02 प्रश्नः-2

०१

०२

०३

यद्देवा इति ॥ अच्छिद्रे सर्वा व्याख्याताः । विशेषप्रदर्शनार्थं किञ्चिदुच्यते । सर्वा अनुष्टुभः । विशेषो वक्ष्यते - हे देवाः ! आदित्या इत्युपरितनेन सम्बद्ध्यते । देवहेळनं देवानां क्रोधहेतुं कर्मभ्रेषम् । हेड क्रोधे, अत्र वर्णान्यत्वं प्रसिद्धम् -
वर्णान्यत्वं स्वरान्यत्वं पञ्चप्रश्नेषु दृश्यते ॥
आरण्यादौ द्वयोश्चान्ते त्रिष्वथैवं विधीयते ॥ इति ।
देवासः देवनशीलाः, यद्वा दीव्यन्तः व्यवहरन्तः लौकिकवैदिककर्मानुष्ठायिनः वयं पुत्रादिभिस्सह । देवास इत्यत्र व्यत्ययेनाद्युदात्तत्वम् । यच्चकृम कृतवन्तस् तस्मात्तावतः पापान् मुञ्चत । अपि च - ऋतस्य यज्ञस्याप्य् ऋतेन यज्ञेन सत्येन वा मामित प्राप्नुत येनाहं पुनः भ्रेषवान् न स्याम् । तथा ऋतयुक्तं यज्ञयुक्तं मां कुरुत । आत्मनः प्राधान्यान्मामित्युक्तम् ॥
2देवा इति ॥ हे देवाः ! जीवनकाम्या जीवनकाम्यया तृतीयाया आकारः । यद्वा - जीवनकाम्या वयम् । काम्यजन्तात् पचाद्यच् । प्राणधारणार्थं यदनृतं वाचा ऊदिम तस्माद् अधर्मान् नो ऽस्मान् इह अस्मिन् कर्मणि मुञ्चत एतत्कर्मसमृद्ध्यर्थं तत्पापमस्मत्तोऽपनयत । हे विश्वेदेवाः! यूयं सजोषसो ऽस्माभिः परस्परतो वा समानप्रीतयो भूत्वा वैमनस्यं विहाय तस्मान्नो मुञ्चत । ‘परादिश्छन्दसि’ इत्युत्तरपदातोदात्तत्वम् ॥
3ऋतेनेति ॥ हे द्यावाप्रथिवी! हे सरस्वति! ता यूयम् ऋतेन इत्थम्भूता नो ऽस्मान् कृताद् एनसः कायिकात् पापात् पाहि पात । विभक्तिव्यत्ययः । यत्किञ्च अन्यदप्य् अनृतमूदिम वाचकं पापं कृतवन्तः प्रमादात् प्रयोजनपारतन्त्र्याद्वा तस्माच्च नः पात ॥
4इन्द्राग्नी इति ॥ इन्द्राग्न्यादयश्च ते नो ऽस्मान् एनसो मुञ्चन्तु । कस्मादित्याह - यदन्यकृतम् अन्यैश्शत्रुभिः प्रयुक्तं कृत्यादिकं पापम् आम प्राप्तवन्तः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - त इति विभक्तिवचनव्यत्ययः, तस्मादित्यर्थः ॥
5सजातशंसादिति त्रिष्टुप् ॥ सजाताः समानजन्मानस् तैरसत्कृतैर् यत्पापं शंसनीयं, उत वा जामिभिर् भगिन्यादिभिर् अलब्धाभिमताभिर् यच्छंसनीयमनिष्टं, तथा ज्यायसः प्रशस्ततरस्य अनभ्युत्थानादिना सञ्जातक्रोधस्य यत्पापं शंसनीयं शापादिरूपं, तथा कनीयसः बालतरस्य मनोरथालाभेन यत्पापं शंसनीयं, यच्चान्यदप्य् अनाधृष्टम् अनावर्षणीयं प्रबलमेनः प्राप्तं देवकृतं देवैः कृतम् अपराधादिजन्मना क्रोधेन कृतमनर्थजननरूपम् “तृतीया कर्मणि” इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - यद् देवेष्वस्माभिः कृतं निन्दारूपं पापम् । “तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान” इत्यादिना सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । तस्मात् सर्वस्मादप्य् अस्मान् हे जातवेदः! जातानां वेदितः! मुमुग्धि मुञ्च । शपः श्लुर् अन्तर्भावितण्यर्थः ॥
6यद्वाचेति ॥ सप्तपदेयं शक्वरी । वागादिभिर्यदनृतरूपमयुक्तरूपं पापं वयञ्चकृम कृतवन्तः, वाचा असत्याभिधानं, गुर्वादिषु च त्वङ्कारादि, मनसाऽपराधोऽनिष्टचिन्तनं, बाहुभ्यां ब्राह्मणताडनादि, ऊरुभ्यामगम्यालिङ्गनादि, अष्टीवद्भ्यां जानुभ्याम् अगन्तव्यदेशगमनादि, शिश्नः शिश्नेन अयोनौ रेतस्सेकादि । बहुवचनाच्चक्षुरादीन्द्रियाणां ग्रहणम् । चक्षुषा उद्यदर्कदर्शनादि, श्रोत्रेण गुरुदेवादिनिन्दाश्रवणादि, आस्येन अभक्ष्यभक्षणमित्यादि, तस्मात् सर्वस्मादस्माद् एनसो ऽग्निर् गार्हपसः प्रमुञ्चतु । “गृहपतिना संयुक्ते ञ्यः” । यानि चान्यानि दुष्कृता दुप्कृतानि पापानि विहिताकरणादिरूपाणि चकृम तानि प्रमुञ्चतु । ‘शेश्छन्दसि’ इति शेर्लोपः ॥
7येनेति ॥ त्रिष्टुबेषा ‘आनशानः’ इति चतुरक्षराभिक्रान्ता ‘तेनाहं ज्योतिषा ज्योतिराक्षि’ इत्य् अक्षरतः पादस्य समाप्तिः । त्रितस् तृतीयाभिपातजन्मा अग्निविशेषः, यथा - ‘स तृतीयमभ्यपातयत् । ततस्त्रितोऽनायत’ इति । उपलक्षणञ्चैतदेकतादीनाम् । प्राधान्यात्त्रितस्य ग्रहणम् । येन ज्योतिषा तेजसा, द्योतनकारिणा वा धर्मेण, अर्णवाद् गहनात् पापसमूहान् निर्बभूव निर्मुक्तो बभूव - ‘आप्या अमृजत सूर्याभ्युदिते ।‘8 इत्यत्रेदमुक्तम् - येन यज् ज्योतिः - विभक्तिव्यत्ययः - सूर्यं तमसो ऽन्धकारन् निर्मुमोच निर्मुक्तं करोति । यद्वा - सूर्यं सूर्यः । विभक्तिव्यत्ययः । येन ज्योतिषा सूर्यो लोकं तमसो निर्मुमोच निर्मुञ्चति । यद्वा - येन ज्योतिषा तमसो निर्मुक्तं सूर्यं चकार ईश्वरः । येन च इन्द्रोऽपि विश्वा अजहाद् अरातीर् अदानशीलान् शत्रून् अजहाद् अनाशयत् तेन ज्योतिषा धर्मेण आनशानः व्याप्यमानो ऽहं ज्योतिर् अग्निं परं ज्योतिर्वा आक्ष्य् अश्नुवीय । अश्नोतेश्छान्दसे लुङि ‘स्वरति’ इत्यादिना विकल्पादिडभावः, षत्वकत्वे । आनशान इति ततश्छान्दसः कर्मणि लिट्, तस्य । कानच्, ‘अत आदेः’ इत्यभ्यासस्य दीर्घत्वं, ‘अश्नोतेश्च’ इति नुट् ॥
8यत्कुसीदमिति ॥ त्रिष्टुप् , मयेहेति प्रथमपादान्तः । यत्कुसीदम् ऋणं मया अप्रतीत्तम् उत्तमर्णेभ्यो न प्रत्यर्पितम् इह लोके जन्मनि वा कार्यवशेन गृहीतं प्रमादालस्यादिना पुनर्न दत्तम् । ददातेर्निष्ठायां ‘अच उपसर्गात्तः’ इति तत्वं, ‘दस्ति’ इत्युपसर्गस्य दीर्घत्वम् । येन ऋणेन यमस्य निधिना निधानस्थानीयेन अवश्यदेयेन अहम् ऋणी चरामि हे अग्ने ! एतत् तत् तस्माद् एतस्मान् मुक्तोऽहम् अनृणो भवामि भूयासम् । यद्वा - एतेन होमेन हेतुना तेन ऋणेन अनृणो भूयासम् । किमदत्वैवर्णमनृणत्वं प्रार्थयस इति चेत्तत्राह - जीवन्नेव अहं ते तव प्रसादेन तद् ऋणं प्रतिददामि । यदप्रतीत्तं तत्प्रतिपादनसमर्थं मां कुर्विति भावः ॥
9यन्मयीत्यादिपञ्चानां मन्त्राणां प्रतीकग्रहणम् ॥ तत्र यन्मयीति षट्पदा जगती । मयि गर्भे सति माता यद् एनश्चकार यच्च पिता चकार तस्मादेनसोऽयं गार्हपत्योऽग्निर् मां प्रमुञ्चतु तेन पापेन मदर्थेनाप्यहम् अस्पृष्टो भूयासम् । यानि चान्यानि दुरितानि दुष्कृतानि चकृम तेनैनसा मामनेनसं करोतु, तस्य यदेनस्तदपाकरोतु ॥
10यदापिपेषेति पुरस्ताज्ज्योतिस्त्रिष्टुप् ॥ यद् अहं मातरं पितरं च आपिपेष उत्सङ्गारोहणादिना सर्वतः पीडितवानस्मि केन हेतुना पुत्रः पुत्रत्वेन निर्विशङ्कः । तत्र विशेषमाह - प्रमुदितस् ताभ्यामुपलालितत्वात् प्रकर्षण हृष्टः । हेत्वन्तरमाह - धयन् मातुः स्तन्यपानार्थम् । हेतौ शतृप्रत्ययः । तत् तेन कर्मणा मया पितरौ मातापितरौ अहिंसितौ अपीडितौ, तस्य पेषणस्य तयोः प्रियतरत्वात् । हे अग्ने ! तत् तत्र अहम् अनृणो भूयासम् । असत्यपि तस्य पेषणस्य पापत्वे तत्क्षान्तेः प्रत्युपकाराकरणेन ऋणवानहं मा भूवं त्वत्प्रसादेनेति भावः10 ॥
11यदन्तरिक्षमिति षट्पदा शक्वरी ॥ यद्वा - संस्तारपङ्क्तिः । द्विपदा वा गायत्री । अन्तरिक्षादिस्थान् विहगान् मनुष्यान् देवांश्च मातरं पितरं वा यज् जिहिंसिम हिंसितवन्तः । मातापित्रोः पृथगुपादानं प्राधान्यख्यापनार्थम्, त्रैलोक्यहिंसाया अपि पापीयसी तद्धिंसेति दर्शयितुम् । अग्निर्मातस्मादित्यादि । गतम्10 ॥
12यदाशसेति ॥ पूर्ववच्छन्दः । आशसा प्रबलया हिंसया निशसा निकृष्टया अल्पया हिंसया पराशसा बुद्धिपूर्वया यदेनश्चकृम नूतनम् इह जन्मनि भवं यच्च पुराणं प्राचीनेषु जन्मसु भवम् । अग्निर्मा तस्मादित्यादि । गतम्10 ॥
13अतिक्रामामि इति त्रिष्टुप् ॥ दुरितं दुःखस्य हेतुभूतं यदेनस् तद् अतिक्रामामि त्वत्प्रसादेन तदतिक्रमितुं शक्तो भूयासम् । अकरणमेवातिक्रमणं, यथा मृत्युमतिक्रामतीत्यमरणं गम्यते । अथ यदितः पूर्वं कृतं रिप्रं पापं तदपि परमे सधस्थे जहामि यत्र पुण्यापुण्यात्मकानि सर्वाणि कर्माण्यविभागापन्नानि सह तिष्ठन्ति तस्मिन् परमे उत्कृष्टे सधस्थे सहस्थाने आत्माख्ये प्रापय्य मदीयं कर्म नाशयामि महोदधाविव जलबिन्दुमिति । यथाऽऽहुः - सर्वकर्मणां परमगुरावर्पणमिति । किञ्च - यत्र सुकृत एव यन्ति गच्छन्ति न दुष्कृतोऽपि तं सुकृतां नु लोकं स्थानं शीघ्रमारोहामि यत् सुकतिभिरेव लोक्यते तच्च तदेव परमं स्थानं, यत् क्षीणकर्मभिरारुह्यते10 ॥
14त्रित इति ॥ प्रथमा त्रिपदा त्रिष्टुप् , द्वितीया अनुष्टुप् , अष्टिर्वा षट्पदा । त्रितो व्याख्यातः । तस्मिन् देवा एतदेनो ऽमृजत शोधितवन्तः, ‘अहं वस्तं जनयिष्यामि । यस्मिन् म्रक्ष्यध्वे’ इति त्रिते देवैः पापमार्जनस्य कृतत्वात् । त्रितस्त्व् एतत्पापं मनुष्येषु सूर्याभ्युदितादिषु मामृजे शोधितवान् , यथा - ‘आप्या अमृजत सूर्याभ्युदिते'12 इत्यादि । मृजेर्व्यत्ययेन आत्मनेपदं, ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । एतत्सर्वम् अग्नेर्महिम्ना सम्पन्नम् । ततो देवादिभिर् मृज्यमानात्पापाद् यत्किञ्चिदेकदेशभूतं मामानशे व्याप्नोति । यद्वा - तत एव भक्तरक्षणपरत्वाद्यत्किञ्चिदपि पापं मां प्राप्नोति तस्मादेनसोऽग्निर्मां प्रमुञ्चत्वित्यादि । गतम्10 ॥
15- 16दिवि जाता यदाप इति ॥ निगदव्याख्यानम्10 ॥
17इमं म इति ॥ हे वरुण! इमं हवम् आह्वानं श्रुधि शृणु । श्रुत्वा चाद्यैव मृडय सुखय । त्वामवस्युः पालनकाम आचके आगायामि स्तुवे ॥
18तत्त्वेति ॥ हे वरुण! उरुशंस! बहुधा शंसनीय ! स्तुत्य ! नो ऽस्माकम् आयुर् मा प्रमोषीर् अहेडमानो ऽक्रुद्ध्यंश्च भूत्वा इह कर्मणि मया उच्यमानं बोधि बुद्धयस्व । तत् त्वा यामि तदनन्तरमेवोक्तमर्थजातं त्वां याचामि ब्रह्मणा मन्त्रेण वन्दमानः स्तुवन् हविभिर् यजमानः सर्वोऽपि तदेव आशास्ते प्रार्थयते । एवमियमृक् अर्थानुगुण्याद् व्युत्क्रमेण योजिता13 ॥
19त्वं न इति ॥ हे अग्ने ! विद्वान् सर्वस्य वेदिता त्वं नो ऽस्माकम् उपरि देवस्य वरुणस्य यत् हेडः कोपस् तद् अवयासिसीष्ठा अवाचीनं यथा भवति तथा यासिसीष्ठा यक्षीष्ठा इति । यजिष्ठो ऽतिशयेन यष्टा वह्नितमो ऽतिशयेन वोढा हविषां शोशुचानः देदीप्यमानः विश्वा विश्वान्य् अस्मद्विषयाणि शत्रूणां द्वेषांसि वधबन्धनादीनि प्रमुमुग्धि प्रमुञ्च अस्मत्तः ॥
20स त्वमिति ॥ हे अग्ने! य एवमुक्तगुणः स त्वम् अवमः मूलभूतो देवानां - ‘अग्निरवमो देवतानां विष्णुः परमः’ इति ब्राह्मणं - नो ऽस्माकम् ऊत्य् ऊत्यां पालने नेदिष्ठो ऽन्तिकतमो भव । कदा? अस्या उषसो व्युष्टौ अस्यामुषसि व्युष्टायां, उपलक्षणञ्चैतत् , सर्वदेत्यर्थः । अवयक्ष्व अवाचीनो यथा भवति तथा यक्ष्व - कं? वरुणम् अस्मासु पाशं मुमुक्षुं नो ऽस्मभ्यं रराण इष्टानि ददद् वीहि खाद मृडीकं सुखयितारं पुरोडाशादिकमस्माभिर्दत्तम् । सुहवः शोभनाह्वान एधि भव14 ॥
21त्वमग्न इति ॥ हे अग्ने! त्वम् अयासि छान्दसं सवर्णदीर्घत्वम् - भक्तानामेतव्यः, भक्तान्वा प्रत्य् एतव्यो ऽयासन् अयास्सन् । छान्दसस्सकारलोपः । एवम्भूतस्त्वमस्माभिर्मनसा हितः प्रणिहितः, असीत्यनुषङ्गः, प्रणिहितोऽसि, त्वां प्रणिदध्मह इत्यर्थः । अयास्सन् हव्यमस्माभिर्दत्तम् ऊहिषे देवेभ्यो हव्यं वहस्व अयास् त्वं नो ऽस्मभ्यं भेषजं धेहि देहि ॥
इत्यारण्यके द्वितीये तृतीयोनुवाकः ॥

०४

1यददीव्यन्निति ॥ सर्वास्त्रिष्टुभः । अदीव्यन् व्यवहर्तुमशक्नुवन्, यथा पुत्रादीनां रक्षणं कर्तुमसमर्थो ऽहं यद् ऋणं बभूव प्राप्तवानस्मि । भू प्राप्तौ । यद्वा - ऋणम् ऋणवान् अहं बभूव । मत्वर्थीयो लुप्यते । यद्वा - ऋणं जनेभ्यः दातृभ्यो ऽदित्सन् दातुमनिच्छन्नेवाहं सञ्जगर दास्यामीति संशब्दितवानस्मि । व्यत्ययेन ‘समः प्रतिज्ञाने ’ इत्यात्मनेपदाभावः । यद्वा - जनेभ्य आदाय सम्भक्षितवानस्मि तस्माद् ऋणाद् अग्निश्वेन्द्रश्च संविदानौ सङ्गतं जानन्तौ अविरुद्धमती भूत्वा मां प्रमुञ्चतां ताभ्यामेवाहमनृणः कार्य इति ॥
2यद्धस्ताभ्यामिति ॥ यद् यानि किल्बिषाणि पापान्य् ऋणादानादिरूपाणि हस्ताभ्यां चकर कृतवानस्मि । बुद्धिपूर्वकत्वाद्धस्ताभ्यामित्युक्तम् । अक्षाणाम् इन्द्रियाणां चक्षुरादीनां वग्नुं गतिं शक्तिरूपां गतिम् उपजिघ्नमान उपजिघ्नन् । ‘हो हन्तेः’ इति कुत्वं, द्विविकरणता श्लुश्च शप् च, शबेव वा, छान्दसं द्विर्वचनं, ‘बहुलं छन्द्रसि’ इत्यभ्यासस्येत्वम् । उग्रम्पश्या च राष्ट्रभृञ्च अप्सरसौ तान्य् ऋणान्य् अनुदत्ताम् आनुकूल्येन दत्तां यथोत्तमर्णास्तृप्येयुस् तथा दत्ताम् ॥
3उग्रम्पश्ये इति ॥ हे उग्रम्पश्ये ! हे राष्ट्रभत् ! । प्रथमस्यामन्त्रितस्य अविद्यमानत्वाद् द्वितीयं न निहन्यते । यानि किल्बिषाणि पापान्य् ऋणादानादिरूपाणि यच्चाक्षवृत्तम् अक्षे द्यूते वृत्तं पणादिरूपं प्रतिश्रुतम् अप्रतीत्तम् । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । एतत् सर्वम् अनुदत्तम् आनुकूल्येन दत्तं प्रयच्छतम् उत्तमर्णेभ्यः । इदं च प्रार्थये वाम् । नो ऽस्मान् ऋणान् ऋणवतः । मत्वर्थीयाकारान्तः । यमस्य लोके अधि नेन् नैव ऋणव ऋणवत् पुरुषव्यत्ययः, ऋणुयात् । कः? समानः समानजातीयो जनउत्तमर्णः यो यमस्य लोके अधि–‘अधिरीश्वरे’ इत्यधिशब्दस्य कर्मप्रवचनीयत्वम् - ऐश्वर्येण समानः सर्वसाधारणो वा यमस्य लोके अस्मान्नैवाकर्षेद् रज्जुराय प्रहाररज्जुभूयिष्ठाय नरकविशेषाय तं प्रापयितुं नैवाकर्षेत् । केचिदाहुः - रज्जुरायेति वर्णलोप: - रज्जुराय रज्जुर्भूत्वा अस्मानादाय बद्ध्वा यमस्य लोकं नैव प्रापयेत् । तस्मादेतदृणमनुदत्तमिति । ऋण गतौ तानादिकः, लेटि ‘लेटोऽडाटौ’ इत्यडागमः । द्वितीय इच्छब्दः पादपूरणार्थः, आदरार्थो वा । अधिरज्जुरिति बहुव्रीहिर्वा; तेन पूर्वपदप्रकृतिस्वरत्वम् । समानेति चात्रामन्त्र्यते । उ इति पादपूरणार्थः । हे समान! अस्मान् ऋणवतो ऽधिरज्जुर् अधिगतरज्जुस्त्वमादाय यमस्य लोके नैवाकर्षेः । ऋणव इति सिप् मध्यमपुरुष एव । यस्मादाभ्यामप्सरोभ्यामस्मदीयमृणं तुभ्यं दीयते सर्वं तस्मादेतेन तृप्तो भवेति । अस्मिन् पक्षे समानेत्यस्य सर्वानुदात्तत्वमुपपन्नं भवति ॥
4अव त इत्यादिषण्णां प्रतीकग्रहणम् ॥ अव त इति द्वे व्याख्याते ‘वैश्वानरो नः’ इत्यत्र । हे वरुण ! तव हेडः क्रोधं नमस्कारैर् यज्ञैर् हविर्भिश्च अवेमहे अवनयामो ऽसुर! प्राणप्रद ! हे प्रचेतः ! प्रकृष्टचेतन ! हे राजन् ! अस्मभ्यं क्षय निवसन् अस्माभिः कृतान्य् एनांसि शिश्रथः श्रथय ॥
5उदुत्तममिति ॥ उत्तमं पाशम् अस्मत्त उच्छ्रथाय श्रथय । अधमं पाशम् अवश्रथाय अवश्रथय मध्यमं तु पाशं विश्रथाय विश्रथय । अथानन्तरं हे आदित्य ! तव व्रते कर्मणि वर्तमाना वयमनागसस्स्याम अदितये अखण्डनार्थम् ॥
6इमं मे वरुणेति द्वे इन्द्रं व इत्यत्र व्याख्याते गायत्री त्रिष्टुभौ ॥ हे वरुण! इमं मम हवम् आह्वानं शृणु । अद्यैवास्मान् मृडय सुखय । त्वामवस्युः सुखयितुमिच्छन् आचके आभिमुख्येन स्तौमि ॥
7तत्त्वा यामीति ॥ त्वां मन्त्रेण हे वरुण ! वन्दमानस् तदेवाहं यामि भजामि । यजमानश्च तदेवाशास्ते हविर्भिः । तदेव त्वम् अहेडमानो ऽक्रुद्ध्यन् बुद्ध्यस्व । किं पुनस्तत् ? उरुशंस ! हे महद्भिः स्तुत ! शंसु स्तुतौ नो ऽस्माकम् आयुर्मा प्रमोषीः ॥
8त्वं नो अग्न इति द्वे “आयुष्टे” इत्यत्र व्याख्याते त्रिष्टुभौ ॥ हे अग्ने! त्वं देवस्य वरुणस्य विद्वान् हेडो ऽवयासिसीष्ठो ऽपनय यजिष्ठः यष्टृतमः वह्नितमो ऽतिशयेन वोढा शोशुचानो ऽतिशयेन दीप्यमानः विश्वान्यपि द्वेषांस्य् अस्मत्तः प्रमुमुग्धि ॥
9स त्वं न इति ॥ हे अग्ने ! अवमः प्रत्यासन्नस् त्वम् अस्माकम् ऊत्यै भव नेदिष्ठो ऽन्तिकतमो ऽस्या उषसः व्युष्टिकाले रममाणस् त्वम् अस्माकं वरुणं वारकं पापम् अवयक्ष्व अपनुद वीहि भक्षय मृडीकं सुखहेतुं हविः । अस्माकं च सुहवः स्वाह्वानश्च भव इति ॥
10सङ्कुसुक इत्यनुष्टुभस्तिस्त्रः ॥ सङ्कुसुकः परापवादशील इत्येके, नास्तिक इत्यन्ये । विकुसुकस् तस्यैव विस्तारयिता तस्यैव प्रोत्साहकः । निर्ऋथः कृच्छ्रस्य प्रापयिता, छल इत्येके । निस्वनः पिशुनः । ते ये वयं स्मस् तेभ्यो ऽस्मद् अस्मत्तः यक्ष्मं यक्ष्मरोगनिमित्तं पापम् अनागसः देवा दूराद्दूरम् अतिदूरम् अचीचतम् अचीचतन् - वर्णव्यत्ययः - विनाशयन्त्वित्यर्थः । गत्यर्थो वा - अस्मत्तो दूरतरं देशं प्रापयन्त्विति । चयतिर्याचनादौ छान्दसो लुङ् । आगस्विनो मनुष्या आगश्शब्देनोच्यन्ते - मत्वर्थीयो लुप्यते - ततोऽन्ये अनागसः । अव्ययपूर्वपदप्रकृतिस्वरत्वं, बहुव्रीहौ तु ‘नञ् सुभ्याम्’ इति । यथा ‘अनागसस्त्वा वयं’ इति ॥
11निर्यक्ष्ममिति ॥ यक्ष्मं निरचीचते निष्कृप्य चीचये निश्चयेन वा - चयतेलुङ्, चङ् उत्तमः, इट् , अचीचते, आद्गुणः - चातयामि नाशयामि - वचनव्यत्ययः - निश्चातयामो ऽनेन कर्मणा । छान्दसो लुङ्, उत्तमैकवचनम् । कृत्यां परोत्पादितां निर्ऋतिम् अलक्ष्मीं च निश्चातयामः । तेन हेतुना अस्मद् अस्मासु यः समृच्छातै समृच्छेत विनाशमाचरेद् अस्माकं - ‘समोगमृच्छि’ इत्यात्मनेपदं, ‘वैतोऽन्यत्र’ इत्यैकारः, ‘लेटोऽडाटो’ इत्याडागमः - अस्मै अनिष्टमाचरते जनाय तं यक्ष्मं कृच्छ्रे प्रसुवामसि प्रसुवामो ऽनुजानीमो ऽमुमेव प्रापयामः, तां च कृत्यां तां च निर्ऋतिं प्रसुवामसीति । षु प्रसवैश्वर्ययोः, लेट्याडागमः ‘इदन्तोमसि’ । यद्धा - षू प्रेरणे । तमस्मै प्रेरयामः ॥
12दुश्शंसानुशंसाभ्याम् इति ॥ दुश्शंसो ऽस्मद्दुष्कृतशंस्य् अनुशंसो ऽस्यैवान्येभ्यो विस्पष्टयिता घणः हननशीलो ऽनुघणस् तस्यैवानुविधायी सहायस् तेन दुश्शंसादिसमूहेन - वचनव्यत्ययो वा - तैर्दुश्शंसादिभिस्सह यो ऽन्योऽप्य् अस्मद् अस्मासु समुच्छातै अस्मै तं यक्ष्मादिकं प्रसुवामसीति गतम् ॥
18संवर्चसा इति ॥ त्रिष्टुप् । ‘धाता रातिः’ इत्यत्रेयं व्याख्यातप्राया । एवमनेन कर्मणा निर्धूतपापा वयं वर्चसा बलेन पयसा क्षीरादिना तनूभिः शोभनैश्शरीरैर् मनसा अस्खलितेन शिवेन कल्याणेन च समगन्महि सङ्गता अभूम भूयास्म । छान्दसो वा लुङ् । सङ्गता भूपास्म । अत्र कर्मणि त्वष्टा नो ऽस्माकं रायः धनानि विदधातु उत्पादयतु यच्च अस्माकं शरीरेषु विलिष्टं स्वल्पं पापं तदप्य् अनुमार्ष्टु शोधयत्विति ॥
इत्यारण्यके द्वितीये चतुर्थोऽनुवाकः ॥

०५

1आयुष्ट इत्यनुष्टुप्त्रिष्टुभौ व्याख्याते ‘त्वमग्ने रुद्रः’ इत्यत्र । अयमग्निर् वरेण्यः वरणीयस् तव आयुर् विश्वतो दधद् दधातु पुनरपि प्राण आयातीति विशेषः । या प्रापणे । तव यक्ष्मं परासुवामि नाशयामि ॥
2आयुर्दा इति ॥ हे अग्ने! अस्य हविषः जुषाणः घृतप्रतीकः घृतप्रारम्भः घृतयोनिर् घृतहेतुर् ईदृशस्त्वम् आयुर्दा अस्माकम् एधि भव । घृतं मधुरं चारु गव्यं पीत्वा इममभिरक्षतात् पिता पुत्रमिव ॥
3इममग्न इति ॥ त्रिष्टुप् । । हे अग्ने ! इमम् आयुषे वर्चसे कृधि कुरु तिग्ममोज इति विशेषः, तीक्ष्णं बलं पुनरपि संशिशाधि निशितं कुरु हे वरुण! । हे अदिते! अस्मै मातेव शर्म यच्छ देहि । हे विश्वेदेवाः! अयं यथा जरदष्टिर् जरत्य् अष्टिः शरीरं यस्य सः दीर्घायुः स्तुत्याऽष्टिर्वा यथा असत् स्यात् तथा कुरुत ॥
4अग्न आयूंषि इति गायत्र्यौ23 ॥ हे अग्ने ! अस्माकम् आयूंषि पवसे प्रेरय शोधय वा । किञ्च - अस्मभ्यम् इषमूर्जं च आसुव । अनुजानीहि प्रेरय वा अस्माकं दुच्छुनाम् अलक्ष्मीं च आरे दूरं बाधस्व ॥
5अग्ने पवस्वेति ॥ हे अग्ने! त्वं स्वपाः शोभनकर्मा अस्मदर्थं सुवीरं वर्चः पवस्व । दघद्रयिं मयि पोषमिति पदयोः स्थानविनिमयो विशेषः ॥
6अग्न्य् ऋषिरिति गायत्री ॥ अयम् अग्निर् ऋषिर् ऋषिर्दर्शनात् पवमानः शोधनशीलः पाञ्चजन्यः निषादपञ्चमा ब्राह्मणादयः पञ्चजनाः, देवमनुष्यासुररक्षोगन्धर्वा इत्येके, तेभ्यो हितस् तेषु वा भवः पाञ्चजन्यः - ‘पञ्चजनादुपसङ्ख्यानम् ’ इति ञ्यः - पुरोहितः सर्वकर्मसु पुरस्तान्निहितः । तम् एवङ्गुणमग्निं महागयं महाग्रहम् ईमहे भजामहे याचामहे वा । ई गत्यादिषु ॥
7अग्ने जातानिति ॥ त्रिष्टुभौ । द्वे गते । हे अग्ने! जातान् नः सपत्नान् प्रणुद नाशय, अजातांश्च सपत्नान् प्रतिनुदस्व उत्पत्तौ निवारय हे जातवेदः! अस्मान् सुमना भूत्वा अहेलन् अक्रुद्धयन् दीदिहि दीपय । दीदितिर् दीप्तिकर्मा । शर्मन् ते स्यामेति विशेषः । तव शर्मणि गृहे त्रिवरूथे गार्हपत्याद्यायतनत्रयवत्य् उद्गौ उद्गतभासि समन्ताद्विजृम्भमाणतेजसि सदा स्याम ॥
8सहसा जातानिति ॥ सहसा बलेन । गतमन्यत् । सुमनस्यमानः शोभनमनस्कोभवन् नो ऽस्मान् अधिब्रूहि पक्षपातेन वद । यद्वा - ऐश्वर्येण स्वभूतानस्मानाज्ञापय वयं स्याम सम्पन्ना भूयास्म ॥
9अग्ने यो न इत्यनुष्टुभौ ॥ हे अग्ने! यो नः वृकः जनो ऽभितः वारः वारयिता एवम्भूतोऽस्मान् जिघांसति हन्तुमिच्छति हे वृत्रहन् तान् तादृशान् सर्वान् जहि नाशय अस्मभ्यं तु भूरि वस्व् आभर आहर ॥
10अग्ने यो नोऽभिदासतीति ॥ हे अग्ने! यो नोऽभिदासति यो अस्मान् उपक्षेपयति समानो ऽस्मत्समानजन्मा यो वा निष्ट्यो ऽस्मत्सङ्घातान्निर्गतः । ‘अव्ययात्यप्’ इति निसस्त्यप् । तं वयमितिविशेषः । तं जनं समिधं समिन्धनस्थानीयं तव कृत्वा हे अग्ने! तुभ्यमेव अपिदध्मसि तवैवास्ये प्रक्षिपामः । ‘इदन्तोमसि’ ॥
11यो नश्शपादिति ॥ यः नो ऽस्मान् अशपतः शपात् शपेद् यश्च शपतो ऽस्मान् शपेत् । उषाश्च निम्रुक्च अहश्च रात्रिश्च तस्मै सर्वं पापं समूहतां तस्मिन्नेव सङ्घीभूतं स्थापयताम् ॥
12यो नस्सपत्न इति ॥ हे देवाः! यो ऽस्माकं सपत्नः शत्रुर् यश्च रणः प्रथनकारी रण एव वा अस्मान् अभिदासत्य् उपक्षेपयति मर्तः मर्त्यः मनुष्यस् तस्य प्रक्षायतस् त्वत्कोपात्प्रक्षीयमाणस्य । क्षैजैसै क्षये, शतरि रूपं, कर्मणि कर्तृप्रत्ययः। किञ्चन किञ्चिदपि मोच्छेषि सर्वात्मना विनष्टोऽस्त्व् इध्मस्येव27 ॥
13यो मामिति ॥ हे जातवेदः! यो मां द्वेष्टि तं सन्दह । किं द्वेष्टारमेव नेत्याह - यं चाहं द्वेष्मि यश्च मां द्वेष्टि तावुभावपि द्वेष्ट्रृद्वेष्यौ सन्दह । किमेकमेव द्वेष्टारं द्वेष्यं च ? नेत्याह - सर्वानपि तान् सन्दह यांश्चाहं देष्मि ये च मां द्विषन्ति27 ॥
14यो अस्मभ्यामिति ॥ अस्मभ्यम् असतीयाद् अरातित्वमिच्छेद् यश्च अस्मान् द्वेषते द्वेष्टि यो वा अस्मान् निन्दान् निन्देद् यो वा अस्मान् दिप्साद् दिप्सेद् वञ्चयितुमिच्छेत् । दम्भु दम्भने, ‘दम्भ इच्च’ इति इत्वं; भष्भावाभावश्छान्दसः । हे अग्ने! सर्वानपि तान् मष्मषाकुर्विति विशेषः - अनुकरणशब्दोऽयं - ईदृशं शब्दं कुर्वाणस् तान् सन्दह ॥
15संशितमिति ॥ संशितं तीक्ष्णं मे मम ब्रह्म ब्रह्मवर्चसमस्तु वीर्यं बलं चास्तु । ‘वीर्या आम्’ इति स्वरितकम्पः । संशितं क्षत्रं मे इति विशेषः मत्सम्बन्धि क्षत्रं संशितं जिष्णु चास्तु यस्याहं पुरोहितः सर्वकर्मणां पुरस्तान्निहितो ऽस्मि ॥
16उदेषामिति ॥ एषाम् आत्मीयानां बाहू उदतिरम् अनेन कर्मणा उत्कर्षेण वर्धयामि । छान्दसो लुङ् । उद्वर्चो अथो इति विशेषः । वर्चो दीप्तिर् अथो अपि च बलं च वर्धयाम्य् अमित्रान् शत्रून् क्षिणोमि नाशयामि स्वान् आत्मीयान् जनान् पुत्रपौत्रादीन् उन्नयामि ब्रह्मणा अनेन परिबृढेन कर्मणा । — ‘स्वाँ’ इति सानुनासिको दीर्घः ‘दीर्घादटि समानपदे’ इति रुत्वं, ‘भोमगो’ इति यत्वं, ‘लोपश्शाकल्यस्य’ इति तस्य लोपः ॥
17पुनर्मन इति ॥ शक्करी पञ्चपदा । पुनर्मे मम मन आगाद् आगच्छत्व् आयुश्च पुनरागच्छतु मम चक्षुरादि, प्राणाश्च आधीतम् अध्ययनादि च मे मम पुनरागच्छतु, क्षतिहेतुषु पापेषु क्षाळितेष्व् इदानीम् अक्षतान्येव मनआयुरादीन्य् आगच्छन्विति । तदेवाह - वैश्वानरो ऽग्निर् मम अदब्धः केनचिदप्यनुपहिंसितस् तनूनां शरीराणां पाता तद्विरोधीन्यपि सर्वाणि दुरितानि पापान्य् अवबाधताम् । ततस्तेन बाधितेषु मनआदीन्यागच्छन्तु ॥
इत्यारण्यके द्वितीये पञ्चमोनुवाकः॥

०६

1वैश्वानरायेति त्रिष्टुभौ ॥ वैश्वानराय अग्नये प्रतिवेदयामः । कर्मणस्सम्प्रदानत्वम् । किम्पुनस्तदित्याह - यदीनृणं यदेव ऋणम् । ईमित्यवधारणे, तस्य नकारान्तादेशश्छान्दसः । देवतामु देवताविषये अस्माकं वर्तते, ‘यज्ञेन देवेभ्यः’ इति । उपलक्षितत्वात् त्रिप्रकारमृणं गृह्यते ‘त्रिभिर्ऋणवा जायते'30 इति, एतान् पाशानिति बहुवचनं चोपपद्यते । यद्वा - प्रजाब्रह्मचर्ययोरपि परम्परया देवर्णत्वं, तद्रहितस्य यज्ञानुत्पत्त्या देवर्णादमुक्तेः । सङ्गरः प्रतिज्ञारूपः, ‘त्रिभिर्ऋणवा जायते'30 इति श्रुत्या प्रतिज्ञातत्वात् । सङ्गीर्यत इति सङ्गरः, कर्मणि ‘ऋदोरप्’, थाथादिना उत्तरपदान्तोदान्तत्वम् । यद्वा - गिरतेः करणे अप् , येन पुरुषो भक्ष्यते नाश्यते अनपकर्ता । यद् देवर्णम् एवं प्रबलं सङ्गरत्वाद् देवताविषयत्वाच्च, तद्वैश्वानरायैव प्रतिवेदयामः । यद्वा - यदिति हेतुर् यस्मादेव हेतोर् देवताविषयमृणं सङ्गरत्वेन प्रबलं, तस्मादेतस्मादेव प्रतिवेदयामः । कः पुनरस्य विशेष इति चेत्तत्राह - स एव खल्व् एतान् ब्रह्मचर्यादीन् बन्धकत्वेन पाशस्थानीयान् प्रमुचन् प्रमोक्तुं प्रवेद प्रकर्षेण जानाति । तुमर्थे छान्दसः कमुल्प्रत्ययः मकारस्य च नकारः । तस्मात् सः नो ऽस्मान् दुरिताद् दुरितनिमित्तादृणान् मुञ्चातु मुञ्चतु, तन्निमित्ताच्च अवद्यान् मुश्चातु मोचयतु । अव्ययपूर्वपदप्रकृतिस्वरत्वम्, ‘ययतोश्चातदर्थे’ । इत्युत्तरपदान्तोदात्तत्वमित्येके, उभयमित्यपरे । यद्वा - दुरितादिति द्वितीया, आदादेशः, पाशान्मुञ्चतु दुरितानि च अवद्याद् अवखण्डयतु मोचयतु । अवद्यादित्यत्र ‘ओतश्श्यनि’ इत्योकारलोपः, द्यतेर्लेट्याडागमः, वर्णव्यत्ययो वा ॥
2वैश्वानर इति ॥ वैश्वानरो ऽस्मान् पवित्रैः पावनैर् मन्त्रहोमादिभिः पवयात् पुनातु । छान्दसात् पवयतेर्लेट्याडागमः । कथं पुनावित्याह - यद् येन पवनेन सङ्गरं पूर्वोक्तां प्रतिज्ञाम् ऋणनिर्मोचनात्मिकाम् अभिधावाम्य् आभिमुख्येन प्राप्नोम्य् आशां बुद्धौ विपरिवर्तमानाम् । तात्स्थ्यात् ताच्छब्द्यम् । तच्च कथमित्याह - यद् येनैनसा अहम् अनाजानन् ऋणनिर्मोचनोपायं सर्वप्रकारमजानन् तथाऽपि तं मनसा याचमानो ऽनृणो भूयासमिति मनसा प्रार्थयमान एवंविधोऽस्मि सञ्जातस् तद् एनः पापम् अत्र कर्मण्य् अवसुवामि नाशयामि, यथैवमेतद्भवति तथा अस्मान् पुनात्विति ॥
3अमी इति द्वे अनुष्टुभौ ॥ अम्य् अमू । लिङ्गवचनयोर्व्यत्ययः । ये उभे सुभगे शोभनरूपे शोभनधने वा । आद्युदात्तत्वं, ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । दिव्य् आकाशे ये अमू दृश्येते - इत्यङ्गुल्या दर्शयति - विचृतौ विचृन्नामधेये ये तारके मूलाख्ये - आभ्यां च पितरो लक्ष्यन्ते ‘विचृतौ नक्षत्रं पितरो देवता’ इति - ते एते इह कर्मण्य् आगत्य अमृतस्य प्रयच्छताम् अमृतं प्रजाति: ‘प्रजामनु प्रजायसे । तदु ते मर्त्यामृतम्’ इति । कर्मणसम्प्रदानत्वाच् चतुर्थ्यर्थे ‘बहुलं छन्दसि’ इति षष्ठी । एतत् खलु प्रजातिलक्षणममृतं बद्धकमोचनं सर्वलौकिकवैदिककुत्सितऋणात्मकबन्धनमुक्तिहेतुं बन्धनं बद्धम् । कुत्सायां कन् । यद्वा - बन्धकानां पुरुषाणाम् ऋणान् मोचनं पितरः स्वयमागत्य प्रजातिप्रदानद्वारेण सर्वस्मादृणान्मोचयन्वित्यर्थः ॥
4विजिहीर्ष्वेति ॥ बन्धान्मुमुक्षुम् ऋषिरनुशास्ति - विजिहीर्ष्व बन्धादस्मादात्मानं मोचयित्वा विविधं विहर पुण्येषु लोकेषु स्थापय । यद्वा - ऋणात्मकानि बन्धनानि विश्लेष्य हर विश्लथय । हरतेर्लोट् , शपः श्लुः, धातोरीकारोऽन्तादेशश्छान्दसः । यद्वा - सन्नन्तस्य लोटि रूपं, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वादतो लोपः, शपो लुक्, विहर्तुमिच्छ । अथ विहरणार्थं लोकान् पुण्यान् कृधि कुरु । अथ तदर्थं बन्धाद् ऋणात्मकादात्मानं बद्धकं मुञ्चासि मुञ्च । ‘अनुकम्पायाञ्च’ इति कः । ततश्चैवङ्कृते बन्धान्मोक्षे योनेर् मातुरुदरात् प्रच्युतो गर्भ इव सर्वान् पथः पुण्यलोकमार्गान् अनुष्व वनुष्व सेवस्व । यद्वा - अनु याचने, तानादिकोऽनुदात्तेत् । उभयत्रापि छान्दसो वर्णलोप इष्कर्तारमितिवत् । याच्नया तत्फलप्राप्तिर्लक्ष्यते । यद्वा - सर्वान् पथः मार्गान् अनुष्व अनुभव बन्धान्मुक्तः सर्वपथीनो भव । अस्तेर्व्यत्ययेनात्मनेपदम्, एकारावस्थायामेव ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ इति षत्वं, ‘श्नसोरल्लोपः’ इति लोपः । अनितेर्वा विकरणादिव्यत्ययः, सर्वान् पथो ऽनुष्व प्राणय । यद्वा - सर्वान् पथो अनुवस । वसेर्लेटि सम्प्रसारणे उपसर्गान्तलोपः । यद्वा - सर्वान् पथः समन्तात् शब्दय सर्वत्र ख्यातो भव । वनोतेः ‘आङि नुप्रच्छ्योरुपसङ्ख्यानम्’ इत्यात्मनेपदम्, उपसर्गः ह्रस्वः ॥
5स प्रजानन् इत्यादयः षट् त्रिष्टुभः ॥ सः प्रजापतिः प्रजानन् अस्मत्प्रार्थनां प्रकर्षेण निरूपयन् विद्वान् सर्वार्थसाधनोपायज्ञ ऋतस्य परमाक्षरस्य प्रथमजाः प्रथमः पुत्रः । ‘जनसनखनक्रमगमः’ इति विट्, ‘विड्वनोरनुनासिकास्स्यात्’ इत्यात्वम् । सो ऽस्माभिर्दत्तं हविरादिकं प्रतिगृभ्णीत प्रतिगृह्णातु । ‘हृग्रहोर्भः’ इति भत्वम् । किमर्थं? आह - यथा वयं जरसः परस्ताद् देहपातोत्तारकालम् अच्छिन्नम् अविच्छिन्नं तन्तुं प्रजासन्तानं, तायतेऽस्मिन् पितेति तन्तुः, तम् अनुसञ्चरेम अनुप्रविश्य अमृता वर्तेमहि । तदिदमुक्तं ‘प्रनामनु प्रजायसे । तदु ते मर्त्यामृतम्’ इति ‘प्रजाभिरग्ने अमृतत्वमश्याम्’ इति च जीवन्नेव पिता स्वप्रजासु तायमानो भवति, स कदाचित् प्रजादेहेष्वेव तायमानो निजदेहं जीर्णं जहाति वृक्ष इव जीर्णपर्णमिति सूचनार्थं जराग्रहणम् ॥
6ततमिति ॥ एके केचित् ततं तन्तुम् अविच्छिन्नां पुत्रपौत्रादिपरम्पराम् अनु लक्षीकृत्य अनुसञ्चरन्त्य् अनुप्रविश्यामृता एव सञ्चरन्ति सम्यक् चरन्ति यथाऽभिमतदानभोगयागसम्पादिनो भवन्ति । के पुनस्ते इत्याह - येषां दत्तं पित्र्यं श्राद्धादि विद्यते । विभक्तिव्यत्ययो वा - यैर्दत्तं पित्र्यम् । यद्वा - पित्र्यमित्युपलक्षणं, ऋषिपितृदेवानामृणत्रयं यैर्दत्तं प्रजायै । यद्वा - ‘अनुर्लक्षणे’ इति हेतावनोः कर्मप्रवचनीयत्वं, यथा ‘शाकल्यस्य संहितामनु प्रावर्षत्’ इति तायमानं तन्तुमनु तायमानेन तन्तुना हेतुना केचित् सम्यक् चरन्ति पुण्येषु लोकेषु येषां पुत्रादिभिर्दत्तं पित्र्यं विद्यते किमिव? आयनवद् आयनम् अयनसाधनं पाथेयस्थानीयं तदिव । यद्वा - आयनम् आगमस् तद्वद् यथाशास्त्रं दतम् । यद्वा - आयनम् अविच्छेदस् तद्वत्, आविच्छेदेन दत्तम् । अथ एके अबन्ध्व् अबन्धवः पुत्रादिरहिताः पितृऋणमोचनासमर्था अवस्तुभूता भवन्ति तामेवावस्तुतां द्योतयितुम् - अर्थवल्लक्षणविभक्त्यनुत्पादः - तेऽपि ददतः धनं दत्तवते उत्तमर्णाय तच् चेद् ऋणं प्रयच्छात् प्रयच्छन्ति - लेटि वचनव्यत्ययः - ‘अबन्धु’ इत्यनेन वा सम्बद्धयते - दातुं शक्नवांसः शक्नुवन्तः, यदृणं दातुं शक्तास् तच्चेत्प्रयच्छन्ति, स्यादेवैषां स्वर्गः । एतदुक्तं - न पितृभ्यः किञ्चिद्गृहीतमृणं तेषामग्रहणपूर्वकमेव बन्धनाय भवति, अशक्यप्रतिपादनं च । अतस्तिष्ठतु तत् । यत्तु उत्तमर्णाद्गृहीतं तद्दातुं शक्यमेव यदि न प्रयच्छन्ति तदा सर्वात्मना न पुण्यलोकालोकनम् । ये तु दातुं शक्नुवन्तो दत्तवते धनं प्रतिदद्युस् तेषां यथाशक्त्य् ऋणमोक्षणे प्रवृत्तानां स्वर्गो भवत्येवेति । शकेर्लटो व्यत्ययेन क्वसुरादेशः, श्नोश्चाकारः ॥
7आरभेथामिति ॥ अत्र चतुर्थे पादे ‘जायापती’ इति चत्वार्यक्षराण्यभिक्रान्तानि, विनैव च तेन ऋचः पूर्णत्वाद् विशेष्याकाङ्क्षायाम् आमन्त्रितं पदमध्याहृत्य पठितम् । इदमेव च अभिक्रान्तत्वम् । अत एव पदात्परत्वेऽपि निघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । हे जायापती ! आरभेथां यज्ञादिकां पुण्यक्रियां घृतादिना । अनुसंरभेथाम् अवियुक्तावेव सन्ततं भवतम् । समानं साधारणं पन्थां पन्थानं देवयानं पितृयाणं वा अवथः रक्षतं, प्राप्नुतं वा । यद्वां युवयोः पूर्तं पितृभ्यो दत्तम् अन्नादि यदग्नौ परिविष्टम् उपरिप्रापितं हुतं भोजितं वा देवैस् तस्मै तदर्थं तदविच्छेदेन यथा क्रियतेत्येवमर्थं संरभेथां त्वरेथां न तूष्णीमासाथाम् । तदपि कुत्रोपयुज्यत इत्याह - गोत्राय गोत्रार्थं सर्वेऽपि गोत्रसम्भवाः पूर्वं च परे च सुकृतिनो यथा स्युर् न युवामेवेति ॥
8यदन्तरिक्षमिति पूर्वानुवाके गता पञ्चपदा ॥ ‘उन्नो नेषत्’ इति विशेषः । यदन्तरिक्षादिहिंसाप्रभवमेनस् तस्माद् गार्हपत्योऽग्निर् मां मदीयांश्च उन्नोनेषद् उन्नयतु । यद्वा - नो ऽस्मान् उन्नयतु मां च विशेषेण । नयतेर्लेटि ‘सिब्बहुळं लेटि’ इति सिप् । यानि दुरितानि चकृम तेभ्यश्च उन्नयतु ॥
9भूमिर्मातेति ॥ भूमिर् अस्माकं माता अधोभावात् , सर्वपुष्टिनिर्माणाच्च, अदितिर् देवानां माता नो ऽस्माकं जनित्रम् आविर्भावहेतुः, अन्तरिक्षं भ्राता नित्यसहजत्वात् , एनः पापम् अभिशस्तः शत्रुर् द्वेष्यत्वात्, द्यौः पिता उपरिभावात्, निषेकस्थानीयवृष्टिकारित्वात् । एवं पितृत्वस्य वैशिष्ट्यं प्रतिपादि तं, मात्रादिकीर्तनं तु प्रासङ्गिकम् । यथा द्यौरस्माकं सर्वेषां पिता, वयं तस्य प्रजाः, स सर्वेषां चास्माकं सुखस्थानं भवत्य् एवं त्वमपि हे आत्मन् ! पितृयात् पितृत्वमिच्छन् बह्वीनां पिता भवन् शं भवासि सुखं प्रामुहि यद्वा - द्यौरिव सुखरूपो भव । पितृशब्दात् ‘छन्दसि परेच्छायामपि’ इति क्यच् , शतृश्छान्दसो नुमभावः शमित्येत्सम्बन्धाद्वा । इदानीमपुत्राणां सुखाभावमाह - जामि मित्वा तूष्णीमनपत्य एव मित्वा मृत्वा मा विवित्सि नैव लप्स्यसे लोकान् पुण्यान् । मीञश्छान्दसं ह्रस्वत्वं, विन्दतेर्लटि शपश्श्लुः ॥
10यत्रेति ॥ सुहार्दः शोभनाभिप्रायाः । हृदये भवो हार्दः, ‘हृदयस्य हृल्लेख’ इति हृद्भावः, वचनव्यत्ययः । सुकृतः सुष्ठु कर्तारः । ‘सुकर्मपापपुण्यमन्त्रेषु कृञः’ इति क्विप् । एवम्भूता यत्र मदन्ते माद्यन्ति तृप्यन्ति रोगं हृद्रोगं विहाय त्यक्त्वा स्वायाम् आत्मीयायामेव तन्वां शरीरे पुत्राख्ये । ‘उदात्तस्वरितयोः’ इति स्वरितत्वे तस्य कम्पः ‘उदात्तयणः’ इति व्यत्ययेन न प्रवर्तते । अश्लोणाङ्गैः श्लोणो रोगविशेषः, तद्रहितैरङ्गैरित्थम्भूताः । विभक्तिव्यत्ययो वा, अश्लोणाङ्गाः । अह्रुताः केनचिदप्यवञ्चिताः । हॄ कौटिल्ये ‘ह्रुह्वरेश्छन्दसि’ इति ह्रुभावः । यत्रैवम्भूता एवमुक्तप्रकारं माद्यन्ति तत्र स्वर्गे स्वर्गस्थानीये आयुष्मत्पुरुषे सन्ताने जनित्वा पितरं पुत्रं च युगपत् पश्येम ‘अच्छिन्नं तन्तुमनु सञ्चरेम’ इति यावत् ॥
11यदन्नमद्मीति द्वे पञ्चपदे शक्वर्यौ ॥ हे देवाः ! यदन्नम् अनृतेन अन्यायेन अद्मि भुक्तवानस्मि । कथमनृतत्वमित्याह - दास्यन्निति प्रतिदास्यामीत्युक्त्वा किञ्चिद्धनमादाय भुक्त्वा न प्रतिददाति किञ्चिदप्रतिदास्यन्नेव बलादादाय भुङ्क्ते, किञ्चित्तु प्रत्युपकरिष्यामीत्युक्त्वा गृहीत्वा तमर्थं भुक्त्वा न किञ्चित्प्रत्युपकरोति, एवमनृतेन यदन्नं भुक्तवानस्मि यच्च आगो ऽपराधः पापलक्षणं देवानां चक्षुष्यस्ति देवानां चक्षुर्गतमासीन् मामकम् । किम्पुनस्तदित्याह - यदेव किञ्च किञ्चिद् अप्रतिग्राह्यमपि शूद्रादिधनं प्रतिजग्राहं प्रत्यगृह्णां तदकृतप्रायश्चित्तं देवानां चक्षुषि ‘यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः’ इत्य् अविस्मृतमेवास्मदपराधत्वेनाद्यापि तिष्ठतीति भावः । गृह्णातेर्लिट्य् उत्तमपुरुषेकवचने छान्दसो मकारोपजनः, लिट्स्वरप्रसङ्गस्तु … । यद्वा - छान्दसो लङ्, शपः श्लुः, वर्णव्यत्ययेन धातोर्दीर्घत्वं, ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । तस्मात्सर्वस्मादपि पापान्मामनृणं करोतु । ल्यब्लोपे पञ्चमी । तस्मान्निर्मुच्य मामनृणं करोत्विति ॥
12यदन्नमिति ॥ यदन्नं बहुधा विरूपं बहुप्रकारं दुष्टं, किञ्चित्स्वयं दुष्टं यदप्रतिग्राह्यं यच्चोच्छिष्टादि, किञ्चिच्च दुष्टात्प्रतिगृहीतं, एवं बहुधा विरूपं यदन्नं भुक्तवानस्मि । अथोदाहरणार्थं कानिचिद्दर्शयति - वासो हिरण्यं वा अपि वा गामजां वा अविं वाऽन्यद्वा । यद्देवनामित्यादि । गतम् ॥
13यन्म इत्यनुष्टुप् ॥ यन् मे मम सम्बन्धिना मनसा वाचा वा कदाचन जन्मान्तरे वा इहैव वा जन्मनि कृतमेनः पापमिदानीं विद्यते तस्मात्सर्वस्मान् मा मोग्धि मुञ्च ईळितो ऽस्माभिस्सर्वैर्वा स्तुतः । मुचेर्लेटि शपो लुक् , ‘वा छन्दसि’ इत्य् अपित्त्वाभावेन ङित्वाभावाद् गुणः । हे अग्ने! त्वं हि यथातथं वेत्थ जानासि वस्तु । तथात्वमनतिक्रम्य यथातथं, ‘यथासादृश्ये’ इत्यव्ययीभावः; ‘अव्ययीभावश्च’ इति नपुंसकत्वात् ह्रस्वत्वम् ॥
इत्यारण्ये द्वितीये षष्ठोऽनुवाकः ॥

०७

1अथैतेषां कूश्माण्डानां ब्राह्मणं - वातरशना इति ॥ वातरशना नाम ऋषयः दर्शनवन्तो बभूवुः । रशनाशब्देन बन्धनत्वाच्छरीरमुच्यते । बलवत्त्वाद्वा । तनुत्वाद्वाततुल्यशरीरा वातरशनाः । यद्वा - वाताशना वातरशनाः । रेफोपजनश्छान्दसः । ‘ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्’ इति ये पूर्वमुक्तास् त एव गृह्यन्ते । श्रमणाः श्रमवन्तः महातपसः । पामादिर्द्रष्टव्यः । यद्वा - श्रमेश् छान्दसो युच्, श्रमशीलाः श्रमणाः । ऊर्ध्वमन्थिन उर्ध्वं मथ्नन्तीत्यूर्ध्वमन्थिनो ऽधोमन्थनरहिता ऊर्ध्वरेतस इत्यर्थः । ‘णिनि’ इति पूर्वपदप्रकृतिस्वरत्वम्, विभक्त्युदात्तत्वं तु छान्दसम् । अथ तान् अन्ये ऋषयो ऽर्थम् अर्थयितुम् आयन् प्राप्ताः । अर्थयतेर्णमुलि णिलोपे उदात्तनिवृत्तिस्वरेण णमुल उदात्तत्वम् । अथ ते वातरशनास् तानृषीन् समागतान् दृष्ट्वा निलायं निलीय कुत्रचिदन्तर्हिता अचरन् । निलीयतेर्णमुल् । क्व निलीनाः? इत्याह - ते वातरशनाः कूश्माण्डानि ‘यद्देवाः’ इत्यादीननन्तरोक्तांश्चतुरोऽनुवाकान् अनुप्रविशुः । लिटि द्विर्वचनाभावश्छान्दसः । सूक्ष्मदेहत्वात्तत्र अनुप्रविश्य स्थिताः । यद्वा - तपोबलेन कूश्माण्डानि देहत्वेन अनुप्रविश्य तदभिमानिनोऽभवन् । कूश्मितं प्रतापितं ब्रह्माण्डं यत्तेजसा तानि कूश्माण्डानि । अथ तान् वातरशनान् तेष्वन्वविन्दन् तेष्ववस्थितानन्विष्यानन्तरमलभन्त श्रद्धया च तपसा च ब्रह्मचर्यानशनादिना कथञ्चिदन्वविन्दन् ॥
2अथ तान् वातरशनान् ऋषयोऽब्रुवन् कथा कथं निलायं निलीय अदृश्यमानदेहाश् चरथ एतेष्व् इति । ‘था हेतौ च’ इति था । केन प्रकारेणास्माकमदृश्या एतावन्तं कालं चरथस्म? । यद्वा - केन हेतुना निलीनाश् चरथस्म? । प्रश्नद्वयमपि स्तुत्यर्थमेव । अथ ते वातरशना ऋषीन् तथावादिनो ऽब्रुवन् - नमो वोऽस्तु युष्मभ्यं महात्मभ्यः यैः स्मो विदिता हे भगवन्तः! ऐश्वर्यादिमन्तः । अस्मिन्धाम्नि स्थाने वर्तमाना वयं वः युप्मान् केन सपर्याम किमभिमतं कृत्वा युष्मान् पूजयेम । सपर पूजायां कण्ड्वादिः । अथ तान् वातरशनान् ऋषयोऽब्रुवन् अर्थनीयमाविष्कृतवन्त इति । किं तदिति - पवित्रं नो ब्रूत पवित्रं व्याचक्षत, येन अरेपसो ऽपापाः स्याम तत् पवनसाधनं नो ब्रूतेति । अथ तैरेवं प्रार्थितास् ते वातरशना एतानि सूक्तान्यपश्यन् किमेभ्यो ब्रूयामेति विचारयन्तोऽनन्तरमेव एतानि सन्निहितानि सूक्तानि कूश्माण्डाख्यान्यपश्यन् । तानि च ‘यद्देवाः’ इत्यादयश्चत्वारोऽनुवाका इत्युक्तम् ॥
3अथ एतद्दर्शनानन्तरमेभ्य एतानि वक्तव्यानीति कृतनिश्चयास् तत्प्रयोगक्रमं दर्शयन्ति - यदेवा इत्यादिभिस्त्रिभिरनुवाकैर् आज्यं जुहुत । वैश्वानरायेति चतुर्थेनोपतिष्ठध्वम् । एवं कृत्वा यद् भ्रूणहत्याया अर्वाचीनम् एनः पापं तस्मान्मोक्ष्यध्व इति प्रयोगक्रमं फलं च ऊचुरिति । वेदत्रयभृद् भ्रूणः, वेदवेदाङ्गविदित्यन्ये ॥
4अथ तेऽप्य् एतैर् हुत्वा अरेपसोऽभवन् ॥
5कर्मादिष्व् आरप्स्यमानकर्मारम्भेषु । काठकप्रकरणात् काठकाग्निष्वित्यन्ये । बोधायनमतात्तु सर्वेष्वपि, यथा ‘अग्न्याधेये पूर्णाहुतिं हुत्वा, अग्निहोत्रे दशहोतारं हुत्वा, दर्शपूर्णमासयोश्चतुर्होतारं, चातुर्मास्येषु पञ्चहोतारं, पशुबन्धे षड्ढोतारं, सौम्ये सप्तहोतारं हुत्वा कूश्माण्डेर् जुहुयात्’ इति । अथ पूतो देवलोकान् समश्नुते यस्यादावेतानि हूयन्ते तस्य कर्मणः फलं सम्यक्प्राप्नोति ॥
इत्यारण्यके द्वितीये सप्तमोनुवाकः ॥

०८

1कूश्माण्डैर्जुहुयादिति ॥ उक्तं ‘कर्मादिष्वेतैर्जुहुयात् । इति । इदानीमन्यत्रापि विधातुमाह - तत्तत्कर्मयोग्यमात्मानं सन्देहाद् यो ज्ञातुं न शक्नुयात् सोऽप्येतैर्जुहुयात् । क्षपितसर्वपापः पूतो देवलोकान् समश्नुते इत्येवमर्थो होमः कर्तव्यः, न कर्मादिष्वेवेति ॥
2अथैषां महापापशमनसामर्थ्यं दर्शयितुमाह - यथा स्तेनः ब्राह्मणस्वर्णापहारी यथा च भ्रूणहा व्याख्यात एवम् एताभ्यां तुल्य एनसा एष भवतीति । कः? योऽयोनौ रेतस्सिञ्चति, नञिवयुक्तन्यायेन योनिसदृशी योनिरयोनिर् योनिरात्मीया, तत्सदृशी सवर्णा योनिर् अयोनिः, तत्र रेतस्सेक्ता भ्रूणहतुल्य इति । सोऽपि पूतो देवलोकान् समश्नुत इत्येव ॥
3यस्मादेवं तस्माद्यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते कर्ता । ननु यद्यर्वाचीनो भ्रूणघ्नो मुच्यते कथमयोनौ रेतस्सेक्ता मुच्यते तस्यापि ह्यातिदेशिकं भ्रूणहत्वमस्ति । अथ वचनान्मुच्यते अर्वाचीनो मुच्यत इति व्याहन्येत । नैष दोषः; निषेधे मुख्यस्यैव ग्रहणात्, तदातिदेशिकोभ्रूणहा मोक्ष्यत इति ॥
4ननु कथम् अतुल्यानां महतां च पाप्मनां तुल्यं प्रायश्चित्तं स्यादित्यत आह - यावदिति ॥ यावत्प्रमाणमस्य एनो भवति स्वल्पं महद्वा तदनुरूपां वक्ष्यमाणां संवत्सरादिकालां दीक्षां स्वल्पां महतीं वा उपेयात्, स्वल्पे स्वल्पां महति महतीं दीक्षामुपेयादिति यावत् । ततो दीक्षितः दीक्षाऽनुगुणं संवत्सरं त्र्यहं वा एतैः सतति सन्ततं दिनेदिने जुहोत्य् आज्येन । ततिरविच्छेदस् तत्सहितं सतति । यद्वा - समाना ततिः सततिस् तद्वत् सतति । मत्वीय इकारः, अन्तोदात्तत्वात् संहितायामादिस्वरितत्वम् ॥
5अथ दीक्षाभेदान्विदधाति - संवत्सरमिति ॥ एषामेव होमानां दीक्षाभेदाद्भेदः । संवत्सरादिति ल्यब्लोपे पञ्चमी, संवत्सरमेवानुप्रविश्य यावत्संवत्सरपदार्थं पूतो भवति ॥
6मासमित्यादि ॥ गतम् ॥
7न मांसमश्नीयादित्यादि दीक्षाव्रतलक्षणम् । मांसस्य अनुमतस्य निषेधः । ऋतावपि स्त्रियं नोपेयात् । उपरि खट्वादौ नासनादि कुर्यात् । अनृताद् आत्मानं जुगुप्सेत, नानृतं वदेदिति यावत् ॥
8ब्राह्मणादीनां दीक्षितानां पयआदीनि व्रतानि भोजनानि ॥
9सौम्येऽपीत्यादि स्तुत्यर्थम् । एवं नाम प्रशस्तं पयआदि यत् सौम्येऽप्यध्वरे एतदेव व्रतं वक्तु मर्हतीति ॥
10अथ यदि मन्येत दीक्षमाण उपदस्यामीत्य् अनेन व्रतेन वर्तमानोऽहम् उपक्षीये इति तदा ओदनादिकम् अनुव्रतयेत् पयआदेरनन्तरमभ्यवहरेत् ॥ व्रताद्भोजने “मुण्डमिश्र” इति णिच् । अनुपदासाय अनुपक्षयाय । दसु उपक्षये ॥
इति द्वितीये अष्टमोनुवाकः ॥

०९

1अत्र स्वाध्यायब्राह्मणम् इति समाख्यानात्
स्वाध्याये एव विधातव्ये तद्-अपेक्षितयोर् यज्ञोपवीत–सन्ध्योपासनयोर् आद्ययोर् अनुवाकयोर् विधानम् ।
ततः “शुचिनाऽध्येतव्यम्” इति शुचित्वाय
प्रायश्चित्तानि कूश्माण्डानि विहितानि ।
इदानीं प्रधान-भूतम् अध्ययनात्मकं ब्रह्मयज्ञं विधातुमाह - अजानिति ॥
न कदाचिदपि जायन्त इत्यजा नित्याः पृश्नयः शुक्ला निर्मलास् तपस्यमानान् तपश्चरतः ब्रह्म वेदः, तत् स्वयम्भु स्वेन रूपेण स्वयमेव भवति न कदाचिदपि भिद्यते, तद् अभ्यानर्षद् आभिमुख्येन प्रत्यक्षमागच्छत् । ऋष गतौ । लिटि तकारोपजनश्छान्दसः, ‘तस्मान्नुड्द्विहलः’ इति नुट् । यद्वा - लङ्य् आट्परो नकारोपजनः । ततः प्रभृति ते ऋषयोऽभवन् सा ऋषिजातिरासीत् । तद् एतद् ऋषीणाम् ऋषित्वं, अर्षणादृषयः ब्रह्मणा अभ्यागतत्वात् । ऋषेः कर्मणि ‘इक्कृष्यादिभ्यः’ इति इक्प्रत्ययः । अथ ते तां देवतां ब्रह्मात्मिकां यज्ञकामा ब्रह्मयज्ञं कामयमाना उपातिष्ठन्त आराधयन् । अथ ते उपतिष्ठमाना एतं ब्रह्मयज्ञं स्वाध्यायात्मकम् अपश्यन् , तमाहरन् अन्वतिष्ठन्, तेनायजन्त तेन देवान् अपूजयन् । यद्वा - तेनायजन्त, अविशेषात् स्वाध्यायाध्ययनात्मन यागेन सर्वयज्ञफलान्यवाप्नुवन्, सर्वैर्यागैरिष्टवन्तोऽभवन्नित्यर्थः, ‘यंयं क्रतुमधीते तेनतेनास्येष्टं भवति’ इति ॥
2इदानीं स्वाध्यायाध्ययनं यज्ञत्वेन रूपयति - यदृचोऽध्यगीषत अधीतवन्तः । इडो ‘विभाषा लुङ्लृङोः’ इति गाङादेशः, ‘गाङ् कुटादिभ्यः’ इति ङित्त्वम् । ताः पयआहुतयः क्षीराहुतयः देवानामभवन् इज्यमानानां देवतानां पयआहुतिवत्तृप्तिहेतवोऽभवन् अधीयमाना ऋचः । सर्वत्र दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्, मेदाहुतिवर्जम् । यद्यजूंष्य् अध्यगीषतेत्येव घृताहुतयः देवानामभवन्नित्येव । एवं सर्वत्र । सामानीति तद्योनय ऋचः । अथर्वाङ्गिरस इत्य् अथर्वाङ्गिरोभिः प्रोक्ता अथर्वाङ्गिरसो ऽथर्व वेदमन्त्राः । ब्राह्मणानि कर्मचोदनाः ‘वायव्यं श्वेतमालभेत’ इत्येवमादयः । तच्छेषश्चार्थवादः निन्दा प्रशंसा परकृतिः पुराकल्पश्च ब्राह्मणग्रहणेन गृह्यन्ते । इतिहासा महाभारतादयः । पुराणानि ब्रह्माण्डादीनि । यद्वा - इतिहासाः परकृतयः ‘देवासुरास्संयत्ता आसन्’ इत्यादयः । पुराणानि पुराकल्पाः ‘इदं वा अग्रे’ इत्यादयः । कल्पाः कल्पसूत्राणि प्रयोगप्रतिपादकानि । गाथा गायतिचोदिता मन्त्रविशेषाः ‘यमगाथाभिः परिगायति’ इत्यादिभिः । ताश्च ‘योऽस्य कौष्ठ्यजगतः’ इत्यादयः । पृथग्वचनं फलविशेषार्थम् । एवं नाराशंसीष्वपि । नराशंसस्येमा नाराशंस्यः, ‘होता यक्षन्नराशसं’ इत्याद्याः । मेदाहुतय इति छान्दसस्सलोपः । ततस् ताभिर् आहुतिभिः क्षुधं पाप्मानं च देवा अपाघ्नन् । यद्वा - क्षुधात्मकं पाप्मानम् अपाघ्नन् । अपहतपाप्मानश्च स्वर्गं गताः, ऋषयश्व ब्रह्मणस्सायुज्यं गताः ॥
इति द्वितीये नवमोनुवाकः ॥

१०

1एवं ब्रह्मयज्ञं स्तुत्वा इदानीं तं विधित्सन् प्रसङ्गेन पञ्चमहायज्ञान् विदधाति - पञ्च वा इति । नित्या एते यज्ञाः । महत्त्वविशेषणं स्तुतिमात्रम् । यथाऽऽहुः ‘तेषां महायज्ञा महासत्राणीति संस्तुतिः’ इति । सतति सततं दिनेदिने प्रतायन्ते क्रियन्ते. दिनेदिने सन्तिष्ठन्ते समाप्यन्ते च, न यज्ञान्तरवदन्यस्मिन्नहन्यारभ्यन्ते अन्यस्मिन्नहनि समाप्यन्ते । अथ तान् दर्शयतिदेवयज्ञ इत्यादि ॥
2अथ तेषां लक्षणमाह - यदग्नावित्यादि ॥ अपिसमिधमिति । मुख्यस्यान्नस्य घृतादेर्हविष्यस्याभावे समिधमपि जुहोतीति भावः, भावे तु तदेव प्रशस्तमिति । प्रयोगश्च देवेभ्यः स्वाहेति, यथाऽऽहुः ‘देवेभ्यस्स्वाहाकार आकाष्ठात्’ इति ॥
3स्वधाकरोतीति ॥ स्वधाशब्देन होमद्रव्यस्य प्रदानम् । यद्वा - होमद्रव्येण पितृभ्यस्स्वधाकरणम् अमृतसम्पादनम् । अप्यप इति । मुख्याभावे उदकमपीति । पितृभ्यस्स्वधाऽस्त्विति प्रयोगः ॥
4भूतेभ्यो बलिमिति । वैश्वदेवव्यतिरिक्तमिदम् । भूतेभ्योऽस्त्विति प्रयोगः ॥
5’ब्राह्मणेभ्यः’ इति त्र्यवरेभ्यो यथाशक्ति दद्यात्, वैश्वदेवोत्तरकालम् अग्रदानव्यतिरिक्तं यत् ‘अतिथीनेवाग्रे भोजयेत्’ इत्युच्यते ॥ यत्स्वाध्यायमिति ॥ वक्ष्यमाणेन ब्रह्मयज्ञविधिना । एकामिति । प्रश्नानुवाकादिमुख्यासम्भवे, यथोक्तं ‘आसूक्तादानुवाकाद्वा ब्रह्मयज्ञो विधीयते’ इति । यजुस्साम वेति । एकमपीति गम्यते ॥
7यदृच इत्यादि पृथक्त्वेन स्तुतिः ॥ पयस इत्यादि । पयसा पूर्णाः कूल्याः कूलार्हा महानद्यः स्वधा भूत्वा अस्य अध्येतुः पितृन् अभिलक्ष्य वहन्ति यत्र पितरस् तत्र वहन्ति । ‘अभिरभागे’ इति । कर्मप्रवचनीयत्वम् । यद्यजूंषीति, अधीते । इत्येव । धृतस्य कूल्या इति, ‘पितॄन् स्वधा अभिवहन्ति’ इत्येव । एवं सर्वत्र । सोम इति पितृभ्यः सोमो धारावान् भूत्वा प्रवहति । गतमन्यत् ॥
8पुनरपि यदृचोऽधीते इत्यादि स्तुत्यन्तरार्थम् ॥ ते इति पितरो देवताश्च पयःप्रभृतिभिस् तृप्ता एनम् अध्येतारम् आयुरादिप्रदानेन तर्पयन्ति । तस्माद्ब्रह्मयज्ञः कर्तव्य इति विधिरनुमीयते ॥
इति द्वितीये दशमोनुवाकः ॥

११

1अथ ब्रह्मयज्ञस्य प्रयोगक्रममाह - ब्रह्मयज्ञेनेति ॥ अछदिर्दर्श इति । छदिर्दृश्यते यत्र स छदिर्दर्शो देशस् ततोऽन्योऽछदिर्दर्शः । छान्दसमाद्युदात्तत्वम् । यद्वा - असमास एवायं, छदिर्दर्शनेति (?) । छान्दसो नलोपः । अकार एव वा प्रतिषेधवाची । प्रागुदीच्यामिति । कोणदिशि, ग्रामादित्येव । ‘दिङ्नामान्यन्तराळे’ इति समासः । उदित इति । अह्न्येव कर्तव्यं प्रातराशात् प्रागेव । दक्षिणत इति । यज्ञोपवीतं कृत्वा । कुत एतत्? प्रथमानुवाकोक्तं यज्ञोपवीतलक्षणं ‘दक्षिणत उपवीय दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतं’ इति । तदनेन स्मार्यते ‘दक्षिणत उपवीय’ इति । उपविश्य आसित्वैव । हस्तावप्य् आमणिबन्धाद्धस्तौ तावद् अवनिज्य प्रक्षाळ्य । पादयोरप्युपलक्षणम् । सामान्यप्राप्तव्यतिरेकेण क्षाळनान्तरमिदं हस्तपादस्यैतत्कर्माङ्गम् । त्रिरिति । त्रिरपः पिबेत्, अन्तश्शुद्धयर्थम् । द्विःपरिमृज्येति । ओष्ठाविति शेषः, ताभ्यामेव पानात् । सकृदुपस्पृश्येति । सकृदपां स्पर्शनमात्रं कृत्वा । शिर इति । शिरआदीनि पृथगनेन क्रमेण आलभ्य स्पृष्ट्वा । हृदयमिति । सामर्थ्यात् हृदयप्रदेशो लक्ष्यते । अत्र च शिरआदिषु प्रत्येकं सकदुपस्पृशेदपः शुद्ध्यर्थम् अदृष्टार्थं वा ॥
2अथ ‘त्रिराचामेत् ’ इत्यादि यदुक्तं तस्यार्थवादः, विशिष्टार्थज्ञानविधानं वा कर्माङ्गतया विधीयते - यदित्यादि ॥ सुबोधः ॥
3दर्भाणामिति ॥ महत् प्रभूतं यथातथा आसनत्वेन दर्भानुपस्तीर्य । कर्मणस्सम्प्रदानत्वाच्चतुथ्यर्थे षष्ठी । उपस्थमिति । दक्षिणपूर्विणं सव्योत्तरिणमासनविशेषं कृत्वा प्राङ्मुख आसीनस् तत्रापि द्यावापृथिव्योस्सन्धिमीक्षमाणः समाहितः स्वाध्यायमधीयीत आत्मीयं वेदं पठेत् । मुख्योऽयं विधिः । अशक्तिविषये ‘व्रजंस्तिष्ठन्’ इत्येवमादयो गौणकल्पा भविष्यन्ति । अपां वा इत्यादि दर्भस्तुतिर् दर्भासनस्य अवश्यकर्तव्यतार्थम् । अपामोषधीनां च रसो दर्भा नाम । तस्मात्तत्रासित्वाऽधीयानः सरसं सवीर्यं ब्रह्म वेदं कुरुते ॥
4दक्षिणोत्तराविति ॥ दक्षिणो हस्त उत्तर उपरिभूतो ययोस्तौ दक्षिणोत्तरौ । बहुव्रीहिस्वराभावश्छान्दसः । केचिद् द्वन्द्वमाहुर् दक्षिणोत्तरावस्थानाविति । एवम्भूतौ सपवित्रौ पाण्य् उत्सङ्गवर्तिनौ कृत्वा समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । एवम्भूतः प्राङासीन इति पूर्वस्यैवायं विशेषः । अथ यदुक्तं ‘स्वाध्यायमधीयीत’ इति तत्र विशेषमाह - ओमिति प्रतिपद्यते आरभत इति ॥
5अथोङ्कारः स्तूयते - एतदिति ॥ एतत् प्रणवाख्यं यजुस् त्रयीं विद्यां प्रति त्रय्या विद्यायाः प्रतिनिधिरित्यर्थः । ‘प्रति प्रतिनिधिप्रतिदानयोः’ इति कर्मप्रवचनीयत्वम्, पञ्चम्यभावश्छान्दसः । त्रयोऽवयवा अस्यास्त्रयी । ‘द्वित्रिभ्यां तयस्यायज्वा’। वेदत्रयसारभूतत्वात् तत्प्रतिनिधित्वमस्य । किञ्च - एषा वाक् वाङ्मयस्य एतत् सूक्ष्मरूपम् अविभागावस्थत्वात् । एतत्परममक्षरमिति यत् परमं सर्वोत्तीर्णम् अक्षरम् अविनाश्य् आत्मवस्तु तदेवेदं, तस्य वाचकत्वात् , अभेदाच्च ‘ओमितीदं सर्वम्’ इति । तदेतदर्थस्वरूपमृचाऽभ्युक्तमिति ॥
6ऋचं दर्शयति - ऋच इति ॥ व्याख्याता चेयं त्रिष्टुप् सावित्रेऽग्नौ । सर्वेऽपि मन्त्रा अक्षरे परमे व्योमनि सर्वेषां विविधं रक्षके वाचकत्वेन निषीदन्ति । यद्वा - तत्रैवाधेयत्वेन वर्तन्ते । यस्मिन् व्योमन्य् अधिकरणभूते विश्वे देवा निषेदुर् निषीदन्त्य् अंशत्वेन सर्वे च देवा अभिमन्तारः, सर्वे च अभिमन्तव्यादयः यदंशा यत्रैव निषीदन्ति तद् वस्तु यो न वेद स किमृचा करिष्यति? मन्त्रकृत्यं तस्य नास्त्य् अनर्हत्वात् । ये पुनस् तद्विदुस् त इमे महात्मान एव समासते सम्यगासते विदुषः प्रशंसार्थमेकस्मिन्नेव बहुवचनमिति ॥
7ओमिति प्रतिपद्य अनन्तरं भूर्भुवस्सुवरित्याह व्याहृतित्रयं पठति । किं कृतं भवति? त्रीनेव वेदान् प्रयुक्तवान् भवति । पूर्वमोमिति त्रयीसारभूतं प्रतिपद्यतेस्म, इदानीं तु तामेव त्रयीं प्रयुक्तवानिति । एतदेव व्याहृतित्रयं वाचस्सत्यं सर्वस्य वाङ्मयस्य वेदात्मिकाया वाचः सम्बन्धि सत्यं सति भवं सारभूतं, त्रिभ्यस्सारत्वेन प्रभूतत्वात् , दध्नो नवनीतमेव । तस्मात्तदेतत्पठन् त्रयीसारमेव पृथगवस्थितं प्रयुक्तवान् भवति । अथ व्याहृत्यनन्तरं सावित्रीं सवितृदेवत्यां गायत्रीं गायत्रीच्छन्दस्कां ‘तत्सवितुः’ इत्यृचं त्रिरन्वाह अनुक्रमेण पठति पच्छः पादम्पादम् अथ अर्धर्चशो ऽर्धमर्धम् । ‘सङ्ख्यैकवचनाञ्च’ इति शस् । अथ अनवानम् अनवसानम् अर्धर्चेऽप्यनुपरमन् । अत्र केचिद् व्याहृतीर्विहृतास् त्रिष्वनुवचनेषु कुर्वन्ति । सविता खलु सर्वस्याः श्रियः प्रसविता उत्पादयिता । अतस्तद्देवत्यां गायत्रीमधीयानः श्रियं प्राप्नोति । अथ सावित्र्यन्ते ‘स्वाध्यायमधीयीत’ इति विधिः । पूर्वस्यैवायं विशेषः । एवमेकस्मिनहनि विधानमुक्तम्; अथो अनन्तरेषु दिवसेषु प्रज्ञातयैव प्रतिपदा उपक्रमेण छन्दांसि छन्दोवयवान् प्रतिपद्यते आरभते । अव्यवधानेन अवस्थितत्वं प्रज्ञातत्वम् । पूर्वेद्युर्यावत्यवसितं तत एवारभ्य उत्तरेद्युरधीयीत, न तु यङ्कञ्चिद्वेदभागमिति ॥
इत्यारण्यके द्वितीये एकादशोऽनुवाकः ॥

१२

1एवं मुख्यो विधिरुक्तः । अथ आपत्कल्पा उच्यन्ते । यदुक्तं ‘अछदिर्दर्शे’ इति तत्राह - ग्रामे मनसा स्वाध्यायमधीयीत इति । यदुक्तं ‘उदित आदित्ये'71 इति तत्राह दिवा नक्तं वा इति । मनसेत्येव । कश्चिदाह - सबलोऽपि वा इति ह स्माह शौचः शुचेरपत्यं शौच आह्नेयो ऽह्नी नाम माता तस्या अपत्यम् आह्नेयः । अयमनापद्यप्येवमाह । उतारण्य इति, अरण्येऽप्य् अबलो ऽशक्तश्चेन्मनसा अधीयीत । उत वाचा अरण्ये अबल इत्येव अव्यक्ताक्षरं जिह्वास्पन्दमात्रेणाधीयीत । कश्चिदाह - सबलोऽपि वाचैवाधीयीत, नात्युच्चैः । उत तिष्ठन्नित्यादि । अबल इत्येव । आसनाशक्तौ स्थानाद्यनुज्ञायते । अधीयीतैवेति । अशक्तश्चेद्यथाकथञ्चिदध्ययनमेव कुर्यात्, उपस्थकरणादिकमपि न श्रद्धेयमिति । तपस्वीति । य एवं स्वाध्यायमाहात्म्यं विद्वान् विजानन् स्वाध्यायमधीते स एव तपस्वी भवत्य् अध्ययनफलं प्राप्नोति; पुण्यः पङ्क्तिपावनश्च भवति ॥
2नमो ब्रह्मण इति परिधानीया त्रिष्टुप् । अस्यास्तु उत्तरत्रानुवाके विनियोगो वक्ष्यते । ब्रह्म वेदः प्रजापतिरेव वा । अन्ये प्रसिद्धाः । वाक्शब्दाभिमानिनी देवता वाचस्पतिः । परमात्मा विष्णुर् व्यापी यज्ञात्मा बृहन् महान् , ब्रह्मादिभ्योपि प्रशस्तत्वात् । एभ्यो ब्रह्मयज्ञोत्पत्तिहेतुभ्यो नमस्कारं करोमीति ॥
इत्य् आरण्यके द्वितीये द्वादशोनुवाकः ॥

१३

1मध्यन्दिन इति ॥ प्रबलं प्रभूतम् । असाविति । योऽयं ब्राह्मणो नाम एषो ऽसावादित्यः, स्वयमादित्य एवायं, तयोरेकत्वात् ‘स एकः’ इति श्रुतेः । तस्मादिति । यस्माद् ब्राह्मणाख्य आदित्यो मध्यन्दिने अध्ययनं तपस्स्थानीयं प्रबलं करोति तस्मात् तर्हि तस्मिन्काले मध्यन्दिने मुख्यादित्यं तेक्ष्णष्ठं तीक्ष्णतरं तपति । छान्दसो गुणः ॥
2तद् एतदादित्यमाहात्म्यं पुरुषैकत्वलक्षणमभिलक्ष्य एषा वक्ष्यमाणा ऋक् उक्ता । चित्रं देवानामिति त्रिष्टुप् । व्याख्यातेयं ‘उदु त्यं’ इत्यत्र । चित्रं चायनीयं देवानामनीकं सङ्घम् आदित्यमण्डलात्मकम् उदगाद् उद्गच्छति मित्रादीनां चक्षुस्स्थानीयम् । अयं सूर्यो जगतस्तस्थुषश्च आत्मा आत्मभूतः । द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्रास् तेजसा आपूरयतीति ॥
3स वा एष ब्रह्मयज्ञः सद्यः समानेऽह्नि प्रतायते । सद्यः समानेऽह्नि सन्तिष्ठते च । यस्मिन्नहन्यारभ्यते तस्मिन्नेव समाप्यते । नैवमन्ये यज्ञा इति ॥
4तस्येति ॥ प्रातरेवारब्धस्य तस्य सायमवभृथः समाप्तिः । अहरित्यनुवर्तते । ‘उदित आदित्ये’ इत्यारम्भकालस्योक्तत्वात् समाप्तिमात्रमेवात्र विधीयते । अन्य अह - सायमिति लुप्तपञ्चमीकं, सायङ्कालात्प्राक् तस्य अवभृथ इति । केचिदाहुः - प्रातश्च सायं च अवभृथ इति । अनापद्यपि कालद्वयेऽपि ब्रह्मयज्ञविधानार्थमिति । अन्य अह - ब्रह्मयज्ञोऽयमग्निहोत्रवदुभयकालानुसन्ततो भवति । तस्य प्राक् प्रथमं सायमवभृथो मुख्यः, ततो मध्यरात्रादिष्वपि समाप्तिर्भवति प्रातरेवारब्धस्येति ॥
5अध्ययनान्ते नमो ब्रह्मण इति पूर्वोक्तामृचं परिधानीयां परि समापनीयां त्रिरन्वाह । आदावपीति केचित्, ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति न्यायात् ॥
6अप उपस्पृश्योति ॥ अत्राप्यादावन्ते चेति वेदितव्यं, ‘यक्ष्यमाणो वेष्ट्वा वा’ इति वचनात् । तत्रादौ ‘विद्युदसि'77 । इति । अन्ते ‘वृष्टिरसि'77 इति । ततो गृहानेति । गृहं गत्वैव दानार्थं वचनम् । ततो गृहं गत्वा यत्किञ्चिदपि गृहस्थो दद्यात् सा दक्षिणा अस्य यज्ञस्याङ्गम् । तस्माद्यत्किञ्चिद्दद्यादिति विधिः ॥
इति द्वितीये त्रयोदशोऽनुवाकः ॥

१४

1तस्य वा इति ॥ अनध्ययनहेतवो विद्युदादयो ब्रह्मयज्ञे न सन्तीति प्रतिपादनार्थमिदमारभ्यते । अस्य यज्ञरूपत्वात् कर्मणि चानध्यायाभावात् । तदेव च कर्मत्वं स्पष्टयितुं मेघादयो हविर्धानादिरूपेण रूप्यन्ते । तस्यैतस्य ब्रह्मयज्ञस्य अध्ययनात्मनो मेघादयो हविर्धानादिस्थानीया अनिवृत्तिहेतवो वेदितव्याः । उदकाधारत्वेन मेघो हविर्धानस्थानीयः । उदकस्य च हविष्ट्वं वक्ष्यति ‘वर्षं हविः’ इति । हविर्धाने हि सोमादीनि हवींषि निधीयन्ते । विद्युद् अग्निस्थानीया, प्रकाशवत्त्वात्, वृष्टिहेतुत्वाच्च । वर्षं हविस्स्थानीयं, सस्याद्युत्पत्तिहेतुत्वात् । स्तनयित्नुः स्तनितं कुर्वन् मेघः वषट्कारस्थानीयः, तदनन्तरं वर्षलक्षणस्य हविषः प्रवर्तनात् । अवस्फूर्जो ऽशनिशब्दः सो ऽनुवषट्कारस्थानीयः, पश्चाद्भावसाम्यात् । वायुर् आत्मस्थानीयः, प्राणत्वात् । अमावास्या स्विष्टकृत्स्थानीया, यजनसम्पत्तिहेतुत्वात् ॥
2य एवं मेघादीनाम् अध्ययनाङ्गत्वं विद्वान् मेघादिसद्भावेऽपि वायौ च पवमाने अमावास्यायां च अधीते तत्तप एव तप्यते, नित्यस्वाध्यायाध्ययनलक्षणं हि तपो ऽविगुणमेव चरति । तदेवाह - तपो हि स्वाध्याय इति, सर्वतपःफलहेतुत्वात्, नातः परन्तपोऽस्तीति । तस्मादेतेष्वपि निमित्तेषु कर्तव्यमेवेति विधीयते । एवं कुर्वन् उत्तमं नाकं सुखैकरूपं स्थानं रोहत्य् आरोहति, समानानां तुल्यजन्मनां च मनुष्याणाम् उत्तमो भवति । किञ्च - इमां पृथिवीं वित्तस्य पूर्णां धनेन सम्पूर्णां ददद् यावन्तं स्वर्गं लोकं जयति तावन्तं लोकं जयति । किमुच्यते तावन्तमिति? भूयांसं च लोकं जयति; ततोऽपि बहुतरफलप्रदमित्यर्थः । अक्षय्यं च लोकं प्राप्नोति, क्षेतुमशक्यम् अक्षय्यम् । ‘क्षय्चजय्यौ शक्यार्थे’ इत्ययादेशः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । पुनर्मृत्युं भूयोमरणम् अपजयति निस्तरति, अमृतत्वं प्राप्नोतीत्यर्थः । एवं जननमरणरहितः ब्रह्मणस्सायुज्यं सयुग्भावं गच्छत्य् एकीभवति ॥
इत्यारण्यके द्वितीये चतुर्दशोऽनुवाकः ॥

१५

1तस्येत्यादि । उक्तं न कश्चिद् अप्यनध्यायो ऽस्याध्ययनयज्ञस्येति । इदानीमस्यापि द्वावनध्यायौ स्त इति दर्शयति ।
यदाऽऽत्मा छर्दनाशनपानादिना आशौचेन अशुचिर् एकोऽनध्यायो ऽनध्यायहेतुः । यद्देश इति, अशुचिरित्येव । मूत्रपुरीषाद्याकीर्णतया अशुचिर्देशोऽनध्यायहेतुर्द्वितीयः । समृद्धिर्दैवतान्य् अस्य यज्ञस्य । यज्ञान्तरवन् न द्रव्यार्जनादिना अस्य यज्ञस्य सामग्रीसम्पत्तिर् अपितु दैवतान्येव फलस्य दातॄण्य् अस्य समृद्धिः । य एवं देवतातृप्तिमेवास्य समृद्धिमावश्यकतया विद्वान् कालादिनियमानादरेण यावत्तरसं यावद्बलं शक्तिमेव नियामिकां मन्यमानः स्वाध्यायमधीते सर्वान् लोकान् जयति सर्वान् लोकान् अनृण एव सञ्चरति, अपाकृतसर्वयज्ञाद्यृणत्वात् , ‘जप्येनैव तु संसिध्येत्’ इति स्मृतेः, ‘स्वाध्यायप्रवचने एव’ इति च श्रुतेः । यज्ञादीन् समर्थः कुर्यात् , असमर्थः स्वाध्यायेनैव सिध्यतीति ॥
2तदिदमर्थरूपमभिलक्ष्य एषा ऋगुक्ता । अनृणा अस्मिन्निति त्रिष्टुप् । व्याख्यातेयं ‘अनागसस्त्वा’ इत्यत्र । सर्वेषु लोकेष्व् अनृणास्स्याम । देवयानान् पितृयाणांश्च सर्वान् पथो ऽनृणा आक्षीयेम अश्नुवीमहीति ॥
3अग्निं वा इति ॥ अग्निं जातमात्रमेव पाप्मा जन्मनिमित्तो जग्राह । तम् अग्नेः पाप्मानं देवा आहुतीभिर् अपाघ्नन् आहुतिसम्बन्धेन अपापमकुर्वन् । अथ आहुतिनिमित्तं पापं यज्ञेनापाघ्नन् , यज्ञसम्बन्धेनाहुतयोऽपापा अभूवन् । एवं सर्वत्र । दक्षिणासम्बन्धेन यज्ञोऽपापोऽभवत् । ब्राह्मणसम्बन्धेन दक्षिणा अपापा अभवन् । अथ ब्राह्मणश्छन्दोभिर्गायत्र्यादिभिस्सम्बन्धादपापोऽभवत् । छन्दांसि च स्वाध्यायेन वेदेन सम्बन्धादपापान्यभवन् । अथ स्वाध्यायोऽधीयमानस्स्वयमेवापहतपाप्मा स्वस्याध्येतुः पापं स्वयमेवापहन्ति, न घातकान्तरमपेक्षते । अत्र हेतुमाह - देवपवित्रं वा एतद् देवानामपि पवनसाधनमेतत् । दासीभारादिर्द्रष्टव्यः । यद्वा - देवैः पवित्रं पावयितृत्वमस्येति । देवाः पवित्रमस्येति वा देवपवित्रम् । स्वरो लभ्यते लिङ्गं तु व्यत्येति । तं तादृशं स्वाध्यायमारभ्य योऽनूत्सृजति पश्चाद् विच्छेदेन त्यजति स वाचि वेदात्मिकायाम् अभागो भवति फलभाङ्न भवति । ‘नसुभ्याम्’ इति व्यत्ययेन न प्रवर्तते । यद्वा - तस्य वाच्य् अभागो भवति भागो न भवति । अत एव नाकेऽप्य् अभागो भवति ॥
4तदिदमर्थरूपमभिलक्ष्य एषा ऋगुक्ता । यस्तियाजेति त्रिष्टुप् । व्याख्यातेयं ‘साकञ्जानां’ इत्यत्र । समानख्यानविदं समानख्यानत्वस्य ज्ञापयितारं सखायं समानख्यानस्थानं वेदं यस् तित्याज तस्य वाचि वाङ्निमित्ते श्रेयस्य् अल्पोऽपि भागो नास्ति । यदीं शृणोति तद् अलकं शृणोति नैव शृणोति, अश्रुतसममेव तन् नहि सुकृतस्य पन्थां मार्गं प्रवेद, वेदाभावात् । यद्वा - सुकृतस्य पन्थानं वेदं न प्रवेद । तस्माद्वाचि नाके च अभागः स्यादनधीतवेदः ॥
5तस्मात्स्वाध्यायोऽध्येतव्यः, वाचि नाके च अभागो नाभूवं, अपितु सर्वत्र भागी भूयासमित्यध्येयस्स्वाध्यायः । केचित्तु - प्रथमाध्ययनविधानमिदमित्याहुः ॥
6यंयं क्रतुं क्रतुप्रतिपादकग्रन्थम् अधीते तेनतेन प्रतिपाद्येन क्रतुना इष्टमनेन भवति । तेन वाङ्निमित्तस्य सकलस्य श्रेयसो भागी भवतीत्युक्तम् । ततश्चाग्न्यादिसायुज्यं गच्छत्यध्येता । नाके भागित्वम् एतेन दर्शितम् ॥
7तदिदमर्थरूपमध्येतृमाहात्म्यमभिलक्ष्य एषा ऋगुक्ता ॥ ये अर्वाङिति त्रिष्टुप् अनवसाना । अवाङ् पुराण इति द्वयोरपि विभक्तिव्यत्ययः । अर्वाचीनम् इदानीन्तनं पुराणं पुरातनं व्यासादिकृतं वेदंविद्वांसं वेदार्थस्य वेदितारम् अभितो वदन्ति परिवदन्ति ये ते सर्वेऽप्य् आदित्यमेव परिवदन्ति, अपि च अग्निं द्वितीयं वायुं तृतीयं हंसमादित्यं च परिवदन्ति नैकमेवादित्यम् । अभितोवादः परिवादश्च स्तुतिरिति केचित् ॥
8उक्तमग्न्यादित्रितयात्मकत्वं वेदविदः । इदानीं सर्व देवतामयत्वमाह - यावतीरिति ॥ यावत्यो देवतास्सन्ति तास्सर्वा अपि वेदविदि वेदार्थज्ञे ब्राह्मणे वसन्ति, सर्वदेवतासामर्थ्यात्मकत्वाद्वेदार्थस्य । एतेन च अर्थज्ञानपर्यन्तत्वमध्ययनस्य सूचितम् ॥
9तस्मादित्यादि ॥ गतम् । दिवेदिवे दिनेदिने । दिनशब्दपर्यायाद् दिव्शब्दाद्व्यत्ययेन चतुर्थी । अश्लीलम् अशुभं, अश्रीकमिति यावत् । कपिलकादित्वाल्लत्वविकल्पः, मत्वर्थीयो लः । एवं वर्तमान एतास्सर्वा देवताः प्रीणाति ॥
इति द्वितीये पञ्चदशोऽनुवाकः ॥

१६

1रिच्यत इवेति ॥ देहक्षयो रेकः, पुण्यक्षयः प्ररेकः, वेदार्थस्यापि विस्मृतिहेतुत्वात् प्रकृष्टत्वं पुण्यक्षयस्य सामर्थ्याच्च याजनप्रतिग्रहावयोग्यविषयौ निन्द्यते । त्रिरिति । स्वाध्यायशब्दवाच्यमात्मीयं सर्वमपि वेदं त्रिरावृत्तम् अधीयीत अनश्नन् अभुञ्जानः । अशक्तश्चेत् त्रिरात्रं वेत्यादि । अनश्नन्नित्येव । सावित्रीं सवितृदेवत्यां गायत्रीछन्दस्कां - ‘तत्सवितुः’ इत्येतामृचमधीयीत त्रिरात्रमनश्नन् । ततस्तेन कर्मणा आत्मानमन्वातिरेचयति । अनन्तरमेव रेकान्निवर्त्य मर्यादया अतिरेचयति वर्धयति, रिक्त इति वाच्यो न भवति । वरो गौः । वरेणैव वरं स्पृणोति प्रीणयति । आत्मा हि वरः ॥
इति द्वितीये षोडशोऽनुवाकः ॥

१७

1दुहे ह वा इति । दुहे दुग्धे छन्दांसि निस्साराणि करोति यो याजयत्य् अयाज्यम् । अविशेषेणेत्येके, आपदि तु वृत्तिस्यादिति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । प्रपूरणं पूरणाभावः, यथा प्रस्मरणं प्रस्थानमिति धात्वर्थाभावः प्रशब्देनोच्यते । स येन यज्ञक्रतुना अग्निष्टोमादिना याजयेद् अयाजयत् तस्य प्रतिपादकमेनं स्वाध्यायैकदेशम् अरण्ये शुचौ देशे अधीयन् अकृच्छ्रेण अधीयानः समाहित आसीत । ‘इङ्धार्योश्शत्रकृच्छ्रिणि’ इति शतृप्रत्ययः । इदानीं तस्य तादृशी स्थितिं यज्ञक्रतुत्वेन रूपयति - तस्येत्यादि । ‘त्रिरात्रं वा’ इत्यधिकारात् त्र्यहमेवं कुर्यादिति । अनशनं दीक्षास्थानीयं, देहकार्यहेतुत्वात् । स्थानम् उपसत्स्थानीयं, उपपत्तिरूपतपोरूपत्वात् । आसनं सुत्यास्थानीयं, प्राणाख्यस्य हविषोऽभिषवरूपत्वात् । वाक् जुहूस्थानीया अध्ययनबलस्य हविस्स्थानीयस्य आधारत्वात् । मन उपभृत्स्थानीयं, एतत्पूर्वभावित्वात् । धृतिर् अध्यवसायात्मा सा ध्रुवास्थानीया, सर्वोपादानत्वात् । प्राणो ऽध्ययनबलं स हविस्स्थानीयः, देवतातृप्तिहेतुत्वात् । साम अध्ययननियमः सो ऽध्वर्युस्थानीयः, अध्वररूपानिवृत्तिहेतुत्वात् । यद्वा - अध्ययनशान्तिः साम । सोऽयं यज्ञः प्राणदक्षिणः प्राणो बलं तत्समाप्तिरेव दक्षिणा दानमस्य, चतुर्थे ह्यह्नि प्राणपीडाऽतीवास्य भवतीति । एवमयं प्राणदक्षिणो यज्ञस्समृद्धः । अनन्तदक्षिणस्तु समृद्धतरः - अनन्तम् अनन साधनम् अन्नम् अन्तहीन त्वाद्वा, तद्दक्षिणः प्राणदक्षिणादप्यतिशयेन समृद्धः । तस्माद्यज्ञसमाप्तौ प्रभूतमन्नं देयमिति ॥
इति द्वितीये सप्तदशोऽनुवाकः ॥

१८

1कतिधेति ॥ अवकीर्णं भग्नं व्रतं यस्य ब्रह्मचारिणः सो ऽवकीर्णी । रेतस्कन्दनादिकमव्रत्यं चरित्वा अवकीर्णी भवति । स कतिधा कतिभिः प्रकारैर् विशीर्णशरीरः प्रविशति, सामर्थ्याच्च कान् प्रविशति विशीर्णस्य बहुविषयत्वात्, इति प्रश्नः॥
2उत्तरं चतुर्धेति ॥ एवं पृच्छद्भ्य उत्तरं ब्रह्मवादिन आहुश् चतुर्धा अवकीर्णी चतुर्धा प्रविशतीति । इदानीं तान् प्रकारान् ब्रह्मवादिन एव दर्शयन्ति - मरुतः प्राणैरित्यादि । अयं प्राणैरात्मीयैर् मरुतः प्रविशति, स्वयं विनष्टप्राणो भवतीति यावत् । एवं सर्वत्र । इतरेण सर्वेणेति शरीरेण ॥
3तस्येत्यादि ॥ तस्य एवं विशीर्णदेहस्य सुदेवो नाम कश्यपपुत्रः प्रायश्चित्तं विदाञ्चकार ज्ञातवान् । ‘उषविदजागृभ्यः’ इत्यामप्रत्ययः । य इत्यादि । उपघातम् उपहत्योपहत्य सकृदेव गृहीत्वा आज्यं जुहोत्य् अनेन मन्त्रेण । कामेति । हे काम कामात्मन् अग्ने अवकीर्णोऽस्मि भग्नव्रतोऽस्मि । त्वमेव कामात्मा माम् अवकीर्णमकरोः । अनुतापप्रकटनार्थं द्विर्वचनम् । हे काम ! तस्मै कामात्मने तुभ्यं स्वाहुतमिदमाज्यमस्तु । एवम् अभिद्रोहेऽपि योजनीयं, आत्मनैवाहम् अभिद्रुग्धोऽस्मीति । अमृतं वा इत्यादि । गतम् ॥
4हुत्वेत्यादि ॥ प्रयताञ्जलिः कवातिर्यङ् ईषत्तिरश्चीनशरीरः नाभिमुखो न पराङ्मुखः, अपितु पार्श्वेन अग्निमभिमन्त्रयेत । कोः कवादेशश्छान्दसः ॥
5अथाभिमन्त्रणमन्त्रः - सं मा सिञ्चन्त्विति ॥ मरूदादयो मां संसिञ्चन्तु बहुधा विशीर्णप्राणादिकम् एकत्र सिञ्चन्तु स्थापयन्तु, आयुषा च बलेन च अपूर्वेण, न केवलं विशीर्णैरेव प्राणादिभिस्सहितं किन्तु दीर्घेणायुषा आयुष्मन्तं मां कुरुतेति ॥
6प्रतिहेत्यादि ॥ एवं कृते मरुतोऽस्मै प्राणान् पूर्वविशीर्णान् प्रतिदधत्य् अस्मिन् स्थापयन्ति । प्रतीन्द्र इत्यादि । गतम् । ततश्चायं सर्वतनुः प्रतिलब्धसर्वशरीरस्सन् सर्वं सम्पूर्णम् आयुः प्राप्नोति शतायुर्भवति ॥
7त्रिरियादि । गतम् ॥
8य इत्यादि ॥ योऽन्योऽप्य् अपूत इव सङ्कीर्णमिव पापैरात्मानं मन्येत सो ऽपि इत्थं होमम् अभिमन्त्रणं च कुर्यात्, द्विराज्यस्योपघातं ‘कामावकीर्णः’ इति मन्त्रेण जुहुयात्, सं मा सिञ्चन्त्विति त्रिभिरभिमन्त्रयेत । आत्मानं पुनीते आयुश्चात्मनि स्थापयति ॥
9वरो दक्षिणेत्यादि । गतम् ॥
इति द्वितीये अष्टादशोऽनुवाकः ॥