०१
1अथ रहस्यविद्या प्रस्तूयते । ब्रह्मज्ञानं प्रधानमत्रोपदिश्यते । सर्वकामावाप्तिरपवर्गश्च तस्य फलम्, ‘सोऽश्नुते सर्वान् कामान् सह’ इति श्रवणात् । परार्थत्वात् फलश्रुतिरर्थवाद इति चेन्न । परार्थत्वाभावात् । नन्विदमस्ति । आत्मा वा अरे द्रष्टव्यः । इत्यादि । तत्रेयं स्तुतिः फलस्य विधायिका स्यात् । प्रकरणाद्यभावे कथमस्यास् तादर्थ्यमिति चेन्न । सर्ववेदान्तप्रत्ययानाम् ऐकविद्यात् । मैवम् । उपासनादिभेदेन विद्यानां भिन्नत्वात् । न चाङ्गभावः, नानाप्रकरणस्थत्वात् । अत एव न कर्माङ्गं ज्ञानम् । न चाधानवद् उपकारकत्वं स्यात् । न मध्यस्थोपकारकाभावात् । ज्ञानस्य च पुरुषसंस्काररूपत्वान् न माध्यस्थ्यम् । न च विदुषा कर्तव्यमितिवत् पुरुषसंस्काररूपस्य ज्ञानस्य क्रतूपकारकत्वकल्पना स्यात् । युक्तं कर्माङ्गानां याथार्थ्यवेदनं क्रतुफलभावनायामुपकरोतीति तेषामुद्भूतिहेतुत्वेन तस्याविरोधात् । आत्मज्ञानेन तु सर्वार्थप्रत्यस्तमयहेतुना न क्रतुफलभावनायामुपकारः । न च सूत्रकाराः कर्माङ्गत्वेनोपदिशन्ति । सर्वे चाश्रमिणोऽत्राधिक्रियन्ते । तस्मात् स्वतन्त्रोऽयं पुरुषसंस्कारः । तत्र ‘ब्रह्मविदाप्नोति परम्'1 इत्यादिना ब्रह्मस्वरूपमुपासनं तत्फलं चोपदिशति । इतरथा सत्यत्वादिगुणविशिष्टतया आत्मनो ज्ञानं कथमुपपद्यते । अपि चात्मनोऽसिद्धत्वात् ‘अपितरि पितरं जानीहि’ इतिवद् अनात्मन्यात्मज्ञानविधानमपि स्यात् । तथा हि - अयुक्ता हि देहमेवात्मानं मन्यन्ते । युक्तानां तु. उपसंहृतसर्वार्थानां न द्रष्टृद्रष्टव्यदर्शनविभागोन्मेषः । तस्मात्सच्चिदानन्दात्मनो ब्रह्मण उपनिषद्भ्य एव सिद्धिरित्यौपनिषद काण्डमारभ्यते । परस्य श्रेयसस्समीपे निषीदन्तीत्य् उपनिषदः परप्राप्तिहेतवो विद्याः । ताश्च तिस्रो भवन्ति - सांहित्यो याज्ञिक्यो वारुण्यश्चेति । आधिलौकिक्यादिपञ्चमहासंहिताभावनाप्रधानाः सांहित्यः शं नो मित्रः’ इत्यारभ्य द्वादशानुवाकाः । एतत्काण्डसमाननामानः काण्डदेवता अपि सांहित्य उपनिषद उच्यन्ते । ‘सह नाववतु'1 इत्याद्यास् त्रयोऽनुवाका वारुण्य उपनिषदः वरुणनाम्ना ऋषिणा स्वपुत्रं प्रति प्रोक्ताः । देवताश्च तत्सनाम्न्यः । ‘अम्भस्य पारे’ इत्यारभ्य समस्तः प्रश्नो याज्ञिक्य उपनिषदः यज्ञनाम्ना भगवता नारायणेन दृष्टाः । पूर्ववत् तत्सनाम्न्यो देवताः ॥
तत्र ब्रह्माध्येष्यमाणः प्रथमं तत्प्रत्यूहशान्तिं प्रार्थयते - शं न इति ॥ समस्तोऽयमनुवाको मन्त्रः । मित्रावरुणौ प्रसिद्धौ । शं सुखं तस्य भावयिता हेतुर् मित्रः नो ऽस्माकम् आचार्यस्य ब्रह्मचारिणां च भवतु । वरुणश्च सुखहेतुर्भवतु । अविघ्नेनाध्ययनसम्पत्तिः सुखम् । अत्र ‘मित्रोऽहरजनयद्वरुणो रात्रिम्’ । इति ताभ्यां तत्कार्ययोरहोरात्रयोः सुखं प्रार्थयते । एवम् अर्यमादयोऽप्य् अस्माकं सुखहेतवो भवन्तु । अर्यमा आदित्यः कर्मणामीश्वरो ऽन्तर्यामी वा । छान्दसो वर्णलोपः । इन्द्रः यागेश्वरः। बृहस्पतिर् ज्ञानेश्वरः । विष्णुर् व्यापी विश्वस्याधार उरुक्रमः महाक्रमणः विश्वव्यापित्वात् । एवम् इयमनुष्टुप् ॥
2अतः परं यजुः - नमो ब्रह्मणे परस्मै अविशेषात्सर्वोत्तीर्णाय येन विना तृणाग्रमपि न चलति । हे वायो! ते तुभ्यं नमः । वायुधीनाभिव्यक्तित्वाद् वेदात्मशब्दो वायुरुच्यते । प्रत्यक्षकृतत्वाय त इति युष्मच्छब्दोपादानम् । त्वमेव ब्रह्मासि तदनुरक्ततया तद्भावः । तदेवाह - त्वमेव प्रत्यक्षं ब्रह्म अस्माकं शब्दब्रह्मासि येन तत्परं विश्वं प्रेरयति । तस्मात्तादृशं त्वाम् अहं वदिष्यामि । त्वमपि मे शं भवेति शेषः । ततस्सुखमेव नस्सर्वत्रेति वा । मनोवाक्कायकर्मभिस् तथ्यम् ऋतम् । वाक्कर्मभ्यां तथ्यं सत्यम् । उभयोरुपादानमादरार्थम् । वाक्कर्मभ्यां मिथ्यात्वस्य अवश्यपरिहार्यत्वज्ञापनार्थं वा । तत् तथा उद्यमानं ब्रह्म मामवतु । रक्षतु मिथ्याध्यापयितुराचार्यस्य त्याज्यत्वात् । शिष्यस्तु मिथ्याध्यायी नैव सिद्धिमृच्छति । मिथ्याधीतप्रायश्चित्तश्रवणाच्च । तत् तथा उद्यमानं वक्तारं च माम् अवतु तर्पयत्व् अनुप्रविशतु वा । यद्वा - वक्तृत्वमाचार्यत्वं मामवतु स्थापयतु वा । उक्तं वदनकाले मां रक्षत्विति ; इदानीं सर्वदा अवनं प्रार्थयते - अवतु मां सर्वदा अवदनकालेऽपि । अवतु वक्तारमपि सर्वदा । वक्तृत्वमाचार्यत्वम् । सर्वदा शान्तिः सुखं प्रत्यूहशमनं वा । अस्त्विति शेषः । आदरार्थं पुनः पाठः ; दार्ढ्यार्थं वा ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु प्रथमोऽनुवाकः ॥
०२
अथाध्ययनस्य वर्णापचारादिदुष्टस्याभिमतार्थसाधकत्वाभावस्य ‘मन्त्रो हीनस्स्वरतो वर्णतो वा’ इत्यादिषु प्रसिद्धत्वाद् दोषो यत्नेन परिहार्य इति वर्णाद्यनुशासनं शिक्षाशास्त्रम् अवसरे अवधानार्थं स्मारयति - शीक्षामियादि ॥ ऐकमत्यप्रकार आरुणकेतुकवदत्रापि द्रष्टव्यः । शिक्ष्यन्ते ज्ञानेनोपादीयन्ते वर्णादयोऽनयेति शिक्षा शिक्षार्थसङ्ग्रहाध्यायः । शिक्ष विद्योपादाने, ‘गुरोश्च हलः’ इत्य् अकारप्रत्ययः ; छान्दसं दीर्घत्वम् । तामिमां व्याख्यास्यामः विशेषेण मर्यादया च प्रब्रूमः । यद्वा - शिक्षाख्यं पञ्चमं वेदाङ्गं विशेषेण ब्रह्मविद्याध्ययनसाधनत्वेनाचक्ष्महे । वर्णादयो यथावद्यत्नेन ज्ञातव्या इत्येष शिक्षाध्यायार्थस्सङ्ग्रहेणास्माभिरुक्तः । वर्णो ऽकारादिः । जातावेकवचनम् । आहुश्च -
त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाश्शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयम्प्रोक्तास्स्वयम्भुवा ॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमास्स्मृताः ॥
अनुस्वारो विसर्गश्च ᳲक ᳳपौ चापि पराश्रयौ ।
दुस्पृष्टश्चेति विज्ञेया लकारः प्लुत एव च ॥
इति । स्वरा उदात्तादयो वर्णधर्माः स्थानविशेषनिबन्धना ध्वनिभेदाश् चत्वारः । सप्तेत्यन्ये उदात्तानुदात्तस्वरितप्रचयसन्नतरोच्चतरैक श्रुतयः । अथोदात्तादियोगविशेषनिबन्धना अन्ये सप्त स्वराः क्षैप्रनित्यप्रातिहताभिनिहतप्रश्लिष्टपादवृत्ततैरोव्यञ्जनानि । अथ क्षैप्रादियोगभेदनिबन्धनास्त्रयस्स्वरा दृढतरो मृदुतरोऽल्पतरश्चेति । मात्रा उच्चारणक्रियाकालस्येयत्ता । यथा - पादमात्रा लघुर्गुरुश्च इति । आहुश्च -
यद्व्यञ्जनान्तं यदु चापि दीर्घं
संयोगपूर्वं च तथाऽनुनासिकम् ॥
एतानि सर्वाणि गुरूणि विद्यात्
शेषाण्यतोऽन्यानि तथा लघूनि ॥
तथा-‘ऋग्विरामः पदविरामो विवृत्ति विरामस्समानपदविवृत्तिविरामस्त्रिमात्रो द्विमात्र एकमात्रोऽर्धमात्र इत्यानुपूर्व्येण’ । विवृत्तिः11 पदद्वयस्यासन्धानम् । समानपदविवृत्तिर् एकस्मिन् पदे वर्णयोरसन्धानं यथा - प्रउगमिति । वायोस्स्थानविशेषो बलं यद्वशेन वर्णविशेषास् तद्धर्मविशेषाश्चाविर्भवन्ति, यत्र स्थानकरणवैलक्षण्येन ‘उपांशुध्वाननिमदोपब्दिमन्मन्द्रमध्यमताराणि’ इति स्थानानि सप्त जायन्ते, तथा ‘मन्द्रादिषु सप्तसप्त यमाः क्रुष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रातिस्वार्याः'13 । एषां सत्यपि स्वरत्वे स्वरनिबन्धनत्वात् पूर्वत्र नोक्ताः । ते पूर्वपूर्वदीप्ताः ।
द्वितीयः प्रथमः क्रुष्टस् त्रयश्चाह्वारकस्वराः ।
मन्द्रादयो द्वितीयान्ताश्चत्वारस्तैत्तिरीयकाः ॥13
नादश्वासघोषात्मकानि च अनुप्रदानानि बलनिबन्धनाः । उच्चारणे समता साम हन्निवृत्तिः [द्रुतादिनिवृत्तिः] साम सान्त्वने, औणादिकः कनिन्प्रत्ययः । यथाऽऽहुः -
क्रमविक्रमसम्पन्नाम् अद्रुतामविलाम्बिताम् ।
नीचोच्चस्वरसम्पन्नां वदेद्धृतवतीं समाम् ॥13
इति । स्वराणाम् उदात्तादीनां सन्निवेशविशेषौ क्रमविक्रमौ । सन्तानः संहिता । ‘चतस्रस्संहिताः पदसंहिताऽक्षरसंहिता वर्णसंहिताsङ्गसंहिता च’ इति । अत्राहुः -
गुरुत्वं लघुता साम्यं ह्रस्वदीर्घप्लुतानि च ।
लोपागमविकाराश्च प्रकृतिर्विक्रमः क्रमः ॥
स्वरितोदात्तनीचत्वं श्वासो नादोऽङ्गमेव च ।
एतत्सर्वं तु विज्ञेयं छन्दोषामधीयताम् ॥15
इति । वर्णादिषट्कोपादानस्य उपलक्षणार्थत्वात् सर्वमिदं सङ्गृहीतम् -
पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः ।
स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदम् ॥15
इति । आचार्या व्यासप्रभृतयः । तेषां सदनं ब्रह्मलोकः । एवं वर्णादीनां याथात्म्यं ज्ञात्वा यस्तथाऽध्यापयत्य् अधीते वा स ब्रह्मणस्सालोक्यं सायुज्यं च गच्छति । इति शीक्षाध्यायार्थो ऽस्माभिर् उक्त इति । एवमत्र वर्णादिविशेषाणां तत्फलस्य चानुपदेशात् सर्वं शिक्षाशास्त्रे ज्ञातव्यम् । तस्या अवसरे स्मरणमात्रं कृतमस्माभिरिति भावः ।।
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु द्वितीयोऽनुवाकः ॥
०३
1सह नौ यश इति मन्त्राश्शिष्याचार्ययोः शान्त्यर्थः । नौ आवयोः सह यशश्च ब्रह्मवर्चसं चास्त्व् अविगुणस्वाध्यायानुष्ठानेन शमदमादिलाभेन महाफलसम्पत्त्या च ॥
2अथात इत्यादि ब्राह्मणं वक्ष्यमाणविद्याध्ययनाङ्गभूतभावनाविशेषविधानार्थम् । केचिदाहुः - पूर्वानुवाकोक्तस्य सन्तानस्यै वायं प्रपञ्च इति । अपरे तन्न सहन्ते ; जपान्त [फलान्तर] विधानात्, अथात इत्यारम्भान्तरभावाच्च भावनाविधानमिदमर्थान्तरमेवेति । अत्राथशब्द आनन्तर्य द्योतयद् विद्यापरिकर्मस्था नीयानाम् अध्ययनगुणादीनामनन्तरवृत्तत्वं प्रतिपादयतीति तेषामेव विद्याधिगमनहेतुत्वम् अतश्शब्दो द्योतयति । सन्तानस्वरूपभावना संहिता । तस्याः संहितायाः प्रतिपादिकाम् उपनिषदं व्याख्यास्यामः विशेषेण आचक्ष्महे । परसिद्धिसमीपे निषादतीत्युपनिषत् । ‘सत्सूद्विष’ इतिक्विप् । पञ्चस्वधिकरणेष्व् अधिष्ठानेषु । भावनाया अधिष्ठानानि पञ्च लोकादयः । तेषु सन्धीयमानेषु वर्णसंहिता भाव्यते । तत्रैकैव अधिकरणभेदेन पञ्चधा भिन्नत्वात् पञ्च संहिताः । प्रशस्तत्वान् महासंहिताः । ‘सन्महत्’ इति समासः । अधिलोकमिति । ‘अव्ययं विभक्ति’ इत्यादिना विभक्त्यर्थे अव्ययीभावः । एवं सर्वत्र । लोकादिष्वित्यर्थः । तेन पञ्चस्वधिकरणेष्व् इत्यनेन सामानाधिकरण्यम् ॥
3अथाधिलोङ्के अधिलोकं या संहिता तां तावद् ब्रूमः । पृथिवीत्यादि ॥ अध्ययनकाले येन वेदवर्णौ सङ्घीयेते सहोच्चार्येते तयोः पूर्वरूपं पृथिवी भूमिः । उत्तररूपं द्यौर् द्युलोको वेदितव्यः । तयोर्वर्णयोः सन्धिर् अन्तराळम् । स आकाशः वेदितव्यः । सन्धानं पूर्वोत्तरयोः सहोञ्चारणार्थों यत्नः । स वायुर् वेदितव्यः । किं कृतं भवति ? पूर्वोत्तरयोर्वर्णयोरन्तराळकालनियमः कृतो भवति । द्युपृथिव्योर्यावद्व्यवधानान्तराळो भवत्याकाशः यावत्संश्लेषसहिते द्यावापृथिव्यौ वायुस्सन्दधाति तादृशान्तराळसन्धानौ पूर्वोत्तरवर्णौ भाव्यौ । सहोञ्चारणप्रयत्नजनककालाधिककालनिवृत्तिः कृता भवति । नियतावस्थत्वाद् लोकानां नियन्तव्यत्वेन सन्धेः प्राधान्यात् तेन संहिता व्यपदिश्यते ॥
4अथाधिज्यौतिषमिति ॥ ज्योतिषोग्नेरुत्पन्ना आपो ज्योतिश्शब्देनोच्यन्ते ।
अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
इति पूर्वोत्तरत्वमग्न्यादित्ययोः । वैद्युतोऽग्निर् वृष्टिमुत्पादयति ।
5अथाधिविद्यामिति ॥ आचार्यान्तेवासिनोः पूर्वोत्तरत्वं स्पष्टं विद्या वेदः । प्रवचनम् अध्यापनम् ।।
6अथाधिप्रजमिति ॥ प्रजा निषिच्यमानं शुक्लम् । प्रजननं पुंव्यञ्जनम् ॥
7अथाध्यात्ममिति ॥ आस्यपर्यन्तप्रदेशा हनवः । अत्राधरोत्तरपर्यन्तौ गृह्यते । केचिदाहुः - भूगोळवशेनाधरा हनुर्दक्षिणा उत्तरा उत्तरेति । वागिन्द्रियसम्प्रयुक्त आत्मा वाक् । तेनाध्यात्ममित्युक्तम् ॥
8य एवमिति ॥ प्रजादिदृष्टफलसंस्तुतेश्शान्त्यादिवन् नापवर्गार्थमिदमित्येके । तत्र ज्ञानमात्रे दृष्टफलदर्शनाद् आफलप्राप्तेस्सांहिताव्याख्यानमभ्यसनीयमिति । सन्धीयत इति । संहिता पूर्वरूपं व्याख्यानं प्रजादयो वेदनं सन्धानमिति ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु तृतीयोऽनुवाकः ॥
०४
1यश्छन्दसामिति ॥ मेधाजनने विनियुज्यते । मध्ये ज्योतिस्त्रिष्टुप् ततस्त्रिपदा गायत्री । शिष्टं यजुः । अत्र विद्याङ्गतया परस्य ब्रह्मणो वाचकः प्रणवः प्रस्तूयते । यश् छन्दसाम् उत्कृत्यन्तानाम् अक्षरसङ्ख्याविशेषात्मनां सर्ववाङ्मयव्यापिनाम् ऋषभः वर्षिता उत्पादकः बीजात्मनाऽवस्थितत्वात् सर्ववाङ्मयप्रधानभूतो वा ओङ्कारः विश्वरूपः शब्दब्रह्मतया विश्वात्मतया विवर्तमानः परमात्मनोऽवस्थाविशेषश् छन्दोभ्यः देवेभ्यो ऽमृतात् । वचनव्यत्ययः । अमृतेभ्यो ऽविनश्वरेभ्यः । यद्वा - अमृतं परमाक्षरं तदात्मभ्यस् तेभ्यो यो ऽधिसम्बभूव तेषां सारोऽक्षरात्मना व्यक्तिं गतः । अधिर् अनर्थक आधारत्वं वा द्योतयति । स इन्द्र ऐश्वर्ययुक्तः मां मेधया परवस्तुसाक्षात्करणयोग्यया ग्रन्थार्थधारणशक्त्या स्पृणोतु प्रीणयतु । देव! देवनशील! अमृतस्य अमृतत्वप्राप्तिहेतोस् तव धारणः धारयिता भूयासम् । नन्द्यादिर्द्रष्टव्यः । ततश्च तव धारणार्थं मे मम शरीरं विचर्षणं विशिष्टेन्द्रियकं भूयाद् द्विप्रकाराण्यपीन्द्रियाणि विशिष्टशक्तिकानि भवन्तु । मम जिह्वा अपि मधुमत्तमा अतिशयेन मधुराऽध्ययनशालिनी भवतु । कर्णाभ्यां च भूरि बहुतरं तव प्रसादेन विश्रुवं विशेषेण शृणवानि सर्वविद्याश्रवणसमर्थे श्रोत्रे मे भूयास्ताम् । स त्वं ब्रह्मणः परमेश्वरस्य कोशः कोशस्थानीयो ऽसि । त्वयि खलु वाचके ब्रह्म गुप्तं तिष्ठति । मेधया ज्ञानविशेषेण अपिहितश् छादितः । ज्ञानविशेषस्य संसारिणामभावाच् छादनहेतुत्वमुपचर्यते । यद्वा - मेधया पिहितः पूरितमेधामयः । यद्वा - मेधया पिधानस्थानीयया अपिहितः पिहितद्वारेण मधुघनस्थानीयोसि । अथ ब्रह्मणो विद्यायाः कोशोऽसि । स त्वं मे मम श्रुतं गोपाय रक्ष समृद्धं कुरु । यद्वा - श्रुतमधीतं गोपाय अस्कन्नं कुरु श्रुतसमृद्ध्यर्थं मेधां जनयित्वा उद्घाटितद्वारो भव, त्वयि पिहितद्वारे का नाम विद्यासिद्धिरिति । ‘वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोः’ इति पाक्षिकत्वाल्लोपाभावे ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वमाद्युदात्तत्वम् ॥
2आ वहन्तीति ॥ पुष्ट्या[ष्ट्यादि] जननहोमे विनियुज्यते विद्याङ्गमेव[व वा] । प्रथमा षट्पदा जगती । तस्मिन्नित्यादि द्विपदा गायत्री । यथाप इत्यनुष्टुप् । शिष्टं यजुः । श्रीः प्रार्थ्यते - आवहन्ती वितन्वाना विस्तारयन्त्य् अथ विस्तार्य आत्मनश् चीरं चिरं दीर्घकालं कुर्वाणा यत्नेन लब्धानि तस्यैव स्वानि कुर्वाणा अविनष्टानि स्थापयन्ती । यद्वा - चिरमात्मनः कुर्वाणा आत्मसात्कुर्वाणा आत्मीयानि रक्षन्ती । व्यत्ययेन दीर्घत्वम् । कानि पुनस्तानीत्याह - वासांसि वस्त्राणि विचित्राणि गावश्च गा बहुप्रकारा अन्नपाने च अदनीयं पानीयं च सर्वदा ममावहन्ती वितन्वाना कुर्वाणा च यस्मात्त्वमसि ततो हेतोर् मे मम श्रियं महतीं विभूतिम् आवह हे देवि! । कीदृशीमित्याह - लोमा क्षेत्रपुत्रादिबहुद्रव्यवतीं पशुभिः सह आवहेति । यद्वा - पशुभिर्लोमशां विचित्ररूपां श्रियं सह युगपद् आवह । स्वाहा हुतमिदं तवास्तु ।।
3अथ विभूत्यन्तरं प्रार्थयते - ब्रह्मचारिणो ऽन्तेवासिनः माम् आयन्त्व् आचार्यत्वं मम सदा अस्तु । जने जनेषु मध्ये अहं यशः यशस्वी भूयासम् । मत्वर्थीयो लुप्यते । श्रेयान् प्रशस्यतरो भूयासं वस्यसः यो नाम कश्चिद् वसीयान् वसुमत्तरस् ततः प्रशस्यतरो भूयासम् । ईयसुन ईकारस्य छान्दसो लोपः । हे भग! भगवः ! ऐश्वर्यवन् ! यद्वा - हे श्रीः! भजनीयत्वाद् भग! तं त्वा त्वामहं प्रविशानि भोक्तृत्वेन प्राप्नुवानि । हे भग! त्वमपि मा मां प्रविश भोक्तृत्वं ममानुजानीहि । हे भग! त्वयि सहस्रशाखे पापान्यपि निमृजे निमृज्मस् त्वल्लाभेन पापकृत्यामपि क्षाळयामि ॥
4किञ्च - यथा आपः सलिलानि प्रवता प्रवणेन निम्नेन यन्ति शीघ्रं गच्छन्ति । ‘उपसर्गाच्छन्दसि’ इति वनिः । यथा च मासा अहर्जरं संवत्सरं यन्ति प्राप्नुवन्ति । अहानि जरयन्तीत्यहर्जरम् । एवमयत्नेन मां ब्रह्मचारिणः सर्वतः सर्वेणप्रकारेण आयन्त्व् आगच्छन्तु हे धातः! विश्वस्य धारक! भग ! यस्मात्त्वमेवं मम प्रतिवेशोसि प्रत्यासन्नोसि । श्रमापनयनस्थानं प्रतिवेश इति केचित् । तस्मान् मा प्रभाहि प्रकर्षेण भातं ख्यातं कुरु । अन्तर्भावितण्यर्थो भातिर् द्रष्टव्यः । तदर्थं मा मां प्रपद्यस्व प्रकर्षेण समीपे वर्तस्व मां मा मूमुचः ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु चतुर्थोऽनुवाकः ॥
०५
1अथ व्याहृत्युपासनं परोपासनाङ्गम् उपदिश्यते - भूरित्यादि । व्यावृत्तमाह्रियते ब्रह्मादिभिरिति व्यहृतयः भूरादयश्शब्दाः ‘स भूरिति व्याहरत्’ इत्यादिषु प्रसिद्धास् तद्वाच्या वा देवताः । ता एतास् तिस्रो व्याहृतयः प्रसिद्धा एव ब्रह्मांशाः । अथ एतां वक्ष्यमाणां तासामेव चतुर्थीं माहाचमस्यः महाचमसस्यापत्यमृषिः प्रवेदयते स्म । गर्गादिलक्षणो यञ् ॥
2का पुनस्सेत्यत आह - मह इति ॥ एतां चतुर्थीं व्याहृतिम् उपासनायोपदिशति प्राधान्येन माहाचमस्यः । यदाह - मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवता इति ॥ चतुर्थ्यां ब्रह्माभिसन्धिः कर्तव्यः । अन्यासु तिसृषु तदङ्गाभिसन्धिः । देवताग्रहणेन ब्रह्मैव कामरूपत्वाच्चतुर्धा स्थितमिति दर्शयति । स आत्मेति तस्यामेव चतुर्थ्यामात्मोपदेशः परस्य ब्रह्मणस् तत्र ख्यापनार्थः । उपास्यमुपासकश्च सैवेति भावना विधीयते । केचिदाहुः - चतुर्थीव्याहृतिः परं ब्रह्म अङ्ग्य् अनवच्छिन्नं शान्तं नि मित्तात्मकं सर्वोपकारकम् । स एवात्मा विश्वोपादानम् । अन्या व्याहृतयस् तस्याङ्गभूता देवतास् तेनैव क्रियमाणा लोकत्रयस्थाः सर्वा इति ॥
3इदानीं भावनाविशेषा उच्यन्ते । लोकाधिष्ठानदेवता लोका एव [व वा] व्याहृतिभावेन भावनीया व्याहृतयो वा तद्भावेन भावनीयाः । भवन्त्यस्मिन् भूतानीति भूर् अधिकरणे क्विप् । भावयति विश्वमवकाशप्रदानेनेति भुवः । अन्तर्भावितण्यर्थादसुनि गुणाभावाश्छान्दसः । सुष्ठ्व् अरणीयमस्मिं सुखमिति वाऽकर्तर्यपि व्यत्ययेन विच् । तन्वादित्वादुवङ् । महयति विश्वं महीयते वा विश्वमनेनेति महः । औणादिकोसुन् । आदित्येन बोधकत्वात् सर्वलोका उपक्रियन्ते । महीङ् कण्डादिः ॥
4अमृतत्वाच्चन्द्रेण सर्वाणि ज्योतींष्य् उपक्रियन्ते । वायोर् ज्योतिष्ट्वं तद्धेतुत्वात् ॥
5ब्रह्मणा ओङ्कारेण तादर्थ्यात् सर्वे वेदा उपक्रियन्ते अविचलितं स्थाप्यन्ते यथा ‘स्रवत्यनोङ्कृतं ब्रह्म’ इति ॥
6अन्नेन सर्वे प्राणा धारकत्वेन उपक्रियन्ते ॥
7ता वा इत्यादि ॥ यस्मादेवं तादृशा एताश्चतस्रो व्याहृतयश् चतुर्धा भवन्ति लोकादिभावेन चतुर्धा वर्धन्ते । तस्मात्सर्वा व्याहृतयश् चतस्रश्चतस्रः प्रत्येकं चतस्त्रो भवन्ति । तास् तादृशीः प्रत्येकं चतुर्धा व्यवस्थिता व्याहृतीर् यो वेद प्रभावनाप्रकर्षेण यथावज्जानाति स ब्रह्म वेद साक्षात्करोति तदुपायत्वादस्य ज्ञानस्य । ततो ब्रह्मीभूताय अस्मै सर्वे अपि देवादयो बलिं पूजाम् आवहन्त्य् आभिमुख्येन प्रापयन्ति सर्वैराराध्यो भवति ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु पञ्चमोऽनुवाकः ॥
०६
1इदानीं शिष्यं प्रत्य् उपासनाविशेषमुपदिशत्य् आचार्यः - स य एष इसादि ॥ अत्रापि व्याहृतीनामेवोपासनं विधीयते । हृदये अन्तो ऽन्तर्हृदयम् । तत्र अन्तर्हृदये ‘अव्ययं विभक्ति’ इत्यादिना अधिकरणेऽव्ययीभावः । ‘तृतीयासप्तम्योर्बहुलं’ इत्यम्भावाभावः । स्वरान्यत्वं छान्दसम् । पञ्चमादारभ्यैकश्रुत्यम् । ‘अधो निष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति’ इति प्रसिद्धः स्थानविशेषो हृदयम् । तत्र य एष आकाशो ऽवकाशः । स एष इति प्रसिद्धतां सूचयति तस्मिन्नयं पुरुषो मनोमयः वर्तते । सर्वस्य स्वा नुभवसिद्धत्वाद् अयमिति निर्दिशति । मनोनाम सत्त्वपरिणामिद्रव्यविशेष आहङ्कारिकः । तमधिष्ठाय वर्तमानः कश्चिदीश्वरांशो मनोमयः । पुरि वसतीति पुरुषः जीवः क्षेत्रज्ञ इति पर्यायाः । अमृत ईश्वरगुणानामस्मिन्नाविर्भूतत्वाद् अमरणो ऽविनाशः । अत एव हिरण्ययः प्रकाशरूपः । हितरमणीय इत्येके । अस्योपासनं वक्ष्यते । कश्चिदाह - अन्तर्हृदये आकाशे दहरात्मनि य एष आकाश आकाशमानः प्रकाशमानः विज्ञानात्मा जीवस् तस्मिन्नयं पुरुषो मनोमयः पुरुषः पूर्वोक्त ईश्वरांशः सूर्यापरनामाधिष्ठाय वर्तते स्वरूपेण प्रकाशते परमेश्वरस्थानीयः । अमृतो हिरण्मयः पूर्ववदीश्वरांशत्वात् ॥
2एवमीश्वरस्थानमीश्वरं चोपदिश्य इदानीं तस्य निष्क्रमणमार्गं देवयानाख्यमुपासनाङ्गत्वेनोपदिशति - अन्तरेण तालुके तालुमध्ये य एष स्तन इव अधो लम्बते स्तनाकारोऽवयवविशेष इन्द्रस्य जीवात्मन ईश्वरस्य योनिर् निष्क्रमणस्थानं ततो योन्या निर्गच्छति । व्यापिनोऽप्युपासनार्थो निष्क्रमणोपदेशः । इदानीमुत्तरो मार्ग उपदिश्यते - शीर्षकपाले व्यपोह्य विभिद्य असौ केशान्तः केशान्ताख्यस्थानावधिकः । कश्च अश्च ईशश्च केशास् तेषामन्तः ब्रह्मविष्णुरुद्राधिकारातीत इति केचित् । एष दिव्यः पन्था यत्र विवर्तते यत आरभ्य वितायते अनेन निर्गच्छेत्युपदेशः ॥
3ततो गुहाया निर्गत इवानावृतस्सन् भूरित्यग्नौ प्रतितिष्ठति भूरहमस्मीति भावयन् अग्निरूपेण व्याप्तमात्मानं भावयेत् । ततो भुवो ऽहमस्मीति भावयन् ततोधिकेन वायुरूपेण व्याप्तमात्मानं भावयेत् । ततस्सुवरहमस्मीत्य् आदित्यरूपेणात्मानं भावयन् ततोधिकेनान्येन रूपेण व्याप्तमात्मानं भावयेत् । ततो महोऽहमस्मीति भावयन् परममहता ब्रह्मरूपेण व्याप्तमात्मानं भावयेत् । केचिदाहु: - पूर्वोक्तस्य व्याहृत्युपासनस्य इदं फलमिति । इन्द्रयोनेर्निर्गतस्य अग्न्यादिप्रतिष्ठा व्याहृत्युपासनेन प्रथमकृतेन सिद्धैवेति । अन्ये पुनराहुः - अग्निर् जीवः । वायुः पुरुषः । आदित्यः परमाकाशः । ब्रह्म सच्चिदानन्दात्मकं निरञ्जनमनवच्छिन्नं परं वस्तु । ऐश्वर्यविशेषः प्रतिष्ठा । अथ ब्रह्मणि यदाऽयं प्रतिष्ठितो भवति तदा स्वाराज्यं निरतिशयं स्वातन्त्र्यम् आप्नोति विगलिताशेषावरणत्वात् । मनसस्पतिं च आप्नोति मनोमयस्यात्मनः स्वामिनमंशिनं वा । यद्वा - मनसो विज्ञानरूपस्य पतिमधिष्ठातारमाप्नोति । ब्रह्मप्रतिष्ठास्तुत्या भाविश्रुत्या ब्रह्मप्रतिष्ठाभावनायाः फलमिदं मनसस्पतित्वावाप्तिः । ततस्तादृशे महिम्नि वर्तमानोऽयं वाक्पतिर्भवति वागिन्द्रियपतित्वं प्राप्नोति । वागिन्द्रियसाध्यस्य सकलवाङ्मयनिर्माणस्य स्वेच्छयैव सम्पत्तिस् तदाधिपत्यम् । यद्वा - वागिन्द्रियसाध्यस्य कृत्स्नस्य सुखस्यायत्नावाप्तिर् वागिन्द्रियस्य स्वयमुत्पादकत्वं वागिन्द्रियवतां जीवानाम् आधिपत्यं वा । सर्वत्र ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । चक्षुष्पतिश् च भवति चक्षुरिन्द्रियसाध्यस्य स्वेच्छानिर्माणादि पूर्ववत् । श्रोत्रपतिश्च भवति । गतम् । विज्ञानपतिश्च भवति युगपत् सर्वार्थज्ञानसामर्थ्यात् । समानमन्यत् । यदाऽयं मनसस्पतिमाप्त्वा तिष्ठति ततस् तदनन्तरम् एतद् विश्वम् आकाशशरीरं ब्रह्म एव भवति नान्यत्किचित्पश्यति । यद्वा - एतदिति पुरुष उच्यते । ब्रह्मसमभिव्याहारान् नपुंसकत्वम् । एष पुरुषः क्षाळितसकलोपाधिमलः ब्रह्मैव सम्पद्यते । यद्वा - आकाशत इत्याकाशः परमात्मसञ्ज्ञः प्रकाशविशेषः विश्वोपादानात्मा । तच्छरीरकं प्रकाशते ब्रह्म । अथ तदवस्थं ब्रह्म विशेष्यते - सत्त्यात्म सत् परं त्यद् अपरं तदुभयात्मकं सत्त्यात्म । यथा ‘सञ्च त्यच्चाभवत्’ इति । यद्वा - सत्यसङ्कल्पत्वात् सत्त्यात्मत्वम् । प्राणारामं प्राण एवारामो न बहिर्यस्य तत्प्राणारामम् । आत्मपर्यायः प्राणशब्दः; यथा आत्मवानयमिति प्राणवानुच्यते । यद्वा - प्राणाः प्राणनादयो व्यापारा आरमन्ति विरमन्त्यस्मादिति प्राणारामम् । मनआनन्दं मनस्येवानन्दो यस्य नेन्द्रियान्तरापेक्षम् । इदमेव लिङ्गं मुक्तात्मनामीश्वरस्य च मनोविशेषोऽस्तीति । यद्वा - मनश्शब्देन ज्ञानमुच्यते; ज्ञानानन्दं ज्ञानमेवानन्दो यस्येति । शान्तिसमृद्धं शान्तिश्शिवत्वं तेन समृद्धम् अनवच्छेदान् नित्यत्वात् ‘तृतीयाकर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।।
4अथोपासना विधीयते । प्राचीनयोग्यं शिष्यम् आचार्योऽनुशास्ति । पुत्त्रमित्येके - प्राचीनरुक्तैरुपासनाङ्गैर् योग्यत्वं यस्येति । सामग्रीप्रतिपादनार्थमिदम् । अन्य आह – प्राचीनयोग्यस्यापत्यमिति । गर्गादिलक्षणो यञ् । तत्पुत्त्रत्वमेव योग्यत्वमिति । उपास्वेति विधिः, तद्भावमुपेत्यासना उपासना । श्रुतिरेवोपासनां विधत्ते । प्राचीनयोग्य उपासीतेत्युक्तं भवति । तत्र कथमित्याकाङ्क्षायां पूर्वोक्तं सामग्रीत्वेनाभिसम्बध्यते । तद्यथा कर्मशरीरयात्राऽविरुद्धे काले शुचौ देशे सुखोपविष्टो मित्रादिभ्यः शान्तिं प्रार्थ्य विद्याङ्गभूतवर्णादियाथात्म्यज्ञानमनुसन्धाय पञ्चाधिकरणमहासंहितापञ्चकयाथात्म्यज्ञानसमुपजातयोग्यताविशेषो भूत्वा मेधावित्वश्रीमत्वभावनाभ्यां सञ्जाततृप्तिविशेषस्सन् तिसृणां व्याहृतीनां व्याहृतित्वं तद्देवतानां च परस्य ब्रह्मणोऽङ्गत्वं च चतुर्थ्याश्च परब्रह्मस्वरूपत्वम् आत्मत्वं चाभिसन्धाय लोकादिभावेन चतसृणां व्याहृतीनां चतुर्धाऽवस्थानं पर्यायेणाभिसन्धाय हृदयाकाशे मनोमयोऽमृतो हिरण्मय इति भावयित्वा स्तनाकृत्या योन्या निर्गत्य शिरःकपाले निर्दिष्टमध्वानमतिलङ्घ्य आवरणाद्विनिर्गतमात्मानं स्मरन् अग्निवायादित्यब्रह्मसु प्रतिष्ठातारं व्यापकमात्मानमनुसन्दधानो वाक्पतित्वादिभिर्विशेषणैर् विशिष्टः परमेश्वराख्ये प्रतिष्ठितः मनसस्पतिमाप्तवानस्मीति भावयित्वा आकाशशरीरं सत्यात्मादिगुणं ब्रह्मास्मीत्यनुसन्दधीतेति । एवं यावज्जीवमुपासनमुच्यते ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु षष्ठोऽनुवाकः ॥
०७
1इदानीं ध्यानविशेषमाह - पृथिव्यन्तरिक्षमियादि ॥ एतत्सर्वं व्याप्तं मयैवेति ज्ञानाय व्याप्यानि दर्शयति । पृथिव्यादयः पञ्चदश पदार्थास् त्रयः पञ्चकाः । अधिभूतं भूतेष्वधि भवतीति विभक्त्यर्थेऽव्ययीभावः । भूतानि भूतपरिणामाश्च एते त्रयः पञ्चकाः ॥
2अथाध्यात्ममिति ॥ आत्मा शरीरं तस्मिन्नध्य् अध्यात्म पूर्ववदव्ययीभावः । ‘अनश्च’ इति टच् समासान्तः । प्राणादयः पञ्चदश पदार्थास् त्रयः पञ्चका अध्यात्मं भवति । पृथिव्यादयो लोकाः । दिशः प्राच्यादय आदित्यगत्यधीनाः । अवान्तरदिशाः कोणदिशः । ‘अन्’ इति योगविभागादच् समासान्तः । अग्न्यादयः पृथिव्यादीनामधिपतयः । ओषधिग्रहणेन वीरुधो गृह्यन्ते । वनस्पतिग्रहणेन वृक्षा अपि गृह्यन्ते । आकाशगुणश्शब्दः । आत्मा जीवः । प्राणः मुखनासिकानिष्क्रमणः । व्यानः बलकर्मा अग्निमन्थनादिहेतुः । अपानोऽधोवृत्तिः शब्दोच्चारणकर्मा । उदानश् छर्दनादिकारी । आहारादिवीर्यं सर्वेष्वङ्गेषु सन्नतः समानः । चक्षुरादीन्यधिष्ठानव्यतिरिक्तानीन्द्रियाणि, अपक्रमणश्रुतेः । तत्र रूपग्रहणे चक्षुः । शब्दग्रहणे श्रोत्रम् । अध्यात्मेश्वरेणेन्द्रियकर्महेतुत्वं मनसः । वाक् रसस्य ग्रहणे वदने च शब्दस्य । घ्राणस्याप्युपलक्षकम् । त्वक् स्पर्शग्रहणे । इन्द्रियस्यापि व्यापकसाहित्याय पृथग्वाक्यत्वम् । स्नावा बन्धनी सिरा । मज्जा अस्थ्नामन्तरस्थितं बलम् ॥
3एतत् पाङ्क्तं ज्ञानम् अधिविधाय उपासनविध्यन्तमुक्ता पुनः , अबोचद् ऋषिर् वेदात्मा । इदं सर्वं विश्वं जगत् पाङ्क्तं पङ्क्तेरागतं न षड्भ्यः । सुखदुःखादिव्यवस्थया चात्मनानात्वान् न यत्नवैयर्थ्यम् । भेदात्यये मुच्यन्ते इति ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु सप्तमोऽनुवाकः ॥
०८
इदानीमुक्तोपासनाङ्गत्वेन भावनौपयिकतया प्रणवं विदधाति - ओमिति ब्रह्मेत्यादि ॥ ओमित्येतदक्षरं परं ब्रह्म एतदक्षरप्रतिबिम्बतमेतदक्षरोपरक्तं वा यस्मात्प्रकाशते तस्मादभेदेनोपास्यं, तत्प्रतिपादकत्वाद् यावत्तत्तद्भावाभिव्यक्तिः । तत्र द्वयोर्भिन्नयोस्सम्भवादुच्चारणकालेन व्याप्तं शब्दानामेवोपासनम् । किञ्च - इदं सर्वं जगद् ओङ्कार एव । विश्वात्मकं जगदुपादानस्वरूपत्वाद् ब्रह्मात्मानमादर्शयति । यस्मादेवं तस्माद् ओमित्यनुकृत्य् अनुक्रियत इत्य् अनुकृतिर् ओमित्येषा अनुकृतिर् एतदनुकृत्य् अनुकरणाक्षरम् ओङ्कारोपि । एषोऽस्य महिमा यदेतदनुकरणम् अप्यो श्रावयेत्येतदाश्रावयन्तः प्रयुञ्जते । हेति हेतौ । एवं हि कृत्वेत्यर्थः । स्मेति दार्ढ्ये । वा इति प्रसिद्धौ । एवं सामादिषु यथायोगं द्रष्टव्यम् । सर्वत्राध्येष्यमाणस्य दोषाभावार्थोऽस्योपदेशः प्रवक्ष्यन्नित्युपलक्षणत्वात् । अध्येष्यमाणश्च ओमित्याह ब्रह्मणः वेदविद्यात्मनो लाभो मे भूयादिति । तस्मादेवं महानुभावत्वाद् अस्य ओमित्येव ब्रह्मोपास्यम् । तथा कुर्वन् ब्रह्म परमुपाप्नोत्येव । अनावृतप्रकाशत्वं तदवाप्तिः ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्स्व् अष्टमोऽनुवाकः ॥
०९
1इदानीम् ऋतादीन्य् उपासनायां सहकारित्वेन उपदिशति - ऋतं चेत्यादि ॥ ऋतं च स्वाध्यायप्रवचने च सहकारिकारणानि नोपासनामात्रमेव । एवं सत्यं चेत्यादि द्रष्टव्यम् । कर्तव्यमिति सर्वत्र शेषः । यथा सङ्कल्पितकरणमृतं मानसम् । यथोक्तकरणं सत्यं वाचिकम् । स्वाध्यायो विद्याया अध्ययनम् । व्याख्यानं प्रवचनम् । ब्रह्मचर्यादयो मौनानाहारादिकं तपः । विहितकर्मानुष्ठानजन्मा ग्लानिर् दमः । मिथ्येन्द्रियाणामप्रवृत्तिः शमः । अग्नयश् चित्या आहवनीयादयो वा । पुनो ऽग्निहोत्रग्रहणं प्राधान्यख्यापनार्थम् । कर्मभिर्विकल्पार्थं वा । अतिथिग्रहणं तत्पूजार्थम् । मानुषम् उत्सवादौ देवपूजाप्रणामादिः । प्रजा प्रजार्थं गर्भाधानादिसंस्कारः । प्रजनः प्रजार्थ्य् ऋतुकालगमनादयः । प्रजातिः सन्तानकारिणः पुत्रा दयः । स्वाध्यायप्रवचनसहितमृतादिकं प्रजात्यन्तमेकैकमेव सहकारिकारणं गृहस्थानाम् । इतरेषां च यथासम्भवं द्रष्टव्यम् ॥
2सत्यमेव पर्याप्तं नार्थः स्वाध्यायप्रवचनाभ्याम् इति सत्यवचा राथीतरः रथीतरस्यापत्यमृषिराह । तप एवालम् इति तपोनित्यो नाम पौरुशिष्टिः पुरुशिष्टस्यापत्यमृषिर् वदति । स्वाध्यायप्रवचने एव निरपेक्षे हेत्व् इति नाको नाम मौद्गल्यः मुद्गलस्यापत्यमृषिराचष्टे । हेतुं चाह - तद्धीति । स्वाध्यायप्रवचनाभ्यामपरं तपो नास्तीति । आदरार्था पुनश्श्रुतिः । अत्राश्रमभेदेन यथायोगं पक्षत्रयं व्यवस्थाप्यम् । सत्यादीनां पुनर्वचनं प्राधान्यख्यापनार्थमिति केचित् ॥
इत्यारण्यके पश्चमप्रपाठके उपनिषत्सु नवमोऽनुवाकः ॥
१०
1अहं वृक्षस्य इति मन्त्रः परेण ब्रह्मणा ऐक्यभावना ङ्गत्वेन विधीयते । इयं षट्पदा जगती । अहं वृक्षस्य व्रश्चनीयस्य प्रपञ्चस्य वृक्षस्य रेरिवा भृशं क्षोभयिता अत्यन्तोच्छेदेन परेणैक्यमापन्नः । अश्वतेरौणादिकः क्सः । व्रश्चादिना षत्वम् । ‘षढोः कस्सि’ इति कत्वम् । रिङो यङ्लुगन्तात् ‘अन्येभ्योपि’ इति क्विप् । छान्दसं ह्रस्वत्वं, इडभावश्च । रेरिवा । अन्त्यलोपश्छान्दसः । कीर्तिः कीर्तिमान् । मत्वर्थीयो लुप्यते, इकारो वा मत्वर्थीयः । यद्वा - कीर्तिः कीर्तनीयः निगमान्तैः । उपमानपदं यथा कीर्तिः केन चिच्छादयितुं न शक्यते एवमहं महाप्रकाशोस्मीति । अत्रैव दृष्टान्तमाह - गिरेः पर्वतस्य पृष्ठमिव न हि तद्वस्त्रादिना छादयितुं शक्यते एवमस्मिन् सम्पन्नः । यद्वा - कीर्त्या महत्त्वं रक्ष्यते । गिरेः पृष्ठमिव महान् सम्पन्नोस्मि इति । ऊध्र्वपवित्र ऊर्ध्वपवित्रत्वमेव यस्य । पूयते अनेनेति पवित्रम् । ‘पुवस्सञ्ज्ञायां’ इतीत्रप्रत्ययः । चरितादिकमस्य स्मर्तॄणां पवित्रमिति । वाजी नित्यगतिरादित्यस् तस्मिन्निव वर्तमानोस्मीति । स्वमृतं न परात्मा पुरुषः जीववदमृतमात्रम् अपि तु शोभनममृतं सर्वदा एकरूपं परमात्मशरीरं दहरस्थानीयं सवितृमण्डलमध्यस्थितं परवस्त्वेवास्मीति । द्रविणं वरिष्ठं धनं द्रवणीयं वा सर्वैः सवर्चसं महाबलं यत् स्वमृतं तदेवास्मीति । अत एवाहं सुमेधाः शोभनबुद्धिर् अमृतः मरणरहितो ऽक्षितो ऽनुपक्षयो ऽजरः । यद्वा - अमृतोक्षितो ऽमृतत्वहेतुना आनन्देनाप्लुतः । इति त्रिशङ्कोः क्षत्रियब्राह्मणस्य महर्षेर् वेदानुवचनम् उपासने मन्त्रकथनम् । इमं मन्त्रमवोचद् उपासनाङ्गम् ऋषिनिर्देशस् तत्स्मरणे मन्त्रस्य साद्गुण्याय ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु दशमोऽनुवाकः ॥
११
1वेदमनूच्य इत्यादि गतम् । अनुशासनार्थत्वात् शब्दान्तरेणाप्यर्थोऽनुशिष्यः न प्रैषसमानम् । केषाञ्चित् सिद्धानामपि सत्यवचनादीनाम् उपनिषद्विद्यानुवचनानन्तरं फलाधिक्याथ अनुशासनम् । सति साधु सत्यं तथ्यं धर्मः श्रुति विहिता क्रिया । स्वशाखाध्यायः स्वाध्यायस् तस्मान् मा प्रमदः प्रमत्तो मा भूः । आचार्याय प्रियं धनं विद्यादक्षिणामाहृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीर् विच्छिन्नं मा कार्षीः । विद्यामधिगम्य न त्वरितेन प्रवजितव्यं सन्तानार्थं निवेशनं तावत् कर्तव्यमित्यर्थः । सिचि वृद्ध्यभावश्छान्दसः । सत्यधर्मयोः प्रमादः कदाचित्प्रतिपक्षानुष्ठानम् । कुशलमात्मरक्षा । भूतिः सिद्ध्यर्था क्रिया । गतमन्यत् ॥
2मात्रादीनां देववत् पूजार्थं मातृदेवत्वाद्यनुशासनम् । अनवद्यान्य् अगर्हितानि कर्माणि त्वया सदा सेवितव्यानि न तु कदाचिदपि इतराणि गर्हितानि । किं यस्य कस्यचिद् अनवद्यानि कर्माणि? नेत्याह - यान्यस्माकं शोभनानि चरितानि तानि त्वयोपास्यानि यत्नतश्शिक्षणीयानि । इतराण्यनवद्यान्यपि त्याज्यानि । इदं परं हितं ब्रूमः - ये नाम केचिद् अस्मत्तः श्रेयांसः प्रशस्यतरा ब्राह्मणास् तेषाम् आसने आस्थाने गोष्ठ्यां त्वया न प्रश्वसितव्यं न विस्तब्धेन व्यवहर्तव्यं, न वा प्रागल्भ्यं स्थापितव्यम् ॥
3श्रद्धादयष्षडपि हेतव इत्येके । केचिदकारप्रश्लेषमाहुः - श्रद्धयैव देयम् अश्रद्धया त्वदेयमेव । श्रीयुक्तेन विभववतैव देयं न त्वसति विभवे । ह्रिया लज्जामात्रेण दातव्यम् । भिया देयम् अदाने प्रत्यवायाद् भयविशिष्टनैव देयम् । संविदा प्रकृतिस्थितया को दोषः दीयतामितिभावेन न दातव्यम् ॥
4अथेत्यादि ॥ कर्माण्यग्निहोत्रादीनि । वृत्तमाचारः । विचिकित्सा सन्देहः । तद्विषये कथमुपासकस्य भवितव्यम् । ये तत्र तस्मिन्नर्थे सम्मर्शिनः विचारकुशलाः । यद्वा - तत्र देशे तत्र वा काले ये ब्राह्मणास्सम्मर्शिनः युक्ता अभियुक्ता आयुक्तास् तात्पर्यवन्तो ऽलूक्षा अलुब्धा अदरिद्रा वा धर्मकामा अदाम्भिका यथा ते तत्र वर्तेरन् तत्र वृत्ते कर्मणि वा वर्तेरन् यथा ते तत्कुर्युस् तथा त्वमपि कुर्याः । अभ्याख्याता अभ्याकृष्टा निन्दितार्थास् तेषु यदि विचिकित्सा स्यात् । ये इत्यादि । गतम् ॥
5एष इत्यादि ॥ आदेशः ब्राह्मणम् । उपदेशः स्मृतिः। शान्त्याशासनादिकं शिष्यानुशासनान्तमेतत्सर्वमादेश उपदेशश्च श्रुतिस्मृत्यर्थ एवमस्माभिरुक्त इत्यर्थः । यद्वा - श्रुतिस्मृत्योः कृत्स्नोऽर्थ एव सङ्ग्रहोक्त इति वेदितव्यम् । किञ्च - एषा वेदोपनिषद् वेदरहस्यम् एतदनुशासनम् अमोधफलं राजशासनवद् अनतिक्रमितव्यमिति वा । एवम् उक्तेन प्रकारेण उपासितव्यम् उपासनं कर्तव्यम् । एवमेव एतत् परं वस्तु उपास्यं नान्यः पन्थाः पर्येषणीयः । उ इत्यवधारणे ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्स्व् एकादशोऽनुवाकः ॥
१२
शं न इत्यादिशान्त्यनुवाक उक्तप्रयोजनो व्याख्यात एव । अवादिषम् अवादीति भूतकालप्रत्ययो विशेषः । एवं त्वत्प्रसादेनैव त्वाम् अविघ्नेन अवादिषम् अद्धयगीषम् । तच् च अधीतं माम् आवीन् मिथ्याधीतत्वादिदोषप्रसङ्गेन निवर्तिताध्ययनं यथा तथा रक्षति स्म । समानमन्यत् ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु द्वादशोऽनुवाकः ॥
१३
अथ वारुण्य उपनिषद आरभ्यन्ते - सह नाववत्वित्यादौ ।। नौ त्वां मां च शिष्यं च अधीयमानं ब्रह्म अवतु रक्षतु मिथ्याधीतत्वादिदोषप्रसङ्गो यथा न भवति तथा करोतु । किञ्च - नौ आवां सह भुनक्त्व् अध्ययनफलभागेन योजयतु । अन्तर्भावितण्यर्थस्य परस्मैपदम् । सहैव आवां वीर्यं करवावहै उत्पादयावहै । लेट्याडागमः । अन्यतरापचारे निर्वीयत्वादिप्रसङ्गात् । किञ्च - नौ आवयोर् अधीतम् अध्ययनं तेजस्वि तेजस्करम् अस्तु । ततः परमावां मा विद्विषावहै परस्परं विद्वेषं माकार्ष्व । लेटयाडागमः । ‘वैतोऽन्यत्र’ इत्याकारः । शान्तेर् वचनम् उक्तप्रयोजनम् ॥
इत्यारण्यके पञ्चमप्रपाठके उपनिषत्सु त्रयोदशोऽनुवाकः ॥
१४
1इयम् आनन्दवल्ल्य् आनन्दब्रह्मणो वैभवप्रतिपादनार्था परप्राप्तिफला । अथ उपासनान्तरं विधीयते । तत्र उपासनाफलम् उपासनासामग्री चात्रानुवाके उच्यते - ब्रह्मविदित्यादि ॥ ब्रह्मपरिबृढं सर्वतः परं वस्तु तद्वित् तदीयानन्दज्ञानवैभवज्ञानपूर्वकं तस्य ज्ञात्वा उपासिता आप्नोति प्राप्नोति परं प्रकृष्टं श्रेयो ऽपवर्गं सर्वदुःखनिवृत्तिम् । ब्रह्मैव श्रेयस्त्वेन व्यपदिश्यते आप्नोतिश्रुतेः । यद्वा - आनन्दब्रह्मवित् परं ब्रह्म आप्नोति तस्मात् तस्य आनन्दब्रह्मणो महिमानं ब्रूम इति भावः ॥
सिद्धानुवाद इति चेन् न - यस्माद् ब्रह्म विदित्वा उपासीत इति विधिरनुमीयते तस्माद् उपासीतेति विधिशेषः । ज्ञानविधिरेव वा उपासनासहायत्वेन अर्थवान् । ‘सत्यत्वादिलक्षणं ब्रह्म’ इति ज्ञानमात्रेण वक्ष्यमाणसर्वकामावाप्त्यभावाद् गुहाद्याधारविशेषस्य उपासनैकान्तत्वात् ॥
2इदानीम् अमुमेव अर्थं समर्थयितुं पुरातनीं गाधामुदाहर्तुमाह - तदेषा इति ॥ तद् इदम् अर्थरूपम् अभिलक्ष्य एषा वक्ष्यमाणा ऋक् उक्ता पुराविद्भिः । तां चाह - सत्त्यमिति ॥ अयं विष्टारपङ्क्तिविशेषः ॥
अत्र इयमौपनिषदी स्थिति: - ब्रह्म एकान्ततत्त्वं नित्यं स्वप्रकाशं विचित्रानन्दशक्तिकं स्वतन्त्रं द्रव्यम् । तत् स्वातन्त्र्यैकस्वभावमहिम्नि सदा महीयमानं प्रकृतिश्च उपादानं च विश्वस्य भवति । निमित्तं च भूत्वा विश्वमधितिष्ठति । तद्धि ‘बहु स्याम्’ इति सङ्कल्पमानं मायाशक्तिसहायं द्विधाऽऽत्मानं विभजति । तत्रैव परप्रकृतिश् चिदचिदात्मकत्वेन प्रपञ्चत्वेन परिणमते । सैषा परस्य ब्रह्मणः प्रभास्थानीया । तत्र सर्वेऽप्यात्मानः प्रभान्ति । अत: स परमात्मा सर्वात्मप्रभासमष्टिः । इममेव देशं प्राप्य परस्य प्रभाः प्रभान्ति ज्ञानक्रियानादप्रभा शक्तिप्रभा आनन्दप्रभा चेति । एतासां प्रभाणामविभागः परप्रकृतिः । तस्याः परमतेजस्थानीयाया ज्वलन्त्या विप्रुट्स्थानीया आत्मानः सङ्कुचितप्रभात्वात् । तेषु ब्रह्मगुणाः प्रायेण तिरोहिताः । आहुश्च -
अग्नेरौष्ण्यं यथा यद्वदादित्यस्य प्रभाऽपि च ।
परमात्मा शिवादन्यो नास्तीति मुनयो विदुः॥
इति । सैषा मुक्तानामीश्वरस्य च साक्षादर्थक्रियाहेतुः; परम्परया त्वन्येषाम् । अथ सैव भोक्तृत्वशरीरोपधानात् पुरुषो भवतीति तदंशा अल्पशरीरा भोक्तारः । ते च बद्धा मुक्ताश्च । तत्र बद्धानां बन्धवेष्टितानां ब्रह्मगुणाः प्रायेण तिरोहिताः । मुक्तास्त्व् अपहतपाप्मत्वादिगुणशालिनो ब्रह्मीभूतास् तत्सङ्कल्पेन पृथक्पृथक् चेतना एव वर्तन्ते । तत्समा भवन्तीत्यपरम् । न त्वेषां जगदीश्वरत्वम् । स्वाभिमतभोगमात्रे स्वातन्त्र्यमेषाम् । अथ तस्या एव परप्रकृतेः परिणामात्मानो जीवादयः । तत्र मुक्तानाम् ईश्वरस्य च मनस्थानीयसत्त्वोद्रेकात् सर्वमनस्समष्टिर्मनोमयः । स आदित्याधिष्ठितो जीवानां मनो भवति । तमउद्रेकात् सर्ववाक्समष्टिर्वाङ्मयः मुक्तानामीश्वरस्य च वाक् भवति । अग्न्यधिष्ठिता जीवानां वाक् । रजउद्रेकात् सर्वक्रियासमष्टिः प्राणमयः मुक्तानाभीश्वरस्य च परिस्पन्दहेतुश् चन्द्राधिष्ठितो जीवानां प्राणः । अथ तस्या एवं प्रकृतिपरिणामस् त्रिगुणा प्रकृतिः शतपरिणामिन्य् अचेतना । सर्वब्रह्मगुणतिरोधानाद् अचेतनत्वम् । तत्परिणामा महदादिपृथिव्यन्तास् त्रयोविंशतिः । कालो नियतिरव्यक्तमिति प्रकृतिविधाः । अयं प्राकृतस्सर्गो जीवानां भोग्यः। भोजयिता त्वीश्वरः । मायाशक्तिस्सर्वत्र कारणी । यथा-
मायां तु प्रकृति विद्यान् मायिनं तु महेश्वरम् ।
अस्यावयवभूतैस्तु व्याप्तं विश्वमिदं जगत् ॥ इति ॥
अथ. सैव परप्रकृतिः परेण सह आत्मानमैक्यमापादयन्ती तिरोहितभेदा परशक्तिरुच्यते ॥
अत्र केचिदाहुः - ईश्वरादिपृथिव्यन्तेषु सर्वत्र अनुवृत्तं सत्प्रत्ययनिबन्धनं सन्नाम सर्वसमष्टिभूतं ब्रह्म । सत्वं च निरतिशयव्यापकम् । तत ईश्वरोपि तेन व्याप्य इति । श्रूयते च - ‘सदेव सोम्येदमय आसीत्’ इति ॥ तत्र विश्वात्मकं सत्त्वं कि ईश्वरः? उत अनीश्वरः? । ईश्वरश्चेत् तेन व्याप्यः कथम् अन्य ईश्वरः स्यात् । निरतिशयैश्वर्यवाचित्वाद् ईश्वरशब्दस्य । तत्र व्याप्यस्यापि ईश्वरत्वप्रसङ्गात् । अनीश्वरत्वे कथं तद् ब्रह्म स्यात् । तस्मान् न प्रबलपदश्रुतिसामर्थ्यबाधनं युक्तम् । प्रपञ्चाभिप्रायेणाप्यर्थोपपत्तेर् निरतिशयत्वविशेषलाभः । किञ्च - ‘बहु स्याम्’ इति सङ्कल्पात् प्राक् सकलप्रत्यस्तमये किं व्यानुवत् स्यात् । निरतिशयस्वातन्त्र्यं तु तादृशी दशा पोष्कल्यायैवेति निरतिशयस्वातन्त्र्यमेव सत्त्वमिति तदा सर्वत्र सदिति प्रत्यय इत्यलमतिप्रसङ्गेन ॥
अत्र ‘ब्रह्मविदाप्नोति’ इति वेद्याप्ययोः पृथक्त्वनिर्देशात् पुंसाममृतत्वप्राप्तये उद्भूतबृंहणसामर्थ्यमुपादानरूपं ब्रह्म इत्युच्यते । परशब्देन च प्रधानं स्वातन्त्र्यस्वभावं निमित्तरूपमुच्यते । परशब्दः प्रधानवचनः यदात्मिकायाः प्रकृतेः पराहंव्यक्तिस्थानभूताया दर्पणस्थानीयाया याथात्म्येन वेदिता तत्परमाप्नोति ‘द्वे ब्रह्मणी वेदितव्ये परं चापरं च’ इति ।।
सत्यमिति ॥ सत्त्यम् अविपर्यस्तस्वभावं नित्यं ज्ञानं प्रकाशस्वभावम् अनन्तम् अपरिच्छिन्नम् ईदृशं परं ब्रह्म सर्वतः परिबृढं वस्तु यो वेद विदित्वा उपास्ते गुहायां निहितम् उपासकानुग्रहाय हृदयाकाशे सन्निहितं परं ब्रह्म आत्मनि च अभेदाद् दर्पणवन् नित्यनिहितं य उपास्ते परमे व्योमन् तत्स्थतया उपास्ते तस्यापि वेद्यत्वात् ‘स यश्चायं पुरुषे । यश्चासावादित्ये’ इति परस्ताद् व्यक्तिर्भविष्यति । सस् तथोपासिता अश्नुते प्राप्नोति सर्वान् कामान् सह ब्रह्मणा परिबृढेन परेण विपश्चिता मेधाविना सहैव युगपदेव तद्भावं च प्राप्नोति । आहुश्च-
यं मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टास्ते परां सिद्धिं निर्वाणं ते मया सह ॥
लभन्ते इति शेषः ।
तेषां हि वशमापन्ना माया मे विश्वरूपिणी । इति ।
श्रूयते च-
यदा त्मत्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देहं मुच्यते सर्वपाशैः॥ इति॥
अनन्तस्य कथं गुहायामुपासनमिति चेद् गुहाया मित्यदोषः । गुहासन्निधियोग्यतदीयाकारविशेषोपासनविधिर्वा । मुक्तात्मनः कामाभावात् सह ब्रह्मणा कामानश्नुते इत्ययुक्तमिति चेद् युक्तं ‘स यदि पितृलोककामः’ इति । दुःखानुषङ्ग इति चेन् न आनन्दानुप्रवेशात् । सर्वात्मत्वात् सर्वशरीरसुखदुःखानुषङ्ग इति न समुद्रादावेकावयवविकारे । पृथक् अचेतनत्वात् कामानुपपत्तिरिति चेन् न ब्रह्म चैतन्येनैव सर्वेषां पृथक्चेतनत्वात् । दृश्यत्वप्रसङ्ग इति चेन् न द्रष्ट्रन्तरस्याभावात् । संसारिणां च मायावृतत्वेन द्रष्टु मशक्यत्वान् मुक्तानां च वेदना नुपलब्धेः । अतद्व्यावृत्तिधीरतै वोपासना । किञ्च - श्रुतिप्रामाण्यात् सर्वमुपपद्यते इति श्रद्धातव्यम् ॥
3तस्मादित्यादि ॥ पररूपप्राप्तिहेतुतयाऽनन्तरोक्तं यत् प्रकृतिरूपं ब्रह्मण आनन्दात्मकं तत् तस्मादेतस्मादिति परामृश्यते । आत्मनः ज्ञानरूपत्वात् तत आकाशस्सम्भूतः स एव भूताकाशत्वेत परिणतः । पदार्थविशेष आकाशः नाभावमात्रम् । सम्भूतश्रुतेः । उक्तश्चेतःपरिणामः ।
ननु ज्ञानादुत्पन्नत्वादाकाशादीनां चेतनत्वप्रसङ्ग इति चेन्न विलक्षणपरिणामदर्शनात् । नन्वात्मनो विज्ञानमयः विज्ञानमयान्मनोमयः मनोमयादाकाशमय उत्पन्नस् तत् कथम् आत्मन आकाशस्सम्भूत इत्युच्यते? । ‘क्षीराद् घृतं भवति’ इतिवद् द्रष्टव्यमिति न दोषः । मनस्येव हि भूतानामुपसंहारः ‘मनः प्रयन्त्यभिसंविशन्ति’ इति प्रलयदर्शनात् । न ह्यन्यत उत्पन्नस्यान्यत्र प्रलयस् तयोस्तदनभिधानात् । भूतोत्पत्तर्विवक्षितत्वात् । गतमन्यत् । विस्पष्ट एवैषां कार्यकारणभावः।
अन्नात्पुरुष इति । अन्नरसमयात् शरीरमित्यर्थः । विकारे मयट्प्रत्ययो ऽन्नपरिणामश्शुक्लविकार इत्यर्थः ॥
4तस्येति ॥ इदंशब्देन प्रत्यक्षप्रसिद्धानि शरीरप्रभृतीनि दर्शयति । तच्च उपासनार्थमिति सर्वत्र वेदितव्यम् । पक्षी हस्तौ स्थानसामान्यात् । आत्मा मध्यमो देहभागः शिरःप्रभृतिव्यतिरिक्तः । पश्चादागत्वात् पादौ पुच्छं प्रतिष्ठा प्रतिष्ठानहेतुत्वात् तयोः प्रतिष्ठात्वम् । एवम् उपासनायाः क्रतुतुल्यत्वं दर्शयितुं शिरःपक्षात्मपुच्छवदग्निपुरुषत्वेन पुरुषस्य रूपणा कृता । तदपीति । तत्रापीत्यर्थः । तमन्नमयमधिकृत्य एष वक्ष्यमाणः श्लोको भवतीत्यर्थः । श्लोक्यते स्तूयते अनेनेति श्लोकः प्ररोचनार्थ ब्राह्मणमुच्यते ॥
5अन्नाद्वा इति त्रिष्टुब्विशेषः ॥ क्रियात्रययोगेन अन्नस्य ब्रह्मभावेन स्तुतिः क्रियते । याः काश्चेति स्वेदजादयोपि गृह्यन्ते । देवादयोपि परम्परया पृथिवीं श्रिताः । तेऽप्य् अन्नाधीनस्थितिकत्वाद् अन्नाज्जायन्ते । अथो जन्मानन्तरम् अन्नेन जीवन्त्य् अथ अन्ततो ऽन्तकाले अन्नम् अपि यन्त्य् अनुप्रविशन्त्य् अन्नकारणपृथिव्यनुप्रवेशात् । तस्मात् सर्वभूतानां जन्मजीवनाप्ययकारणत्वाद् अन्नमेव ज्येष्ठं प्रशस्यतमं वृद्धतमं वा । तस्मात् सर्वौषधम् अन्नम् उच्यते तद्विद्भिः । सर्वेषां सुरनरतिर्यगादीनामप्यनिष्टोपशमनहेतुत्वात् । अथ अन्नब्रह्मण उपास्यत्वमाह - सर्वं वा इति । अन्नोपासकास्सर्वामन्नजातिम् आप्नुवन्ति । उक्तेन न्यायेन अन्नस्य सर्वज्येष्ठत्वात् सर्वानिष्टोपशमनत्वात् सर्वैरुपास्यम् अन्नम् । पुनश्रुतिरूपासनाविध्यर्थम् । पुनर्ज्येष्ठत्ववचनं स्वान्तरेभ्योऽन्नस्यातिशयप्रदशनार्थम् । अन्नं कामयमानस्य अन्नत्वेन ब्रह्म उपास्यम् । अकामयमानस्य तु ब्रह्मैवोपास्यमिति । तस्यान्नादिसर्वकामसमुदायाप्तिः फलं ‘सोऽश्नुते सर्वान् कामान्’ इति । अन्नादिति । पदनिर्वचनार्थं पुनर्वचनम् । अन्नाज्जायन्ते भूतानि । अथ जातानि च अन्नेन वर्धन्ते। तदुभयं कथमित्याह - अद्यत इति । यस्माद् भूतैर् अद्यते तस्मादन्नाज्जायन्ते भूतानि शुक्लपरिणामेण जीवास् तृणादिपरिणामेन क्षीरादीनि । जातानि च अद्यमानेन अन्नेन वर्धन्ते एवं भूतैर् अद्यते अत्ति च स्वयं भूतानि कारणरूपेणान्ने सर्वस्यप्रलयात् । यस्मादेवम् आद्यात्तृभावेन सर्वस्य वर्तते तस्मात् कर्मणि कर्तरि च निष्ठाविधानाद् अन्नत्वम् । यस्य अन्नब्रह्मण एवम् अन्नरसरूपो व्यापक अत्मा ब्रह्मत्वेन स्तुतस् तदभिव्यक्तिस्थानानि च शरीराणि शिरःप्रभृतिमन्ति दर्शितानि । तस्योपास्यत्वं फलं च उक्तं परोपासनाङ्गत्वेन । उक्तं हि - विज्ञानक्रियानादशक्त्यानन्दानामविभागवस्था परप्रकृतिरिति । तेषाम् एव पृथक्परिणामा एते चानन्दमयादयः पञ्च कोशाः परवस्तुस्वरूपतिरोधानहेतवः येषां ज्ञानमुपासनाच परोपासनाङ्गम् ॥
6अथ प्राणमयमात्मानं दर्शयति - तस्माद्वा इत्यादि ॥ तस्माद् अन्नरसमयात् पूर्वोक्ताद् आत्मनो ऽन्य अत्मा प्राणमयः प्राणसमष्टिरूपः प्राणैरेवारब्धो ऽन्तरो ऽन्नमयात् सूक्ष्मः कश्चिदस्ति तमपि ब्रूम इति शेषः । तेन प्राणमयेन एष उक्तोन्नमयः पूर्णः व्याप्तः स एष च प्राणमयः पुरुषविध एव अन्नमयप्रकार एव । शिरःपक्षात्मपुच्छत्वाभिप्रायेण इदमुच्यते न तु सर्वात्मना साम्यात् । तदेवाह - तस्येति ॥ तस्य अन्नमयस्य या पुरुषविधता शिरःप्रभृतिमत्ता ताम् अनु तेनैव हेतुना अपं प्राणमयोऽपि पुरुषविध एव तस्य पुरुषविधता तदन्तर्वर्तिना अनेन अनुक्रियत इति यावत् । हेतावनोः कर्मप्रवचनीयत्वम् । तस्मात्प्राणमयोऽपि पुरुषाकार इति ॥
7तस्यापि शिरःप्रभृति दर्शयति - तस्येति ॥ अत्रापि शिरःप्रभृतित्वेन प्राणादिज्ञानमुपासनार्थम् । आकाशो ऽन्तश्शरीरवर्ती यत्र प्राणादयस्सञ्चरन्ति । पृथिवी पार्थिवशरीरमुच्यते यत्र प्राणादयः प्रतितिष्ठन्ति । गतमन्यत् ।।
8प्राणं देवा इति ॥ देवादयः प्राणम् अनुप्राणन्ति प्राणेन हेतुना प्राणन्ति । हेतौ कर्मप्रवचनीयत्वम् । पशुग्रहणं सर्वतिर्यगुपलक्षणम् । प्राणो भूतानाम् आयुषो हेतुः । तस्मात् सर्वेषामायुर् उच्यते । योगविभागादत्र समासान्तः । सर्वमेवेति । प्राणोपासनविधिर्गतः । सर्वपुरुषप्रकारमायुर् उपासिता प्राप्नोति । तस्येति । तस्य प्राणमयस्याप्य् एष एव शारीर आत्मा यः पूर्वस्य अन्नमयस्य पञ्चकोशारब्धं भोगायतनं शरीरम् । तत्र भोक्ता शारीर आत्मा; उत्तरोत्तराधारकाण्य् आदिशरीरप्रभृतिपरशरीरान्तानि पञ्चकोशशरीराणि । तत्र एक आत्मा उपासकः पुरुष एव सर्वत्र ॥
9तस्माद्वा इत्यादि ॥ मननीयो नादात्मा मनोमयः मनःपूर्वकत्वाद्वा । ज्ञानविकल्पहेतुस्मृतिमयः कोशस् तेन प्राणमयः व्याप्तः ॥
10अत्र यजुरादीनां शिरःप्रभृतित्वेन उपदेश उपासनार्थः । जातावेकवचनम् । आदेशो ब्राह्मणम् । अथर्वाङ्गिरस इति चतुर्थो वेदो गृह्यते । तैर् दृष्टत्वात् ताच्छब्धं वेदस्य । गतमन्यत् ॥
11यतो वाच इति ॥ वाक्छब्देन वागिन्द्रियमुच्यते । बहुवचनादाद्यर्थो गम्यते । वागादीनीन्द्रियाणि मनसा सह यतो मनोमयान् निवर्तन्ते अनन्तत्वात् तस्य अप्राप्त्या कार्त्स्न्येन मनोमयम् अगृहीत्वा अर्वागेव श्रान्तानि भवन्ति । यद्वा - तस्य वाचां विभागावस्थानरूपत्वाद् वाचः वाचकभेदास् ततो निवर्तन्ते तत्र न सन्तीति । तादृशं मनोमयात्मकं ब्रह्मण आनन्दम् आनन्दहेतुं विभूतिं विद्वान् जानन् न कदाचन विभेति कस्यां चिदप्यवस्थायाम् अस्य भयहेतुर्नास्ति । तस्येत्यादि । गतम् ॥
12तस्मादित्यादि ॥ विविधं ज्ञायते अनेनेति विज्ञानाधारमयो विज्ञानमयः । तेन मनोमयो व्याप्तः । समानमन्यत् ॥
13अव्यभिचारेणावस्थितिः श्रद्धा । मानसं तथ्यम् ऋतम् । वाचिक तथ्यं सत्त्यम् । विज्ञानार्थसंयोगः महः महान् साङ्ख्योक्तम् । गतमन्यत् ।।
14विज्ञानमित्यादि ॥ यज्ञः ज्योतिष्टोमादिकर्माण्य् अष्टकाकरणादीनि च विज्ञानमेव कुरुते । देवा इन्द्रियाणि च सर्वाणि विज्ञानम् एव उपासते तद्भावे भावात् तदेवोपधावन्ति । कीदृशं? ब्रह्म परिबृढं ज्येष्ठं प्रशस्ततमम् इन्द्रियाणामपि मनःप्रभृतीनां तदपेक्षत्वात् । तादृशं विज्ञानं ब्रह्म यदि वेद विदित्वा उपास्ते यदि च तस्माद् विज्ञानान् न प्रमाद्यति न हीनो भवति ततः शरीरे शरीरहेतून् शरीरारम्भकान् पाप्मनः पाप्मानि जात्यन्तरकृतानि हित्वा सर्वान् कामान् समश्नुते सह प्राप्नोति सम्यग्वा कार्त्स्न्येन विमुक्त्यै । तस्यैष इत्यादि । गतम् ॥
15तस्माद्वा इत्यादि । सर्वानन्दाभिव्यक्त्याधार आनन्दमयः कोशविशेषः, तत्प्रकरणात् । मयट्च विकारे अन्नमयादिवत् समष्टिविकारत्वदर्शनाद् व्यष्टीनाम् ॥
16प्रियं प्रीणनं वस्तु । मोदो हर्षः । तस्यातिशयः प्रमोदः । सुखम् आनन्दः । परं ब्रह्म प्रतिष्ठा । तस्मिन् आनन्दमयः प्रतिष्ठां लभते । गतमन्यत् ॥
17असन्नित्यादि ॥ आनन्दमयस्य परं ब्रह्म प्रतिष्ठेत्युक्तम् । तत्र इदमुच्यते - आनन्दमयादन्यत् तादृशं किञ्चित् परं ब्रह्म नास्ति इति यो वेद सो ऽसन्नेव अप्रतिष्ठितात्मत्वाद् असत्कल्पो ऽप्रसिद्ध एव भवत्य् अपवर्गं न प्राप्नोति । अथ अस्ति ब्रह्मेति विदन्तं सर्वेऽपि सन्तं परप्राप्त्या प्रशस्तं विदुर् जानन्ति । तत एव वेदनात् श्रद्दधानं सर्वे देवादयोऽपि बहु मन्यन्ते । एवं परब्रह्मप्रतिष्ठिततया आनन्दस्यैवयं स्तुतिः । ब्रह्मशब्देन आनन्दब्रह्मैवोच्यते इत्येके । तत् ‘ब्रह्मविदाप्नोति परं’ इति चोक्तो पसंहारोपपत्तिः ॥ यदुपक्रान्तं ‘यो वेद निहितं गुहायां'67 इति सैषा गुहा अन्नमयाद्यानन्दमयकोशान्ता पञ्चकोशात्मिका समर्थिता वेदितव्या, विदित्वा उपासकस्य परप्राप्तिप्रतिज्ञानात् । तस्यैष इत्यादि । गतम् ॥
18अथात इत्यादि ॥ अथातश्शब्दः पर्यन्त वाचीति केचित् । अतश्शब्दो हेत्वर्थे इत्यन्ये । प्रासङ्गिका गुणभूताः प्रश्नाः केचिदिदानीं क्रियन्ते । उतेत्यादि ॥ अनुष्टुप् । प्लुतान्तावर्धर्चौ । प्रमादकृतोऽन्यथा वाक्यविच्छेदः । उक्तं - विद्वान् परं प्राप्नोतीति । अत्रेदं पृच्छ्यते - उतशब्दो ऽप्यर्थे । किम् अविद्वानपि प्रेत्य अमुं लोकम् अपवर्गाख्यं कश्चन गच्छति? आहोस्विद् विद्वानेव कश्चिद् उपासनाकुशलो ऽमुं लोकं समश्नुते सम्यक्प्राप्नोति ? इति । ‘विचार्यमाणानां’ इति प्लुत उदात्तः । समश्नुता उ इति ‘एचोऽप्रगृह्यस्य’ इति पूर्वार्धस्याकार उतरार्धस्य इकारः । वर्णव्यत्ययेन तस्य उकारः । अवधारणाय शब्दान्तरमुकार इत्येके - विद्वानेवेति । तदानीं प्लुतविकारो लुप्यते । छान्दसो वा लङ्यडभावः । अस्मिन् प्रश्ने विद्वानेव परं प्राप्नोति इत्युत्तरमुक्तमेव ॥
19अथ ‘सोऽकामयत’ इत्युत्तरवचनाद् उन्नेयाः प्रश्नाः । अत्रायं प्रश्नः - ब्रह्मैकं तत्त्वमित्युक्तम् । तत् कथं द्वैताश्रयमुपासनादिकमिति ? तत्राह - सोऽकामयत इति ॥ सः विपश्चिद् ईश्वरो ऽकामयत सङ्कल्पं कृतवान् बहु स्यां विज्ञानमयादिरूपेण बहुधा वर्तेय प्रजायेय च देवमनुष्यादिभिश्च बहुप्रजावान् भवेयम् इति । तेन द्वैतोपपत्तिरिति ॥
20अथ अयमपरः प्रश्नः - विश्वं सृजतोऽस्य का सामग्री इति । तत्राह - स तपो तप्यतेति ॥ सङ्कल्प एवेश्वरस्य तप इति तस्य पुनस्तपस्त्वेन अभिधानं सर्वार्थसिद्धिस् तपोमूला इति दर्शयितुम् । एवं तदेव स्वेच्छयैव सर्वमभवद् यावत् किञ्चिच् चेतनम् अचेतनं च इदं परिदृश्यमानमिति ॥
21अत्रायमपरः प्रश्नः -
यद्य् एवं देवस् तैस् तैर् भावैः परिणतो विक्रियेत
कथमयं स्वे महिम्न्य् अक्षरे तिष्ठतीति ।
तत्रोत्तरं - तत्सृष्ट्वेति ॥
सर्वविकारेष्व् अविकृत एव अनुप्रविश्य विचित्रात्मा एवं तिष्ठतीति ।
ताम् एव विचित्रात्मकतां प्रपञ्चयति - तदनुप्रविश्येति ।
अयं व्यापी देवस् सर्वशरीरेष्व् अविकृत एवानुप्रविश्य तिष्ठन्
विधरण-प्रेरण-विनियोगकारी सदादिभावेन भावयंश्च तिष्ठतीति ।
तत्र द्वे ब्रह्मणो रूपे । एकं सत् सत्यम् । इतरत् त्यद् असत्यम् । तदुभयात्मकं सप्रपञ्चं ब्रह्म सत्यम् ।
वक्ष्यति च - ‘यदिदं किञ्च । तत् सत्यमित्याचक्षते’ इति ।
पुनश्च द्वे रूपे सप्रपञ्चस्य ब्रह्मणो दर्शयति -
निरुक्तं चाऽनिरुक्तं चेति ।
निरुक्तं निर्वक्तुं परिच्छेतुं शक्थं घटादि ।
विपरीतम् अनिरुक्तम् आकाशादि ।
निलयनं निलीयतेऽत्र द्रव्यान्तरेण तद् वृक्षादि ।
विपरीतम् अनिलयनं महदादि ।
विज्ञान विविधं ज्ञायमानं देवमनुष्यादि । विपरीतम् अविज्ञानं मायादि । सत्यं व्यक्तम् अस्तित्वनिश्चयात् । अनृतम् अव्यक्तम् असत्सामान्यात् । एवमेतत् सर्वम् अभवत् सत्यशब्दवाच्यं सप्रपञ्चं ब्रह्म । तदेवाह - यदिदं किञ्च यथोक्तं व्यक्ताव्यक्तरूपं तत् सत्यमित्याचक्षते ब्रह्मविदः । एवं सप्रपञ्चस्य सत्त्व निर्वचनं कृतम् । तद्भावेन परिणतिमगात् प्रपञ्चातीतम् ॥
22असदित्यादि ॥ तदसत्त्वनिर्वचनम् इदं ब्रह्म अग्रे सृष्टेः प्राक् असद् अलब्धसद्व्यपदेशम् आसीत् । ततस् तस्माद्वस्तुनः सद् अजायत स्यामिति सङ्कल्पमकुरुत । तस्मात् परा प्रकतिः प्रादुरभूत् । तस्मात् सदि त्युच्यते इति ॥
23इदानीं तस्य स्वकृतत्वं निरुच्यते - तत् परं वस्तु स्वयमेव स्वेच्छामात्रसहायमेव सर्वम् आत्मानं सर्वचिदचिदुपादानम् आत्मसमष्टि[ष्टिं] सप्रपञ्चं ब्रह्म अकुरुत स्वस्मात् प्रादुर्भवति । तस्मात् तत् सप्रपञ्चं ब्रह्म सुकृतं स्वकृतम् उच्यते । स्वेन कृतं स्वकृतं; छान्दसं सम्प्रसारणम् ॥
24इदानीं तस्य रसत्वं निराह - स्वयं कृतं यद् वस्तु स रस आनन्दमयः हि यस्माद् रसं तं लब्ध्वा आनन्दी भवति तस्मादयमानन्दमय इति । तं हि देशं प्राप्य नन्दति परस्य सा आनन्दप्रभा तत्रेत्युक्तम् ॥
25इदानीं तदधीनात्मलाभत्वं सर्वविकाराणामाह - को हीति ।। को हि नाम जन्तुर् अन्याद् उच्छ्रस्याज् जीवेदिति यावत् । को वा पाण्याच् चक्षुरादिवृत्तिमान् स्यात् । प्राणाश् चक्षुरादयः, तद्वृत्तयो दर्शनादयः । कः पश्येत् कः शृणुयाद् इत्यादि । यद् यद्य् एष आनन्दमय आकाशो न स्याद् आ समन्तात् काशत इत्याकाश आनन्दो ब्रह्मोच्यते । तस्मिन् असति को वा प्राण्यात् । एष ह्येवानन्दयात्य् आनन्ददेशत्वात् । लेट्याडागमः । पुत्रपत्न्यादौ तदनुषङ्गेणानन्दहेतुत्वभ्रम इत्येवकारेण दर्शयति । विद्वांस्तु तमेवानन्दं मन्यते ।।
26इदानीं भयहेतुरप्ययमेवेति दर्शयितुं प्रथममभयहेतुत्वमाह - यदा हीति ॥ यदा अयमुपासकोऽदृश्यत्वादिगुणके आनन्दबह्मण्य् एतस्मिन् एतत्प्रकरणप्रतिपाद्ये प्रतिष्ठां स्थितिं विन्दते लभते अभयमिति क्रियाविशेषणं निवृत्तसर्वभयां प्रतिष्ठाम् आनन्दब्रह्मणि प्राप्नोत्य् अथ एवं सत्येव सोऽभयं प्राप्तो भवत्य् अपवर्गप्राप्त्या न कुतश्चित् तस्य भयामित्यर्थः । उभयोपासकस्या पवर्ग इति यत् प्रतिज्ञातं ‘ब्रह्मविदाप्नोति परं’ इति तदेवं सति समर्थितम् । तत्र अदृश्यम् अतीन्द्रियत्वात् । अनात्म्यम् अविशेषरूपम् आत्मनि भवम् आत्म्यं, यथा मृदादि घटादीनामात्मा । आत्मीया घटादय आत्म्याः । अनिरुक्तं परिच्छेतुमशक्यं दुर्निरूपत्वाद् अनन्तत्वाच्च । अनिलयनम् अनाश्रयं नान्यत् किञ्चिदस्मिन् निलीयत इति । एवम् ईदृशत्वाद् अस्य वस्तुनो ऽस्मिन् लब्धप्रतिष्ठस्य कुतो भयमिति ॥
27इदानीं भयहेतुत्वं दर्शयति - यदा हीति ॥ यदा त्वयमुपासक एतस्मिन् ब्रह्मण्य् अन्तरं भेदं छिद्रम् उत्कुरुते उद्भावयत्य् अलब्धप्रतिष्ठो व्याक्षिप्तचित्तो भवत्य् अथ अनन्तरमेव तस्य भयं भवत्य् अपवर्गाभावात् शैघ्र्यं कालाल्पत्वं ब्रुवता अरंशब्देन अन्तराल्पत्वमुच्यते अरं स्वल्पमप्यन्तरमिति । कपिलाकादित्वाल्लत्वविकल्पः । केचिदाहुः - अरं छिद्रं यदा उत्कुरुते कीदृशमन्तरम् अन्तर्धानकरमानन्दस्वरूपस्येति । तत्त्वेवेति । विदुषो विवेकिनो मन्वानस्य मीमांसमानस्य तदेव ब्रह्म भयं भयहेतुर् नान्यः कश्चिच् चोरव्याघ्रादिः । विद्वान् मन्वान एवं पश्यतीति यावत् । तत्तु विदुषो मन्वानस्य भयहेतुर्ब्रह्मेत्युपदिश्यते । विद्वान् भयहेतुस्सर्वस्याभयहेतुश्चेति पश्यति । अविद्वांस्तु चोरव्याघ्रादिभयहेतुं वीर्यवित्ताद्यभयहेतुरिति मन्यते ॥
28अथ यदुक्तं ब्रह्मैव भयहेतुरिति तद्दर्शयति - तदपि इति । अस्माद् ब्रह्मणो भीषा भयेन वातः पवते सदागतिर्भवति । सूर्यः स्वकाले उदेति । अग्निश्चेन्द्रश्च स्वकाले कार्यं कुरुतः । मृत्युश्च पञ्चमो धावति शुद्धो मध्यस्थश्चेष्टते । यद्वा - जन्तुसकाशं काले गच्छति । पञ्चानां ग्रहणं प्राधान्यादेषां प्रदर्शनार्थं सर्वस्य । यदा ह्येतेऽप्येवं ब्रह्मप्रयुक्तास् तथा भयेन स्वकार्यं कुर्वन्ति तदा का कथा सर्वेषामिति श्रुत्यभिप्रायः ।।
29उक्त आनन्दो ब्रह्म ॥ इदानीं कीदृशस्स आनन्द आनन्दी वा कीदृश इत्यपेक्षायां प्रथममानन्दस्वरूपविचारणार्थम् आनन्दमीमांसामवतारयति - सैषेति ॥ मीमांस्यते जिज्ञास्यते सोपपत्तिकं प्रतिपाद्यते आनन्दमयो यया सा आनन्दस्य मीमांसा एषा वक्ष्यमाणा ‘युवा स्यात्’ इत्यादिप्रबन्धात्मिका सेयमिदानीं प्रस्तूयत इत्यर्थः । युवा स्यादित्यत्र स्यादिति सम्भावनायां लिङ् । युवत्वादिगुणको यदि कश्चित् सम्भवेत् तस्य सम्बन्धी य आनन्दः स एको विशिष्टः निरुपमानो वा मानुष आनन्दस् ततोऽधिको मनुष्याधिकारिणामानन्दो नास्ति । एवं मनुष्यप्रत्यायनार्थत्वात् शास्त्रस्य मनुष्यानन्दमेव प्रथमं दर्शयति - युवा तरुण आनन्दहेतुर्वयो दर्शितम् । साधु सम्यक् शुद्धसम्प्रदायः योऽध्येतव्यानि साङ्गेतिहासशास्त्रादीनि युवैवाधीते स साधुयुवाध्यायिकः। विद्यानन्दोऽयम् । आशिष्ठ आशुतमः विधेयशरीरः । शरीरानन्दोऽयम् । इष्टनि ‘टेः’ इति टिलोपः । केचिदाहुः - आशिष्ठ आशितृतमः भोगानन्दवान् । आशितृशब्दादिष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः । दृढिष्ठः दृढतम आरोग्यानन्दवान् । बलिष्ठः बलवत्तमः महाबलः बलानन्दवान् । अथ तस्य तादृशस्य यथोक्तवयःप्रभृतिहेतुकानन्दशालिनः पुंस इयं पृथिवी सर्वाऽपि स्वभूता यदि स्यात् कीदृशी वित्तस्य पूर्णा गोभूमिहिरण्यगजाश्वादिभिर्धनैः सर्वतस्समृद्धा महापृथिवी स्वभूता स्यात् पृथिवीश्वर इति यावत् । ‘पूरणगुण’ इति समासप्रतिषेधेन षष्ठी ज्ञापिता । स एक इति । व्याख्यातम् ॥
30ते य इति ॥ तादृशमानुषानन्दशतसम्मितः मनुष्यगन्धर्वाणाम् एकः प्रशस्तः निरुपमो वा आनन्दः निरुत्ववाचकश्शब्दः [निरुपमत्ववाच्य् एकशब्द:] गन्धर्वा गायका मनुष्यधर्माणो गन्धर्वा मनुष्यगन्धर्वाः । मनुष्या वा गन्धर्वत्वं प्राप्ताः । देवसधर्माणो देवगन्धर्वा गन्धर्वजातीया वा विश्वावसुप्रभृतयः । श्रोत्रियो ऽधीतस्वशाखः कामनया यः कर्माणि करोति स कामहतस् तद्विपरीतो ऽकामहतः काम्यैः कर्मभिः श्रोत्रियो हन्यते इति कामहतः । काम्येष्वप्रवृत्तिर्न्याय्येति गम्यते । नित्यानित्यकामनयैव कर्तव्यानि न त्याज्यानि । काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । इति । तस्य अकामहतस्य ब्रह्मणा तुल्य आनन्दः । तस्य पुनः पुनरर्वाचीनानन्दसमुच्चयस्तु तद्भूमिकारूढस्य योगिनस् तत्तदानन्दाविर्भावख्यापनार्थः । ब्रह्मानन्दे वा आनन्दानामन्तर्भावः ।
31चिरकालं लोक्यते भोगाय तिष्ठति यो लोकः स चिरलोकः । लोक्यत इति लोकः । तादृशो लोको येषां पितृणां ते चिरलोकलोकाः । आवृत्यावृत्य जायन्ते अधिकरणेष्वित्य् आजाना मन्वन्तराणि ब्रह्मदिनम् । चतुर्दशसु तेषु जाता आजानजा देवानां परिचारका माध्यमिकादयः । ये कर्मसामर्थ्येन अदेवा एव सन्तो देवानपियन्त्य् अनुप्रविशन्ति देवत्वं प्राप्ताः । देवा देवजातीया वस्वादयः । इन्द्रो देवानां राजा । बृहस्पतिर् इन्द्रपुरोहितः । प्रजापतिः स्रष्टा हिरण्यगर्भः स्वयम्भ्वादिर् यस्य एकस्मिन्नहनि चतुर्दश मन्वन्तराणि ॥
32विश्वाधिकं वस्तु चस्यानन्दो व्योमानन्दः । व्योमाभिधानम् आनन्दब्रह्म । स च आनन्द एकस् तुल्यश्च ब्रह्मणो मुक्तानां च । तदाह - स यश्चायमिति । पुरुष उपासको मुक्तावस्थ उच्यते । आदिभूतं परं वस्त्व् आदित्यशब्देनोच्यते । छान्दसस्त्यप् । तयोर् एकस् तुल्य आनन्दः प्रभुत्वस्रष्टृत्वादि साम्यात् । केचिदाहुः - ‘अन्नात् पुरुषः’ इति प्रक्रान्तोऽन्नपरिणामः पुरुषो गृह्यते । तस्मिंश्च परे परिणामे आदिसूते ब्रह्मणि स एवानन्दः यत् ‘आनन्दो ब्रह्म’ इति गीयते । आनन्दविशेषास्त्वौपाधिका एव तच्छकलभूता इति ।।
33स य इति ॥ एनं ब्रह्मानन्दं यथोक्तस्वभावं यो वेद स एवं वेदिता उपासको ऽस्माद् लोकात् संसारित्वस्वभावात् प्रेत्य गत्वा एतं स्वभावं हित्वा एतान् पूर्वोक्तानन्नमयादीन् पञ्च ब्रह्मकोशान् क्रमेण उपसङ्क्रामतीति । एकत्वेनोपासिता क्रमेण तत्तद्भावं प्राप्नोति ततो वशीकृतपञ्चकोशो ब्रह्मानन्दे तिष्ठति ॥
34इदानीं तामवस्थां दर्शयितुमाह - तदपीति ॥ यतो वाच इत्यादिका व्याख्याता । ‘कुतश्चन’ इति विशेषः । अयं ब्रमानन्दं प्राप्तो योगीभूतः कुतश्चिदप्य् अपायहेतोर् न बिभेति यस्य आनन्दमपि विद्वान् किं पुनस्तद्विद्वानिति भावः । एवं ‘ब्रह्मविदाप्नोति परं’ इति प्रक्रान्तं समर्थितम् ॥
35एतं हेति ॥ एतं विद्वांसमुपासकं न तपति न दुःखयति न खेदयति चिन्ता । किमहमिति । किं कर्तव्यं साधु कर्म अथ अहं नाकरवं न कृतवानस्मि किं वा अकर्तव्यं पापं कर्म अकरवं कृतवानस्मि इतीयं चिन्ता एवंविधं न तपति विधिनिषेधावेव तं न स्पृशत इति वेदनप्रशंसार्थम् । त्रैगुण्यातीतस्य मुक्तात्मनस् तयोरसम्भव एव ॥
36स य इत्यादि ॥ य उपासक एवम् एतस्मिन् ब्रह्मणि यथोक्तप्रभावे आनन्दादिलक्षणे वेद स एव विद्वान् आत्मानं स्पृणुते प्रीणयत्य् अनेकजात्यन्तरार्जितानन्तानुपभुक्तसमस्तकर्मयुगपत्प्रक्षयकारणब्रह्मैकतानताविशदं स मुन्मिषदभयता समासादितस्वाराज्यमिवानन्त मात्मानं करोति । स्पृ प्रीतौ सौवादिकः । इदानीं ब्रह्माद्वयेनात्मन ऐक्यं प्रतिपादितुमाह - उभे हीति । किमुच्यते ‘आत्मानं स्पृणुते’ इति । नन्व् एवं विद्वान् एष उपासक उभे एते ब्रह्मण्य् एव स्पृणुते आत्मानम् आत्माभिन्ने आत्मैक्येन स्थिते स्पृणुते न केवलमात्मानमेव । एवं विदुष उपासकस्य पूर्वं स्तुतिः कृता । इयं तु वेदितृमात्रस्य स्तुतिः । य एवम्प्रभावे उभे ब्रह्मणी वेदितव्ये वेद अपि नोपास्ते एषोऽपि ह्य् उभे एते ब्रह्मण्य् आत्मानं स्पृणुते एव ब्रह्मद्वयात्मकं वा आत्मानं स्पृणुत एव किं पुनरुपासकः । इति इयमतिक्रान्ता ब्रह्मविद्या या उपनिषत् परवस्तुनस्समीपे निषीदति न बहिस्तिष्ठति न चातत्त्वस्वरूपं स्पृशतीति । समाप्तौ वा इतिशब्दः - एतावत्यध्वन्य् उपनिषदुपरमतीति । वेद्यानन्दमहिमोपवर्णनामतीत्याप्य् अस्य परमस्यानन्दिनो वस्तुनः स्वरूपं न मया विज्ञातमित्येतावत्येवोपरम्यत इति वेदात्मनोऽभिप्रायः ।।
इत्यारण्यके उपनिषत्सु पञ्चमे चतुर्दशोऽनुवाकः ॥
१५
1अथ शरीरासन मुपासनान्तरं विधातुमारभते - भृगुर्वा इत्यादि । भृगुर्नाम ऋषिर्वरुणनाम्न ऋषेरपत्यं स निजं पितरं वरुणं ब्रह्मजिज्ञासुर् उपससार उपधावति स्म । हे भगवः! भगवन् ! ब्रह्म अधीह्य् अधिगमय मां ब्रह्म । अन्तर्भावितण्यर्थ एतिः । ‘बहुलमन्यत्रापि सञ्ज्ञाछन्दसोः’ इति णिलुक् । भगवतस्सम्बुद्धौ ‘मतुवसोः’ इति रुत्वम् । तस्मै भृगवे उपसृताय च ब्रह्म विजिज्ञासमानाय एतद् अन्नादिषट्कं ब्रह्मत्वेन प्रोवाच पिता । विनश्वरत्वान्नेदं ब्रह्म नेदं ब्रह्मेति विप्रतिपन्नाय पुत्रायान्नमयादिषट्कमनुक्रमेण कतिपयब्रह्मगुणवत्तया प्रोवाच । यद्वा - ब्रह्मप्राप्तिहेतुत्वात् तेषां ब्रह्मत्वोपचारः, ब्रह्म जिज्ञासमानाय पुत्राय तत्प्राप्तिहेतूंस्तावद् उपदिदेश । अन्नं शुद्धं प्राणादीनि इन्द्रियाणि च संयतानि ब्रह्म ; शुद्धान्नैस्संयतेन्द्रियैश्च तद् ब्रह्म प्राप्यमिति ब्रह्मप्राप्तिसाधनकथनमिति ॥
2अथ अतिव्याप्त्या तेनातृप्तं पुत्रं ज्ञात्वा समीचीनमव्याप्त्यतिव्याप्तिरहितं लक्षणं दर्शयितुमाह - तं हेति ॥ उपसर्गार्थो लक्षणोपदेशः न तु ज्ञानार्थः । गुरूपदेशेनैव ब्रह्मणो ज्ञातत्वात् । तम् उक्तेऽर्थे विप्रतिपन्नबुद्धिं पुत्रं पिता उवाच इमानि भूतान्य् उत्पत्तिकाले यतो जायन्ते प्रादुर्भवन्त्य् अथ जातानि येन हेतुना जीवन्ति ध्रियन्ते अथ इमानि भूतानि प्रयन्त्य् उपसंहारकाले प्रायणं तिरोधानं प्रतिपद्यमानानि । कृदुत्तरपदप्रकृतिस्वराभावश्छान्दसः । विनाशकाले प्रयतानि भूतानि यदभिसंविशन्त्य् अनुप्रविशन्ति यत्र प्रलीयन्ते तादृग्लक्षणं वस्तु विजिज्ञासस्व विज्ञातुमिच्छ यतस्व । अथ यदीदृग्लक्षणमवगच्छसि तद् ब्रह्म इति विद्धीति निश्चित्य पित्रोक्तः सः श्रुत· ब्रह्मलक्षणो भृगुस् तपोमूलत्वात्सर्वसिद्धीनाम् इन्द्रियसंयमस्य च ब्रह्मप्राप्तिहेतुत्वेनोक्तत्वाद् विज्ञातुकामः प्रथमं तपोऽतप्यत यमनियमादिपरोऽभवत् । अथ यथोक्तक्रियात्रयान्वयात्मकब्रह्मलक्षणसद्भावाद् अन्नं ब्रह्म इति विज्ञातवान् । अन्नादीत्यादिना तदेव समर्थयते ।अन्नपरिणामशुक्लहेतुत्वाज् जायन्ते अन्नमयादात्मनो जायन्ते अन्नरसेन ध्रियन्ते प्रायणकाले अन्नमेव अभिसंविशन्ति पृथिव्याद्युपादानत्वादन्नस्य तत्पूर्वावस्था पृथिव्यन्नमुच्यते । तत्र सर्वा मूर्तयः प्रलीयन्त इति ॥
3अथ अन्नं ब्रह्मेति विज्ञाय तथा ध्यायन् अन्नमयप्रहाणेन प्राणमयोपसङ्क्रमणश्रुतेर्नैतावदेव ब्रह्म नश्यति चान्नमिति विज्ञाय पुनरेव ब्रह्म जिज्ञासुर् वरुणं पितरमुपमसार गतवान् अधीहि भगवो ब्रह्मेति । अथ तादृशं तपोनिष्ठं पुत्रं ज्ञात्वा पिता उवाच तपसैव ब्रह्म विजिज्ञासस्व अहमपि तपसैव ब्रह्म विज्ञातवान् त्वं च तपोनिष्ठोऽसि तप एव ब्रह्मज्ञान कारणमिति ।।
4स तपोऽतप्यत इत्यादि ॥ गतम् ॥
5प्राणाद्धि इत्यादि ॥ प्राणमयाद्भूतान्युत्पद्यन्ते तदधीनत्वादन्नमयस्य तेनैव ध्रियन्ते । तमेव संहारकाले अभिविशन्ति पृथिव्यप्तेजसा वायौ संहारात् ॥
6तद्विज्ञायेत्यादि ॥ गतम् ॥
7मनसो हीत्यादि ॥ मनोमयाद्भूतानि जायन्ते प्राणमयस्यापि तद्धेतुत्वात् तेनैव ध्रियन्ते तमेव संहारकाले अभिसंविशन्ति तत्रैव लीयन्ते च वायोरपि मनसि प्रलयात् ॥
8-10स्पष्टमन्यत् ॥
11आनन्दाद्ध्येवेति ॥ ‘स एको ब्रह्मण आनन्दः’ इत्युक्तो यो ब्रह्मण आनन्दस् तस्माद् भूतानि जायन्ते तस्य विश्वोपादानत्वाद् विज्ञानमयस्यापि तत उत्पत्तेः । तेन जीवन्ति स्थितिहेतुत्वात् । अथ तत्रैव विलीयन्ते विज्ञानमयान्तस्य कृत्स्नस्य तत्रैव लयात् ॥
12 सैषेति ॥ आनन्दब्रह्मणि यथोक्तलक्षण दर्शनाद् इदमेव भृगुणाऽध्यवसितम् । तस्य चानन्दिना अभेदेन विनाशाभावाद् आनन्दिष्विव न बाधा समजनि । तस्मात् सैषा अनुक्रान्ता भार्गवी भगुणा गृहीता वरुणेन प्रोक्ता ब्रह्मविद्या परमे व्योमन् परस्मिन् व्योम्नि विविधरक्षणे आकाशरूपत्वाद् विविधतर्पणे वा आनन्दरूपत्वात् तत्रैव प्रतिष्ठिता स्थितिं लभते न ततः परम् आनन्दिनं धर्मिणं मृगयते स्म आनन्दविभूतिवर्णनमात्रतृप्ता तत्रैव पर्यवसिता बभूवेत्यर्थः । य एवम् आनन्दविभूतिं वेदापि स च प्रतिष्ठां लभते नोपासितैव । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति परं ब्रह्म प्रतिष्ठा तत्रैव स्थितिं लभते आनन्दब्रह्मणोऽपि प्रतिष्ठाभूतं परं प्राप्नोति । आनन्दं ब्रह्मणो विदित्वोपासीतेति इयं प्रथमोपासना । यदुक्तं ‘ब्रह्मविदाप्नोति परम्’ इति विभूतेर्विदित्वोपासनमेव परस्योपासनमिति तद्विभूतिपर्यवसितैषा विद्या । इदानीं तस्यानुषङ्गिकाणि फलान्यैहिकान्यपि सन्तीत्याह - अन्नवानित्यादि । यद्यन्नादि कामयते तदा अन्नवान् बह्वन्नो भवति । अन्नादः यावदभिलषितमन्नमत्तुं समर्थः भवति । प्रजादिचतुष्टयेन महान् समृद्धो भवति सोऽश्नुते सर्वान्कामान्'98 इत्य् अवरुद्धैवोपासकस्य कामानामवाप्तिः ॥
18इदानीमुक्तस्य आनन्दस्य साक्षात्परम्परया वा अन्नाधीनत्वात्तदेव स्तोतुमारभते - अन्नं न निन्द्यादिति ॥ वाचा मनसा वा कुत्सा निन्दा तामन्नस्य न कुर्यान् निन्द्यमानस्यान्नं नास्तीत्यर्थः । निन्दितमपि न निन्देदित्येके । निन्दितुर् आत्मैव निन्दितस्स्यात् । तथावर्तनमानस्य तद् अन्नं व्रतं व्रतनीयं तन्मात्रमेव व्रतनीयम् । तथा वृत्तिरेवास्य व्रतं नियम इति केचित् । अपर आहुः - आनन्दभूमिकामधिरूढोप्य् उपासकोऽन्नं न निन्द्यान् न परिहरेत् । वर्जयेद् योगोपसर्गं मन्वीत यस्मात् तदस्य व्रतम् उपासना योगस्य व्रतोपायनस्थानीया तत् तस्माद् अन्नं न त्याज्यमिति प्रथमोपासना इदानीं तस्य स्थितत्वात् । अथ अन्नमयं शरीराख्यं तस्य तत्र तदधीनत्वात् तस्मात् प्राणः । प्राण एव शरीरं प्रतिष्ठितं तदधीनस्थितिकत्वात् । शरीरे तद्विधारकत्वेन प्रतिष्ठितः प्राणमयः । तस्मादेवं महानुभावं कथमन्नं परिहरेदिति । या एवं प्राणशरीरयोरन्योन्यस्मिन् प्रतिष्ठा सैषा अन्ने अन्नस्य प्रतिष्ठेत्युपासितव्या ॥
14स इत्यादि ॥ एवम् अन्योन्यस्मिन् प्रतिष्ठितं प्राणशरीरात्मकम् अन्नद्वयं यो वेदापि विदित्वोपास्ते स प्रतितिष्ठति परमां प्रतिष्ठां प्राप्नोति - आनुषङ्गिकान्नवत्त्वाद् ऐहिकफलवान् भवति । एवं महाभाग्यवर्णनया आनन्दस्यैव स्तुतिः क्रियते आऽन्तादनुवाकस्य ।।
15अन्नं न परिचक्षीतेति ॥ इदं भोजनीयम् अभोजनीयमिति विमतिपुरस्सरं न प्रतिषेद्धव्यम् । अन्नं परिचक्षाणेन शरीरमेव परिख्यातं स्यात् । तद्व्रतमिति स एवार्थः ॥
16अथ तृतीयोपासनं विधीयते - आपो वा इत्यादि। आपो ऽन्नं तन्निष्पत्तिहेतुत्वाद् अद्यमानत्वाच्च सर्वैः । ज्योतिर् आदित्यो ऽन्नादः रश्मिभिर्ग्रसन् अप्सु प्रतिष्ठितं ज्योतिर् वैद्युतोऽग्निस् तदुत्पत्तौ व्यापृतत्वात् । ज्योतिष्य् आत्मन्य् आपः प्रतिष्ठिता गर्भत्वेन रश्मिषु स्थितत्वात् । एवम् अग्नीषोमात्मकं विश्वमन्नमयात्मकमिति विदित्वा उपासीत इति । गतमन्यत् ॥
17तृतीयामुपासनां कुर्वन् अन्नं बहु कुर्वीत भूयिष्ठमुपपादयेद् बहु मन्वीत वा सर्वमन्नं तथा कुर्वन् आत्मैवात्मना भूमानं गमितो भवति । तद्व्रतमिति समानम् ॥
18अथ चतुर्थीमुपासनां विदधाति - पृथिवी वा अन्नमित्यादि । पृथिव्य् अन्नं सर्वान्नोपादानत्वात् । आकाशोऽन्नादः निजोदरनिहितत्वात् पृथिव्यवकाशानाम् । आकाशे पृथिवी प्रतिष्ठिता तदुदरवर्तित्वात् । तदित्यादि । एवं द्यावापृथिव्यात्मकान्नद्वयव्याप्तसमस्तावकाशं विदित्वोपासीतेति । समानमन्यत् ।।
19एतां चतुर्थीमुपासनां कुर्वन् न कश्चिदपि वसतौ अविद्वांसमपि वसतौ वसतिनिमत्तमागतम् अवकाशार्थिनं न प्रत्याचक्षीत । प्रत्याचक्षाणोऽप्यात्मानमेव प्रत्याचक्षीत । सर्वावकाशव्यापकान्नद्वयात्मकमात्मानं भावयेत् । कथमात्मानमेव प्रत्याचक्षीत । तद्व्रतमिति तुल्यम् ॥
20तस्मादित्यादि ॥ यस्माद् अन्ननामिकां भूमिकामारूढेन कश्चिदपि वासार्थी न प्रत्याख्येयः वसता च अश्नता च वस्तव्यम् इतरथा दोषप्रसङ्गात् श्रुतेर् यथा ‘किं प्रथमां रात्रिमाश्नाः’ इत्यादि । तस्माद् यया कया च विधया प्रकारेण प्रतिविद्धेनापि कर्मणा बह्वन्नं प्राप्नुयात् सम्भृत्य निदधीत उपासनासामर्थ्यान्न दोषो भवति । तदेवाह - अराधीति । संसिद्धम् उपासनाबलेन सम्पन्नम् अस्मै एतदर्थतया सर्वमन्नं तस्मात् शूद्राद्यन्नमप्य् एतदीयमेवेति ब्रह्मवादिन आचक्षते । किञ्च - एतत्खलु उपासनाबलराद्धमन्नं मुखतो मध्यतोऽन्ततश्च राद्धं बालत्वं युवत्वं स्थविरत्वं शरीरावस्थात्रयसंसिद्धं नान्नान्तरवदेकैकावस्थोपलक्षणम् । यद्वा - त्रिष्वपि कालेषु राद्धं न तु कादाचित्कम् । एवं वेदित्रेऽपि मुखतो मध्यतोऽन्ततश्च अन्नं राद्धं भवति नोपासितुरेव ॥
21पुनरप्यानन्दोपासनाविशेषं दर्शयति - क्षेम इत्यादि ॥ वाचि शब्दे च आनन्दः क्षेम इत्युपासीत । क्षेमः सुखम् । स्वयं क्षेमवान् भवति । यद्वा - प्राणादिष्वन्नभावनामिव वाचि क्षेमभावनां भावयन् भवति योगिनो वागायत्तत्वात् सुखानाम् । यत्रयत्र येनयेन रूपेणानन्दं ब्रह्मोपास्ते । तत्रतत्र तद्रूपस्सम्पद्यत इति भावः । एवमुत्तरेष्वपि द्रष्टव्यम् । अलब्धाभिमतलाभो योगस् तद्धेतुः प्राण उद्यमरूपत्वात् । लब्धस्य पालन क्षेमस् तद्धेतुरपान उपसंहाररूपत्वात् । योगसहितः समः योगक्षेमः । कर्मनिमित्तं हस्तौ, गतिनिमित्तं पादौ, विरेचनस्थानं पायुर् इत्य् एता मानुषीर् मानुष्यः मनुष्यशरीरावयवपराः समाज्ञाः । तृप्तिहेतुर् वृष्टिर् बलवन्मेघसङ्घट्टनजन्मा विद्युत् । यशोहेतवः पशवः । ज्योतिष्मन्ति नक्षत्राणि । प्रजातिः प्रजा अमृतम् आत्मनोऽमृतत्वं प्रजात्वेनावस्थानं यथा ‘तदु ते मर्त्यामृतं’ इति । आनन्दः सुखम् । एतत्त्रयहेतुर् उपस्थः । सर्वतत्त्वमूर्तीनां प्रलयान् महत्त्वाच्च । तत्र सर्वत्रात्मत्वेन ब्रह्मत्वेनोपासिता स्वयमपि सर्व एव ॥
22पुनश्च काम्यानुपासनाभेदानाह - तदित्यादि ॥ प्रतिष्ठारूपेण तद् आनन्दं ब्रह्म उपासीत प्रतिष्ठादिमान् भवति ब्रह्मात्मकत्वात् । तस्य प्रतिष्ठा क्षेत्रपश्वादिपौष्कल्यम् । महः पूजा महत्त्वं वा । मनः मननं बहुमानो वा । नमः प्रह्वीभावः । कामा अस्मै स्वयमेव सन्नम्यन्ते । ब्रह्म बृंहणं प्रपञ्चोन्मेषः बृंहणवान् भवति । शब्दब्रह्मणो वा ग्रहणम् । परितः सर्वतः म्रियन्ते सर्वेऽप्यस्मिन् इति वा परिमरः महार्थसंहारः परं ब्रह्मण आकारः । यद्वा - प्रपञ्चब्रह्मणः परितो नाशः परिमरः । तद्भावेनानन्दब्रह्मण उपासितारम् एणम् एनं छान्दसं णत्वम् एनं परि लक्षीकल्प सत्पार्श्वमागत्य म्रियन्ते द्विषन्तः सपत्ना द्वेष्टारः शत्रवः ये चान्ये अप्रिया भ्रातृव्या देष्यभूताः शत्रवस् ते च परिम्रियन्ते ।।
23स यश्चायम् इति ॥ व्याख्यातम् ! एवम् इत्थं विद्वान् उपासको ऽस्माल्लोकात् प्रेत्य अन्नमयादीन् कोशान् उपसङ्क्रम्य तदात्मतया वशीकारं लब्ध्वा इमान् तदुपादानान् लोकान् अनुसञ्चरन् यत्रयत्र इच्छति तत्रतत्रानुक्रमेण सञ्चरन् कामान्नी यथाऽभिलषितादनशक्तिः कामरूपी यथाभिलषितरूपपरिग्रहसमर्थस्सन् एतद् वक्ष्यमाणं साम गायन् आस्ते ॥
24हावु हावु हाव्व् इत्यादि ॥ ईदृशीं विभूतिं प्राप्तवान् अहमस्मि विभूतिमदभेदेना त्मानमुपलक्ष्य सामगाने स्तुवन् परमानन्दशरीरो गायन्नास्ते । एषा मुक्तस्य विभूतिवर्णना प्ररोचनार्था; न तु साम गायन्नासीतेति विधिः, स्वभावानुवादो वा; आत्मतृप्तिकामस्यापि मुक्तात्मनः क्रीडात्वेनोपपत्तेः । यद्वा - अपवर्गसुखे सर्वसुखान्तर्भावादेवमुक्तम् । अपवर्गसुखस्याशक्यवर्णनत्वान् मनुष्याधिकारसुखान्वयेन विभूतिवर्णना । तत्रादौ स्तोभाक्षराणि षडिति केचित् । अन्य अहुः - हो इति विस्मयार्थस्य निपातस्य विस्मयातिशयात् त्रिरुक्तिर् गानविकारः प्लुतत्रयं चित्रीकरणे च । तत्र प्रगृह्यस्यापि छान्दसं ‘एचोऽप्रगृह्यस्य’ इति प्लुतविकारः वकारोपजनश्च । एवमनेन ज्योतिस् तस्य [द्योतितस्य?] विस्मयातिशयभावनया तु क्वचित् प्लुतिः कृता । यथा - ‘ऋतास्य’ ‘अदन्तमाद्मि’ इति । अथ अतिशयवृद्धया क्वचिन्नैरन्तर्येण द्वे प्लुते कृते - ‘नाभा’ इति, ‘एवमावाः’ इति । एवं नव प्लुतानि । अन्ये गानविकाराद् दीर्घाभासाः । अहमन्नमित्यादि । अन्नहेतुत्वाद् अन्नस्य तादात्म्येन आत्मा स्तूयते - सर्वमिदानीमहमस्मीति तस्य अत्ता च अहमस्मीति भोग्यभोक्तरूपं सर्वमहमस्मीति । श्लोका वर्णसङ्घाताः । इह तूपचारेण सर्व घटादयो गृह्यन्ते तेषां कर्ताऽहमस्मीति । यद्वा - सर्वस्य ग्रन्थसङ्घातस्य वेदशास्त्रादेरपि स्वेच्छयैव कर्ताऽस्मीति । ऋतस्य प्राप्तस्य जगत्प्रपञ्चस्य वा प्रथमजाः प्रथमं जातोऽहमस्मीति सर्वविकारेभ्यः प्रागेव प्रादुर्भूतोऽस्मि । किं वहुना देवेभ्योऽपि पूर्वं प्रादुर्भतोऽस्म्य् अमृतस्य नाभिर् नहनं प्राप्तिहेतुरस्मि । यो माम् एवम्भूतं ददाति स इत् स एवम् आवा आवृणोत्य् अन्यैरनावृतोऽहं दात्रैव वशीकतोस्मि -
‘तस्याहं नित्यमात्मस्थः स च नित्यं मयि स्थितः।
इति दर्शनात् । किञ्च - अहमन्नमद्म्य् अन्नमदन्तं च अद्मि मयि सर्वे निलीयन्ते भोग्यवर्गा भोक्तृवर्गाश्च । अत एव अहं विश्वं भुवनम् अभ्यभवां विभुत्वेन अभिभवामि । छान्दसो लुङ् । सुवश्शब्दवाच्यमादित्याख्यं ज्योतिर्न ज्योतिरिव विश्वमभिभवामि निजशक्तिमरीचिभिर्विश्वमभिभवामि व्याप्य तिष्ठामि । एवं ब्रुवन् ब्रह्मणैकत्वान् मुक्तात्मनां तत्तुल्यतां दर्शयति तत्तुल्यप्रभावत्वादेव । एवम् एतत् साम गायन्नास्ते इत्युक्तम् । अथ य एवं वेदापि स सामगायन्नास्ते इति वेदितृमात्रस्य तत्तुल्यफलत्वमाह - य एवं वेदेति । इत्युपनिषत् ।।
इति भट्टभास्करविरचिते ज्ञानयज्ञाख्ये उपनिषद्भाष्ये पञ्चदशोनुवाकः ॥
तैत्तिरीयारण्यके पञ्चमप्रपाठकस्समाप्तः ॥