस् त्रीणि सवनानि तिस्रोऽवस्था जाग्रत्स्वप्नसुषुप्तयस् त्रयस्स्वभावा आध्यात्मिकाधिभौतिकाधिदैविकाः सूक्ष्मव्यवहितविप्रकृष्टाविप्रकृष्टा व्याप्ताः । ‘तद्यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णा’ इति श्रुतिः । तथा ‘ओमितीदं सर्वम्’ इति । एतेन ओङ्कारेण बोधितः परमात्मा प्रत्यगात्मनः प्रसीदति । ततोऽयमाविर्भूतपरमात्मज्योतीरूपसम्पत्त्या सत्यकामस्सत्यसङ्कल्पः परां देवतामधिगच्छति ॥
अथ भूरादयो व्याहृतयः सप्त लोकात्मिकाः । आसामात्मनः प्रत्येकं पर्यायवाचकत्वख्यापनाय प्रत्येकं मन्त्रत्वाञ्च प्रधानवाचकेन प्रणवेन प्रत्येकमभिसम्बन्धः । तासामाद्यास्तिस्रो महाव्याहृतयः कर्मभ्रेषादौ प्रत्येकं विनियोगात् । आदौ जगात्सृसृक्षुः प्रजापतिः प्रजानां स्थित्याद्यर्थं सत्यमभिसन्धाय सप्तकृत्वो व्याहरत् । ता व्याहृतयो भूराद्याः सप्तलोका अभवन् । सप्त बलाधारपटलभूताः सप्तलोकभावेन व्यवस्थिता इति स्मृतिः । गायत्र्युष्णिगनुष्टुप् बृहती पङ्तिस् त्रिष्टुप् जगतीति सप्त छन्दांसि । अग्निवाय्वर्कबृहस्पतिवरुणेन्द्रविश्वदेवा देवताः । व्याहर्ता प्रजापतिर् ऋषिः । भुवरादयः पञ्चान्ते स्वरिताः । भवन्त्यस्यां सर्वाणि भूतानीति भूः । कर्मफलोपभेगपरिग्रहेण भवन्त्यस्मिन्निति भुवः । यद्वा - शीतोष्णवृष्ट्युदकतेजांस्य् अमुष्माद् भवन्तीति भुवः । अङि छान्दसो वर्णविकारः । तित्स्वरे अन्तस्वरितत्वम् । सुष्ठु व्याप्यते सुकृतिभिरिति सुवः । सुपूर्वादर्तेर्विचि तन्वादित्वादुवङ्, ‘न्यङ्स्वरौ स्वरितौ’ इत्यन्त्यस्वरितत्वम् । एते त्रयो लोका उत्तरोत्तरमणीयांसः । पञ्चमादयस्त्रय उत्तरोत्तरमल्पी[रं मही?] यांसः। चतुर्थस्त्व् अधरोत्तरेभ्यो महत्तमः । अत एव महरित्य् उच्यते । महतेरसुन् । महतो वाऽन्त्यविकारोऽन्तस्वरितत्वं च । कल्पान्ते महाभूतसम्प्लवे प्रलीना जन्तवस् तत्र प्रथमं जायन्त इति जनः । सनत्कुमारादयो योगीन्द्रास् तस्मिन् तपस्तप्यन्त इति तपः । तपोमयो वा आमहाभूतसम्प्लवाद् अविपर्यस्तस्वभाव इति । सत्यव्रतानां स्थानं सत्यम् । एवमेताः सप्त व्याहृतयः सप्रणवाः प्राणायामे प्रयोक्तव्याः। यथाऽऽहुः -
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां तु गायत्र्यां न भयं विद्यते क्वचित् । इति ॥
अथ प्रणवादिका सावित्री - ओन्तत्सवितुरित्यादिका । अस्या उपकरणानि प्रणवव्याहृतिशिरांसि । इयं तु प्रधानभूता । यथाऽऽहुः -
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥
इति । व्याख्याता चेयं ‘सं पश्यामि’ इत्यत्र ॥
अथ ओमाप इत्यादि शिरः ॥ शिर इव शिर उपरि स्थितत्वात् । एतत्प्रजापतेः परमेष्ठिन आर्षेयम् । धातुरनुष्टुबेषा षोडशाक्षरत्वात् । ब्रह्माग्निवायुसूर्य देवताकम् । इदं च व्याख्यातं ‘घृणिस्सूर्यः’ इत्यत्र । एवं प्रणवव्याहृतिशिरोवाच्यव्यापारतादर्थ्यं महिमातिशयं सावित्रीप्रतिपादकस्य सवितुर् देवस्य प्रपञ्चातीतस्य प्रेकरस्य स्वामिनः स्वभूतं विश्वं प्रपञ्चात्मकमादित्याख्यं वरेण्यं तेजो वयमुपास्महे इति विवक्षितम् ॥
इति याज्ञिक्युपनिषदि सप्तविंशोऽनुवाकः ॥
२८
1ओं भूर्भुवस्सुवरित्यादि ॥ पूर्वेण सहास्य प्राणायामे विकल्पः । विशेषस्तु प्रणवावृत्तिरहिता व्याहृतयः सावित्र्यास्थाने ‘तद्ब्रह्म तदापः’ इति प्रयुज्यत इति । समानमन्यत् ॥
इति याज्ञिक्युपनिषद्य् अष्टाविंशोऽनुवाकः ॥
२९
1ओं तद्ब्रह्मेत्यादि ॥ अयमपि विकल्प एव । प्रणवात्मकं ब्रह्म स्तूयते । ओमित्येतदक्षरं ब्रह्म । यद्वा - ओमित्येतद्बोध्यं तत् परं वस्त्वेव ब्रह्म बृंहणशीला प्रकृतिः । तद् एव वायुर् वातः सर्वक्रियोपादानम् ‘वाताद्यज्ञः प्रयुज्यताम्’ इति । तद् एव आत्मा विज्ञानात्मा । तद् एव सर्वं विश्वात्मा परमात्मा । तद् एव पुरोर् बलवतः प्रपञ्चस्य नमः नामविकल्पहेतुः शब्दो विभुः । यद्वा - पुरोर्महतो देवस्य यन्नमः प्रह्वीभावः प्रपञ्चोन्मेषहेतुः परा शक्तिः साऽपि तदेव परम्ब्रह्मेति । पुरुशब्द आद्युदात्तः ॥
इति याज्ञिक्युपनिषद्य् एकोनत्रिंशोऽनुवाकः ॥
३०
1उत्तम इत्याद्य् अनुष्टुप् सावित्र्या उत्सर्जने विनियुक्ता ।
उत्तमे उद्गततमे पुण्यतमे शिखरे उच्छ्रिते देशे भूम्यां वा पर्वतमूर्धनि वा उच्छ्रिते देशे
देवी देवनशीला क्रीडापरा
त्वं तादृशे देशे गच्छ ।
हे देवि ! गायत्रि ! यथासुखं
यत्र गतायाः सुखं भवति तत्र गच्छ ।
अनुज्ञानम् अनुज्ञातम् अस्माभिः । कर्मणि ल्युट् । क्रियाविशेषणं वा । तादर्थं चतुर्थी ।
ब्राह्मणेभ्यो ब्राह्मणार्थम् एव गच्छ
पुनर् अपि ब्राह्मण-समीपम् आगन्तुं प्रतीक्षमाणैव उत्तमे स्थाने तिष्ठेति ॥
इति याज्ञिक्युपनिषदि त्रिंशोऽनुवाकः ॥
३१
1ओमन्त इत्य् अस्तारपङ्क्तिः प्रणवोपासने विनियुज्यते ॥ ओङ्कारवाच्यं परं तत्वं भूतेषु भूतजालेषु विश्वमूर्तिषु नानादेहभिन्नेषु सर्वशरीरविशेषेष्व् अन्तः मध्ये गुहायां हृदयावकाशे चरति प्रणवात्मना ध्वनति । प्रत्यक्षवदाह - त्वं यज्ञ इत्यादि । यज्ञादिभावेन त्वमेव तिष्ठसीति । ब्रह्मा हिरण्यगर्भः । प्रजापतिः परमात्मा ॥
इति याज्ञिक्युपनिषद्य् एकत्रिंशोऽनुवाकः ॥
३२
1अथ प्राणाग्निहोत्रमन्त्रा आत्मयाजिनाम् । उपस्तृणाति - अमृतोपस्तरणमसीति । उपस्तरणम् आस्तरणं यत्र अमृतम् अन्नं ब्रह्म सीदतीति तदेव त्वमसि हे उदक ! इत्य् अपोऽन्तः क्षिपति ॥
इति याज्ञिक्युपनिषदि द्वात्रिंशोऽनुवाकः ॥
३३
1जुहोति - प्राणे निविष्ट इति ॥ प्राणे प्राणनिमित्तं निविष्टो ऽभिनिविष्टस् तत्स्थित्यै यतमानोऽहम् । यद्वा - प्राणे निविष्टो ऽवस्थितस् तदधीनस्थितिकत्वात् सोऽहम् अमृतम् अमरणहेतुम् अमृतात्मकब्रह्मस्वरूपं वा इदमन्नं जुहोम्य् आत्मज्योतिषि प्रक्षिपामि प्राणाय देवतायै स्वाहा हुतं चेदमस्तु । एवमपानादिषु च योज्यम् । तत्र प्राण उर्ध्ववृत्तिर् मुखनासिकनिस्सरणः । अपानो ऽवाग्वृत्तिः । व्यानः विष्वग्वृत्तिः ! उदानः शब्दकारी । समानः सर्वा ङ्गेष्व् अशितपीतादेस्समीकर्ता । ब्रह्मणीति । इदानीमनेनान्नहोमेन मे आत्मा शरीरं ब्रह्मण्य् एव स्थितम् । तच्च मम अमृतत्वाय भवति । यद्वा - अमृतत्वाय ममात्मा ब्रह्मणि तिष्ठत्व् अनेनान्नप्रक्षेपण । यद्वा - ब्रह्मण्य् अन्ने मम शरीरं स्थितं तदधीनस्थितिकत्वात् । तस्यामृतत्वाय इदमन्नं जुहोमि ॥
इति याज्ञिक्युपनिषदि त्रयस्त्रिंशोऽनुवाकः ॥
३४
1प्राणे निविष्ट इत्यादि ॥ पूर्वेण विकल्प्यते । व्याख्यातप्रायो मन्त्रः । विशेषस्तु शिव इत्यादि । शिवः शान्तो ऽनुपद्रवहेतुर्भूत्वा माम् आविश । हे अन्न! । ‘सुपां सुलुक्’ इति स्वादेशः । यद्वा - शिव एव भूत्वा मामाविश । किमर्थम् अप्रदाहाय अप्रदाहार्थ शरीरस्य । इतरथा जाठरो वह्निः शरीरं दहेत् । गतमन्यत् ॥
इति याज्ञिक्युपनिषदि चतुस्त्रिंशोऽनुवाकः ॥
३५
1अभिवारयति - अमृतापिधानमसीति ॥ अपिधानं छादनं येनामृतं पिधीयते तत्त्वमसि हे उदक ! ॥
इति याज्ञिक्युपनिषदि पञ्चत्रिंशोऽनुवाकः ॥
३६
1श्रद्धायामिति ॥ हुताशनानुमन्त्रणमन्त्रः गतप्रायः । श्रद्धायां सत्यामेव श्रद्धावतैव मया प्राणे निविश्य अमृतं हविर् हुतम् । तस्मात् पाणं मदीयां प्राणवृत्तिम् अनेन अन्नेन आप्यायस्व वर्धय हे प्राणात्मन् ! । अन्तर्भावितण्यर्थः प्यायतिर्द्रष्टव्यः । श्रद्धायामित्य् अपानादिष्व् अनुषज्यते । गतमन्यत् ॥
इति याज्ञिक्युपनिषदि षट्त्रिंशोऽनुवाकः ॥
३७
1प्राणानामिति हृदयाभिमर्शनम् ॥ हे जाठराग्ने । प्राणानां ग्रन्थिः प्राणा येन ग्रन्थ्यन्ते निश्चलास्स्थाप्यन्ते तादृशस्त्वम् असि त्वया हि भुक्ते जीर्णे प्राणास् तिष्ठन्ति । तस्मात् स त्वं प्राणधृत्यर्थं भुक्तं दग्धुं रुद्रो मामाविश यो रुद्रो रोदयिता अन्तकः महार्थसंहारी महाग्निद एव भूत्वा मामाविश आविश्य च तेनान्नेन प्राणेभ्यो हुतेनाप्यायस्व ॥
इति याज्ञिक्युपनिषदि सप्तत्रिंशोऽनुवाकः ॥
३८
1दक्षिणाङ्गुष्ठे पाणिजलं स्रावपति - अङ्गुष्ठेत्यनुष्टुभा ॥ अङ्गुष्टमात्रो ऽङ्गुष्ठप्रमाण ईश्वरो ऽनवच्छिन्नोप्य् अङ्गुष्ठप्रमाणहृदयदेशोपलम्भात् तद्वशेनाङ्गुष्ठमात्र उच्यते । तदेवाह - पुरुषः पुरि शेते सीदति वा पुरुषो ऽङ्गुष्ठं च समाश्रितः यत्रोदकं स्रावयति । अण्डमूलभूते हि भुवने कालाग्न्यात्मा देवस्तिष्ठति येनोत्थितेन कल्पान्ते विश्वं जगद्दह्यते । एवं शरीरमूले अङ्गुष्ठे स तिष्ठति येनोत्थापितेन शरीरं शोधयन्ति साधकाः । स सर्वस्य जगतः प्रभुर् ईशः प्रीणाति विश्वभुक् कल्पान्ते विश्वस्य भोक्ता । यद्वा - यदस्मदादिना भुज्यते तदपि स एव भुङ्के स देवः मदीयेन भुक्तेन प्रीणातु तृप्यतु ॥
इति याज्ञिक्युपनिषद्य् अष्टत्रिंशोऽनुवाकः ॥
४३
1अथ पञ्चब्रह्माख्याः पञ्चानुवाका ईश्वराराधनादिषु उपासनादिषु च विनियुक्ताः । सद्योजातम् इति परोष्णिक् त्रिपदा मामन्ता । शिष्टं यजुः । पथ्याबृहती वा चतुष्पदा । तत्पुरुषायेति गायत्री । ईशान इति पथ्याबृहती, आस्तारपङ्क्तिर्वा । एते च सर्वविद्यादेहस्य सद्योजातादिनामानि पञ्चविद्यास्त्रोतःप्रवर्तकतदीयपञ्चमुखभूतानि पञ्चब्रह्माणि यैर्व्याप्तः समस्तो मन्त्राध्यायः ॥ सद्योजातं यत्क्षणे सिसृक्षा देवस्य तदानीमेवाविर्भूतं प्रपञ्चोन्मेषहेतुं देवं त्वां प्रपद्यामि प्रपद्ये भजे । तस्मै तुभ्यं सद्योजाताय वै नमः प्रसादनार्थं प्रणिपातं कुर्मः । इदानीं स्वाभिमतं प्रार्थयते - हे देव! भवेभवे न भवेभवे इव यथा मां त्वं संसारे निमित्ते भजसे संसारित्वेन प्रवर्तयसि त्वं हि सर्वान् संसारयसि तथा माम् अतिभवे भजस्व भवमतिक्रान्तोपवर्गो ऽतिभवस् तत्र मां भजस्व तन्निमित्तं मां स्वीकुर्व् अनुगृहाण । त्वं हि प्रत्यग्वृत्तिर्भवं प्रवर्तयसि, प्राग्वृत्तिः सदाशिवात्मना स्थितोपवर्गं ददासि । तस्मै भवोद्भवाय नमः भवस्य उद्भावयित्रे तुभ्यं नमः । अतः परम् अलं भवोद्भवायेति भावः ॥
इति याज्ञिक्युपनिषदि त्रिचत्वारिंशोऽनुवाकः ॥
४४
1वामदेवायेति ॥ वामदेवादयो न विद्याशरीराश् चितिशक्तेस् तत्तन्नाम्नीभिः शक्तिभिः सहिताः । तद्व्यूहात्मकं द्वितीयं ब्रह्मात्र प्रतिपाद्यम् । वामदेवप्राधान्याच्च न्यासादौ तेन समुदायस्याख्यानम् । तत्रेच्छाज्ञानक्रियाशक्तिक्षोभका आद्यास्त्रयः । कालः कलयिता कुण्डलाख्याया विकृतेर् अव्यक्तविकृतिविशेषाया जनयिता । कलविकरणः । कलयतीति कलो ऽव्यक्तविकारविशेषावस्था यद्वत्कलिलमुच्यते । तस्य विकरणः विकर्ता विकारविशेषाणां कर्ता । ‘कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट् । यद्वा - कर्मणि ल्युटि बहुभिः कलो विकरणो यस्य सः । पूर्वपदप्रकृतिस्वरश्चोपपन्नो भवति । कलशब्दः पचाद्यचि वृषादिर्द्रष्टव्यः । एवमुत्तरेऽपि बहुव्रीहित्वेन नेतव्याः । बलविकरणाय नमः बलविकरणो बलवैचित्र्यकारी । बलप्रमथनः बलानां प्रकर्षेण लोळयिता परिपाचयिता । सर्वभूतदमनः सर्वेषां भूतानां दमयिता नियन्ता बलविशेषपर्यवसितस्वभावहेतुभूतानाम् । मनोन्मनः मन्ता जीवः मनस् तस्योन्मानयिता उद्बोधकश् चैतन्योद्दीपकः । एतेभ्यो नमः ॥
इति याज्ञिक्युपनिषदि चतुश्चत्वारिंशोऽनुवाकः ॥
४५
1अघोरेभ्य इति ॥ अत्रापि रुद्रसमष्ट्यात्मकं ब्रह्म प्रतिपाद्यम् । अघोरप्राधान्याच्च तेन समुदायव्यपदेशः । अघोरेभ्यः शान्तेभ्यः । स्वरान्यत्वं छान्दसम् । घोरेभ्य उग्रेभ्यः घोरघोरतरेभ्यः घोरेभ्योपि घोरतरेभ्यस् त्वत्तोपि घोरतरेभ्यः सर्वेभ्यो रुद्ररूपेभ्यः रुद्रतुल्यरूपेभ्यः हे शर्व! ते त्वदीयेभ्यो ऽंशेभ्यः सर्वतः सर्वप्रकारं शिरसा वचसा मनसा च नमोस्तु ।
इति पञ्चचत्वारिंशोऽनुवाकः ॥
४६
1तत्पुरुषायेति व्याख्यातं ‘अम्भस्यपारे’ इत्यत्र । अत्रापि पुरुषेश्वर रुद्रव्यापको देवांशः कश्चित्प्रतिपाद्यः । आद्यं पदद्वयं तस्य नाम ॥
इति षट्चत्वारिंशोऽनुवाकः ॥
४७
1ईशान इत्यादि ॥ सर्वविद्यानाम् ईशानः सर्वविद्याशरीरत्वात् । सर्वभूतानाम् ईश्वरः सृष्ट्यादिशक्तः ब्रह्मा सर्वात्मना परिबृढो ऽधिपतिर् अधिकं पालयिता सर्वस्य । ब्रह्मणोऽधिपतिर् ब्रह्मणोऽप्यधिपतिः, उपलक्षणत्वाज् जगत्पतीनामपि पतिर् ब्रह्मा विश्वाधिक परं वस्तु तस्य विद्याशरीरत्वात् तदेव स्वयम् । छान्दसं सांहितिकं दीर्घत्वम् । आधुदात्तत्वं चोपपद्यते । स तादृशो देवः सदाशिवाख्यः प्रणवात्मा शब्दब्रह्मात्मकत्वान् मे शिवोऽस्तु शिवं करोतु । सस्थाने प्रणवः । यद्वा - यलोपासिद्धिमनाश्रित्य ‘ओमाङोश्च’ इति पररूपत्वं कृतम् ॥
इति सप्तचत्वारिंशोऽनुवाकः ॥
४८
1अज्ञातप्रज्ञातसमस्तपापक्षयार्थं जप्यास् त्रिसुपर्णाख्यास् त्रयोऽनुवाकाः । पर्णं पतत्रं शोभनपर्णः सुपर्णः पक्षिराजस् तत्तुल्याः सुपर्णाः परस्य श्रेयसः सुष्ठु पालयितारः । यद्वा - प्रणवः शकुन्तः सुपर्णः शोभनपतनः येन उत्पततामूर्ध्वं नीयमान आत्मा ब्रह्माधिगच्छति । यथाऽऽहुः - ‘ओङ्कारं रथमारुह्य’ इति । तत्प्रधानत्वाद् अनुवाका अपि सुपर्णाः । प्रणवप्राधान्यमेषां दर्शयितुं त्रयाणामनुवाकानां प्रणवान्तत्वम् । त्रिसुपर्णमिति । “दिक्सङ्ख्ये सञ्ज्ञायां” इति समासः सप्तर्षिवत् प्रत्येकं त्रिसुपर्णाः । तत्र प्रथमः - ब्रह्म मेत्व् इत्यादि ॥ ब्रह्म परं मां मेतु प्राप्नोत्व् एकीभावेन मां मनस्विनं करोतु । मी गतौ चुरादिराधृषीयः । ‘बहुलं छन्दसि’ इति शपो लुक् । केचित्तु - ‘मध्यान्नीचादुच्चा’ इतिवच् छान्दसो मकारोपजन इत्याहुः । उप [तच्चिन्त्यम् उप] जनानामावृत्त्यदर्शनात् । किञ्च - सति सम्भवे मात्रयाऽपि निरर्थिकया भवितुमयुक्तम् । अथ मां मेतु मह्यमात्मानमाविष्करोतु मननान् मधु । मदनाद्वा परानन्दभूतः परमात्मा मधु । तत्प्रादुर्भावात्तेनानन्देनानन्दी नित्यतृप्तः स्याम् । यद्वा - परविद्या मधु मननरूपत्वात् । तृप्तिहेतुत्वाद्वा यया परमक्षरमधिगम्यते सा मधुस्थानीया परा विद्या मां प्राप्नोत्व् अङ्गीकृत्य ज्ञानं प्रयच्छतु तस्य विद्यानां प्रदातृत्वात् । ततस्तद्विद्योतितविद्य आविर्भूतपरमानन्दः ब्रह्मीभूतस्तिष्ठामीति ॥
2अथ अमुमेवार्थं मन्त्रान्तरेण स्पष्टयति - यास्त इत्यनुष्टुप् ॥ इयम् इदानीं परां देवतां प्रति प्रत्यक्षवदाह - हे सोम! ईश्वर ! । षु प्रसवैश्वर्ययोः सौति ईष्टे सर्वस्येति सोमः । यद्वा - प्रसौत्य् अनुजानाति विश्वमिति विश्वस्य प्रेरयिता देवस्सोमः सोमेनाराधनीयो वा सोमः । तद्वदर्थात्ताच्छब्द्यम् । यद्वा - उमया परशक्त्या विपर्यस्ताक्षरया प्रणववाच्यया सहितः प्रणववाच्यः सोमः । हे सोम! यास्ते तव प्रजा ब्राह्मण्यः । यथा त्वं देवेषु ब्राह्मणोसि तव ब्राह्मणत्वात् तव स्वभूताः सर्वा ब्राह्मण्यः प्रजाः । यद्वा - ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः’ इति ब्राह्मण्यः प्रजाः सोमस्य स्वभूताः सोमस्तासां स्वामी । ताः प्रजा अभिलक्ष्य वत्सः वत्सस्थानीयः श्रेयसां दोग्धा । यद्वा - तासां मध्ये बाल एव सन् इदानीं सोऽहं दुरुष्वहा दुरुत्सहस्सञ्जातः ज्ञानलाभेन अनभिभवनीयः सम्पन्नोऽस्मि । पृषोदरादिः । यद्वा - सौतेः कर्तरि विचि ‘सुपां सुलुक्’ इति विभक्तेर्लुकि सो इति भवति । तासां मध्ये अहमभिसो अभितः सर्वतः सोता ईशिताऽस्मि ज्ञानलाभेन । स्वरश्चोपपन्नो भवति । त्वं सोमो ऽहं सोः सवनकर्तृत्वं यदीशितृत्वं तदावयोस् तुल्यमभूत्, एकत्वलाभात् । यद्वा - अभिसो अभिषोता सोमेन तवाराधयिता । षत्वं तु प्राप्नोति । यद्वा - जुष्टा उषाः संसारसम्बन्धिन्यः दुस्स्वप्नबहुक्केशा महामोहदशात्मिका रात्रयस् तासां हन्ता नाशयिता परमव्युष्ट्या शमनात् । तत्र हेतुमाह - दुस्स्वप्नहन् ! वैचित्त्यं स्वप्नः दुष्स्वप्नः परमवैचित्त्यं महामोहः हे तस्य हन्तः! नाशयितः ! मोहापगमे सदा व्युष्टत्वाद् दृष्टोष्ण विनाशः । यदाहुः -
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ इति ॥
अथ यदा मे ईदृशी व्युष्टिरासीत् तदा अहं हे सोम! यास्ते तव प्रजा इत्येव तव प्रजा याः प्राणभूतास् तव स्वभूताः ‘प्राणानां ग्रन्थिरसि’ इति तान् प्राणान् जुहोमि । आददे प्रत्याहरामि विषयेभ्यः । यद्वा - आत्मज्योतिषि प्रक्षिपामि तत आत्मप्रतिष्ठ उपलब्धपरानन्दो ब्रह्मीभूय तिष्ठामीति ॥
3त्रिसुपर्णमित्यादि ॥ अत्रैव ब्राह्मणम् । विशेषावचनेऽपि प्राथम्यादस्यैव ग्रहणम् । आद्यमेतत् त्रिमुपर्णम् अयाचितम् उपासनादि यत्तत्पूर्वमप्रार्थितमेव स्वयमभ्युद्यतं ब्राह्मणाय दद्याद् उपदिशेत् । अथ एते सर्व एवं विद्वान् यो ददाति ते सर्वेऽपि ब्रह्महत्यां ब्राह्मणवधात्मकमपि पापं घ्नन्ति नाशयन्ति किं पुनरुपासितार इति भावः । अथ ये ब्राह्मणा लब्धत्रिसुपर्णाः पठन्ति तेऽपि सोमं परं देवं सोमयागफलं वा प्राप्नुवन्त्य् अथ सहस्त्रपुरुषायां ब्राह्मणपङ्क्तौ श्राद्धादिषु भुञ्जानास् तां सर्वामपि पङ्क्तिं पुनन्ति क्षाळितसर्वपापां भोजयितव्यां कुर्वन्ति । ओमिति प्रणवसायुज्यं च लभन्ते ॥
इत्य् अष्टाचत्वारिंशोऽनुवाकः ॥
४९
1ब्रह्म मेधयेति द्वितीयस् त्रिसुपर्णः प्रथमेन गतप्रायः ॥ पूर्वोक्तं ब्रह्म च मधु च तदुभयात्मकम् अकारवाच्यं च तत्त्वं मेधया मेधाविशेषेण प्राप्यते ज्ञायते वा ॥
2अथ तादृशीं मेधां प्रार्थयते - अद्या न इति द्वे गायत्र्यौ ‘उत नः प्रिया’ इत्यत्र व्याख्याते ॥ सौभगं सुभगत्वं सुज्ञातत्वं भद्रमपि तदेव ॥
3अथ मधु वाता ऋतायत इति तिस्त्रो गायत्र्यः व्याख्याताः ॥ अत्राप्यात्मज्ञानं मधु ॥
4य इमम् इत्यादि ब्राह्मणम् ॥ गतम् । य इममिति द्वितीयं निर्दिशति । भूणहत्यां वेदवेदाङ्गविदो ब्राह्मणस्य वधः ॥
इत्य् एकोनपञ्चाशोऽनुवाकः ॥
५०
1ब्रह्म मेधवेति तृतीयं त्रिसुपर्णम् ॥ सर्वं पूर्ववत् । तत्र प्रथमे उपासना परप्राप्तिहेतुरुक्ता । द्वितीये ज्ञानम् । इदानीं कर्मणः परप्राप्तिसाधनत्वमुच्यते । पूर्वोक्तं ब्रह्म च मधु च तदुभयात्मकं च मकारवाच्यं तृतीयं तत्त्वं तत्सर्वं मेधवा मेधवन् मेधो यज्ञो ज्योतिष्टोमादिस् तद्वत् तदनुष्ठानेन प्राप्यते ज्ञायते वा न विना कर्मणा । वत्वन्तात् ‘सुपां सुलुक्’ इति डादेशः॥
2इदानीं कर्मवैशिष्ट्यं दर्शयति - ब्रह्मा देवानामिति त्रिष्टुप् व्याख्याता ‘त्वमग्ने बृहद्वयः’ इत्यत्र ॥ सोमयागः सर्वं प्रवित्रमतिशेत इति ॥
3हंसश्शुचिषदित्य् अतिजगती व्याख्याता इन्द्रस्येत्यत्र ॥ इत्थं कर्मसिद्ध्यर्थं देवो बहुषु स्थानेषु बहुरूपस्तिष्ठतीति ॥
4य इमम् इत्यादि ब्राह्मणं गतम् ॥ इदं तृतीयमाह - वीरहत्यामिति विशेषः । गुणवान् पुत्रो वीरः । अभिषिक्तः क्षत्रिय इत्यन्ये । तस्य वधो वीरहत्या । गतमन्यत् ॥
इति पञ्चाशोऽनुवाकः ॥
५१
1अथ सन्न्यासविषया विरजाहोमा एकपञ्चाशप्रभृतय एकादशानुवाकाः ॥ मे मदीयाः प्राणादयः पञ्चापि वायवः वायुवृत्तयः शुद्ध्यन्ताम् । ततो ऽहं परं ज्योतिर् भूत्वा विरजा विरजस्कः प्रवर्तक रहितः विपाप्मा विगतत्रिविधमलश्च भूयासम् । अनेन होमेन स्वाहा हुतं चेदमस्तु परस्मै ज्योतिषे ॥
इत्य् एकपञ्चाशोऽनुवाकः ॥
५२
1वागादिसङ्कल्पान्तज्ञानसाधनदशकशुद्धिर् द्विपञ्चाशे ॥ आकूतिर् अभिप्रायः ॥
इति द्विपञ्चाशोऽनुवाकः ॥
५३
1शिरःप्रभृतिपाय्वन्तकर्मसाधनदशकशुद्धिस् त्रिपञ्चाशे ॥ प्राण्यङ्गत्वेऽपि व्यत्ययेनैकवद्भावाभावः । पाय्वादीनामिन्द्रियात्मकत्वाद्वा ॥
इति त्रिपञ्चाशोऽनुवाकः ॥
५४
1त्वगादिमज्जान्तसप्तधातुशुद्धिश् चतुःपञ्चाशे ॥ मज्जशब्दात् ‘सुपां सुलुक्’ इति डादेशः ॥
इति चतुःपञ्चाशोऽनुवाकः ॥
५५
1शब्दादिगन्धान्तपञ्चविषयशुद्धिः पञ्चपञ्चाशे ॥
इति पञ्चपञ्चाशोऽनुवाकः ॥
५६
1पृथिव्याद्याकाशान्तपञ्चभूतशुद्धिः षट्पञ्चाशे ॥
इति षट्पञ्चाशोऽनुवाकः ॥
५७
1अन्नमयाद्यानन्दमयान्तपञ्चकोशशुद्धिः सप्तपञ्चाशे ॥ ‘ब्रह्मविदाप्नोति’ इत्यत्र व्याकृता ॥
इति सप्तपञ्चाशोऽनुवाकः ॥
५८
1विविट्टि स्वाहेति ॥ हे आत्मन् ! विविट्टि व्याप्नुहि विश्वं विष्णुरिवेति भावः । विष्ल् व्याप्तौ, मध्यमपुरुषे शपश्श्लौ हेर्धिभावे ष्टुत्वे ‘निजां त्रयाणाम्’ इति गुणे वेविढ्ढीति वक्तव्ये परोक्षत्वाय विकृतः प्रयुक्तः । व्यपगतपञ्चकोशोऽसङ्कुचिताविर्भूतपरप्रकाशो व्यापी भूत्वा परं ब्रह्माप्नुहि । स्वाहा हुतं चेदमस्तु तुभ्यं वेविक्षते ॥
इत्य् अष्टपञ्चाशोऽनुवाकः ॥
५९
1घषोत्काय स्वाहेति ॥ घस्ल् अदने, पचाद्यच् । घसा घस्मरास् त्रैलोक्योपसंहरणशीला उत्का उल्का यस्य सः घसोल्क इति प्राप्ते परोक्षत्वाय षत्वतत्वे कृते । यद्वा - घसनं घसस् तत्रोत्काय उत्सुकाय स्वात्मनि विश्वानि भूतानि जुषते परस्मै देवाय स्वाहुतं हविरिदमस्तु यम् अहमीप्सामीति ॥
इत्य् एकोनषष्टितमोऽनुवाकः ॥
६०
1उत्तिष्ठेति ॥ हे पुरुष! पुरि शयान ! उत्तिष्ठ न सङ्कुचितेनासितव्यं वैश्वरूप्यं भज । अथेदानीमिदं प्रार्थये - हरे हरणशीले अहश्च रात्रिश्च लोहितपिङ्गलाक्षि । लोहितस्सूर्यः पिङ्गलोऽग्निस् तावक्षिस्थानीयौ ययोस् ते लोहितपिङ्गलाक्ष्यौ । लोहिताक्षमहः । पिङ्गाक्षी रात्रिः । ‘वांशसोः’ इति पूर्वसवर्णदीर्घत्वे छान्दसं ह्रस्वत्वम् । देहिदेहीति ददापयिता उपलक्षणत्वात् कुरुष्वकुरुष्वेति कारयिता सर्वप्रवृत्तिहेतुर्महान् । एतेऽपि शुद्धयन्ताम् । ‘क्रियासमभिहारे लोट्’ ‘यथाविध्यनुप्रयोगः’ इति ददातेर्लोडन्तस्यानुप्रयोगः । अत्र दानस्य क्रियासमभिहारः न तु दापनायास् तेन दापयदापय इति नोक्तम् ॥
इति षष्टितमोऽनुवाकः ॥
६१
1ओं स्वाहेति ॥ लोकत्रयव्यापिने ओमात्मने स्वाहा स्वाहुतमिदमस्तु ॥
इत्य् एकषष्टितमोऽनुवाकः ॥
६२
1ससं परमिति ॥ सन्न्यासविधिः । सत्यादितपोव्युदासेन सन्न्यासाख्यस्य तपसः प्रकृष्टत्वं प्रतिपादगति । संविदविचलनं सत्त्यं वाचोपि संविन्मूलत्वात् तदेव परं प्रकृष्टं तपः । कुत एतत् ‘तानि वा एतान्यवराणि तपांसि’ इति वक्ष्यमाणत्वात् । कुतोऽस्य परत्वमित्यत आह - परं सर्वेभ्य उद्गतं सत्यफलम् । फलेऽपि सत्यशब्दो वर्तते तत्प्राप्यत्वात् ताच्छब्द्यम् । कुत इत्यत आह - सत्येन हि कदाचन सुवर्गाल्लोकान्न च्यवन्ते । किञ्च - सतां हि सत्यमेवास्ति नेतरत् । तस्मात्सये रमन्ते श्रेयोर्थिनः सर्वे । आहुश्च -
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥ इति ॥
2तप इति यत्प्रसिद्धं यमनियमादिकं तदेव परं तप इति पक्षान्तरम् इत्यर्थः । एवं सर्वत्र । कथं तपसः परत्वमित्याह - तप इति ॥ अनशनेन क्लेशो लक्ष्यते । क्लेशात् परम् अन्यत् तपो न अस्त्य् उपवासादिक्लेशरूपत्वात् तस्य । यद्धि परं यथोक्तलक्षणं तपस् तद्दुर्धर्षं दुरभिभवं दुरनुष्ठानम् । किञ्च - तद्दुराधर्षम् ईषदपि धर्षितुमशक्यम् । तस्मात्तपसि रमन्ते श्रेयोर्थिनः ॥
3दम इन्द्रियसंयमः ब्रह्मचारिणो हि स नियतं तपः महाफलत्वाद् अस्तु वा मा वाऽन्यत् तस्माद्दमे रमन्ते श्रेयोर्थिनः ॥
4शमः सर्वप्रवृत्त्युपरमः स परं तप इत्य् अरण्ये मुनयो वसन्ति महाफलत्वात् तस्य । तस्माच्छमे रमन्ते सर्वेऽपि ॥
5दानं परस्वत्वापत्तिपर्यन्तो धनव्ययस् तत्परं तपः महाफलत्वात् तद्धि सर्वाणि भूतानि तिर्यञ्चोपि प्रशंसन्ति प्रार्थयन्ते । दानात् हि परम् अतिदुष्करं न अस्ति । प्रत्यक्षमेवैतत् प्राणभूतधनव्ययात्मकत्वात् । तस्माद्दाने शक्त्या श्रेयोर्थिनो रमन्ते ॥
6धर्मः नित्यकर्मादिः श्रौतः स्मार्तश्च । स परं तपः । तेन हि सर्वमिदं जगत् परिगृहीतं वशीकृतं धर्मवशवर्ति विश्वम् । तस्मान्महानुभावाद् अतोऽन्यद् दुश्चरं न अस्त्य् अलसैश्चरितुमशक्यत्वात् । तस्माद्धर्मे रमन्ते यतित्वाऽपि सर्वेऽपि ॥
7प्रजनो ऽपत्योत्पादनं प्रजोत्पत्तौ व्यापृतानां स एव परमं तपः । तच्च परमं तपः भूयांसः बहुतराः कुर्वन्ति । तस्माद् लोके भूयिष्ठाः प्रजायन्ते प्रजामुत्पादयन्ति तपस्त्वादधिकफलभाजो भवन्ति । तस्माद्भूयिष्ठाः प्रजनने गार्हस्थ्ये प्रजाश्रद्धया रमन्ते ॥
8अग्नयो गार्हपत्यादयस् ते परमं तप इति श्रुतिराह - ‘पञ्च वा एते आत्मनिष्ठा आत्मानं क्षेमं नयन्ति’ इति । तस्मादग्नय आधातव्याः सर्वैः । अग्निहोत्रं परमं तप इति श्रुतिर् आह - ‘यावज्जीवमग्निहोत्रं जुहुयात्’ इति । तस्मात् तत्र रमन्ते श्रेयोर्थिनः ॥
9यज्ञो ज्योतिष्टोमादिः स परमं तपः । यज्ञेन हीत्यादि स्पष्टम् ॥
10मानसमिति ॥ मनसि भवो विषयत्यागो मानसं वैराग्यं तदेव परं तपः । तद्धि विद्वांसः कुर्वन्ति । यद्वा - तदेव परं तप इति विद्वांस आहुः । तस्मात्तत्र विद्वांस एव रमन्ते नान्ये विद्वददभिमतत्वेन महाफलत्वात् । अतः ‘त्यागेनैके अमृतत्वमानशुः’ इति दृश्वानस् ततोऽन्यत्तपो नेच्छन्ति ॥
11न्यास इति ॥ सर्वकर्मफलत्यागो न्यासः स एव परमं तपः कुतः ब्रह्मैव स्वयं सन्न्यासस् तस्य सर्वोपरिवर्तित्वात् । ब्रह्मा हि सर्वस्मात् परम उपरि स्थितः । किञ्च - अन्यः पर उत्कृष्टश्च स एव ब्रह्मा न्यासः । यस्मादेवं न्यासः परब्रह्मस्थानीयो ऽन्योऽतिरिक्तः सत्यादीन्युक्तान्य् अवराणि तपांसि न्यूनफलान्य् अन्तवत्फलत्वात् तपांस्येव पुरुषहितत्वान् न्यासः प्रकृष्टो ऽविपर्ययात् तस्मात् ॥
12तानि वा इत्यादि वेदितुः प्रशंसा ॥ तान्येतानि सत्यादीन्य् अवराण्यपि तपांसि न्यास एव ज्ञायमानो ऽतिरेचयत्य् आत्मनो व्यतिरिक्तफलानि करोति तस्य । य एवं वेद तस्य महात्मनः सत्यादिना न्यासस्य च प्रभावं यो वेद तस्य सन्न्यासादप्यतिरिक्तफलानि भवन्तीत्यर्थः । अतिरेकावधिप्रदत्वमेव तस्य कर्तृत्वम् । यद्वा - न्यासे सत्येव । यद्वा - पञ्चम्यर्थे सप्तमी । एवं विद्वान् एतानि न्यासादीन्यतिरेचयति । इत्युपनिषद् इति व्याख्यातम् ॥
इति याज्ञिक्युपनिषदि द्विषष्टितमोऽनुवाकः ॥
६३
1प्राजापत्य इत्यादिना पूर्वानुवाकोक्तमेव विस्तरेण प्रतिपादयति - प्रजापतिररुणश्च पितरौ तयोरपत्यं द्विपितृकः कश्चिदारुणिनामेति केचित् । सुपर्णाया मातुः पुत्रः । आदिवृद्ध्यभावश्छान्दसः । स पितरमुपगतवान् प्रष्टुं किं भगवन्तः प्रकृष्टज्ञानैश्वर्या ऋषयः परमं प्रकृष्टं तपो वदन्तीति । एवं पृच्छन् उपगतवान् । तस्मै प्रोवाच पिता सत्यादीनि परमतपस्त्वेन प्रोक्तवान् । पुत्रेण नेदं परमं नेदं परममिति पुनःपुनः प्रत्युक्तः पिता पुत्रसम्प्रत्ययार्थं तत्तत्प्रभाववर्णनपूर्वकमेव सत्याद्यनुक्रमेणेति प्रोवाच ॥
2-7सत्येनेत्यादयः श्लोकाः सुबोधाः । ब्रह्मण्येव सत्ये प्रतिष्ठितं सर्वं तदधीनस्थितित्वात् । तस्मात्सत्यं परमं तपो वदन्ति भगवन्तः । एवं सर्वत्र । दानान्ता ब्रह्मचर्यादिभिः क्लिष्टाः । दमो दुराधर्षं तपः । दमः परममिति । द्वितीयायास्स्वादेशः । एवं शमः परममिति । दुराधर्षञ्छम इति छकारं पठन्ति केचित् । स तु वर्णव्यत्ययः । दानमिति । यज्ञानां वरूथं गृहस्थस्थानीयं दानम् । दाने हि यज्ञास्तिष्ठन्ति तदधीनसिद्धिकत्वात् । तत्कथमिति चेदाह - दक्षिणा हि दानम् । तदभावे कुतो यज्ञः । यद्वा - यज्ञानां वरूथभूता या दक्षिणा सा हि दानम् । दानेन शत्रूनपनुदन्ते शत्रवोपि मित्रा भवन्ति दानप्रभावेन ॥
8प्रजननम् अपत्यं प्रतिष्ठा स्थितिहेतुरन्वयस्य । कोऽर्थोऽन्वयेन इति चेद् ब्रूमः - साधु समीचीनं शास्त्रेण विधिना प्रजायास्तन्तुं सान्तत्यमविच्छेदं तन्वानः पितृणामनृणो भवत्य् आनृण्यं गतो भवति । ‘प्रजया पितृभ्यः’ इति यदृणं भवति तदेव हि प्रजननं तस्य प्रजाख्यमृणं पितृभ्यो धारयतः पुरुषस्य अनृणत्वहेतुः । नान्येन तृप्यन्त्युत्तमाः पितर इति भावः ॥
9-10अग्नयो गार्हपत्यादयः । ते स्वयं त्रयी विद्या तया सर्वथाऽपि तेषां प्रतिपाद्यत्वात् । किञ्च - यागसाधनद्वारेण देवत्वप्राप्तिहेतुर् मार्गः । किञ्च - तेषां मध्ये गार्हपत्य ऋगादित्रयम् अन्वाहार्यपचनो दक्षिणाग्निर् यजुरादित्रयम् आहवनीयस्सामादित्रयं तेनोत्पद्यते । ‘यदृक्तो यजुर्भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात्’ इत्यादि । अग्निहोत्रं गृहाणां निष्कृतिर् गृहसम्बन्धिनां पापानां शोधनं स्विष्टं सुहुतं यागहोमयोः शोभनत्वहेतुः । यज्ञक्रतूनां यूपवतां यज्ञानां ज्योतिष्टोमादीनामपि प्रायणं प्रारम्भस् तेऽप्यनेन विना न स्युः । सुवर्गस्य लोकस्य ज्योतिर् द्योतकं प्रदीपवत्प्रकाशकम् ॥
11यज्ञेन हीत्यादि गतम् ॥
12मानसमिति ॥ ‘मनो वै प्रजापतिः’ इति प्रजापत्यात्मनि मनसि भवं वैराग्यलक्षणं तपः प्राजापत्यं पवित्रं प्रजापतेः स्वभूतम् अत एव चातिशयेन पवित्रं मानसेन विद्यमानेन हेतुना पुरुषो मनसा साधु समीचीनं पश्यति । असति हि तस्मिन् अस्थानविक्षिप्तं मनस्यात् । मानसा ऋषयः प्रजापतेर्मनसि भवा मरीच्यादयः प्रजाः सृष्टवन्तः । तस्मादिदमपि मानसं तद्वत् प्रशस्तमिति भावः ॥
13न्यास इति ॥ स्वयं ब्रह्माणमेवाहुस् तद्वत्प्रशस्तं न्यासमाहुर् मनीषिण ईश्वरा वश्येन्द्रियाः । कीदृशो ब्रह्मेत्याह - ब्रह्मा नाम विश्वः विश्वाण्डशरीरः कतमो ऽशक्यनिर्धारणः स्वयम्भुः स्वयमेव भवति । परं ब्रह्म तदेव प्रजापतिः प्रजानां पाता उत्पादयिता संवत्सरः सन्यग्वसन्त्यनेन भूतानीति । एवङ्गुणो ब्रह्मा ॥
14अथास्य संवत्सरस्वभावरूपं कीदृशमित्याह - असावादित्यः मानसानामादाता मण्डलं ब्रह्माण्डशरीरस्य वैश्वानरस्थानीयम् अनेन प्रकाशोदकदानादिना भूतानि वसन्ति । अथात्र मण्डले यः पुरुषश् चेतनः स परमेष्ठी परमे जगद्रक्षणभावे स्थित आत्मा हिरण्यगर्भः क्षेत्रज्ञः । यद्वा - स परमेष्ठी हिरण्यगर्भक्षेत्रज्ञः कीदृशः परब्रह्मात्मा परमात्मा च स पुरुष उभयोरुपलब्धिस्थानत्वात् ॥
15अथायं मण्डलात्मा कथं जगति वासयतीत्याह - याभिरादित्य इत्यादि ॥ रश्मिशब्द उभयलिङ्गो द्रष्टव्यः । प्राणान्ता गताः । बलं कार्यकरणसामर्थ्यं तपो यमनियमादिः श्रद्धा औत्सुक्यं मेधा बुद्धिप्रकर्षः मनीषा मनस ईशा वश्येन्द्रिया बुद्धिरेव । मनो ऽवलिप्तम् । स्वाभिमतसम्पादकं शान्तिरूपम् उपशमः । अतद्व्यावृत्तिश् चित्तं स्वाभिमतालम्बनप्रतिष्ठं मनस्तत्त्वान्तरं वा भवतीति । एवं सर्वत्र । स्मृतिर् अनुभूतवस्तुध्यानं तां चित्ते वेदयति वेदयते अनुभवति । विद चेतनादिषु । चुरादिरनुदात्तेद् व्यत्ययेन परस्मैपदम् । अथ स्मृत्या स्मारं वेदयते अनभिभूता र्थस्मृतिभवं वैराग्यं स्मारं मानसमिति यदुक्तम् । स्मारयतीति स्मरं मनः । तत्र भवः स्मार उत्सादिर्द्रष्टव्यः । स्मारेण विज्ञानं वेदयते । विलक्षणज्ञानं विज्ञानम् । यत्र सर्वदार्ढ्यं पश्यति न्यासमित्यर्थः । अथ विज्ञानेनात्मानं वेदयते । एवं न्यासादात्मप्राप्तिरुक्ता । अत्र च उक्तेन क्रमेण प्राणादेराध्यात्मिकवर्गस्य अन्नं लिङ्गं कारणमुक्तम् । तत्र प्रसङ्गादन्नं स्तौति यस्मादेवं महानुभावमन्नं तस्मात् तद् ददन् सर्वाणि प्राणाद्यात्मान्तानि ददाति व्यत्ययेन नुम् । यद्वा - दद दाने व्यत्ययेन परस्मैपदम् ॥
16अथान्नस्य प्रकारान्तरेण स्तुतिं करोति - अन्नादिति ॥ भूतानां प्राणमयादय आनन्दमयान्ता अन्नाद् अन्नमयाद् भवन्ति । उक्ताश्चैते ‘तस्माद्वा एतस्मादन्नरसमयात्’ इत्यत्र । ब्रह्मयोनिर् ब्रह्मप्राप्तिहेतुः ॥
17स वा इत्यादि पुरुषस्तुतिः । स एष मण्डलान्तर्गतः परमपुरुषः पञ्चधा पञ्चप्रकारो ऽन्नमयाद्यानन्दमयान्तात्मकपञ्चकभावेन वर्तते । तथा पञ्चात्मा पृथिव्पादिपञ्चभूतरूपः जगदनुग्रहाय वर्तते । तस्मात्सर्वं चेतनाचेतनात्मकं सममेव दर्शयितुमस्य - येनेति । गतम् । सर्वतो व्याप्तं प्रोतं भव्यं भवद् उपलक्षणत्वाद् भविष्यच्च सर्वं स एव ॥
18जिज्ञासकॢप्त इति त्रैष्टुभश्श्लोको ब्राह्मणमेव ॥ जिज्ञासकॢप्तः कॢप्तजिज्ञासः ब्रह्मजिज्ञासाधिकरणकॢप्तसम्पत्तिमान् । पदयोः स्थानविनिमयस्सस्वरयोः । जिज्ञासया वा सम्पन्नः । ऋतं यज्ञ आत्मयजनं तत्रैव जात इत्य् ऋतजाः । ‘जनसन’ इति विट् । ‘विड्वनोरनुनासिकस्यात्’ इत्यात्वम् । रयिष्ठा यदुक्तं ज्ञानं सन्यासिकं तद्रयिर् धनं तत्र तिष्ठतीति । ‘स्थः कच’ इति क्विप् । श्रद्धा श्रद्धानम् । दधातेः ‘क्विप्च’ इति क्विप् । सत्यः ब्रह्मीभूतः सर्वात्मभावनाशीलः महस्वान् प्रकाशात्मा तमस उपरिष्टाद् अज्ञानमतीत्य उपरिस्थितः । यलोपासिद्धिमनादृत्य गुणः कृतः । ‘सुपां सुलुक्’ इति वा आकारः षष्ठ्यर्थे वा तृतीया । एवम् उक्तप्रकारं मनसा अन्तःकरणेन हृदा भावनया च तं कालपुरुषं ज्ञात्वा विद्वान् । पदवाच्यस्सन् भूयो मृत्युं नोपयाहि नोपयायान् मृत्युं मारयावा [मृत्युः प्रमाद एव] । एवं विद्वान् मृत्युं नोपयाति ‘जातस्य हि ध्रुवो मृत्युः’ इत्य् अस्मिन् देहे सति पुनर्मृत्युं नोपयाति, सामर्थ्याज् जन्मापि । तदिदं भूयश्शब्देन दर्शितम् । तस्मान् मुक्तिसाधनत्वान् न्यासम् एव एषां सत्यादीनां तपसामतिरिक्तं प्रकृष्टम् आहुस् तत्त्वविदः ॥
19अथ विदुषो मन्त्रः - बसुरण्य इत्य् अति जगती षट्पदा यजुरन्ता ॥ वमुरण्वः वसुनो वरिष्ठस्य ज्ञानस्य ब्रह्मभावलक्षणस्य रणयिता गमयिता त्वमसि हे युञ्जान ! आत्मन् । रवि गतौ, इदित्वान्नुम् । विभूर् व्यापकः प्राणे ब्रह्मणः सन्धाता त्वमसि इतरनिवृत्या हे ब्रह्मन् ! परिवृद्ध ! विश्वसृक् विश्वस्य भर्ता विश्वत्रावस्थितः । क्विप् । विश्वस्य स्रष्टा वा । छान्दसोऽन्त्यविकारः सृजेः । अग्नेर् अपि तेजसो दाता त्वमसि तेजोहेतुस् त्वमग्नेरसि त्वदीयेन तेजसा अग्निस्तेजस्वी भवति । सूर्यस्य वर्चोदास्त्वसि त्वदीयेन तव बलेन सूर्यस्तपति । चन्द्रमसो द्युम्नोदास्त्वमसि त्वत्सम्बन्धेन सोऽन्नवान् द्युतिमान् वा भवति । असुगागमश्छान्दसः ।
20अथ यजुः - उपयामगृहीतः सोमः स त्वम् असि । त्वमेवाहमिति युक्तोऽस्मीत्येवं ध्यानकाले आत्मानं युञ्जीत समादधीत मुमुक्षुर् एतत् हि महोपनिषदं ज्ञानं महती प्रशस्ता उपनिषीदन्त्याभ्य इत्युपनिषद्भ्यो या सा महोपनिषत् तद्वज् ज्ञानं तत्प्रतिपाद्यं महोपनिषदम् । मत्वर्थीयोकारः । देवानां सम्बन्धि देवा यत्राधिक्रियन्ते गुह्यं गूहयन्ति यद्देवा मनुष्यादयो मा वेदिषुरिति तादृशमिदं ज्ञानमुक्तम् । एवं वेदिता ब्रह्मणः परमात्मनः महिमानं महत्त्वं प्राप्नोति । ततस् तस्माद् एव कारणाद् ब्रह्मणः परस्य च महिमानमाप्नोति । केचित्तु विद्यासमाप्तिसूचनार्थ्य् आवृत्तिरित्याहुः । तदा द्वितीयेऽप्याप्नोतीत्यनुषज्येत, तदा तस्मादित्यनेन नार्थः । इत्युपनिषदिति व्याख्यातमेव ॥
इति त्रिषष्टितमोऽनुवाकः ॥
६४
1एवं ज्ञानादमृतत्वप्राप्तिवचनान् नित्यकर्मणामानर्थक्यं प्राप्तम् । तन्मा भूदिति नित्यकर्मापरित्यागसूचनार्थं ज्ञानमेव यागात्मना वर्ण्यते - तस्यैवमित्यादि ॥ तस्य सन्न्यासिन एवंविदुषः विभावितात्मसत्यत्वस्य सम्बन्धी यो यज्ञः ज्योतिष्टोमादिर्नित्यस् तस्य आत्मैव यजमानः स्वरूपेणैव विद्वान् यजमानः न तु याजमानैर्धर्मैः । तदीया श्रद्धा एव पत्नी सर्वत्र सहकारित्वात् । तदीयं शरीरम् इध्मम् अग्नावाधेयत्वात् । तदीयम् उरो वेदिर् अभिप्रेतानामर्थानां स्थानत्वात् । लोमानि बर्हिः स्तीर्णत्वात् । तदीया शिखा वेदः बद्धत्वात् । तत एव ज्ञायते शिखादिकमस्यात्याज्यमिति । हृदयं यूप उच्छ्रितस्वभावत्वात् । काम इच्छा स आज्यम् उद्दीपनत्वात् । इदमेव ज्ञापकं कामनिवृत्तावपि ज्ञानादपवर्ग इति । मन्युः क्रोधः स पशुः सवनीयत्वात् । तपो यमनियमादिस् तदस्य अग्निर् गार्हपत्यादियागसाधनत्वात् । शमयिता संस्कर्ता भोज्यानां सा दक्षिणा तृप्तिहेतुत्वात् । तदीया वाक् शब्दः सा होता हौत्रस्य वाग्भूयिष्ठत्वात् । प्राणः बलं स उद्गाता बलकार्यत्वाद् गानस्य । चक्षुरध्वर्युस् तदधीनत्वात् सर्वव्यापाराणाम् । मनो ब्रह्मा सर्वत्र साक्षित्वात् प्रवर्तयितत्वाच्च । श्रोत्रमग्नीत् ‘अन्तरिक्षमिवामीघ्रम्’ इति शब्दसम्बन्धित्वात् । यावद् ध्रियते जीवति मा दीक्षा देहशोधनत्वात् । यद् अयम् अश्नाति यच् च पिबत्य् अन्नमुदकं च तदस्य सोमपानं दिनेदिने परमसौहित्यहेतुत्वात् । यद्रमते ध्यानादौ तदुपसदः प्रतिदिवस द्वारत्वात् । सञ्चरणोपवेशनोत्थानादिर्यः स प्रवर्ग्यस् तपोरूपत्वात्, प्रवर्ग्येऽपि तेषां सद्भावात् । यन्मुखम् आस्यं स आहवनीयः हविषां प्रक्षेपस्थानत्वात् । यदस्य विज्ञानं वृत्तिज्ञानं तज् जुहोति होमस्थानीयम् । यद् अस्य कालत्रयं प्रातर्मध्यन्दिनं सायमिति तानि सवनानि प्रातस्सवनादीनि सवनत्रयसम्बन्धात् कालत्रयसम्बन्धात् । अहोरात्रे दर्शपूर्णमासस्थानीये । अर्धमासादीनि चातुर्मास्यस्थानीयान्य् अक्षयफलसाधनवृत्तित्वात् । ऋतवो वसन्तादयस् ते पशुबन्धस्थानीया लोकाभिजयसाधनत्वात् । संवत्सराः परिवत्सराश्च अहर्गणा द्विरात्रादिस्थानीया अहस्सङ्घातरूपत्वात् । अथ एतद् अस्य यजमानस्य सम्बन्धि यत्सर्ववेदसं सर्वं धनं शरीरं शरीरावयवाः शरीरोपकरणानि च तदस्य त्रयं सत्रं सत्रयागस्थानीयं श्रेयस्साधयितुं सहप्रवृत्तत्वात् । स्वयं गृहपतिस्थानीयः सर्वं वेदः सर्व वेदसम् । ‘अनसन्तान्नपुंसकात्’ इत्यच् समासान्तः । यद्वा - सर्व वेदसदक्षिणा साऽस्य जीवनम् एतत्सर्वार्थविलोपफलत्वात् । अथास्य यन्मरणं प्राणत्यागस् तद् अस्य यज्ञस्य अवभृथः समाप्तिरूपत्वात् । किं बहुना एतद् अस्यात्मयाजिनो जरामर्यमग्निहोत्रं जरया वयोहान्या म्रियते सन्तिष्ठते इति जरामर्यं मरणान्तमग्निहोत्रस्थानीयं देवताराधनरूपत्वात् । सत्रं सत्रतुल्यं सदाऽपि त्रायकम् । सदो वा त्रायकम् ॥
2य एवमित्यादि ॥ ज्ञापकं चैतन् न स्वेच्छया त्यक्तव्याः प्राणा इति । एवम् आत्मवित् । य एवं विद्वानुदगयन इत्यादि गतम् । द्वौ एतौ एव सूर्याचन्द्रगसोर् महिमनौ ब्राह्मण आत्मवित् प्रथममेतौ महिमानावभिजित्य तस्माद् एव कारणाद् ब्रह्मणः परमात्मनो महिमानमाप्नोति । ततस् तस्मादेव कारणात् परस्य ब्रह्मणो महिमानमाप्नोति । एवं समाप्तिसूचनार्था वाक्यावृत्तिः । ब्राह्मणग्रहणं प्रदर्शनार्थं - सर्वोपि तद्विद्वानभिजयति । इत्युपनिषदिति व्याख्यातमेव ॥
इति चतुःषष्टितमोऽनुवाकः ॥
इति याज्ञिक्युपनिषत्समाता ॥
इति तैत्तिरीयारण्यके षष्ठप्रपाठकः ॥