०७
…
अथ दक्षिणत उदीचीरात्मन्युपदधाति सप्त आरोगादिभिः सप्तसूर्यनामभिः । नामधेयान्येव मन्त्राः । तत्प्रतिपादिकामाख्यायिकां ब्राह्मणं दर्शयति - आरोग इति ॥ त्रिष्टुबेषा । तत्रायं प्रयोगः “आरोगस् तया देवतया” इत्यादि । सप्तवायुस्कन्धवृत्तिनः सप्तसूर्या आरोगादयः सहोदयास्तमया अतिदवीयस्तया नोपलभ्यन्ते इत्येके । एकस्यैव धर्मभेदेन सप्तत्वमित्यन्ये । आद्यो बलवानित्यन्ये । येन बलवद् रुज्यन्ते पीड्यन्ते प्राणिनः स आरोगः । आरोहावस्थो वा; छान्दसो वर्णव्यत्ययः । भ्राजयति ज्वलयति सर्वदा यो विश्वं स भ्राज उन्मिषद्रवः प्रजाया व्यामोहकस्वभावेन रश्मिना वा विश्वं व्यामोहयतीति पटरः किञ्चिदुन्मिषितगतिर् वा । पतङ्गः ज्ञानबोधयिता विश्वस्य । स्वर्णसमानप्रभः स्वर्णरो ऽत्युज्ज्वलः । मत्वर्थीयो रः । ज्योतिषी ज्योतिर्द्वयमुभयोः पार्श्वयोर् यस्य द्योतनस्वभावशक्तिद्वयाक्रान्तसमीपो ज्योतिषीमान् । छान्दयो नपुंसकद्विवचनस्यालुक् । समन्ताज् ज्योतिर्भिर् व्याप्तो वा । विविधं भासयति सर्वान् लोकानिति विभासः, सर्वलोकव्यापितेजा वा । ते सप्तसूर्या अस्मै यजमानाय यजमानाभ्युदयाय सर्वे अपि दिवमातपन्ति प्रद्योतयन्त्य् ऊर्जं रसं दुहानास् तत्र यजमानार्थमाप्याययन्तो ऽनपस्फुरन्तो ऽसुष्ठुस्फुरणम् अपस्फुरणं स्वस्वकार्यविरुद्धं स्फुरणम् अकुर्वन्तः । इतिशब्देन एतादृक्प्रसिद्धान् आरोगोदीनुपदध्याद् इति दर्शयति ।
कश्यपो नाम अष्टमः सूर्यः । छान्दसो वर्णव्यत्ययः । विश्वं साक्षित्वेन सर्वदा पश्यतीति कश्यपः । “पाघ्राध्माधेट्दृशश्शः” इति शः । वक्ष्यते “कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात्” इति । स कश्यपो न कदाचिदपि महामेरुं जहाति मेरुवासं नोत्सृजति । मेरुस्थानामेव सर्वदा दृश्यः परिवर्तते पार्श्वेषु यो वा मानसोत्तरं किञ्चित्किञ्चिदपसृत्य परिवर्तते तस्य अष्टमस्य प्रतिपादिका एषा ऋग्भवति ॥१॥
यत्त इति ॥ त्रिष्टुप् । हे कश्यप पश्यक सूक्ष्मदृष्टे यत्ते तव शिल्पं सूक्ष्मं कर्म जगत्सृष्टिलक्षणं रोचनावत् प्रकाशवत् । जगत्सु प्रकाशार्हम्, जगतां वा प्रकाशकम् । इन्द्रियावद् वीर्यवत्, इन्द्रियैर्वा तद्वद् इन्द्रियसामर्थ्यवत् । “मन्त्रे सोमाश्व” इति दीर्घत्वम् । पुष्कलम् अविकलम्, पुष्टिकरं वा । चित्रभानु चायनीयदीप्तिमत् । किञ्च - यस्मिन् त्वयि तत्कर्मशिल्पे जगत्सृष्टिलक्षणे सप्तापि सूर्याः साकं सहभूता अर्पितास् त्वयैव स्थापितास् तस्मिन् ब्रह्मपदे इमं यजमानं राजानं राजमानं दीप्यमानम् । मुमागमोऽनित्य इत्युक्तम् । अधिविश्रय उपरिष्टात् स्थापय । अन्तर्भावितण्यर्थश्श्रयतिः ॥२॥
यदुक्तं “यस्मिन् सूर्या अर्पितास्सप्त साकम्” इति तद्विवृणोति - ते सर्वेऽपि सूर्याः कश्यपाज् ज्योतिर्लभन्ते तस्मात्तदनुगृहीता जगत्सृष्टिं कुर्वन्तीति । यच्चोक्तम् - “तस्मिन्राजानमधिविश्रयेयम्” इति तदपि व्याचष्टे - अस्मा इति । यजमानार्थमेव खलु ते कश्यपाल्लब्धज्योतिषो दिवमातपन्तीति । कथं पुनः सूर्याणां कश्यपाज् ज्योतिर्लाभ इत्यत आह - तानिति । तान् सूर्यान् सोमः कश्यपादध्य् उपरि निर्धमति दाहयित्वा निर्गमयति । कश्यपाग्नौ दहनेन अपनीतकिट्टानिव कृत्वा स्वर्णादीनिव ततो ज्योतिष्मतो निर्गमयति । यद्वा - निर्धमनं शोधनम्, सोमः कश्यपाग्नौ शोधयति यथा दह्यमानस्वर्णवद् आत्मीयं ज्योतिर्लभन्ते तिमिरं मुञ्चन्ति तथा निर्धमयति । यस्मादयं सोमस् तेषां भ्रस्ताकर्मकृदिव भवति । वर्णव्यत्ययेन भ्रस्ता भस्त्रादृतिः; तया यत्कर्म क्रियते तद् भ्रस्ताकर्म; तस्य कर्ता भ्रस्ताकर्मकृत् । यथा सुवर्णकारादिः सुवर्णादेः किट्टादिकमपनेतुं भस्त्रया वायुमुत्पाद्य ज्वालिताग्निना ततः किट्टादिकम् अपनयति तत्स्थानीयोऽयं सोम एषामिति । ओषध्यात्मा ओषधीशात्मा वा सोमः द्वयोरपि यागादिसाधनद्वारेण कश्यपाग्नेर् उत्तेजनहेतुत्वेन भस्त्राकर्मकृत्त्वोपपत्तेः ॥३॥ अथ किमात्मान एते सप्तसूर्या इत्याह - प्राण इति ॥ मुखनासिकाभ्यां यो निष्क्रामति स प्राणः । एवमादिभिः सप्तभिर् वृत्तिभेदैर्भिन्नः प्राणाख्यो वायुः सप्तसूर्या इति केचिदाचार्या आहुः । प्राणिनां जीवनिमित्तभूतानि जीवाख्यानि तत्वानि महदादिपृथिव्यन्तानि सप्तसूर्या इत्यन्ये । तेषामधिष्ठातारः सप्तक्षेत्रज्ञा इति केचित् । इन्द्रियाणां चक्षुरादीनां मनोबुद्धिसहितानामधिष्ठातारः क्षेत्रज्ञाः सप्तेत्यपरे । तेषामेवेन्द्रियाणां स्वकार्यकरणलक्षणजीवननिमित्तभूताः स्वसामर्थ्यविशेषाः सप्तेत्येके । द्वे चक्षुषी द्वे नासिके द्वे श्रोत्रे एकमास्यमिति सप्त शीर्षण्याः प्राणाः शिरसि भवाः प्राणनहेतवः सप्तसूर्या इत्यन्ये । इत्य् एवम् आचार्या बहुधा आचक्षते; यातात्म्यं न जानन्तीति यावत् ॥४॥
अथ अपश्यं चक्षुर्भ्यामेव दृष्टवान् एतान् सप्तसूर्यान् याथातथ्येन जानामि इति पञ्चकर्णो नाम वात्स्यायनः वत्सस्य पुत्रः । तथा सप्तकर्णो नाम प्लाक्षिः प्लक्षपुत्रः । इदं चाप्याहतुः - यो ऽष्टमः सूर्याणां कश्यपो नाम सः नौ आवयोर् आनुश्रविक एव । अनुक्रमेण श्रवणमनुश्रवस् तत्र भव आनुश्रविकः; अध्यात्मादित्वाट् ठक् । “यत्ते शिल्पं कश्यप” इत्यादिश्रुतिप्रसिद्ध एवावयोर् न कदाचिदप्यावाभ्यां दृष्ट इति ॥५॥
अथैवमुक्तवन्तौ उभौ पञ्चकर्णसप्तकर्णौ ऋषी वेदयिते बोधयति । वर्णव्यत्ययेन इकारः । को वेदयते “गार्ग्यः प्राणत्रातः” इति वक्ष्यति । प्राणत्रातो नाम गार्ग्यस्यापत्यम् । कथं वेदयते - न हि युवां महामेरुं गन्तुं शेकुमिव शेकथुरिव । पुरुषवचनवर्णानां व्यत्ययः । नूनं महामेरुं गन्तुं शक्तौ युवां यदाहथुः “आनुश्रविक एव नौ कश्यपः” इति । अहं तु गार्ग्यः प्राणत्रात एतद् अपि सूर्यमण्डलं कश्यपमण्डलमपि मेरौ परिवर्तमानम् अपश्यं तत्रैव गत्वा दृष्टवानस्मि । तस्माद् युवामपि यदि तं दिदृक्षेथे यदि च मेरुं गन्तुं शक्नुथस् तर्हि तं महामेरुं गच्छन्त गच्छतम् । तशब्दात् परत्रावस्थितो मकारः स्थानव्यत्ययेन पूर्वत्र गच्छतीति । किञ्च - तं च एकं प्रधानं सूर्याणां कश्यपं गच्छतं पश्यतम् अजहतं महामेरुं न जहाति यः; “स महामेरुं न जहाति” इत्युक्तं स्मारयति । एवमेतौ प्राणत्रातो वेदयत इति ॥६॥
उक्तं मेरुस्थानामेव कश्यपो दृश्यो भवतीति । तत्र सप्तसु सूर्येष्व् आतपत्सु कथं तदतिलङ्घनेन मेरुर्गन्तव्यः; तस्मादानुश्रविक एव कश्यपस्सर्वेषामिति वचनावसरे सुखगमनं मेरुमार्गमाभ्याम् उपदिशति प्राणत्रातः । अत्रारोगप्रवृत्तेः सुप्रसिद्धत्वादितरेषां प्रवृत्तिविशेषं दर्शयति - भ्राजादयः सूर्या निहने वक्ष्यमाणस्य मेरुमार्गस्याधःप्रदेशे तिष्ठन् तिष्ठन्तः जनान् आतपन्त्य् अधोमुखत्वाद् रश्मीनाम् । विभक्तिवचनयोर् व्यत्ययः निपूर्वात् हन्तेश् छान्दसोकारप्रत्ययः । यद्वा - निहने निहत्य तिष्ठन्तः । क्त्त्वार्थे एप्रत्ययः । तस्मादिह मनुष्यलोके अन्तरिक्षे च भ्राजादयस् त्रयस् तप्त्रितपास् तप्तृतपसः । तपशब्देन रश्मिरुच्यते । अधस्तात्तापनशीला रश्मयो येषां ते तथोक्ताः । वचनव्यत्ययेनैकवचनम् । यद्वा - तपन्तीति तपा रश्मयः; पचाद्यच् । तप्तॄन् शत्रून् । छान्दस इकारोपजनः । अथ इतरे स्वर्णरादयः सूर्या अमुत्र परलोकेषु तिष्ठन्त आतपन्ति । तस्मादिह अर्वाचीने मेरुमार्गे ते अतप्त्रितपा अतप्ततपसः, ऊर्ध्वमुखत्वाद् रश्मीनाम् । तस्माद् उभयेषां मध्ये सुखशीतलेन पथा मेरुर्गन्तव्य इति । अथ तेषां सप्तानां सूर्याणां मार्गप्रदत्वप्रतिपादिनीयम् ऋक् भवति ॥७॥
सप्तसूर्या इति ॥ त्रिष्टुप् । एतां चानियतदेशमुपदधाति । सप्त एते सूर्या दिवम् अन्तरिक्षम् अनुप्रविष्टा अनुक्रमेण व्याप्ताः । तान् भक्तेभ्यो मार्गप्रदान् अन्वेत्य् अनुक्रमेण प्राप्नोति । पथिभिः सुखैर् मार्गैः । कः? दक्षिणावान् यजमानो ऽन्विष्टकं विहितदक्षिणादानसम्यङ्निर्वर्तितारुणकेतुकाग्निचयनसमासादितभगवत्प्रसाद इत्यर्थः ।
इदानीं न केवलं पथिलाभ एव, अपि तु सत्कारविशेषानप्यस्य कुर्वन्तीत्याह - ते इति । ते सप्तसूर्याः सर्वे अप्य् अस्मै यजमानाय अनपस्फुरन्तः सुष्ठु स्फुरमाणा ऊर्जं रसवद् घृतं मध्वादि दुहाना अपहरन्त एव आतपन्ति । तत्र तत्र गतायास्मै घृतकुल्यादिकं ददति “अहो स्वागतम् । इहास्यताम् । इदं भुज्यताम्” इति वदन्ति । आतपन्ति स्थानविशेषं भोग्यविशेषं च प्रकाशयन्ति । एवमारुणकेतुकचितां स्थानत्वेन प्रतिपादनात् सप्तसूर्या अपि तत्र पूर्वं गता आरुणकेतुकचित इति दर्शितं भवति ॥८॥
अथ अपरे आचार्याः सप्तर्त्विजः सप्तहोत्राः सप्त सूर्या इत्य् आहुः । ते च धिष्ण्यवन्तो होतृप्रभृतयः । तेषाम् ऋत्विगात्मनां सूर्याणां प्रतिपादिका एषा ऋग्भवति ॥९॥
सप्तदिश इति ॥ अनुष्टुबेषा । एतां चोपदधात्य् अनियतदेशाम् । अत एव लिङ्गात् सत्रे आरुणकेतुको नास्तीत्याहुः, ये यजमाना ते ऋत्विज इति तत्र ऋत्विजामभावात् । अन्ये यु यजमाना एव तत्र ऋत्विजः सन्तीति तत्राप्यस्तीत्याहुः । सप्तदिशो नानासूर्याः पृथक्पृथक् विभिन्नाः सूर्याः सन्तीत्यर्थः । प्राची सूर्यवतीति प्रसिद्धा । अन्या अपि सप्त सूर्यवत्य एव, तत्कार्यस्य प्रेरणादेर्दर्शनात् । अथ सप्तहोतारः होतृका होतृप्रभृतय ऋत्विजः सप्तसूर्यास् तत्कार्यकारित्वात् । तदेवाह - देवा आदित्या द्योतनस्वभावा आदित्या रसादानशीला ये ऋत्विगात्मानः सप्त सूर्यास् तेभिस् तैः सोमाभिः सावकस्वभावैः । सूतेः ‘अन्येभ्योऽपि दृश्यते’ इति मनिन् । छान्दसं दीर्घत्वम् । रक्षणः लक्षणः लक्षणीयः कालः वैलक्षण्यं भजते । तस्मात् कालवैलक्षण्यहेतुत्वादेषां सूर्यत्वमिति सम्यक् निवृत्तिहेतुत्वात् कालधर्माणाम् । वर्णव्यत्ययेन रेफे “रोरि” इति लोपे “ढ्रलोपे” इति दीर्घत्वम् । यद्वा - रक्षणः लक्षणः लक्षणीयो लोको भवत्येतैः, तस्मादेते सप्तसूर्या इति । लिङ्गव्यत्ययो वा । एतैर् लोकानां रक्षणं भवति, तस्मादेते सूर्या इति ॥१०॥
नन्व् ऋत्वजां सूर्यत्वप्रतिपादनाय इयमृगुपादीयते । तत्र “सप्तदिशो नानासूर्याः” इत्यंशस्याप्रस्तुताभिधानत्वं स्यात् । तत्राह - तदप्याम्नाय इति ॥ तादृशोप्य् आम्नायो ऽस्त्येव । कीदृश इत्यत आह - दिग्भ्राज ऋतून् करोतीति । दिशां भ्राजः प्रकाशका दिग्भ्राजस् तादृशाः सप्तसूर्याः सन्ति । ते ऋतून् करोत्य् ऋतुधर्मान् प्रवर्तयन्तीति । व्यत्ययेनैकवचनम् । तस्मात्तेषां सूर्याणाम् आम्नायान्तरप्रसिद्धत्वात् तत्प्रतिपादनस्य चापेक्षितत्वान् नाप्रस्तुताभिधानदोष इति । एवम् एतया आवृता कर्मणा कार्यभेदनिबन्धनकारणभेदकल्पनया नानासूर्यत्वं कल्पनीयम् आसहस्रसूर्यताया उपलक्षणत्वात् ततोप्यधिकाः कल्प्या इति वैशम्पायननामा ऋषिराह । तस्य अर्थस्य प्रतिपादिका एषा ऋक् भवति ॥११॥
यद्द्याव इति ॥ वैशम्पायनदृष्टस्यार्थस्य इयमृक् प्रतिपादिका । तस्मादृषिरयमस्याः । न तु वैशम्पायनमभिवदति । इयं च संस्तारबृहती । एतां चानियतदेशामुपदधाति । व्याख्याता चेयं “नवो नव” इत्यत्र । हे इन्द्र वज्रिन् ! तव द्यावः द्योतनशीलाः शतंशतं भूमीर् भूमिका यद् यद्य् उत स्युर् अपि स्युर् यथा वयं शृणुमः यदि तथा ताः सर्वा अपि भवेयुस् तदा त्वां रोदसी रोदस्योर् जातं सहस्रम् अपि नाना सूर्या नान्वष्ट नाश्नुवते तेजसा त्वां न प्राप्नुवन्ति । अश्नोतेश् छान्दसो लङ् । विकरणस्य लुक् । वचनव्यत्ययेनैकवचनम् ॥१२॥
कथमिदमुपपद्यत इत्याह - नानालिङ्गत्वादृतूनाम् इति ॥ फलकुसुमविशेषसमृध्यादिभिर् नानाभूतैर् लिङ्गैर् नानासूर्यत्वमनुमीयते । यद्येक एव सूर्यस्स्यात् तस्यैकस्वभावत्वाद् वसन्तादीनां विलक्षणधर्मत्वं न स्यात् । तस्मादृतूनां नानालिङ्गत्वान् नानासूर्यत्वं प्रतिकार्यं सूर्यानेकत्वं सिद्धम् । अष्टौ एव तु सूर्या व्यवसिता विनिश्चिता अकाल्पनिका इति प्रायशः सर्वाचार्यमतम् । अत ऊर्ध्वं तेषां सूर्याणाम् अष्ट मण्डलान्य् उच्यन्ते तत्र चोक्ता आरोगादयः कश्यपान्ताः । तेषां कश्यपः प्रकृतिः “कश्यपादुदिताः सूर्याः” इति । द्वितीयादीनि च मण्डलान्य् अतिदवीयस्तया नोपलभ्यन्ते, प्रथमेन व्यवहितत्वाद्वा । प्रथमस्य मण्डलस्य चत्वारि सहस्राणि चत्वारि शतानि दशोत्तराणि योजनानि व्यासः । अष्टौ धनुस्सहस्राण्य् एकं योजनम् । यथाऽऽहुः - नृषि योजनं ञिला भूव्यासोऽर्केन्द्वोर्घिञा गिणक मेरोः ॥ इति । अथ कियत्युछ्राये मण्डलमिदं परिवर्तते । उच्यते - ‘खयुगांशे ग्रहजवः’ इत्य् आकाशकक्षायाः सवितृभगणैर् विंशतिसहस्राधिकत्रिचत्वारिंशल्लक्षसङ्ख्यैर् हृत्वा लब्धं सवितुः कक्ष्यापरिधिप्रमाणं योजनान्य् अष्टाविंशतिलक्षाणि सप्ताशीतिसहस्राधिकानि षट्च शतानि षट्षष्ठ्यधिकसाग्राणि । अथाकाशकक्ष्यायोजनान्युच्यन्ते शून्याम्बराकाशरसस्वरेषुशून्ययमाद्रिवेदाद्रिवेदरवय एतावत्परिधिकं रवेर्मयूखास्समुद्योतयन्ति । इयमेवाकाशकक्ष्या; अन्यथा ह्यपरिमितत्वादाकाशस्य परिमाणोपदेशो न घटते । सवितृकक्ष्यापरिधेस् त्रैराशिकेन सवितृकक्ष्यापरिधिविष्कम्भो लभ्यते । स च चतुर्दशसहस्राधिका नवलक्षका एकषष्ठिश्च साग्राः । तदर्धं रविभूम्यन्तरालयोजनानि सप्तपञ्चाशत्सहस्राधिकाश्चत्वारो लक्षास् त्रिंशच्च साग्राणि । अतः पञ्चविंशत्यधिकपञ्चशतप्रमाणे भूव्यासार्धे शुद्धे शुद्धशिष्ट भूसवित्रन्तरालयोजनानि षट्पञ्चाशत्सहस्राधिकाश्चत्वारो लक्षाः साग्रपञ्चाधिकानि च पञ्चशतानि । एवमार्यभटीया आहुः । पौराणिकैस्तु बहुधोक्तमित्य् अलमतिप्रसङ्गेन ॥१३॥ अथ तेषां सूर्यमण्डलानां प्रतिपादिका इयमृक् भवति - “चित्रं देवानामिति” ॥ त्रष्टुबियम् । एतां चोपदधाति । व्याख्यातेयं “नवो नवः” इत्यत्र । चित्रं चायनीयं देवानां सर्वेषाम् अनीकस्थानीयं मित्रादीनां चक्षुस्थानीयम् इदं मण्डलम् उदगाद् उद्गच्छति । जातावेकवचनम् । एवम्भूतानि मण्डलान्युद्यन्तीति । केचिदाहुर् देवानां देवनशीलां मण्डलानाम् अनीकं परम्परा उदेतीति । उदेत्य च द्यावापृथिव्य् अन्तरिक्षं च इदं मण्डलं स्वतेजसा आऽप्रा आपूरयति । पुरुषव्यत्ययः । जगतस् तस्थुषश्च जङ्गमस्य स्थावरस्य सर्वस्य प्रकाशकत्वाद् आत्मस्थानीयः सूर्यः प्रबोधादिप्रदानेन विश्वस्य प्रेरकं प्रसावकं च सूर्यशब्दवाच्यं मण्डलमिदमित्थं करोतीति ॥१४॥ इत्यारण्यके प्रथमे सप्तमोऽनुवाकः ॥७॥
०८
अथ संवादावुपदधाति - क्वेदमिति ॥ अनुष्टुभौ । आपो बिभर्तीत्यब्भ्रम् । तच्च गौरवप्रतिपादनार्थमुक्तम् । क्व आधारे इदं दृश्यमानम् अभ्रं निविशते । आधेयतया वर्तते आधारविशेषाभावे ह्ययोगोल्यादिवद् इदं पतेत् । यद्वा - कुत्र कारणवस्तुनि इदं कार्यात्मकं निविशते अवतिष्ठते । अयं संवत्सरः मिथस्वभावः मिथः विभिन्नावयवारब्धः क्व निविशते इत्येव । सङ्गम्य वसन्त्यस्मिन् कालविशेषा इति संवत्सरः । तस्माद् विशिष्टेनाधारेण कारणेन वा भवितव्यमिति प्रश्नः । इदानीं तानेव कालविशेषान् ऐकदेश्येन व्याचष्टे - क्व अहः दिवसः क्व इयं च रात्री । “रात्रेश्चाजसौ” इति ङीप् । हे देव ! सर्वस्य विधात इदं नो वक्तुमर्हसीति । क्व मासाः सोरसावनचान्द्रनाक्षत्राः श्रिताः । क्व च ऋतवो वसन्ताद्याः श्रिताः । क्वार्धमासा मासानाम् अर्धानि । “अर्धं नपुंसकम्” इति समासः । क्व च मुहूर्ता घटिकाद्वयात्मिकाः । क्व च निमेषाः प्राणात्मिकास् त्रुटिभिस्सह त्रुटयश्च क्वेति यावत् । त्रुटयो नाम तत्पराशतभागाः । यथोक्तम् - “पराच्छततमो भागस्त्रुटिरित्यभिधीयते”॥ अन्ये आहुः - “द्व्यणुकप्रमाणास् त्रुटयः” इति । क्व च इमाः परिदृश्यमाना आपः निविशन्ते । यदि घना इतो भूमेर् यान्ति गच्छन्ति सम्प्रति इदानीं क्वेमा वर्तन्ते आपः पुनः पृथिवीसंयोगात् कुत्रासामवस्थानम् । यद्वा - “यदीतो यान्ति सम्प्रति” इति सर्वशेषोऽयं, यदि यदा इतो गच्छन्त्य् अभ्रादयः सम्प्रति तदानीं क्व एतेषामवस्थानमिति ॥१&२॥ अथ तिस्र उपदधाति - काला इति ॥ द्वे अनुष्टुभौ । इतरा द्विपदा गायत्री । कालाः पूर्वोक्ताः संवत्सरादयस् ते अप्सु निविशन्ते अपामुत्पत्तौ व्यापृताः सर्वे कालावयवाः । यद्वा - काला अप्सु कार्यतया निविशन्ते; अद्भिः कालावयवा उत्पद्यन्ते, सर्वयोनित्वात्तासाम् । आपश् च इतो याताः सूर्ये समाहिताः सम्यगाहिता निहिताः । अभ्राण्य् अप्य् अपः प्रपद्यन्ते तदुत्पत्तौ व्याप्रियन्ते । विद्युच् च सूर्ये समाहिताः सम्यक् निहिता, तदीयरश्मिजन्यत्वात् । अत्र “क्व विद्युन्निविशते” इति प्रश्न उन्नेयः ॥३॥ …
अथ मृत्युमतीश्चतस्र उपदधाति - पृच्छामि त्वेति ॥ तिस्रोऽनुष्टुभः । इतरा द्विपदा गायत्री । हे भगवन् ! त्वा त्वां पृच्छामि परं मृत्युं मारयितारं प्रजानाम् अवमं निकृष्टं च पृच्छामि मध्यमं नातिपरं नात्यवमं च पृच्छामि । चतुं चतुर्थं च पृच्छामि । चतुर्णां पूरणश् चतुः । “तस्य पूरणे डट्”, तस्य व्यत्ययेनोकारः, थुगागमाभावः । अथ सम्प्रति इदानीं मृत्युप्रश्नादनन्तरं पुण्यपापानां लोकं सुकृतदुष्कृतानि यत्र स्थाने पुरुषं नयन्त्य् एतच् च पृच्छामि । एतदिति लिङ्ग्यत्ययः, क्रियाविशेषणं वा ॥१०॥ अथोत्तरं - अमुम् आदित्यं परं मृत्युम् आहुर् मन्त्रदृशः, जन्ममरणव्याध्यादिनिकृष्टकारणत्वात् । पवमानं वायुं मध्यमं मध्यस्थानं मृत्युम् आहुः । अग्निरेव अवमो मृत्युर् उच्यते । चन्द्रमाश् चतुश् चतुर्थो मृत्युर् उच्यते ॥११॥ अनाभोगा आभोगवर्जिताः क्षुद्रजन्तवः कृमिकीटादयः पापाः पापाभिभूताः परं मृत्युम् आदित्यं सर्वदा असकृत् संयन्ति प्राप्नुवन्ति तद्रश्मिस्पर्शमात्रेण मृत्युं प्राप्नुवन्तस् तं मृत्युं प्राप्नुवन्तीत्युच्यते । ते हि पापाः पापमात्रवन्तो ऽनाभोगा आभोगवर्जिता अहरहः जायन्ते म्रियन्ते चेत्य् आभोग्यपुण्यसम्पादनायोग्या भवन्ति । ते असकृदावर्तिनो जन्तवः परं मृत्युं संयन्ति । अथ आभोगा इति । आभोगा आभोगवन्तः । मत्वर्थीयोकारः । ते हि सुकृतबलेन परं मृत्युमतीत्य असकृदावर्तित्वं हित्वा तद् एव स्थानं संयन्ति यत्र पुण्यकृतो जना वर्तन्ते ॥१२॥ ततो मध्यमं वायुम् आयान्ति तेन प्रेर्यमाणा भवन्ति । ततश् चतुं चन्द्रमसं जन्मकाले आयान्ति । ततो ऽग्निं पार्थिवं सम्प्रति सम्यक् जायमाना भवन्ति । एवमनेन क्रमेण वर्तन्ते आभोगिन इति ॥१३॥ अथ यमवतीश्चतस्र उपदधाति - पृच्छामि त्वा पापकृत इति ॥ सर्वा अनुष्टुभः । हे ब्रह्मन् ! पिरवृढश्रुत ! त्वा त्वां पृच्छामि । किमिति चेत् - पापकृतः प्राणिनो यत्र स्थाने यातयते क्लेशयति यमस् तत्स्थानं पृच्छामि । तत् स्थानं नो ऽस्मभ्यं प्रब्रूहि यदि त्वम् असतः पापिनो जन्तोर् गृहान् स्थानानि वेत्थ जानासि इदं प्रब्रूहीति ॥१४॥ अथोत्तरम् - कश्यपादुदिता लब्धज्योतिषः सूर्याः पापान् क्षुद्रजन्तून् निर्घ्नन्ति निष्कृष्य नाशयन्ति सर्वदा पुनः पुनः जातान् रोदस्योर् द्यावापृथिव्योर् अन्तर्देशेषु स्थलजलान्तरिक्षजाता ये रश्मिसंस्पर्शमात्रेण नश्यन्ति । अथ तत्र एव ते जन्तवः पुनरपि न्यस्यन्ते जायमानाः स्थाप्यन्ते वासवैर् वसवो रश्मयस् त एव वासवाः, स्वार्थिकोऽण् । स्वेदपाकादिकारिणो रश्मयः पुनरपि तत्प्रभावाज् जन्तून् जनयन्ति ॥१५॥ अथ ते अशरीरा विकृतशरीरा वा प्रपद्यन्ते प्राप्नुवन्ति कर्मपाकं कीदृशं यथा अपुण्यस्य पापस्य आत्मीयस्य सदृशं तादृसं पाकं प्रपद्यन्ते । तदेव दर्शयति - अपाणयः केचिज्जायन्ते । अपादाः केचित् - पादस्य लेपः समासान्तश् छान्दसः । अकेशाः केचित् । “आज्जसे रसुक्” समासनिर्देशः पाणि(सहि)तादिसमुच्चयोऽपि यथा स्यादिति । यथा - केचित् पाणिरहिताः केचित् पादरहिताः केचित् केशरहिताः केचित् सर्वरहिता इति । एवं तत्र रोदस्योरन्तर्देशेष्व् अयोनिजा जनाः स्वेदादिप्रभवा जन्तवो जायन्ते ॥१६॥ अथ मृत्वा अपि पुनो ऽपि मृत्युमापद्यन्ते अवशाः प्राप्नुवन्ति पुनः पुनः जननात् स्वकर्मभिर् आत्मीयैः कर्मभिः पापलक्षणैर् अद्यमाना भक्ष्यमाणा बलादवशतां नीयमानाः पुनः पुनः जायन्ते म्रियन्ते च । आशातिकाः क्रिमयः क्रिमिविशेषा इव आगत्य शातयन्ति नाशयन्तीत्याशातिकाः । “शदेरगतौतः” इति तत्वम् । छान्दस इकारः । स्त्रीलिङ्गो वा सञ्ज्ञाशब्दः । आशातिका ह्य् आगत्य शातनमात्रफलजीविनस् तदानीमेव नश्यन्ति क्षुद्राः । केचिदाहुः - आशिते भवा आशातिकाः । अध्यात्मादित्वाट् ठक् । छान्दसो वर्णविकारः । अथ ते जन्तवस् तत उत्तरकालं पूयन्ते शोध्यन्ते वासवैर् एव क्षीणपापाः क्रियन्ते । यद्वा - क्लेशनिवृत्तिः पवनम् । ते आहृतातपैर् वासवैर् निवृत्तक्लेशाः क्रियन्ते जन्तव इति ॥१७॥ उत्तरं ब्राह्मणम् - एतं कृपणं मृत्युम् अपजयति य एवं कर्मपाकक्रमं वेद जानाति । अथ “आ यस्मिन्” इति वक्ष्यमाणाया आख्यायिकायाः प्रथममेव निर्वचनं ब्राह्मणम् - स खल्विति ॥ स खल्व् एवंवित् कश्यपप्रभावविद् ब्राह्मणः दीर्घश्रुत्तमो भवति कश्यपेन दीर्घं चिरकालं श्रूयते अतिशयेनेति दीर्घश्रुत्तमः । कर्मणि क्विप् । कश्यपसकाशे चिरकालं ख्यातो भवति । यद्वा - दीर्घं शृणोत्यतिशयेनेति दीर्घश्रुत्तमः दीर्घायुरिति यावत् । सखल्वैवमिति छान्दसो विकारः । किञ्च - एवंविद् ब्राह्मणो ऽतिथिर् भवति कश्यपस्य कश्यपेनापि पूज्यो भवति । यद्वा - सततगमनः सर्वत्राप्रतिहतगतिर् भवति । अतेरिथिन्प्रत्ययः । यद्वा - तिथिकृता विशेषा अस्य न सन्तीत्यतिथिर् मृत्युहीन इति यावत् । किञ्च - सिद्धगमनः सिद्धागमनश् च, भवति सिद्धं पर्याप्तमङ्गलं सर्वैश्वर्ययुक्तं गमनमागमनं च तस्य तादृशो भवति । गमने कर्मत्वम् आगमने कर्तृत्वं द्रष्टव्यम् । अथ तस्य कश्यपस्य प्रतिपादिका एषा ऋक् भवति ॥१८॥ आ यस्मिन्निति ॥ अनुष्टुबेषा । एतां च दक्षिणतो दर्भस्तम्बस्योपदधाति । व्याख्यातेयं “इन्द्रं वः” इत्यत्र । यस्मिन् कश्यपे सप्त वासवा वसुमन्तस्सप्त सूर्याः, सूर्याणां वा सप्त रश्मय आरोहन्त्य् उत्पद्यन्ते पूर्व्या रुहः जगतः पूर्वाङ्कुराः । पूर्वा एव पूर्व्याः । तस्य इन्द्रस्य उदकस्य द्रावयितुः कश्यपस्य दीर्घश्रुत्तमो नाम ऋषिर् घर्मः दीप्ततेजा अतिथिर् भवति । एवं महाप्रभावः कश्यप इति ॥१९॥ अधुना कश्यपं पदनिर्वचनेन स्तौति ब्राह्मणम् - पश्यको ऽसौ वर्णव्यत्ययेन कश्यप उच्यते । कश्यपत्वं तर्हि कथमिति चेद् आह - यत् सर्वं परिपश्यतीति सर्वतः प्रत्यक्षीकरोति सौक्ष्म्यात् तस्मात् पश्यकः वर्णव्यत्ययेन कश्यप इति । “स खल्वैवम्” इति ब्राह्मणशेषः प्रथममेवाम्नातो व्याख्यातश्च ॥२०॥ अथ अग्नेरष्टपुरुषस्य उपधानक्रम उच्यते - अष्टौ पुरुषाः शरीरभूता अस्येत्य् अष्टपुरुषः । पूर्ववदष्टावस्थो वा । तस्य प्रतिपादिका एषा ऋक् भवति ॥२१॥ अग्ने नयेति । त्रिष्टुप् । व्याख्यातेयं “उभा वाम्” इत्यत्र । हे अग्ने ! सुपथा शोभनेन मार्गेण अस्मान् नय राये धनाय हे देव ! विश्वानि वयुनानि ज्ञानोपायानि विद्वान् युयोधि च अस्मद् अस्मत्तः जुहुराणं कुटिलस्वभावम् एनः । ते तुभ्यं भूयिष्ठां नमउक्तिं विधेम इति ॥२२॥ इत्यारण्यके प्रथमे अष्टमोऽनुवाकः ॥८॥
०९
अथाग्नेरष्टपुरुषस्य दिक्ष्व् अवान्तरदिक्षु चोपदधाति - अग्निश्चेति ॥ नामधेयान्येव मन्त्राः । एषां च प्रतिपादिका इयमध्यर्धऋक् । अयं च प्रयोगः “अग्निश्च तया देवतया” इत्यादि । एवं सर्वत्र । अग्निर् अग्रणीर्भवतीति । उत्पन्नमात्र एव जातानि वेदेति जातवेदाः । “गतिकारकपूर्वस्यापि” इत्यसुन् । जातरश्मिर्वा । सहोजा बलसहितः । अजिराप्रभुर् अजेयश्च प्रभुश्च । जपतेर् औणादिको रः, छान्दसो दीर्घः । यद्वा - अजनशीला गत्वरस्वभावा दीप्तयो ऽजिराः । अजतेः किरच् । तासां प्रभुर् जगद्व्यापिकिरणः । वैश्वानरः विश्वेषां नरकाणां हितत्वेन सम्बन्धी । यद्वा - विश्वस्य नेता विश्वानरः, स एव वैश्वानरः । नॄ नये, पचाद्यच् । नर्यापाश्च नर्याणि नेतव्यानि यागादीनि कर्माणि । यताऽप्य् ऋहलोर् ण्यद् बाध्यते । नरेषु वा भवानि नर्याणि । “भवेच्छन्दसि” इति यत् । तेषां पाता । “आतो मनिन्” इति विचि पूर्ववत् पूर्वपदस्य दीर्घत्वम् । यद्वा - नर्यानाप्नोतीति नर्यापाः “गतिकारकयोरपि” इत्यसुन् । पङ्क्तिराधाः पङ्क्तिः पञ्चसङ्ख्या तया राध्नोतीति । पूर्ववदसुन् । यथोक्तं “पाङ्क्तोग्निः” इति । गार्हपत्य आहवनीयो दक्षिणाग्निः सभ्यावसथ्यौ इति पञ्चभिश् चितिभिः संराध्नोतीति वा । विविधं सर्पतीति विसर्पी कर्मफलानां प्रापयिता । “सुप्यजातौ” इति णिनिः । संहितायां यणादेशे छान्दसो वर्णलोपः । अयमुक्तानाम् अग्नीनाम् अष्टमः । एते एव अष्टौ वसवः क्षिता अवगता मन्त्रदृग्भिः । क्षि निवासगत्योः, “गत्यर्था बुध्यर्थाः” इति । इत्येते अष्टावुपधेया इति इतिशब्देन प्रतिपाद्यते ॥१॥
अथ ब्राह्मणम् - यथर्त्विति ॥ यो यस्य आत्मीय ऋतुरिति यथर्तु । “यथाऽसादृश्ये” इत्यव्ययीभावः । ऋतुभेदेन अग्नेरर्चिर्वर्णविशेषाः प्रादुर्भवन्ति; नीलार्चिः क्वचित् पीतकार्चिः क्वचिदिति । एवशब्दोऽवधारणे यथर्त्वेव, न सर्वकालं सर्वे वर्णविशेषा अनियमेन भवन्तीति । यद्वा - यथर्त्व् अग्नेर् वर्णविशेषा एव भवन्ति न त्वेको वर्णोनुस्यूतः सर्वर्तुष्विति ॥२॥
…
अथ गन्धर्वगणा उपधेया उच्यन्ते - स्वान भ्राडिति ॥ पूर्ववन्नामधेयानि मन्त्राः । “स्वान तया देवतया” इत्यादिर् उपधानक्रमः । स्वानेत्यविभक्तिनिर्देशः । “सुपां सुलुक्” इति सोर्लुक् । शोभनाननः स्वानः । भ्राजतीति भ्राट् । “भ्राजभास” इति क्विप् । यद्वा - स्वानश्च भ्राट्चेति समाहारद्वन्द्वः । अङ्घार्यादयः “सोमं ते क्रीणामि” इत्यत्र व्युत्पादिताः । अंहसामरिर् अङ्घारिः । बम्भ्रम्यमाणशत्रुर् बम्भारिः । हसनशीलः हस्तः । शोभनपाणिः सुहस्तः । कृशाननुगृह्णातीति कृशानुः । कृशाः सर्वेऽपि प्राणिनो यत्रेति वा । विश्वावसुर् विश्वधनः । “विश्वस्य वसुराटोः” इति दीर्घत्वम् । मूर्धन्वान् शोभनमूर्धा । प्राधान्याद् उच्छ्रितमूर्धत्वाद्वा । “अनो नुट्” इति नुट् । सूर्यवर्चाः सूर्यसमानतेजाः । कृतिः कृती कृतकृत्यः । मत्वर्थीय इकारः । इत्य् एते एकादश गन्धर्वगणा गन्धर्वाणां गणाः । एते देवा देवनादिगुणयुक्ता महादेवा महादेवना रश्मयो रश्मिमन्तः । मत्वर्थीयो लुप्यते । देवा द्योतयितारो लोकानाम् । गरगिरः गरमुदकं गिरन्ति पिबन्तीति गरगिरः । गिरतेः रप्क्विपौ । यद्वा - गरं महान्तं शब्दं गिरन्त्य् उच्चारयन्तीति गरगिरः । गृणातेस् तावेव प्रत्ययौ । एवंवेदितारं गरो विषं न हिनस्ति ॥५॥
अथ “गौरी मिमाय” इत्युपदधाति ॥ व्याख्यातेयं जगती “उत नः प्रिया” इत्यत्र । गौरी गौरा शुक्ला वा सरस्वती शब्दब्रह्मात्मिका सा मिमाय मिमीते परिच्छिनत्ति विश्वम् । सलिलानि सलिलविकाराणि भूतजातानि तक्षती तनूकुर्वती स्वव्याप्त्या विश्वमल्पं कुर्वत्य् एकपद्यादिरूपेण वर्धमाना अनयैव परिपाट्या सहस्राक्षरा बभूवुषी भवन्ती परमे व्योमन् व्योम्नि विविधरक्षणके परमप्रकृतौ स्थिता एवं विश्वं परिच्छिनत्तीति ॥६॥
इतीदं वाचो विशेषणं वाग्विशेष्यते उत्कर्षं वा भजते येन तद्वाचो विशेषणं, वाचस्स्तुतिरियं जगतीति यावत् । अथ अनन्तरं निगदव्याख्याताः सप्तोपधेया ये सन्ति ताननुक्रमिष्यामो ऽनुक्रमेण ब्रूमः । निगद्यमानेन मन्त्रस्वरूपेणैव व्याख्याता इत्येके । अन्य आहुः - शब्देन व्याख्याता विशेषणाभिमुख्येन च ख्याता लोके ख्यातिं गताः पर्जन्याख्या वर्षोदीरणा ये सप्त वायव इति ते च अध्यर्धया गाधया प्रतिपाद्यन्त इति ॥७॥
वराहव इति ॥ अत्रापि नामधेयान्येव मन्त्राः । “वराहवस्तया देवतया” इत्यादिरुपधानक्रमः । वराहवः वरमुदकम् आह्वायतीति । ह्वयतेराङ्पूर्वात् क्विपि सम्प्रसारणे छान्दसो गुणः । यद्वा - मितद्र्वादित्वाड् डुप्रत्यये छान्दसे वकारलोपे “जसि च” इति गुणः । जुहोतेर्वा दानकर्मणस् तेनैव डुश्छान्दसः, पूर्वपदस्यात्वम् । अन्य आहुः - वार् जलम्, तस्याह्वातारो वराहवः, छान्दसं ह्रस्वत्वमिति । स्वतपसः स्वाधीनतपोविशेषलब्धमहिमानः । यद्वा - स्वयमेव तपन्तीति स्वतपसः, “त्रयस्तपन्ति” इति दर्शनाद् वायवोऽपि तपन्तीति । विद्युन्मयसः विद्युतो निर्मिमते उत्पादयन्तीति । “गतिकारकयोरपि” इत्यसुन् । यद्वा - विद्युद्भिर् दयितास्थानीयाभिर् मयः सुखं येषाम् । यद्वा - विद्युन्मयाः । “आज्जसेरसुक्”, छान्दसं ह्रस्वत्वम् । धूपयः धूपनशीलाः । औणादिक ईकारप्रत्ययः । यद्वा - धूपयन्तो धूपयः । मत्वर्थीय इकारः । श्वापय आशु सर्वव्यापिनः । आशुशब्दस्य अक्षरयोः स्थानविनिमयः । आद्यक्षरलोपो वा । पूर्ववदिकारप्रत्ययः । गृहमेधा गृहेषु मेधार्हा यजनार्हा गृहेषु यजनीयाधिष्ठातृका इत्येके । इत्येते पर्जन्या वेदितव्याः । किञ्च - ये चेमेऽशिमिविद्विषस् ते च । इत्येत इति ब्राह्मणम् उपात्तांस्तावद्दर्शयति । शिमिः कर्म तद्ये विद्विषन्ति ते शिमिविद्विषः । तद्विपरीता अशिमिविद्विषः कृष्यादिकर्मानुगुणप्रवृत्तयः । यद्वा - अशिमयो निष्कर्माणः निरीहास् तेषां विद्वेष्टारः । एवमेते सप्त पर्जन्याः पृथिवीं वृष्टिभिर् अभिवर्षन्ति वर्षजलैर् आभिमुख्येन सिञ्चन्ति । “अभिवर्षन्ति वृष्टिभिः” इति पादः । एत एव पर्जन्या विभक्तिविपरीता अमून् लोकान् ऊर्ध्वलोकान् अभिवर्षन्ति । प्रायश एतयैवेति पाठः । तत्र पाक्षिकत्वाद् यलोपाभावः । वर्णव्यत्ययेन परस्यैकारः । विभज्यते वर्षप्रवृत्तिरनयेति विभक्तिर् ऊर्ध्वत्वादिलक्षणो धर्मः, तया विपरीता अधोवृत्तयः पृथिवीमभिवर्षन्त्य् ऊर्ध्ववृत्तय ऊर्ध्वलोकानिति । विभक्तिवैपरीत्ये हेतुमाह - सप्तभिर्वातैरुदीरिता ऊर्ध्वं नुन्ना विभक्तिविपरीता भवन्तीति । तेषामित्यादि । सप्तभिरित्येतेषां पर्जन्यानां तेषां प्रतिपादिका एषा ऋक् भवति ॥८॥
समानमिति ॥ एतां वृष्टिमतीमष्टमीमुपदधाति - इयं चानुष्टुप् । समानम् एकमेव एतदुदकं वृष्टिलक्षणम् उदेति च ऊर्ध्वं गच्छन्त्य् अवैति च अधस्ताद् गच्छति च । अहभिर् अहोविशेषैः कैश्चिदहोभिरुदेति कैश्चिदवैति । रुत्वाभावश् छान्दसः । “चवायोगे प्रथमा” इत्याख्यातस्य निघाताभावः, अवशब्दस्य व्यत्ययेनादिस्वरितत्वम् । अथोच्चावचत्वे हेतुमाह - यदा भूमिं पर्जन्या जिन्वन्ति प्रीणयन्ति प्रीणयितुमिच्छन्ति तदा अवैति यदा दिवम् अग्नयो जिन्वन्ति तदा उदेतीति । जिवि प्रीणने, इदित्वान्नुम् ॥९॥
अथ तिस्र उपदधाति - यदक्षरमित्याद्याः ॥ त्रिपदा गायत्र्यः । यदक्षरं न क्षरति देशतः कालतश्चेत्य् अक्षरं विश्वात्मकं भूतकृतं भूतानां कर्तृ सर्वाणि भूतानि स्वस्मिन्नाविर्भावयन्तम् । लिङ्गव्यत्ययः । विश्वेऽपि देवा देवनशीलास् तदंशाभिमानिन उपासते उपेत्यासते शङ्कुनैव प्रणवेन सङ्क्षिप्य अनुभवन्ति । अस्येत्यन्वादेशोऽनुदात्तः । अस्य अक्षरस्य गोप्तारं निगूह्यानुभवितारं महर्षिं महादर्शनं जमदग्निमकुर्वत देवा जमदग्निं व्याप्त्युन्मुखदीप्तिम् अकुर्वत । ततोऽसौ सर्वव्यापी परमात्मलक्षणः सर्वप्रवृत्यौन्मुख्यं प्रतिपद्यते । ततः स आत्मा जमदग्नीकृतः प्रजाताग्निस्थानीयश् छन्दोभिर् गायत्र्यादिभिश् चतुरुत्तरैश् चतुरक्षरोत्तरैर् आप्यायते यागादिषु तैस्स्तूयमानो वर्धते, तस्यैव प्रणवस्य विकारभूताभिश् छन्दस्सहिताभिः स्तुतिभिः स्तूयमानो भवतीति यावत् । तथा सति तस्यैवाक्षरस्य कर्मभिरिदमाराधनं भवतीति । एवमनेन प्रकारेण कर्माणि कुर्वाणा राज्ञस्सोमस्य तृप्तासः सोमस्य पानेन सौहित्यं भजमानाः । “पूरणगुण” इति समासप्रतिषेधेन ज्ञापिता षष्ठी । “आज्जसेरसुक्” । ब्रह्मणा परिवृढेन च कर्मणा ज्योतिष्टोमादिना वीर्यावता शक्तिमता इत्थम्भूताः शिवाः शान्तोपद्रवा नो ऽस्माकं भवन्तु । प्रदिशश्च दिशश्च प्रधानदिशश्च कोणदिशश्च तत्स्थाः प्रजा इत्यर्थः ॥१०॥
अथैकामुपदधाति - तच्छंयोरिति ॥ शक्वर्येषा । व्याख्यातेयं हौत्रे । शं शमनं रोगादीनामागतानां योर् यवनं पृथक्करणम् आगामिनां रोगादीनां येनैतदेवं भवति तद् अस्मादेवाक्षराद् आवृणीमहे आभिमुख्येन प्रार्थयामहे गातुं गतिम् अन्नं वा यज्ञाय यज्ञार्थं तथा यज्ञपतये यजमानार्थं च गातुम् आवृणीमहे । नो ऽस्माकं दैवी देवसम्बन्धिनी स्वस्तिर् अविनाशो ऽस्तु । तथा अस्मदीयेभ्यः मानुषेभ्यः पुत्रादिभ्यः सर्वाभ्यो वा प्रजाभ्यः स्वस्तिर् अस्तु । ऊर्ध्वं जिगातु उद्गच्छतु उद्भूतं भवतु; किं भेषजं प्रजानाम् अविनाशहेतुभूतं भेषजं तदेवाक्षराख्यमैश्वरं तेज आविरस्तु । इणो गाङादेशः, छान्दसः शपः श्लुः । गाङ एव वा व्यत्ययेन परस्मैपदम् । सर्वत्र “बहुलं छन्दसि” इत्यभ्यासस्येत्वम् । किञ्च - नो ऽस्मदीयाय द्विपदे चतुष्पदे च शं सुखम् अस्तु । द्वौ पादावस्येति “बहुव्रीहौ” “सङ्ख्यासुपूर्वस्य” इति लोपः । “पादः पत्” इति पद्भावः । “द्वित्रिभ्यां पाद्दन्” इत्युत्तरपदाद्युदात्तत्वम् ॥११॥
एवम् एभिश् चतुर्भिर् मन्त्रैः सोमपा असोमपाश्चोक्ताः क्रमेण । “अनन्त्यस्यापि” इत्याख्याने उभयत्र प्लुतः । सामर्थ्याच्च “किं सोमपाः किमसोमपा अत्रोच्यन्ते” इति प्रश्नोऽत्रोन्नेयः । इतिनिगदव्याख्याता उक्ताः । “अथ निगदव्याख्याताः” इति प्रक्रान्ता इदानीमुपसंह्रियन्ते ॥१२॥
इत्यारण्यके प्रथमे नवमोऽनुवाकः ॥९॥
१०
अष्टौ संयानीरुपदधाति - सहस्रवृदिति ॥ द्वे अनुष्टुभौ । चतस्रस्त्रिष्टुभः । चतस्रोऽनुष्टुभः । अन्त्ये विकल्पार्थे द्वे वा जगत्यौ षट्पदे । सहस्रवृत् सहस्रवृत्तिर् अनन्तक्रिया, सहस्रस्य वारयित्री वा, सहस्रेण वा वरणीया अनेकोपयोग्यत्वात् । ईदृशी इयं भूमिः परं व्योम प्रकृष्टं व्योम द्युलोकाख्यं नाकपृष्ठादिशब्दवाच्यं तदपि सहस्रवृद् एवमीदृशे भूमिपरमव्योमन्य् अश्विना अश्विनौ व्यापिनौ । एते अश्विनावेव इति स्तुतिः, तयोरप्य् अनन्तक्रियाकुशलत्वात् । “सुपां सुलुक्” इत्याकारः । भुज्ज्यू पालयितारौ जगताम् । भुजेरौणादिकः क्युः । नासत्या नासत्यौ । नासिकाभ्यामुत्पन्नौ । नासाशब्दाद् भवार्थे त्यप् । यद्वा - असत्यरहितौ । “न भ्राण्णपात्” इति लोपाभावो निपात्यते । यद्वा - सत्सु साधू सत्यौ तद्विपरीतावसत्यौ न तादृशौ नासत्यौ । विश्वस्य जगतो जङ्गमस्य स्थावरस्य पती पालयितारौ । “षष्ठ्याः पतिपुत्र” इति सत्वम् ॥१॥ एवम् ईदृशा विश्वरूपेण स्तुते द्यावापृथिव्यौ रक्षितृत्वप्रतिपादनार्थम् । इदानीं विश्वोत्पादकत्वं प्रतिपादयितुं दम्पतित्वेन स्तूयते - जाया भूमिरिति ॥ जाया भूमिर् जायते अस्यां विश्वमिति जाया । जनेरौणादिके युकि जाभावः । पतिर् भर्ता । व्योम विविधमवतीति व्योम । ता तौ युवां भूमिव्योमात्मकौ जायापती मिथुनं संयोगं सृष्टिव्यापारात्मकम् अतुर्यथुर् गच्छथः जगदभिवृध्यर्थम् । तुरी गत्यादिषु, दैवादिकः । छान्दसो लुङ्, व्यत्ययेन तमादेशापवादो ऽथुसादेशः, परस्मैपदं च । मिथ उपकार्योपकारकभावेन वर्तनं मिथुनीभावः । तच्छब्दाद्द्विवचनस्य पूर्ववदाकारः, ईषाक्षादित्वात् सवर्णदीर्घाभावः । यद्वा - द्विवचनान्तस्यैवायादेशे “लोपश्शाकल्यस्य” इति लोपपक्षे रूपम् । “पूर्वत्रासिद्धम्” इत्यसिद्धत्वात् सवर्णदीर्घत्वाभावः । तथा वर्तमानयोर् युवयोर् उत्सङ्गवर्ती पुत्रो बृहस्पतिस् तावदेकः बृहतीतां विद्यानां पालयिता । “तद्बृहतोः” इति सुट् । यद्वा - बृहतां देवानां परिवृढानां पाता पतिः । पुद् दुःखं नरकाख्यं तस्मात्त्रायत इति पुत्रः । पुनातीति वा पुत्रः येन ऋणान्मुच्यते पिता । अयमेको नस्त्राता प्रजानाम् । अथ द्वितीयो रुद्रः युवयोरुत्सङ्गवर्ती दुःखात्त्राता प्रजापतिर् यः पूर्वं युवयोर् अरोदीत् । यथोक्तम् - “सोऽरोदीत्प्रजापतिः । स कस्मा अज्ञि” इति । अग्निर्वा रोदयिता रुद्रः । अथ तृतीया सरमा इति दुःखात्त्रात्री सरमा सरणशीला । इन्द्र इत्येके, “स इन्द्रस्सलावृकी रूपं कृत्वा” इति दर्शनात् । परिक्रमणमेव सरणमिति वेदिरित्यन्ये । “एतयैवेन्द्रः सलावृक्या सह” इति दर्शनात् । इत्य् एवं स्त्रीपुमं स्त्री च पुमांसौ च युवयोस्त्रयः पुत्रस्थानीया उत्पन्ना इति । समाहारद्वन्द्वे आकारोन्त्यादेशः । संस्त्यानपवनहेतवस् त्रय एते प्रजानामिति ॥२॥ इदानीमहोरात्रेण स्तूयते - अहन्य् अहोरात्रात्मिके द्यावापृथिव्यौ । साहचर्याद् रात्रिरप्यहश्शब्देनोच्यते । यद्वा - अहश्च रात्रिश्च अहनी । “नपुंसकमनपुंसकेन” इति विरूपयोरपि प्रवर्तते । वां युवयोः शुक्रं शुक्लमेकं रूपं यजतं लोहितमेकं रूपम् । यद्वा- शुक्लम् अयज्ञियं यजतं यज्ञियं तस्मादित्थं विषुरूपे नानारूपे युवां द्यौरिव आदित्य इव स्थः सर्वेषामनुग्रहकरौ भवथः । किञ्च - विश्वा माया मतीः प्रज्ञा अवथः रक्षथः हे स्वधावन्तौ ! अन्नवन्तौ ! हे पूषणौ ! पोषयितारौ ! युवयोर् भद्रा भजनीया रातिर् दानम् इह अस्मास्व् अस्तु ॥३॥ इदानीं सखिद्वयात्मना स्तूयते - वासत्यौ वासे एकस्मिन्भवौ । वासशब्दाच् छान्दसस्त्यप्, पूर्वस्य दीर्घत्वम् । यद्वा - वसतिमर्हतः वसतिप्रदानमर्हतः । छान्दसो ञः, पूर्ववद्दीर्घत्वम् । चित्रौ चायनीयौ जगतो ऽस्य निधानौ निधिस्थानीयौ सखायौ समानख्यानौ भूत्वा हे द्यावाभूमी ! युवां सञ्चरथः सखायाविव सह अविश्लिष्टावेव सदा चरथस् तौ युवाम् अश्विना साहित्येनाश्विसदृशौ रासभाश्वा गर्दभसवर्णाश्वौ “रासभावश्विनोरश्वौ” इति वचनात् । हे शुभस्पती ! शुभस्य कर्मणः पातारौ । अपदात्परस्यापि पूर्ववन्निघातः । मे मम हवं यज्ञम् आगतम् आगच्छतम् । छान्दसे लुङि “मन्त्रे घस” इति च्लेर्लुक् । सूर्यया उषसा सह प्रातरेवागन्तव्यमिति यावत् । “सूर्याद्देवतायां चाप्” ॥४॥ त्युग्र इति ॥ त्युग्रो ऽत्युग्र आदिलोपः । यथार्थे हशब्दः । यथा कश्चिदत्युग्रो लुब्धात्मा ममृवान् मृतोपि रयिं धनम् अवाहा वहति न व्ययमिच्छति । वहतेश् छान्दसे लङि पुरुषव्यत्ययः । छान्दसं दीर्घत्वम् । ममृवानिति रुत्वानुनासिकावुक्तौ । तद्वद् युवामपि हे अश्विना ! उदमेघे उदकसहितमेघे उवस्थितं भुज्ज्युं पालकम् ऊहथुर् वहथः । छान्दसो लिट् । नौभिर् नौस्थानीयैरुपायैर् नयनसाधनैर् आत्मन्वतीभिर् आत्मीयाभिः । यद्वा - प्राणवतीभिर् बलवतीभिः । अनो नुट् । अन्तरिक्षप्रुड्भिर् अन्तरिक्षे प्लवमानाभिर् अपोदकाभिर् अपगतोदकाभिर् अच्छिद्रिताभिर् ईदृशीभिर् नौभिस् तार्यं तदुदकं वहथः न कदाचिदपि त्यजथ इति ॥५॥ तिस्र इति ॥ तिस्रः क्षपः क्षपा रात्रिः । प्रातिपदिकान्त्यलोपो वा, विभक्त्यन्तस्य ह्रस्वत्वं वा । त्रिरहा त्रीण्यहानि । “सुपां सुलुक्” इति शेः स्वादेशः । उत्तरत्र “शेश्छन्दसि” इति लोपः । अतिव्रजद्भिर् अतीत्य गच्छद्भिर् एतावन्तं कालम् अतीत्य व्याप्य स्थितैर् लघिष्ठैः पतङ्गैः रश्मिभिः रज्जुस्थानीयैर् आनीय भुज्जुं पालकम् उदकम् ऊहथुः प्रापयथः हे नासत्या ! । पूर्ववल्लिट् । क्वेत्यत आह - समुद्रस्य अन्तरिक्षस्य आर्द्रस्य उदकाप्लुतस्य पारे तीरे धन्वन् निरुदके प्रापयथ आकाशपर्यन्तानप्युदकाप्लुतान् कुरुथः । यद्वा - समुद्रस्याम्बुराशेर् अम्बुना क्लिन्नस्य निरुदके पारे तीरस्थानीये भूमण्डले सर्वत्र प्रपयथः । त्रिभिः रथैः रंहणैर् उत्थानविशेषैः शतपद्भिर् अनन्तपादैर् अनन्तगतिभिः षट्प्रकारव्यापनैर् एवमेभिराक्रम्येति ॥६॥ सवितारमिति ॥ सवितारं सर्वस्य प्रेरयितारम् आदित्यं वितन्वन्तं वृष्ट्यर्थं मयूखान् विस्तारयन्तम् अनुबध्नात्य् अनुरूपमाश्रयति गुणभावेन भजते शाम्बरः मेघः शम्बरमुदकं तस्यायं वोढृत्वेन शाम्बरः । अथ तदनुबन्धप्रभावादेव आपपूर् अपामात्मनि पूरयिता अद्भिर्वा पूर्णः । अप्शब्दात् स्वार्थिकोऽण् । पूर्यतेः क्विप् । षम्बरः शम्बरः शम्बरवान् मेघः । अर्शादित्वाद् अच् । छा्दसं शकारस्य षत्वम् । ततः पूर्वा च स्वरभक्तिर् विसर्जनीयाभावश्च । सविता प्रसविता अरेपसः वृष्टिक्रियाया अपापाया अभवद् भवति । अरेपसो वा जलस्य सविता प्रेरयिता भवति । यद्वा - अरेपसोऽकृपणस्य पुष्टस्य लोकस्य सविता उत्पादयिता भवति ॥७॥ वृष्टिक्रममधुना दर्शयति - त्यमिति ॥ त्यं तमिमं मेघं सुतृप्तम् उदकपूर्णम् बहुसोमगिरं बह्व्यः सौम्या गिरः स्तनितानि यस्य तादृशम् । यद्वा - बहूदकोद्गारयोग्यं विदित्वा ज्ञात्वा । एवकारोऽवधारणे । ज्ञानानन्तरमेव वशी नियन्तुमीश्वरस् तुग्र आदित्यः । तुरिति रश्मिनाम । तद्वान् विततरश्मिर्भूत्वा तम् अन्वेत्य् अनुबध्नाति कीदृशम् अविक्रियां वृष्टिविमुखम् । छान्दसं दीर्घत्वम् । यद्वा - वक्रियं कुटिलं वृष्टिविमुखम् । स्वार्थिको यत् । अष्टाक्षरश्च पादः सम्पद्यते । विकारान्तरं छान्दसम् । आयसूयान् । आङ् बलवदर्थे । बलवान् यत्न आयसूः । औणादिक ऊञ्प्रत्ययः । तद्वान् आयसूयान् । वर्णव्यत्ययेन मकारस्य यकारः । कस्मिन्निमित्ते सोमतृप्सुषु ये सोमेन उदकेन तृप्यन्ति प्राणिनः ये वा सोमेन पीतेन तृप्यन्ति यजमानास् तन्निमित्तं महान्तं यत्नं कुर्वन् अवक्रियं मेघं रश्मिभिरवष्टभ्य रज्जुस्थानीयैः पीडयित्वा वर्षति । यद्वा - आयसूयान् सोमतृप्सुष्व् असूयामकुर्वन् अनुगृह्णानोऽनुबध्नातीति । आ इति क्षेपे असूयाभावं द्योतयति; तत्र पाक्षिकत्वाद्यलोपाभावः । “अतो गुणे” पररूपत्वं बाधित्वा शतुरकारेण सह सवर्णदीर्घत्वम् । तृप्यतेः क्विबन्ताद् द्वे सप्तम्यौ । भवति हि द्विविकरणतावद् द्विविभक्तिता । यद्वा - सोमाधीनतृप्तयः सोमतृप्सवः । औणादिकः क्सुप्रत्ययः । तेषु सोमतृप्सुषु ॥८॥ स इति ॥ सस् तथा वर्षयन्नादित्यः सङ्ग्रामः सङ्गतरश्मिर् ग्रसनशीला रश्मयो ग्रामास् तमोद्यस् तमसामत्ता । अदेः कर्तरि यत् । यद्वा तमसां खण्डयिता । द्यतेर् ड्यः । अत्योतो ऽतीवोतः विश्वव्यापी । यद्वा - अत्यैरश्वैरूतः धृतो ऽत्योतः । अवतिर्धारणे । वाचोगाः शब्दयन्तः पशून् तद् उदकं पिपाति पाययतीत्य् अन्तर्भावितण्यर्थः । “बहुलं छन्दसि” इति शपश्लुः, अभ्यासस्य चेत्वम् । स च तथा पाययन् तद्गोभिस् तेषां पीतोदकानां गोभिः शब्दैस् तदित्यसमस्तमेव । “सुपां सुलुक्” इति षष्ठीबहुवचनस्य लुक् । अनित्यो वा समासान्तः । कीदृशैः स्तवा स्तवरूपैः । “सुपां सुलुक्” इति तृतीयाबहुवचनस्याकारः । एवं रूपैश्शब्दैः सह अत्येति तं मेघमतीत्य गच्छति । वर्षान्ते उदकतृप्तेन लोकेन स्तूयत इति यावत् । किञ्च - ये च अन्ये रक्षसा पापेन क्षरणहेतुना अनन्विता दिव्या जनाः कृतज्ञास् तेषां च गोभिः स्तूयमानोत्येति ॥९॥ अन्वेतीति ॥ सः मेघो ऽस्त आदित्येन त्यक्तः पुनरपि वर्षार्थं परिवृत्या तमेव अन्वेत्य् अनुगच्छत्य् अनुबध्नातीत्यर्थः । “अनुबध्नाति शाम्बरः” इत्यादि पुनरावर्तते । एवं हे अश्विना ! अश्विशब्दवाच्यौ द्यावापृथिव्यौ एतौ युवाम् एवं ते एते स्थ उक्तप्रकारवत्यौ स्थः । अश्वित्वापेक्षमेताविति पुल्लिङ्गवत्वम् । किञ्च तौ युवां द्युः पृथिव्योर् अहरहः गर्भं दधाथे स्थापयेते हे अश्विनौ ! द्यावापृथिव्यभिमानिनौ । द्युशब्द उकारान्तोप्यस्ति, तस्य छान्दसस्सकारोपजनः ॥१०॥ अतः परं ब्राह्मणम् - तयोरिति ॥ तयोर् द्युपृथिव्योर् एतौ वत्सौ वत्सस्थानीये अहोरात्रे तत्रोत्पन्नत्वात् । पृथिव्या अहः वत्सः दिवो रात्रिर् वत्सः । अथ ता अहोरात्रात्मानौ अविसृष्टौ अन्योन्यसंश्लिष्टौ अत एव दम्पती भवत उत्पादकतया वर्तेते । तावित्यौकारस्यावादेशे कृते वकारस्य च लोपे कृते “पूर्वत्रासिद्धम्” इत्यसिद्धत्वात् सवर्णदीर्घत्वाभावः । अथ तयोर् अहोरात्रयोर् एतौ वत्सौ अग्निश्च आदित्यश्च रात्रेर्वत्सः श्वेतः वर्ण आदित्यो ऽह्नो वत्सो ऽग्निस् ताम्रो रक्तो ऽरुणो ऽरुणकेशः । अथ ता अग्न्यादित्यौ अविसृष्टौ । गतमन्यत् । तयोर् अग्न्यादित्ययोर् वत्सौ वृत्रवैद्युतयोर् वत्सौ धूमातपौ । गतमन्यत् । तयोर् वृत्रवैद्युतयोर् वत्सौ । उष्मा बाष्पः । छान्दसं ह्रस्वत्वम् । नीहारः हिमः । तौ तु ऊष्मनीहारौ तावेव वृत्रवैद्युतावेव प्रतिपद्येते न पुनरविसृष्टौ दम्पती भूत्वा उत्पादकतया वर्तेते । यद्वा - तौ ऊष्मनीहारौ तावेव प्रतिपद्येते स्वात्मन्येव विलयं गच्छत इति । सेयं रात्रिर् गर्भिणी गर्भवती । अतस्तेन गर्भस्थेन पुत्रेण आदित्येन संवसति सहवसति रात्र्यन्ते जनिष्यते । तस्या रात्रेर्गर्भं बिभ्रत्या एतदुल्बणम् उल्बं गर्भाधारं ये रात्रौ रश्मयस् ते अन्तर्वसतो गर्भस्य उल्बस्थानीया वेदितव्याः; गोरिव गर्भिण्या अस्या अपि रात्रेरेवमुल्बणं विद्यत इति । एवं वेदिता प्रजयिष्णुः प्रजनने साधुकारी प्रजया च पशुभिश्च सहितो भवति । यद्वा - प्रजया च पशुभिश्च प्रजयिष्णुर्भवति प्रजावान् भवितुं समर्थो भवति । “अलङ्कृञ्” इत्यादिना इष्णुच्प्रत्ययः । किञ्च - एवं वेदिता एतम् आदित्यम् उद्यन्तम् उद्गच्छन्तम् अपियन्तम् अस्तं गच्छन्तं च एत्य् ऐक्येन प्राप्नोति । तदेवाह - आदित्य इति । स्वयमप्यादित्य एव भूत्वा वर्तते इति । किञ्च - पुण्यस्य वत्सः वत्सवत्प्रियो भवति । यद्वा - आदित्यवत् पुण्यस्य वत्सो भवति वत्सस्थानीयः । अथ पवित्राङ्गिरसो नाम उपधेयाः सन्ति । ता वक्ष्यन्ते । पवित्राः पवमाना अङ्गिरस आसां द्रष्टारः पवित्राङ्गिरसः ॥११॥ इत्यारण्यके प्रथमे दशमोऽनुवाकः ॥१०॥
११
अथ चतस्र आङ्गिरसीरुपदधाति - पवित्रवन्त इति ॥ सर्वत्र सोमस्तूयते । तिस्रस्त्रिष्टुभ एकाऽनुष्टुप् । पवित्रवन्तः दशापवित्रवन्त ऋत्विग्यजमाना वाजम् अन्नं सोमलक्षणं पर्यासते समन्तत उपासते । प्रत्नः पुराणः पिता पाता ब्रह्मा एषाम् इदं कर्म व्रतम् अभिरक्षत्य् आभिमुख्येन रक्षति पवित्रवन्तः पर्युपासते चाभिरक्षति च । पितेति चार्थस्य विवक्षितत्वात् “चादिलोपे विभाषा” इति प्रथमा तिङ्विभक्तिर्न निहन्यते । सार्वधातुकानुदात्तत्वे धातुस्वरः । एवं सर्वकर्मनिवृत्या महः महत् समुद्रम् अन्तरिक्षं वरुणस् तिरोदधे जलदैः प्रच्छादयति । तथा च सति धीरा धीमन्तः धरुणेष्व् अग्निशरणेष्व् आरभं कर्माण्यारब्धुं शेकुः शक्नुवन्ति । “शकि णमुल्कमुलौ” इति कमुल् । इदिति पादपूरणे ॥१॥ पवित्रं त इति ॥ हे ब्रह्मणस्पते ! अन्नस्य पालयितः ! सोम ! ते तव पवित्रं पवनसाधनमिदं विततं विस्तारितं दशापवित्रम् । तस्मात्त्वमनेन पवनेन प्रभुर् भूत्वा गात्राणि यागसाधनभूतान्यङ्गानि पर्येषि परिप्राप्नुहि विश्वतः सर्वतः सर्वैः प्रकारैः प्रभुः । कस्मादेवमुच्यत इत्याह - यो ह्य् अतप्ततनूर् अनीश्वराङ्गः । तप ऐश्वर्ये । आमो ऽपक्वस् तद् यागफलसाधनत्वं नाश्नुते न प्राप्नोति । अपि तु शृतासः शृताः पक्वा एव तत् समाशत समश्नुते । शपो लुक् । कीदृशा वहन्तः कार्यनिर्वहणक्षमाः । “शृतं पाके” इति निपात्यते । “आज्जसेरसुक्” ॥२॥ ब्रह्मा देवानामिति ॥ प्रतीकग्रहणमृचः । व्याख्याता चेयं त्रिष्टुप् “त्वमग्ने बृहद्वयः” इत्यत्र । देवादीनां मध्ये ब्रह्मादिरूपोऽयं सोम इति स्तूयते । किञ्च - अन्यदपि यत्पवित्रं प्रोक्तं तदत्येत्य् अतिलङ्घ्य वर्तते । अयं सोमः रेभन् लोकेषु प्रथमान इति ॥३॥ असत इति ॥ असद् अव्यक्तं द्वितीयभावविकारस्य सत्वादसत् । यथा - “असद्वा इदमग्र आसीत् । ततो वै सदजायत” इति प्रधानमुच्यते । तस्मात् सद् व्यक्तं ततक्षुः सम्यङ्निर्वर्तयामासुः । के पुनस्ते - ये ऋषयः सप्त अगस्त्यान्ता अत्रिश्च प्रथमः। पृथग्ग्रहणं प्राधान्यख्यापनार्थम् । एते होतृकान्ता विश्वं सृष्टवन्तः यागमहिम्नैव यद् यस्मादेवं तस्मात् सर्वे अपि यज्वानश् चेतारो ऽत्रयो ऽत्र्याद्यास्सप्त स च अगस्त्यो योऽष्टमः । पृथग्ग्रहणं प्राधान्यख्यापनार्थम् । सर्वेऽप्यते प्राणिनां शङ्कृतः सुखहेतवः दिवि नक्षत्रैः सह अवसन् वसन्ति; यागफलभाजां हि नक्षत्रभावः । यथोक्तम् - “यो वा इह यजते । अमुं च लोकं नक्षते । तन्नक्षत्राणां नक्षत्रत्वम्” इति । तस्मात्तैस्सह वसतामपि यागसिद्धिभूतनक्षत्रलक्षणज्योतिषश्च लाभः साहचर्येण प्रदर्शित इति तादृशयागसाधनभूतस्य सोमस्य स्तुतिः ॥४॥ अथ उत्तरं ब्राह्मणम् ॥ अथ अनन्तरं सवितुः सर्वस्य प्रेरयितुर् अनुज्ञातुर्वा देवस्य विश्वात्मनो देवताया इष्टकानामुपधानकालः । श्वावाश्वस्य नाम्नो ऽवर्तिकामस्य विरक्तिकामस्य उपरतप्रायस्य ऋषेर्भवति सविता देवता । अवर्तिकामः श्वावाश्व ऋषिरित्यर्थः ॥५॥ अमी य र्क्षा इति सप्त मूर्धन्युपदधाति ॥ आद्यन्ते त्रिष्टुभौ । द्वितीयोपान्त्ये गायत्र्यौ । मध्ये तिस्रोऽनुष्टुभः । ये अम्य् ऋक्षा गतिमन्ति ज्योतींष्य् उच्चा उच्चैर् उपरिप्रदेशे । पूर्ववदाकारः । निहितासः निहितास् तेनैव विश्वात्मना स्थापिताः । आज्जसेरसुक् । ते अमी नक्तं रात्रौ ददृश्रे दृश्यन्ते । छान्दसो लिट् । “इरयोरे” । दिवा अह्न्य् एते कुहचित् तिरोधायके वस्तुनि ईयुः प्रविशन्त्य् अदर्शनं गच्छन्ति । दिवाशब्दे वकारोपजनश् छान्दसः । “वा ह च छन्दसि” इति किमो हादेशः । “कुति होः” इति क्वादेशः । यस्मादेवं तस्माद् अस्य वरुणस्य वारकस्य यो विश्वं वृणुते विश्वात्मना तिष्ठति विश्वं स्वात्मना वारयंस्तिष्ठति तस्य सवितुर् देवस्य व्रतानि कर्माणि तेजांसि वा अदब्धानि केनचिदप्यनुपहिंसितानि दुरतिक्रमाणि । दुर्ज्ञानानीति वा; कथमेष करोतीति न ज्ञायते, कथं वा ज्योतींष्यपि छादयन्नेष गच्छति । नक्तं ह्येतानि गगने अन्तरेणैव प्रकाशं प्रकाशन्ते । तदिदमुक्तं ददृश्र इति । इदानीमेवंविधस्तेजःप्रकर्षश्चन्द्रमसो नास्तीति प्रतिपादयति - विचाकशद् विविधं प्रकर्षेण च प्रकाशयन्नेव हि चन्द्रमा नक्षत्रं नक्षत्रजातम् एत्य् उपगच्छति । यद्वा - नक्षत्राणि विचाकशद् विहाय गच्छति । काशेर्यङ्लुगन्ताच्छतृप्रत्ययः । काशेर्वा ह्रस्वत्वम् ॥६॥ तत्सवितुरिति ॥ व्याख्यातं “सं पश्यामि” इत्यत्र । सवितुर् देवस्य प्रेरयितुस् तत् तादृशम् अनन्तरोक्तस्वभावम् । तदेवाह - वरेण्यं वारकस्वभावं मुक्तवत् सर्वातिशायिप्रकर्षयोगात् सर्वैर्वरणीयं भर्गस् तेज आदित्याख्यं धीमहि हृदयेषु धारयामः यो नो ऽस्माकं भजमानानां धियः प्रज्ञाः सर्वाच्छादकोद्घाटनीयाः प्रचोदयात् प्रचोदयति प्रेरयत्य् अनुजानाति । तदीयं तेजोऽज्ञाननिवृत्यर्थं भजाम इति ॥७॥ तत्सवितुरिति ॥ तत् तादृशं सवितुर् देवस्य तेजः वयं वृणीमहे प्रपद्यामहे । कीदृशं भोजनं भुक्तिसाधनम् । यद्वा - वृणीमहे याचामहे किं भुक्तिं च । श्रेष्ठं प्रशस्यतमं सर्वधातमम् अतिशयेन सर्वस्य धातृ । पुनश्च विशेष्यते - भगस्य भजनीयस्य ऐश्वर्यादेस् तुरं शीघ्रप्रापकम् । तुर त्वरणसम्भ्रमणे । इगुपधलक्षणः कः । धीमहि तदर्थं सदा ध्यायामः । ध्यायतेः सम्प्रसारणादिव्यत्ययेन ॥८॥ अपागूहतेति ॥ “तृभीन् । सर्वान्दिवो अन्धसः” इति द्वितीयः पादः । ननु रात्रावप्ययं देवो विततैः सहस्रमयूखैस् त्रैलोक्यं विद्योतयति, तत्कथं ज्योतिरन्तराणि रात्रौ प्रकाशन्ते; तत्रेदमुच्यते - अपागूहत अपगूहयत्य् अपकृष्य क्वचिद् गुप्तं स्थापयति यत्र गच्छति तत्रत्याश्च वयं न पश्यामः । सविता प्रेरणकुशलस् तृभीन् रश्मीन् सर्वान् दिवो ऽन्तरिक्षाद् अन्धसो ऽन्नसाधनोदकहेतून् रश्मीन् । यद्वा - ज्यातिषामान्ध्यकृतः । “तत्करोति” इति ण्यन्ताद् असुन् । तस्मान् नक्तं रात्रौ तानि ज्योतींषि दृशे दर्शनयोग्यानि भवन्ति छादकरश्मिपटलापगमात् । ननु मूर्तेन छादनं भवति, न च दिवा तादृशं किञ्चिन्मूर्तमुपलभामहे येन ज्योतींषि छाद्येरन् । तस्माद् दिवा नष्टान्येव रात्रौ पुनरन्यान्येवोत्पद्यन्त इति युक्तम्; तत्कथमुक्तं छादनमात्रमेव दिवेत्येतत्पर्यनुयोगावसरे दृष्टान्तमाह - अस्थीति । अस्त्येव सूक्ष्मं किञ्चिदावारकं मारीचं ज्योतिषां, येन प्रबलप्रकाशान्यपि ज्योतींष्यपि नोपलभ्यन्ते । तस्माद्यथा वयं शरीरेष्व् अस्थि प्रादेशिकम् अस्ना असृजा व्यापकेन सम्भविष्यामः निगूहयाम एवमिदमपि द्रष्टव्यम्, असृक्स्थानीयेन केनचिदेतानि छाद्यन्ते नैव नष्टानीति । पद्दन्नादिना असन्भावः । छान्दसो लृट् ॥९॥ नाम नामेति ॥ इदानीं विश्वात्मा देवः स्वेनाभेदं विश्वोपाधीनां ब्रवीति । तृतीयो नामशब्दः प्रसिद्धौ निपात एव नित्त्वादन्तोदात्तः । इतरौ मनिन्प्रत्ययान्तौ आद्युदात्तौ । मे मम नाम नमनं नतिहेतुर् नानात्वं नामैव आख्यामात्रमेव न तु वास्तवं किञ्चित् । एवं नामैव तत्; एवमिदं निश्चितमित्यर्थः । एकस्वभावस्यैव नानोपाधिनिबन्धनानि नामानि प्रवर्तन्ते । तस्मादहमेव तत्तन्नाम्ना तत्तत्कारी तत्तद्रूपश्च भवामि । यथा नपुंसकम् अस्मि पुमान् अस्मि स्त्र्यस्मि स्थावरोऽस्मि जङ्गमो ऽस्मि । अथ यजमानो भूत्वा यजे अहम् अयक्ष्य् अहं यष्टाहे अहमिति । “ह एति” इति हकारः । एत उपाधयः पारमार्थिका इति केचित् । तथा सति “नामैव” इत्यवधारणयोगात् तेऽपि ईश्वरेन्द्रजालिकाविष्कृतानीत्यन्ये ॥१०॥ मया भूतानीति ॥ मया एव स्रुक्स्रुवादिसाधनभूतेन वर्तमानेन भूतानि भौतिका अयक्षत यजन्ते । यद्वा - भूतानि पृथिव्यादीनि मया अयक्षत मयैव सङ्गतानि मय्यासक्तानि, तत्कार्याण्यहमेव करोमीत्यर्थः । पशवो द्रष्टारः । सर्वाणयपि भूतानि पृथिव्यादीनि मनुष्यादीनि वा ममैव पशवः द्रष्टारः मामेव पश्यन्ति मय्यासक्तत्वान् मामेवोपजीवन्तीति । ताश्चाहं मामेव पश्यतः पशून् कृपया पामीति भावः । तत्र हेतुमाह - अहम् एव हि विभुर् विभुत्वाद् व्यापकत्वाद् विविधभवनशीलत्वाद्वा । तेषाम् अनूबन्ध्यः विभुत्वान्मामेव ते पशवोऽनुबध्नन्त्य् अजहतो भजन्ते । अहमपि तेषां यथाऽभिमतविविधफलविभावनया विभुर्भवामीति । “विप्रसम्भ्योड्वसञ्ज्ञायाम्” इति डुप्रत्ययः । “अन्येषामपि दृश्यते” इति दीर्घत्वम् ॥११॥ स्त्रिय इति ॥ आहुरन्तः प्रथमः पादः । इदानीं स्वविभूतिज्ञानस्य प्राशस्त्यम् अतद्विदां च निकर्षं दर्शयति - स्त्रिय एव अज्ञा एव सतीस् ता उ एव मे मम प्रसादेन मद्विभूतिज्ञाने सति पुंस आहुः पावनस्वभावानेवाचक्षते मन्त्रदृशोऽपि, नाहमेव । किञ्च - इदमपि श्रूयताम् - मत्प्रसादाभावे अक्षण्वान् दर्शनसामर्थ्यवान् पश्यत् पश्यन्नप्य् अन्ध एव सन् न विचेतन् न विचेतति न किञ्चिदपि जानाति तमज्ञमेवाहुः । चेततेः पञ्चमो लकारः । छान्दसो वा लङोऽडभावः । पश्यद् व्यत्ययेन नपुंसकत्वम् । पश्यन्नप्यन्ध एव न विजानातीति । अक्षिमानक्षण्वान् “छन्दस्यपि दृश्यते” इत्यनङ् । “ह्रस्वनुड्भ्यां” इति मतुप उदात्तत्वम् । यद्वा - पश्यत्व् अक्षण्वान् तथाऽप्यन्ध एव न विजानातीति । लेटि इकारलोपः । यदि चक्षुष्मानप्यन्धो भवति कस्तर्हि वेदिता भवितुमर्हतीत्यत आह - कविर् मेधाव्य् अस्खलितज्ञानः पुत्रः पुन्नाम्नो नरकान् मत्प्रसादेन प्राणिनस् त्रातुं क्षमः य एवंविधः स एव इमा इमानि भवनानि मच्चरितानि चिकेत जानाति । कित ज्ञाने । छान्दसो लिट् । अथ इदमपि श्रोतव्यम् - यस्ता तानीमानि मच्चरितानि विजानाद् विजानाति मत्प्रसादेन तानि ज्ञातुं प्रभवति सवितुर् अपि पिता असद् भवेत् पित्राऽपि पूज्यो वन्दनीयश्च भवति । छान्दसः पकारस्य वकारः । स इत्यस्य व्यत्ययेन स्वरितत्वम् । यद्वा - सवितुर्जनयितुरपि पिता भवेत् । इदानीं स इत्यध्याहार्यः । अस्तेर्लेटि शपो लुक् । “लेटोऽडाटौ” इत्यडागमः ॥१२॥ अथ पञ्च पादयोरुपदधाति - अन्ध इति ॥ सर्वा अनुष्टुभः । इदानीं कथमयं हस्तस्थोऽपि देवः संसारदशायां यथावद्दृश्यत इत्यत आह - अन्धो ऽविद्यमानदर्शनशक्तिः कश्चिद् इमं मणिं मननीयं विषयं महाभोगम् अविन्दद् लभते उपलब्धवान् पश्यति । तस्मादयमनेन अयथावद्दृष्टः किं करोत्विति । अयं च परस्ताद्वक्ष्यते । इदानीमान्ध्यस्योपलक्षणत्वात् । सर्वप्रकारानुभवसामर्थ्याभावं प्रतिपादयितुमाह - तं मणिम् अयम् अनङ्गुलिर् विशिष्टाङ्गुलिरहित आवयत् तस्मिन्नङ्गुलिविशेषे ओतं करोतीति । तथा अग्रीवः सन् तं मणिं प्रत्यमुञ्चद् ग्रीवायामासञ्जयति । तथा तं मणिमयम् अजिह्वा एव असश्चत शब्दयति लब्धोऽयं मणिरिति । सर्वं चेदमनुपपन्नं तस्माददर्शनापराधेन न देवः संसारिभिरनुभूयत इति ॥१३॥ इदानीं तेनान्ध्येन पुरुषस्य द्रष्टृत्वाहानिरित्याह - ऊर्ध्वमूलमिति ॥ इदमनेन प्रतिपाद्यते - विपर्यस्तस्वभावशरीराख्ययन्त्रानुप्रविष्टोऽयं जन्तुर् महद्विलसितेन अविच्छिन्नविपर्यस्तासत्प्रायचिच्छक्तिरज्ञवद् भवति यावदितो महदवष्टम्भलक्षणाद् बन्धनात् संसारान्मुक्तो भवतीति । ऊर्ध्वमूलम् ऊर्ध्वं निर्गच्छन्मूलस्थानीयकेशश्मश्रुकम् अवाक्छाखम् अवाक्लम्बमानशाखास्थानीयहस्तचरणादिकम् । यद्वा - तादृगङ्गुलिकम् । वृक्षम् एवं विरूपत्वाद् व्रश्चनीयं शरीरं यो वेद य एवं विपर्यस्तसन्निवेशं सर्वविपर्यासहेतुं यो जानाति स जनो मृत्युर् मा मारयान् मारयेदिति सम्प्रत्येव श्रद्दध्यात् श्रद्धां कर्तुमर्हति न तु जातु कालान्तरे अद्यैव मरणमस्त्विति सञ्जातबीभत्सस् तदानीमेव निश्चिनोतीति । ईदृशमिदं शरीरमितिर् यो वेद स जनो न कदाचिदपि मृत्युर् मारयेदिति श्रद्धां करोति; मृत्योर्न बिभेतीति यावत् । यद्वा - ब्रह्मविदस्तुतिरियम् -ऊर्ध्वमूलम्, ऊर्ध्वाव्यक्तम् अवाक् व्यक्तं विश्वाख्यं वृक्षं दिविष्ठं यो वेद तस्य मृत्योर्भयं नास्तीति । अन्यस्तु मृत्युसकाशं गच्छतीति भावः । लेट्याडागमः । इतिकरणस्य विसर्जनीयोपजनश् छान्दसः ॥१४॥ हसितमिति ॥ तदिदं हसितादिकं शरीरस्य बीभत्स्यत्वे अङ्गानि साधनानि विद्धि । यद्वा - बीभत्साहेतोरूर्ध्वमूलत्वादिज्ञानस्य हसितादीन्यङ्गानीति । एभिरपि तत्र बीभत्सा जायत इति हसितम् आस्यविकारः प्रकाशितदशनः । रुदितं चक्षुर्विकार आविर्भूताश्रुजलः । गीतं सर्वाङ्गविकारः प्रलापविशेषः । वीणा सप्ततन्त्र्यादिका यत्र षड्जादयो भिन्नश्रुतयः स्वरा मूर्छनाविशेषेशु तन्त्रीभिः प्रकाश्यन्ते । पणवलासितं पणवो मृदङ्गस् तल्लासितं तेन क्रीडितं तद्वादनात्मिका क्रीडा । मृतं त्यक्तप्राणं शरीरस्थं नखादि । जीवं प्राणवत् । यच्चान्यदपि यत्किञ्चित् स्तनप्रजननादिकं तदपि सर्वम् अङ्गानि विद्धि हे साधो ! स्न इति पादपूरणे; छान्दसो मकारस्य नकारः । एवकारोऽवधारणार्थः । एतान्यप्यङ्गान्येव बीभत्साजनन इति । एमन्नादित्वात् पररूपत्वम् ॥१५॥ अतृष्यन्निति ॥ उक्तमन्धो मणिमविन्ददिति; तमन्धमिदानीमाविष्करोति । इदमनेन प्रतिपाद्यते - अयं भूतादिर् आदर्शवदतिनिर्मलः विश्वान्यपि भुवनानि प्रतिबिम्बवृत्या निजोदरस्थानि करोति; तेन चाविवेकग्राहिपुरुषस्तत्स्वभावमिवापन्नस् तमेवानुधावति; यत्तेन कृतं तदात्मीयं मन्यते । तथा चास्य स्वाभाविकी दृक्छक्तिरपगतेति स्वात्मानमपि न जानाति दूरे देवमिति । तत्र चाविवेकनिबन्धनं प्रधानस्य चेतनत्वं पुरुषस्य कर्तृत्वमादर्शयति । ततश्चान्योन्याध्यासनिबन्धनः संसारः प्रभवति यावद्देवो न विघटयिष्यति । यथाऽहुः - तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥इति तमिममन्योन्याध्यासं दर्शयति - अतृष्यन्निति । अतृष्यन् तृष्यन्ति काङ्क्षन्ति कानिचित्, तृष्यन् तृष्यति काङ्क्षत्य् अन्यः कश्चिद् ध्यायद् ध्यायति च अविच्छिन्नां बुद्धिं जनयति च । अत्र प्रथमश् छान्दसो लुङ्, इतरौ पञ्चमौ लकारौ । प्रथमस्यापदात्परत्वान् निघाताभावः । द्वितीयस्य तिङः परत्वात्, तृतीयस्य तु व्यत्ययेन निघातः । अथ कानि पुनस्तानि कश्च पुनः स येषाम् इत्थं मिथस्तृष्णेत्याह - अस्मादिति । अस्माद् भूतादेर्यानि जाता जातानि भूतान्य् अमीभिश्च मिथू सह यश्चरति भूतानि च स च परस्पराकाङ्क्षया वर्तते इति । अदश्शब्दात्परस्य भिस एकारश् छान्दसः । आद्युदात्तत्वं च । मिथश्शब्दपर्यायो मिथूशब्दः, तस्य छान्दसं दीर्घत्वम् । इदानीं तस्योत्पत्तिं दर्शयति - पुत्रो निर्ऋत्या इति । निररणान् निर्ऋतिर् यतो विश्वं निर्गच्छति सा प्रकृतिरस्य जननी, अयं तस्या निर्ऋत्याः पुत्रः पुत्रस्थानीयस् ततः प्रभवत्वात् । विदेहः देहरहितः पञ्चविंशोऽस्य पिता तस्यापत्यमयं वैदेहः योऽयम् अचेताश् चिच्छक्तिरहितः जड एव चेतनो भवति ॥१६॥ स अन्धस् तं मणिं विषयान् अविन्दद् विन्दति पुरुषसम्बन्धात् स्वात्मन्य् आदर्शयति विषयान् कबळीकरोति । स एव ह्य् अनङ्गुलिर् एवाङ्गुलौ मणिम् आवयद् आरचयत्य् अङ्गुलिमप्यादर्शयत्य् अघटमानघटनापटुत्वात् । तथा स एव अग्रीव एव सन् प्रत्यमुञ्चत् प्रतिमुञ्चति मणिम् असत्यामेव ग्रीवायां तत्कार्यं दर्शयति । स एव असत्यामेव जिह्वायां तत्कार्याणि करोति । तस्मादेवमन्धोपहृतसम्यङ्मतिः पुरुषो देवप्रसादमन्तरेण न श्रेयः प्राप्नोतीति वरेण्यम् ऐश्वरं तेजस्सदा ध्येयमिति ॥१७॥ अतः परं ब्राह्मणम् - एतमृषिम् ऋष्यर्थं विदित्वा नगरं न प्रविशेत् कृतकृत्यत्वात् । अपि तु विविक्तसेवी भवितुमर्हतीति । अथ यदि प्रविशेत् कार्यपरवशः कथञ्चित्प्रवेशं कार्यं मन्वीत तदा मिथौ सहचारिण्य् अन्तेवासिनि चरित्वा सञ्चारयित्वा सन्तमसम्बाधस्थले संस्थाप्य अन्यैस्सह प्रविशेत् । तद् एतत् सम्भवस्य सम्भवनाम्न ऋषेर् व्रतम् आचारः स इत्थमाचरति । यद्वा - तदेतत्सम्भवस्य व्रतं नियमस्वरूपं नान्यो मार्गस्सम्भवतीति ॥१८॥ अथ तिस्र आग्नेयीरुपदधाति - आ तमग्ने इति ॥ द्वे अनुष्टुभौ एका त्रिष्टुप् । हे अग्ने ! तं रथम् अतिष्ठ आरोह । अथ तमिति विवक्षितं विशिष्टलक्षणं रथं दर्शयति - एकाश्वम् एकप्रकाराश्वम् एकप्रकारव्यापिनं वा एकयोजनम् एकयोगं न पुनः पुनर्योजनीयम् एकचक्रम् एकप्रकारदीप्तिं कदाचिदप्यपजयाभावात् । चक दीप्तौ । एकधुरं सर्वकालमेकप्रकारनिर्वहणं वातध्राजिगतिं वाततुल्यवेगगमनं हे विभो ! व्यापनसमर्थ !॥१९॥ न रिष्यति यो रथो न कदाचिदपि न रिष्यति न नश्यति न व्यथते न चलति न च अस्य यातुर् गच्छतो ऽक्षः सज्जति न क्वचिदपि विहन्यते । यातु सज्जतीत्येकः सकारो वृत्यनुरोधाल्लुप्यते । अष्टाक्षरे पादे लघुवृत्तित्वात् पञ्चमस्य । यद्वा - यातु जातु, वर्णव्यत्ययेन जकारस्य यकारः । अथ को विशेष इत्याह - यदिति । श्वेतान् रोहितांश्चान् रथे युक्त्वा यद् यस्माद् अग्नेरधितिष्ठति इति तस्मादयं रथो न रिष्यतीति । अग्नेरिति वर्णव्यत्ययेन इकारस्य एकारः । यद्वा - अग्नेरिति विसर्जनीयोपजनश् छान्दसः । अधितिष्ठतीति च मध्यमस्थाने पुरुषव्यत्ययः ॥२०॥ एकयेति ॥ हे वायो ! त्वमग्नेः सहायकमाचरन् एकया च नियुताऽश्वेन कदाचिद् इष्टये अग्नेर् अग्रे धावसि स्वभूते स्वभूतया आत्मीयया । वचनविभक्त्योर्व्यत्ययः । कदाचिद् दशभिः स्वभूताभिर् वहसे । यद्वा - स्वभूते आत्मीये देशे अग्नेरग्रे वहसे । कदाचिद् द्वाभ्यां वहसे । कदाचिद् विंशत्या कदाचित् तिसृभिः कदाचित् त्रिंशता च वहसे । एवं त्वं याभिर् नियुद्भिर् वहसे ताः सर्वा अपि इह काले कर्मसमाप्तौ विमुञ्च रथात् । यद्वा - इह स्वभूते अस्मिन्कर्मण्य् आत्मीये कृते ता विमुञ्च । वायोरश्वा नियुतः ॥२१॥ इत्यारण्यके प्रथमे एकादशोऽनुवाकः ॥११॥
१२
अथ आतनुष्वेति चतस्र उपदधाति । पञ्चमीं यजमान उपधत्ते । द्वे अनुष्टुभौ, एका गायत्री, ततो द्वे बृहत्यौ । बृहती द्वादशाक्षरा इतरेचाष्टाक्षरा इति ॥ इन्द्रस्तूयते - आतनुष्व समन्तादात्मानं विस्तारय प्रतनुष्व प्रकर्षेणात्मानं विस्तारय क्रतुषु समन्तात् प्रकर्षेण च विस्तारिततेजा भवेति यावत् । ततस्तथा विजृम्भिततेजास्त्वम् उद्धम उछ्रिततरमात्मानं शब्दय, उच्चैः ख्यातो भवेति यावत् । आधम आनुकूल्येनात्मानं शब्दय । सन्धम सम्यग्यागनिर्वृत्त्या जगत्सु प्रसिद्धो भव । ततस्त्वं चन्द्रवर्णानां हिरण्यवर्णानामपाम् आदित्ये गर्भमाधेहि स्थापय । कं गर्भं यः पुमान् अग्निमित्यर्थः । यद्वा - आदित्ये गर्भमाधेहि कः यः पुमान् यस्त्वं साधून् पालयिता प्रजननशक्तिमान् ॥१॥ इतस्सिक्तमिति ॥ इतः कर्मणः सिक्तं रेतस्थानीयं सूर्यगतम् आदित्ये प्राप्तं कर्मफलं हविर्वा तच् चन्द्रमसे चन्द्रार्थं तदाकाराभिवृध्यर्थं रसं कृधि कुरु । अग्रे प्रथममेव वारादं तम् अग्निं जनय । ततस्ततो निस्सृतो रसः प्रजननस्थानीयश् चन्द्रमसमाप्याययत्विति । वाराणामभिमतफलानां दाता वारादः । यद्वा - वरणीयदेहो वारादः । यद्वा - वारां सलिलानाम् आदाता वारादः । ईदृशमग्निं जनय । पुनश्चाग्नेर्वैशिष्ट्यमाह - य इति । यो ऽग्निर् एक एव रुद्र उच्यते रुद्रात्मना तत्र तत्र स्तूयते “रुद्रो वा एष यदग्निः” इत्यादौ । न ह्यग्नेरन्यः कश्चिद्रुद्रत्वेन स्तूयते । यद्वा - एकः प्रधानो ऽद्वितीयस् तादृशरुद्रात्मकतया योग्निस्तूयते तं जनयेति ॥२॥ इदानीं रुद्रस्तूयते - असङ्ख्याता असङ्ख्यातानि सहस्राणि देवानां सन्ति । लिङ्गव्यत्ययः, सकारोपजनो वा । तेषु न कश्चिदग्निरिव रुद्रत्वेन स्तूयते । यद्वा - असङ्ख्यातसहस्रप्रमाणानां देवानां मध्ये रुद्र एव ह्येक इति स्तूयते । “एक एव रुद्रो न द्वितीयाय तस्थे” इति । किञ्च - असङ्ख्यातसहस्रप्रमाणानां देवानां मध्ये यो रुद्रः सर्वदा स्मर्यत एव “अस्ति कश्चिज्जगत्प्रभुः” इति, न कदाचिदपि दृश्यते “अयं स” इति न चक्षुषा गृह्यते तादृशरुद्रात्मतया यो रुद्रस्तूयत इति । तदाह - एवमेतं निबोधत एतमग्निम् एवमेतद्रूपतुल्यं निबोधत अवगच्छतेति तादृशोऽग्निस्त्वया जनयितव्य इति ॥३॥ पुनरिन्द्रस्तुतिः - आमन्द्रैरिति ॥ हे इन्द्र! मन्द्रैर् महनीयैर् मदनशीलैर्वा हरिभिर् अश्वैर् मयूररोमभिर् मयूरसदृशरोमभिर् हरितवर्णैर्वा आयाह्य् आगच्छ । आयान्तं च त्वा त्वां केचिदपि जनाः पाशिनस् ताडयितारो मा न्येमुर् न्यग्भावयेयुः । अन्तर्भावितण्यर्थो नमतिर्न्यग्भावनायां वर्तते । अत्र न्येमुरिति यकारोपजनश् छान्दसः । यद्वा - निपूर्वाद्यमेर्लिटि नियेमुरिति वक्तव्ये उपसर्गान्त्यलेपश्छान्दसः । नियमनमात्मसात्कारणम् । मा नेति द्वयोः प्रतिषेधशब्दयोरुपादानेनादरं द्योतयति । इदित्यवधारणे । यद्वा - विशब्दस्यादिलोपः । विं पक्षिणमिव पाशिनः पक्षिग्राहिणः । तथैव च बह्वृचा अधीयते । यद्वा - हरिभिरायान्तं त्वां केचिदपि जना मा न्येमुर् न च पाशिनः पाशिनोश्वानां यन्तारस् ते च त्वां ननेमुर् विलम्बितगमनं मा कार्षुः । ततश्च सुखगमनदीप्तस्त्वं दधन्वेव दातेव सर्वाभिमतानि दातुमिवोद्युक्तस् ता अस्मद्यज्ञभुव इहि गच्छ । धनधान्ये वनिपि छान्दसं द्विर्वचनम्, अन्तोदात्तत्वं च । छान्दस्स्य लिटः क्वसुः । अन्त्यलोपश् छान्दसः ॥४॥ मा मन्द्रैरिति ॥ मा माम् अहम् । विभक्तिव्यत्ययः, अन्त्यलोपश्च । हे इन्द्र ! अहं त्वत्प्रसादेन मन्द्रैर् मयूररोमभिर् हरिभिर् यामि यानि पुण्यान् लोकान् । यद्वा - कर्मोत्तरकालं त्वया सह अहमपि मन्द्रैरिन्द्रहरिभिर् मयूररोमभिर् यामि यानि । यद्वा - एतैर् मन्द्रैर् मयूररोमभिर् हरिभिर् अमा सह अहमपि यामीति । अमाशब्दस्यादिलोपश् छान्दसः मा मां च यान्तं केचिदपि पाशिनो मा मैव न्येमुः । ततो निधन्वेव निधानवानिव लब्धनिधिरिव त्वया सह तान् लोकान् इम्य् एम्य् अयानि । “दीर्घादटि समानपदे” इति रुत्वम्, “आतोटि नित्यम्” । वर्णव्यत्ययेन एमि इत्येकारस्य इकारः । निपूर्वाद्धनतेर्वनिपि निधन्वान् । छान्दसमन्तोदात्तत्वम् । क्वसुनि वा द्विर्वचनाभावः । निधानशब्दाद्वा मत्वर्थीये वनिपि ह्रस्वत्वमन्त्यलोपश्च ॥५॥ अथ द्वे उपदधाति - अणुभिश्चेति द्वे अनुष्टुभौ ॥ अणुभिः सूक्ष्मैर् महद्भिः स्थूलैश् च निघृष्वैर् नितरां दीप्तैर् असमायुतैर् असङ्गतैः कालैः कालवर्णैः कालहेतुभिर्वा हरित्वं हरितत्वं हरिद्भावं वा आपन्नैर् हरिन्नामभिर्वाजिभिरिति यावत् । हे इन्द्र ! आयाह्य् आभिमुख्येन अस्मत्सकाशं प्राप्नुहि सहस्रयुक् अक्षिसहस्रयुक्तः रश्मिसहस्रयुक्तो वा । यद्वा - सह सरन्ति गच्छन्तीति सहस्रा अनुचरास् तैर्युक्त आयाहि ॥६॥ के पुनस्ते अनुचरा इत्याह - अग्निर् एकः विभ्राष्टिवसनः विभ्राजमानवासाः । वायुर् अन्यः श्वेतसिकद्रुकः श्वेतानां सिकतानां द्रोग्धा । पृषोदरादिः । संवत्सरो ऽपरः विषूवर्णैर् नानाभूतैर् वर्णैर् युक्तः । ते त्रयस् तव नित्या ध्रुवा अनुचरा न चला न कदाचिदपि तव सकाशं विमुञ्चन्तीतीमे ध्रुवा एभिर् युक्त आयाहीति ॥७॥ अथ सुब्रह्मण्यामेकामुपदधाति - सुब्रह्मण्योमिति ॥ निगदोयम् । ओमित्याह्वानार्थः । हे इत्यर्थः । शोभनं ब्रह्म सुब्रह्म वेदः, तस्मै हितम् । “ओमाङोश्च” इति पररूपत्वम् । आदरातिशयार्थमस्य त्रिर्वचनम् । “दूराद्दूते च” इति त्रयाणां प्लुतष्टेः, तृतीयस्यार्धचतस्रो मात्रा इत्येके । वाक्यं सर्वमेकश्रुति, अन्ते त्वेकमक्षरमुदात्तम् । हे इन्द्र ईश्वर ! । यद्वा - दानादिगुणोपेत ! आगच्छ अस्मद्यज्ञं हे हरिवः ! हरिभिरश्वैः रश्मिभिर्वा तद्वान् ! । “छन्दसीवनिपौ” इति वनिप् । “मतुवसोः” इति रुत्वम् । हरिभिस्सहागन्तव्यमिति सूचनार्था क्रियापदावृत्तिः । हे मेधातिथेर् मेधो यज्ञस् तत्रातिथिः पूज्यः, मेधानां बुद्धीनां वाऽतिथिर् मेधातिथिरग्निस् तस्य मेष ! स्पर्धक !। मिष स्पर्धायाम् । यद्वा - मिषु सेचने मेषः सेक्ता उत्पादयिता । पचाद्यच् । मेधातिथेरित्यन्ते उदात्तदर्शनाद् वाक्यसमाप्तिः कृता । वृषणश्वस्य मेने ! वर्षणशीला वृषणास् तादृशा अश्वा व्यापका वा रश्मयो यस्य सवृषणश्वोग्निः । “वृषणस्वश्वयोरुपसङ्ख्यानम्” इति भत्वम् । तस्य मेने ! दीप्ते ! दीप्तिहेतो ! । यद्वा - मेनिश्शरीरं वृषणश्वस्य शरीरभूत ! गौरावस्कन्दिन् गौरवर्णोग्निर् गौरस् तस्यावस्कन्दयितः ! त्वदधीना ह्यग्नेर्दाहकशक्तिरिति । स्कन्दिर् गतिशोषणयोः । यद्वा - गौरमग्निम् अवस्कन्द्य आक्रम्य तद्भावेन स्थित ! अहल्यायै जार ! अहल्या वाक् समन्ताद् लिख्यत इति । हल विलेखने । तस्या जारयितः ! परिणामकारिन् ! । यद्वा - वागपि जीर्यते त्वत्स्तुतौ, गुणानामानन्त्याद् असमर्था भवतीति तस्मात्तस्या जारयितः ! । यद्वा - वाचा स्तोतव्य ! जीर्यतेः स्तुतिकर्मणः कर्मणि घञ् । कौशिकब्राह्मण कुशिः कोशः द्वयोः कुश्योर् भवः कौशिकः । यथोक्तम् - “अथ यत्सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । साऽस्य कौशिकता” इति । अग्निरुच्यते तस्य ब्राह्मण ! ब्राह्मणवत्प्रिय !। यद्वा - अग्नेर्ब्राह्मणवन्निर्वचनग्रन्थवद् व्यापक ! । गौतमब्रुवाण ! गामुदकं तमयते छादयते गर्भे सत्वेन गोतमः । गोमत्तमो वा गौतमो ऽतिशयेन तेजस्व्य् अग्निस् तं ब्रुवाण । “तत्प्रियतया तमेव ब्रूत इति तद्ब्रुवाणः” इति नैरुक्ताः । ऐतिहासिकास्त्वाहुः - पूर्वं कस्मिंश्चित्कारणे मेधातिथ्यादिसकाशेष्विन्द्र आजगाम । तदानीं तत्प्रोत्साहनार्थं तत्सङ्कीर्तनेन तदागमनं प्रार्थ्यत इति । तथा हि - मेधातिथिम् ऋषिं मेषात्मना समाजगाम । वृषणश्वमुनिं मेनारूपोऽभ्यैत् । गौतमदारानवस्कन्दिभावेन अभ्यभवत् । गौतमदारावस्कन्दी गौरावस्कन्दी; आद्यन्तयोर् वर्णयोर् ग्रहणम् । अवस्कन्दी सेक्ता । अहल्या गौतमपत्नी तानेव गौतमदारान्नामतोपि दर्शयति । तां जारो भूत्वा अभ्यधर्षयत् । जारश् चोरपतिः । कौशिकमृषिं ब्राह्मणरूपेणाभ्यगच्छत् । गौतममृषिं ब्रुवाणो भूत्वा उत्तेजितवान् । ब्रुवाणस्स्तोतेति ॥८॥ अथ अरुणाश्वा इति द्वे अनुष्टुभौ उपदधाति ॥ अरुणाश्वो ऽरुणोऽनूरुस् तद्वर्णा अश्वा एषां तादृशा इहास्मिन्कर्मण्य् आगताः पृथिविक्षितः भूमिवासिनो ये अष्टौ वसवस् ते अष्टौ दिग्वाससोग्नयो ऽवगन्तव्याः । दिशो वसत इति दिग्वाससः, दिशो वासांसि येषां दिशां वा वासयितारः । के पुनस्त इत्याह - अग्निश्च जातवेदाश्चेति । य एतस्मिन् मन्त्रेऽनुक्रान्ता एते ते वेदितव्याः । उक्तं हि तत्र मन्त्रान्ते “एतेऽष्टौ वसवः क्षिताः” इत्येवम् । तस्यैव व्याख्यानरूपोयं मन्त्र इति ॥९॥ ताम्राश्वा इति ॥ ताम्राश्वास् ताम्रवर्णाश्वास् तथा ताम्ररथास् ताम्रवर्णरथाः स्वयं च ताम्रवर्णास् तथा असिताः किञ्चिदपि सितत्वं येषां नास्ति तादृशा अतिरक्ता इत्यर्थः । दण्डहस्ता दण्डपाणयः खादद्दतः सदा भक्षयद्दन्ताः । “छन्दसि च” इति दद्भावः । रुद्रा रोदयितारः प्रजानाम् । एवं रूपत्वादेव ते इतः स्थानात् पृथिव्याख्यात् परां दिवं गताः । पूर्वं पृथिविक्षित इदानीं दिवं गता इति रोदयितॄणाम् अन्यत्र गमनाद् अतः परम् अस्मिन् स्थाने न केनचिद्रोदितव्यमिति भावः । एते श्रमणा नामाग्नयो वेदितव्याः ॥१०॥ अतः परं ब्राह्मणम् । उक्तम् एतेषां प्रमाणं ब्राह्मणं च उपपत्तिश्च पुर इत इतः पूर्वस्मिन्ननुवाके “नक्षत्रैश्शङ्कृतोऽवसन्” इत्यत्र नक्षत्रस्थानं पुण्यकृतां स्थानमिति “यो वा इह यजते । अमुं च लोकं नक्षते । तन्नक्षत्राणां नक्षत्रत्वम्” इति नक्षत्रैस्सह तस्मिन् स्थाने वासस्य यष्टृत्वं प्रमाणं चोक्तमिति । इत इत्यस्यान्त्यलोपश् छान्दसः । केचिदाहुः - पूर्वमन्त्रशेषोऽयं यजूरूपो मन्त्र इति । अयमर्थः - ये यूयम् इतः परां गता गच्छत तेषां युष्माकं स्थानमुक्तं प्रसिद्धं यत्र च युष्माभिर्गन्तव्यं तत्र च या पूर्युष्मदीया तस्याश्च प्रमाणमुक्तं प्रसिद्धमेव । तत्रैव शिघ्रमित गच्छत तत्रैव सुखं वस्तव्यं काले चास्मिन्यज्ञेऽप्यागन्तव्यमिति ॥११॥ अथैकामनुष्टुभमुपदधाति - बृहस्पतिश्चेति ॥ बृहस्पतिश्च सविता च द्वावेतौ विश्वरूपैर् नानारूपैर् अश्वैः रश्मिभिर्वा इह अस्मिन् स्थाने आगताम् आगच्छताम् इतः पराङ्गता वसवः; एतौ तु तत्स्थानाद् इहागताम् इहैव जगदनुग्रहार्थं वर्तितुम् । “मन्त्रे घस” च्लेर्लुक् । लङ्येव वा शपो लुक् । रथेन रंहणस्थानेन उदकवर्त्मना उदकप्राप्तिहेतुना आगताम् । अप्सुषा अपां सनितारौ सम्भक्तारौ अतोत्रगताम् इति । अपां सनितारौ अप्सुषौ । “जनसनखन” इति विट्, “विड्वनोरनुनासिकस्स्यात्” इत्यात्वम् । विभक्तिव्यत्ययेन सप्तमी, तस्याः “तत्पुरुषे कृति बहुलम्” इत्यलुक् । इतिशब्दो मन्त्रसमाप्त्यर्थः । तस्मिन्नावादेशे वकारस्य लोपः । तद्वयोरित्यादि ब्राह्मणम् । पूर्वमन्त्रशेषो वा । तयोर् बृहस्पतिसवित्रोः किम् उक्तं स्थानं प्रमाणं चेत्येव तदेव स्थानम् एतयोर् द्वयोरपि इति वेदितव्यम् ॥१२॥ उक्त इत्यादि ब्राह्मणमेव ॥ कालावयवानाम् ऋतूनाम् इतः प्रतीच्या इतोऽवधेः प्रतीच्येष्वनुवाक्येषु “साकञ्जानाम्” इत्यादिषु । “सुपां सुलुक्” इत्याकारः । यद्वा - यत्र वस्वादीनाम् उक्तं स्थानं प्रमाणं च “पवित्रवन्तः” इत्यत्र इतोऽप्यनुवाकात् प्रतीच्येष्व् अनुवाकेषु “साकञ्जानाम्” इत्यादिषु “उक्तो वेषो वासांसि च”, “ऋतुर्ऋतुना नुद्यमानः” इत्यादिना । प्रतिकूला अवाचीना गतिः प्रतीची तत्र भवा अनुवाकाः प्रतीच्याः । “ऋत्विक्” इत्यादिना क्विनि “दिगादिभ्यो यत्”, अकारनकारयोर्लोपे “चौ” इति पूर्वस्य दीर्घत्वम् । अथ वासात्या इति “वासात्यौ चित्रौ” इत्यारभ्य प्रकरणे अश्विनोः किम् उक्तो वेषो वासांसि च । अथ को नाम अन्तरिक्षे शब्दं करोतीति गर्जनं करोतीति वासिष्ठो वासिष्ठगोत्रजन्मा रौहिणो रोहिणस्यापत्यं मीमांसां चक्रे विचारितवान् । “कास्प्रत्ययादाम्” इत्याम्प्रत्ययः । रोहिणशब्दाद् ऋष्यण् । यद्वा - वसिष्ठस्य पुत्रो रोहिण्यां जातः । स्त्रीभ्यो ढक् बाध्यते । तथा तस्य प्रतिवचनरूपा एषा ऋक् भवति वाश्रेव विद्युदिति । व्याख्यातेयम् “अग्निना रयिमश्नुवत्” इत्यत्र । वाश्रा वाशनशीला गौरिव विद्युन्मिमाति निर्मिमीते ध्वनिं माता वत्समिव सिषक्ति सिञ्चति दृष्टिम् । यदा एषां मरुताम् अनुमते वृष्टिरसर्जि सृज्यते तदा विद्युत् शब्दं करोतीति विद्युत्वान् पर्जन्य इत्यर्थ इति ॥१३॥ अथ चतस्रो ब्रह्मसदन उपदधाति - ब्रह्मण उदरणमसीति चतुर्भिर् यजुर्भिः ॥ ब्रह्मणो हिरण्यगर्भस्य ब्रह्मण एव वा उदरणम् उदक्तत्वहेतुरसि हे इष्टके ! ब्रह्मण उदीरणम् उदीर्णत्वहेतुरसि । अथ ब्रह्मण आस्तरणम् आसनमसि । अथ ब्रह्मण उपस्तरणं परिस्तरणमसीति इष्टकानां स्तुतिः ॥१४॥ इत्यारण्यके प्रथमे द्वादशोऽनुवाकः ॥१२॥
१३
अथ दिक्ष्व् अवान्तरदिक्षु चाष्टौ उपदधाति - अष्टयोनीमिति ॥ तिस्रोऽनुष्टुभः । तिस्रस्त्रिष्टुभः । द्वे अनुष्टुभौ । अष्टयोनीम् अष्टौ प्रकृत्यादयो योनयः कारणानि यस्यास्सा अष्टयोनी । छान्दसो दीर्घः वर्णव्यत्ययेन वा दीर्घत्वम् । अष्टपुत्राम् अष्टौ वक्ष्यमाणमित्रादयः पुत्रा यस्यास् तादृशीम् । अष्टपत्नीम् अष्टौ पतयः पातार इन्द्रादयो यस्यास् तादृशीम् । “विभाषा सपूर्वस्य” इति ङीम्नकारौ । इमाम् एवङ्गुणां महीं महतीं पहाप्रभावाम् अहं वेद जानामि । अहमिति मन्त्रद्रष्टृत्वं दर्शयति । तस्मान् मे एवं विदुषः न मृत्युर् ज्ञानसामर्थ्यादमृतत्वमेव मुक्त एव भविष्यामीति । किञ्च - अमृत्युर् अपमृत्युश्च अघा अघानि दुःखानि मे नाहरन् नाहरति । यद्वा - अघा अघात्मा अपमृत्युर् मां नाहरति ज्ञानप्रभावेन अपमृत्युं च तरामीति । अघशब्दात् “शेश्छन्दसि” इति लोपः “सुपां सुलुक्” इत्याकारः । पक्षान्तरे वेदेत्यस्य “चादिलोपे विभाषा” इति निघाताभावः । अनयैव उत्तरे व्याख्याते । अष्टपदिति । छान्दसोन्त्यलोपः ॥१-२-३॥ सुत्रामाणं महीमूष्व् इति प्रतीकग्रहणं “सुत्रामाणं पृथिवी” इत्यस्या “महीमूषु मातरं” इत्यस्याश्च । व्याख्याते चैते “वैश्वानरो नः” इत्यत्र । सुष्ठु त्रात्रीं पृथिवीं द्योतनशीलाम् अपापां सुसुखामखण्डितां सुष्ठु प्रकर्षेण च प्रजानां नेत्रीं दैवीं देवानां सम्बन्धिनीं नावं सर्वदुःखोत्तारणहेतुं स्वरित्रां शोभनारणाम् अनागसम् अप्रमादाम् अस्रवन्तीम् अच्छिद्राम् ईदृशीं स्वस्तये अविनाशाय आरुहेमेति । अथेतरा - महीं महतीं मातरं निर्मात्रीं शोभनकर्मणाम् ऋतस्य सत्यस्य पालयित्रीम् अवसे रक्षणाय सुष्ठ्व् आह्वयामस् तुविक्षत्रां प्रवृद्धबलाम् अजरन्तीम् अक्षयाम् उरूचीं महद्भिरनुगतां सुसुखाम् अखण्डितां सुष्ठु प्रणेत्रीमिति ॥४-५॥ अदितिर्द्यौरिति ॥ अदितिर् अदीना पृथिवी देवमाता वा सैव द्यौर् द्योतनशीलो नाकः । सैव अन्तरिक्षम् अन्तरा ईक्ष्यमाणं व्योम । सैव माता निर्मात्री जगतः । सैव पिता पात्री । सैव पुत्रः दुःखत्रात्री । सैव विश्वे अपि देवाः । सैव पञ्चजनाश् चत्वारो वर्णा निषादपञ्चमास् तेऽप्यदितिः । सैव जातं जननं प्रजानाम् उत्पत्तिः । सैव जनित्वं जन्मादिकारणं तत्रैव सर्वमुत्पद्यत इति । औणादिक इकप्रत्ययः । एवं विश्वात्मत्वेन अदितिस्तूयते ॥६॥ अष्टौ पुत्रास इति ॥ अष्टपुत्रत्वं पृथिव्या उक्तम्; तदिदानीं व्याचष्टे -अष्टौ पुत्रासो ऽदितेर् बभूवुर् ये तन्वः पर्य् उपरि जाता देवजाः पुत्रा इत्युक्तं भवति । “जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः” इति “घेर्ङिति” इति गुणाभावः । तेषां मध्ये सप्तभिः पुत्रैः सह देवान् उपप्रैद् देवानां समीपं गतवती । पूर्ववद्रुत्वानुनासिकौ । मार्ताण्डं मार्ताण्डस्वभावं तु परास्यत् त्यक्तवती यस्मिञ्जाते अण्डं मृतमभवत् स मार्ताण्डः पुत्रः । यथोक्तम् - मृतोऽण्डो जायते यस्मान् मार्ताण्डस्स उदाहृतः । इति, तं परास्य अन्यैस्सह देवसकाशं गताऽदितिरिति ॥७॥ सप्तभिरिति ॥ पुत्रविशेषत्यागोपादानकारणकथनार्थोऽयं मन्त्रः । इयम् अदितिः सप्तभिः पुत्रैर् उत्पाद्यमानैरुपलक्षिता पूर्व्यं युगम् उपप्रैत् सप्तानामुत्पत्तिकाल एव हीत्यर्थः । जननमरणयोर्यत्पूर्वं तस्मै हितं तत्र वा साधु पूर्व्यं प्रजाभिवृद्धिकारणं युगं योगः मिथुनीभावलक्षणः । युगळाधिकरणत्वाद्वा युगम् । तादृग्युगम् उपप्रैद् उपगतवती यस्मात् तस्मात् प्रजायै प्रजाभिवृद्धये अभवत् । तस्मान् मृत्यवे मृत्युनिवृत्यर्थं मार्ताण्डं पराभरत् त्यक्तवती । तस्याण्डमृतिहेतुत्वेन प्रजाभिवृद्धिहेतुत्वाभावात् । न हि तदुपादानकाले पूर्व्यं युगम् उपप्रैत् । तस्मात्तस्य कुलक्षयहेतुत्वात् तं परास्य पूर्व्ययुगप्रभवानादाय देवस्थानं गतवती । मशकेभ्यो धूम इतिवच् चतुर्थ्या मृत्युनिवृत्यर्थतोच्यते । सामर्थ्यान् मृत्युनिवृत्तौ मृत्युशब्दः । यद्वा - अण्डस्य मृत्यवे सञ्जातं मार्ताण्डम् अप्रजातिहेतुं मन्यमाना पराभरत् । भरणं निवृत्तिः पराभरणं पुनस्त्याग एव । इतिशब्दो मन्त्राणां परिसमाप्तिं द्योतयति ॥८॥ अतः परं ब्राह्मणम् - तानिति ॥ तान् इदानीम् अदितेः पुत्रान् अनुक्रमिष्यामो ऽनुक्रमेण कीर्तयामः । मित्रश्चेत्यादि । एते मित्रादिनामानोऽष्टौ पुत्राः । एतैर्नामभिर् दिक्ष्व् अवान्तरदिक्षु चाष्टावुपदधाति । नामधेयान्येव मन्त्राः । “मित्रस्तया देवतया” इत्यादिः प्रयोगक्रमः ॥९॥ अथ हिरण्यपुरुषमुपदधाति - हिरण्यगर्भ इति ॥ प्रतीकग्रहणमिदं “हिरण्यगर्भस्समवर्तताग्रे” इत्यस्यास्त्रिष्टुभः । व्याख्याता चेयं “ऊर्ध्वा अस्य” इत्यत्र । हिरण्यगर्भ एव अग्रे समवर्तत नान्यत् किञ्चित् । स च जातमात्र एव सर्वस्य भूतजातस्य एकः प्रधानः पतिरासीत् । स दाधार अधारयत् पृथुतरं नाकलोकं द्याम् अन्तरिक्षम् इमां च पृथिवीं कस्मै प्रधानाय कशब्दवाच्याय देवाय हविषा परिचरणं कुर्म इति ॥१०॥ अथ पुरस्ताद्रुक्ममुपदधाति - हंसश्शुचिषदिति जगत्या ॥ इदं च प्रतीकग्रहणम् । इयं च व्याख्याता “इन्द्रस्य वज्रोसि” इत्यत्र । हंस आत्मा भूत्वा शुचिषु देशेषु सीदति । वसुर् वासयिता सविता भूत्वा अन्तरिक्षे सीदति । नृषु सीदति हंसात्मा भूत्वा । वरे रविमण्डले सीदति सवित्रात्मा । ऋते यज्ञे सीदति होत्रात्मा । व्योमनि विविधरक्षणे सीदत्य् अतिथ्यात्मना । अब्जा अद्भ्यो जातो हंसः “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति । गोजा रश्मिभ्यो जातस्सविता । ऋतात् सत्याज् जात ऋतजा होता । अद्रेर् अजराज्जातो ऽतिथिः । ऋतं सर्वगतं सत्यं वा । बृहद् ब्रह्म । यदीदृशं वस्तु तत्वमसि इति रुक्मस्तुतिः ॥११॥ अथ पुष्करपर्णस्योपरिष्टात् पश्चिमे प्रदेशे रुक्ममुपदधाति - ब्रह्म जज्ञानमिति ॥ प्रतीकग्रहणं ब्रह्मजज्ञानमिति त्रिष्टुभः । व्याख्याता चेयं “अभ्यस्ताद्विश्वा” इत्यत्र । ब्रह्म परिवृढं जज्ञानं जायमानमेव प्रथमं पुरस्तात् पूर्वस्यां दिशि वेनः वेनाख्यः वेनः कान्त आदित्यः सुरुचः सुरोचनाद् रश्मीनां लोकान्वा व्यावः विवृणोति । अस्य लोकस्य सीमतः सीमद्भ्य आरभ्य वृणोति सर्वमर्यादाः प्रवर्तयति बुध्निया अन्तरिक्षप्रभवा अपि विष्ठा विविधं स्थिता उपमा उपमीयते परिच्छिद्यते याभिस्ता विवृणोति । किञ्च - सतः प्राणतो ऽसतश्च अप्राणतश्च योनिं विवः विवृणोति ॥१२॥ अथैकामुपदधाति - तदित्पदमिति ॥ इदमपि प्रतीकग्रहणं “तदित्पदं न विचिकेत” इत्यस्यास्त्रिपदायास् त्रिष्टुभः । व्याख्याता चेयं “उदस्ताम्प्सीत्” इत्यत्र । नूनं तत्पदम् अक्षरम् ओङ्ङ्कारं स्वर्गद्वारात्मकं न विचिकेत न विजानाति विद्वान् सर्वमन्यद्वेत्ति इदमेकमेव न वेद । यद् यतः मृतः पुनः जीवान् जीवयोनीरप्येति प्राप्नोति । सो ऽविद्वान् जीवो गर्भोपमस्तस्मान् मृतत्वाज् जीवत्व् अमृतो हि पुनः जीवभावं न प्रतिपद्यते । यद्वा - गर्भोपमो यदविद्वान् जीवो मृत एव जीवाज् जीवन् मृत इत्यर्थ इति ॥१३॥ अथ ब्राह्मणम् - गर्भः प्राजापत्यः प्रजापतेरयं गर्भः । इदं समुदायनाम प्राजापत्यो गर्भ इति । अथ अनन्तरं पुरुष उच्यते कीदृशः स पुरुषः सप्तपुरुषः सप्त पुरुषरूपाः किङ्करस्थानीया नक्षत्रादयो यस्य तादृशः ॥१४॥ इत्यारण्यके प्रथमे त्रयोदशोऽनुवाकः ॥१३॥
१४
“योऽसौ तपन्नुदेति” इत्यायुष्कामः सततमादित्यमुपतिष्ठते । उपधाने नास्ति विनियोगः । योऽसौ देवस् तपन्नुदेति सर्वेषां भूतानां प्राणिनां प्राणानादाय सदैव प्राणापहारेण उदेति । यदाऽयमुदेति तदानीमेकदिवसोऽयं प्राणिनामायुर्भवतीति । एवं परोक्षवदुक्त्वा प्रत्यक्षवदाह - मा मे इति । यद्वा - एवं हि लोके प्रसिद्धं योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेतीति; अतोऽहं भीतो ब्रवीमि - हे देव ! मे मम प्रजायाः पशूनां मम च प्राणानादाय मोदगास् त्वत्प्रसादेन त्वदुदयकृतायुर्हानिरस्माकं माभूत् । माङ्योगेप्यडागः ॥१॥ असौ योऽस्तम् अदर्शनम् एति । स इत्यादि समानम् ॥२॥ असौ य आपूर्यत्य् आपूर्यतेरश्मिभिः क्रमेण पूर्वाह्णे । स इत्यादि गतम् । यथायथा देवो रश्मिभिः पूर्यते तथा प्राणिन आयुषा हीयन्ते । तस्मात् तदीयैः प्राणैराहृतैरिव अयमापूर्यते । तस्माद् अस्मत्प्राणापहारेण माऽऽपूरिष्ठा मा पूर्तिङ्गमः ॥३॥ असौ योऽपक्षीयत्य् अपक्षीयते । स इत्यादि तुल्यम् । यथायथाऽयमपराह्णे रश्मिभिरपक्षीयते तथातथा हि प्राणिनाम् आयुरपक्षीयत इति ॥४॥ अमूनि नक्षत्राणि सर्वेषां भूतानां प्राणैर् आह्रियमाणैर् अपप्रसर्पन्त्य् अपगच्छन्त्य् उत्सर्पन्ति च अहन्यपसर्पन्ति रात्रौ उत्सर्पन्ति च । तत्र “योसौ तपन्नुदेति” इत्यादौ सर्वत्राहरुपक्रमत्वाद् अपसर्पणस्य प्राथम्यम् । सृपेर्लृदित्वादञ् । एतेन मासा अर्धमासा ऋतवः संवत्सरो ऽहः रात्रिश्च व्याख्याताः । एवं नक्षत्राणां कालावयवानां च मासादीनाम् आदित्याधीनात्मलाभत्वात् ताद्रूप्येणादित्यस्यैव स्तुतिः ॥५ - १०॥ ओमादिभिश्च परमात्मनामधेयैस् तदभेदेनादित्य एवोच्यते ॥११॥ एतद्व इति ॥ हे नक्षत्रादयः सप्तपुरुषस्थानीयाः ! एतद् उक्तप्रकारं वः युष्माकं मिथुनम् आदित्येन सहोपाकार्योपकारकतालक्षणसम्बन्धं तथेदमनुपहिंसितं वर्तते एवं नो ऽस्माकमपि मिथुनं स्तीपुंसलक्षणं मा रीढ्वं मा हिंसिष्ट पुत्रदारादिवियोगं मा कार्ष्ट इति यावत् । रीङो रिषेर्वा रूपसम्पत्तिरनुसन्धेया । अस्य च कालपुरुषस्य स्वभावः रूपं प्रवृत्तिः क्रमश्च “स्मृतिः प्रत्यक्षमैतिह्यम्” इत्यत्र दर्शितम् । इह तु तस्य सप्तपुरुषत्वं तेषां च स्वरूपमुच्यते इति ॥१२॥ इत्यारण्यके प्रथमे चतुर्दशोऽनुवाकः ॥१४॥
१५
अथ आदित्यस्य अष्टपुरुषस्य उपधानक्रम उच्यते - अष्टौ पुरुषाः पुरुषवर्गा यस्य सोऽष्टपुरुषः । ते च पुरुषवर्गादयः “साकञ्जानाम्” इत्यादिष्वनुवाकेषु प्रदर्शिताः । तेषां सर्वेषाम् आदित्यस्य सेनानीस्थानीयानाम् आदित्यपारार्थ्याद् आदित्यात्मकतयाऽत्र स्तुतिः क्रियते ॥१॥ तत्र “वसूनाम्” इत्यादयोऽष्टौ मन्त्राः । एभिर् दिक्ष्व् अवान्तरदिक्षु च यजमान उपधत्ते । आदित्यानामित्यादिकं सर्वमन्त्राणां समानम् । “ॐ भूर्भुवस्सुवः । रश्मयो वो मिथुनं मा नो मिथुनं रीढ्वम्” इति च सर्वत्रान्ते यजमान उपतिष्ठते । अयमर्थः - वसूनां वसुनाम्नो जगतो वासयितॄणाम् आदित्यानाम् आदित्यात्मनाम् । तत्कार्यकाराणात्ताच्छब्द्यम् । यथा पुत्रकार्यकरणादपुत्रः पुत्र उच्यते । यद्वा - रसादानादिना प्राधान्याद् आदित्यस्सविता तत्रत्यानां तत्कार्यकारित्वेन तस्मिन् वर्तमानानां वसूनां स्थाने यस्मिन् तिष्ठति तस्मिन् तेजोलक्षणे स्थाने तिष्ठन् अहं स्वतेजसा आत्मीयेन तेजसा भानि तादृशेन तेजसा तेजस्वी भूयासमिति यावत् । ओमित्यादि गतम् । एते च “वसन्तो वसुभिस्सह” इत्यत्र द्रष्टव्याः । एवं रुद्रादिषु योज्यम् । तत्र “शुक्लवासा रुद्रगणः” इत्यत्र रुद्रा द्रष्टव्याः । “विश्वरूपाणि वासांसि । आदित्यानां निबोधत” इत्यत्र आदित्यगणो द्रष्टव्यः । “स तस्तद्देवलक्षणम्” इत्यत्र सतां वर्गो द्रष्टव्यः । “इहेहवस्सतपसः” इति शिशिराख्यायिकायां मरुताम् आमन्त्राणात् हेमन्तशिशिरयोरेकदेवतत्वाच्च “सतां सत्यानाम्” इति वक्ष्यमाणानां मरुतामेव गण इति केचित् । सन्नामानोऽन्य इत्यन्ये । “अभिधून्वताम्” इत्यत्र अभिधून्वदादिलक्षणानां मरुतां ग्रहणं वेदितव्यम् । “ऋभूणां तन्निबोधत” इत्यत्र ऋभवो द्रष्टव्याः । अत्रोपधानक्रमानुरोधाद् वसन्तग्रीष्मवर्षाणां देवताः क्रमेण निर्दिष्टा वसुरुद्रादित्याः । शरद्धेमन्तशिशिराणां तु या देवता अभिधून्वदादिलक्षणा मरुतः सन्नामानश्च ते व्युत्क्रमेण निर्दिष्टाः सदाद्यृभ्वन्तास् त्रिकद्वयेनाभिमुख्येनोपधेयत्वादिति वेदितव्यम् । “विश्वेदेवा विप्रहरन्ति” इत्यत्र विश्वेदेवा द्रष्टव्याः । “स खलु संवत्सर एतैस्सेनानीभिस्सह” इत्यत्र संवत्सरो द्रष्टव्यः । योऽयमुक्तप्रकारेण सविता सर्वस्य प्रेरक आदित्यात्मा रश्मय इत्य् एवं तेजस्विनो युष्माकं रश्मयो मिथुनं साहायकम् आचरन्ति तदधीनस्वभावत्वाद्वस्वादीनाम् ॥२ -१०॥ इत्यारण्यके प्रथमे पञ्चदशोनुवाकः ॥१५॥
१६
“आरोगो भ्राज” इत्यत्र आरोगादीनि नामान्य् उक्तानि । तत्र यदा “आरोगस्तया देवतया” इत्यादिना अध्वर्युरारोगादीन् उपदधाति तदा क्रमेण यजमानः “आरोगस्य स्थाने” इत्यादिना तान्तामुपधाय सर्वान्ते “ॐ भूर्भुवस्स्वः । आपो वो मिथुनं मा नो मिथुनं रीढ्वम्” इत्युपतिष्ठते । वः युष्माकं विश्वसृष्टौ आपो मिथुनं सहायभावमाचरन्ति । आरोगादयो व्याख्याताः ॥१ - ८॥ इत्यारण्यके प्रथमे षोडशोनुवाकः ॥१६॥
१७
अथ वायोरेकादशपुरुषस्य प्रभ्राजमानाद्येकादशपुरुषवर्गयुक्तस्य तथा एकादशस्त्रीकस्य प्रभ्राजामान्याद्येकादशस्त्रीवर्गयुक्तस्य उपधानमन्त्रा उच्यन्ते । “प्रभ्राजमानस्तया देवतया” इत्यादिना अध्वर्युः प्रभ्राजमानादिभिर् नामभिर् उपदधाति । तत्क्रमेण यजमानः “प्रभ्राजमानानाम्” इत्यादिना उपस्थाय सर्वान्ते “ॐ भूर्भुवस्स्वः । रूपाणि वः” इत्युपतिष्ठते । प्रभ्राजमानत्वादिरूपविशेषाधीनप्रभवत्वादेषाम् । एते च व्याख्याताः । अत्रैषां मरुतां रुद्रतनुत्वाद् रुद्रतादात्म्यप्रतिपादनार्थं “रुद्राणां” इत्युक्तम् । एतत् स्त्रीणां च रुद्राण्या तादात्म्यप्रतिपादनार्थं स्त्रीमन्त्रेषु रुद्राणीग्रहणम् । यद्वा - रुद्रत्वे उपचरिते तेषां स्त्रियो रुद्राण्यो भवन्ति । तत्र गौणादपि “इन्द्रवरुण” इति स्त्रीप्रत्ययः, आनुगागमश्च । प्रभ्राजमानादिभ्यः पुंयोगवृत्तिभ्यः “पुंयोगादाख्यायम्” इति ङीप् । रजतादिभ्यो गुणवृत्तिभ्यष्टाबेव ॥१॥ इत्यारण्यके प्रथमे सप्तदशोनुवाकः ॥१७॥
१८
अथाग्नेरष्टपुरुषस्य “अग्निश्च जातवेदाश्च” इत्यष्टपुरुषवत उपधानमन्त्रा उच्यन्ते । यदा “अग्निश्च तया देवतया” इत्यादिना अग्न्यादिभिर् नामभिर् अध्वर्युरुपदधाति तदा “अग्नेः पूर्वदिश्यस्य स्थाने” इत्यादिना क्रमेण यजमान उपधायान्ते “ॐ भूर्भुवस्स्वः । दिशो वः” इत्युपतिष्ठते, दिग्विशेषावस्थितत्वादेषाम् । पूर्वस्यां दिशि भवः पूर्वदिश्यः । “दिगादिभ्यो यत्” तदन्तादपि प्रवर्तते । उपदिक् कोणदिक् । सहोजस इति । एमन्नादित्वात् पररूपत्वम् । अजिराप्रभव इति । अजिराप्रभोरित्यर्थः । “ङसिङसोश्च” इति पूर्वरूपत्वं व्यत्ययेन न प्रवर्तते ॥१॥ इत्यारण्यके प्रथमे अष्टादशोऽनुवाकः ॥१८॥
१९
अथ नरकत्रा उपदधाति - दक्षिणपूर्वस्यामिति ॥ दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा । “दिङ्नामान्यन्तराले” इति समासः, “विभाषा दिक्समासे” इति सर्वनामसञ्ज्ञा । तस्यां ह्यवस्थितो विसर्पी नाम नरकः यत्रत्या जन्तवो वेदं नातिशयेन विविधं सर्पन्ति इतश्चेतश्च परिभ्रमन्ति । विसर्पयतीति विसर्पी, विपूर्वात् सृपेर् ण्यन्तात् “सुप्यजातौ” इति णिनिः । तस्मान् नो ऽस्मान् परिपाहि सर्वतो रक्ष हे इष्टके ! । तद्विपरीतो ऽविसर्पी यत्रत्या जन्तवो विसर्पितुमपि न क्षमन्ते । गतमन्यत् । विषादी विविधं सादयतीति यत्रत्या जन्तवो विविधं विषादयन्तो भवन्ति किमर्थमस्माभिरीदृक् दुष्कृतं कृतमिति । पूर्ववत् ण्यन्तात् णिनिः । तद्विपरीतो ऽविषादी यत्रत्या जन्तवः विषक्तुमपि न क्षमन्ते । गतमन्यत् ॥१ - ४॥ अथ दक्षिणतो दर्भस्तम्बस्य “आयस्मिन् सप्त वासवाः । इन्द्रियाणि शतक्रतो” इत्येते उपदधाति । प्रथमाऽनुष्टुप् “क्वेदम्” इत्यत्र व्याख्याता । द्वितीया गायत्री “इन्द्रं वः” इत्यत्र व्याख्याता । हे शतक्रतो ! यानि तव इन्द्रियाणि वीर्याणि पञ्चसु जनेषु व्यवस्थितानि देवादिषु ब्राह्मणादिषु वा हे इन्द्र ! तानि तव स्वभूतान्य् अहमावृणे आभिमुख्येन प्रार्थये इति ॥५ - ६॥ इत्यारण्यके प्रथमे एकोनविंशोऽनुवाकः ॥१९॥
२०
अथ अब्-इष्टका यथा लिङ्गमुपदधाति । तत्र “इन्द्रघोषा वः” इत्यादयष्षट् । हे आपः ! वः युष्मान् इन्द्रघोषनामानो वसुभिस्सह इन्द्रघोषाश्च वसवश्च पुरस्तात् पूर्वस्यां दिश्य् उपदधताम् । गतमन्यत् । सञ्ज्ञानं समीचीनं ज्ञानं वः पश्चाद् उपदधताम् इत्यन्तो मन्त्रगणः ॥१ - ६॥ अथ “सावित्रस्सर्वः” इत्यादयः पञ्च । सावित्रः सवितृदेवत्यः सर्वो ऽग्निर् यो नाम कश्चित् काठके विहितः स पृथिव्याम् उपधत्तामिति । गतमपरम् ॥७ - ११॥ अथ “एवा ह्येव” इत्यादयष्षट् । हे एव ! हे अयनशील ! आदित्य ! एतेर्वप्रत्ययः । त्वम् एवा हि ये एतव्यास् त इमा एवास् ते सर्वे त्वमसि । तद्धेतुत्वात्ताच्छब्द्यम् । यद्वा - अयनसमर्थोसि तस्मादेहीति शेषः । वप्रत्ययान्तात् “सुपां सुलुक्” इत्याकारः । ब्राह्मणं च भवति “अञ्जलिना पुरस्तादुपदधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा पाराची दिक्” इति । अत्र केचित् “एवादीनामन्तः” इति द्वितीयस्यैवशब्दस्य अन्तोदात्तत्वमिच्छन्ति । तदयुक्तं; निपातस्यान्तोदात्तत्वनिधानात् । तस्मादाष्टमिकं सर्वानुदात्तत्वमेव “एवा ह्यग्ने” इत्यादौ अग्न्यादिपदानामिवेति वेदितव्यम् । एवा हि देवा इत्यत्रापि जस आकारः ॥१२ - १७॥ इत्यारण्यके प्रथमे विंशोऽनुवाकः ॥२०॥
२१
आपम् आपाम् इत्यादयस् तिस्रः । सर्वाश्चैताः प्रथमानुवाके व्याख्याताः । पुनराम्नानमुपधानार्थम् । अपाश्न्युष्णिमिति द्वे । भद्रं कर्णेभिरिति द्वे ॥१ - ७॥ केतवो अरुणासश्चेत्येका ॥ अयं च बृहतीविशेषः । केत्वादय ऋषिविशेषसङ्घाः । ते समाहितासः समाहिता असहस्रधायसं सहस्रस्यानेकस्य धात्री सहस्रधायास् तद्विपरीतां बहूनां रक्षणापर्याप्तामिमाम् अस्मदीयां प्रतिष्ठां शतधा शतस्यानेकस्य धात्री यथा शतं धारयति तादृशीं ताम् । “आतोऽनुपसर्गे कः” इति कान्तात् “सुपां सुलुक्” इत्याट् प्रत्ययः । यद्वा - शतधाम् अनेकप्रकारवतीं प्रतिष्ठां किम् ? विधात्विति सम्बध्यते । पूर्वस्यामृचि श्रुतं दधात्वित्येतदिह भहुवचनान्ततया विपरिणम्यते । यद्वा - शतस्य सहस्रस्य च धात्रीं प्रतिष्ठां दधातु । पूर्वपदान्तस्य छान्दमुदात्तत्वम् । उत्तरपदस्य वा आदावकारोपजनः । “शतशश्चैव सहस्रशश्च प्रतितिष्ठति” इति ब्राह्मणम् ॥८॥ शिवा नश्शन्तमा भवन्त्विति द्वे द्विपदे गायत्र्यौ ॥९ - १०॥ इत्यारण्यके प्रथमे एकविंशोऽनुवाकः ॥२१॥
२२
…
अपां रसमित्यनुष्टुबेषा ॥ सूर्ये समाभृतं कार्यत्वेन समाश्रितं शुक्रं निर्दोषं दीप्तिमन्तं वा रसं त्रैलोक्यात्मकम् उदयंसन् उद्यच्छन्ते पूर्वोक्ता अग्न्यादयः । सूर्याधीनात्मलाभं त्रैलोक्यमपां रसभूतम् अग्न्यादयो धारयन्ति । तस्याप्य् अपां रसस्य त्रैलोक्यस्य यो रस उत्तमः सारस् त्रैलोक्यसारभूतस् तं वः युष्माकं स्वभूतं सोमं गृह्णामि हे आपः ! इत्यन्तो मन्त्रः ॥१०॥ इदानीम् आख्यायिकार्थं व्याचष्टे - इमे लोका अपां रस इत्युच्यन्ते । ते च अमुष्मिन्नादित्ये समाभृता वर्षादिद्वारेण तदधीनात्मलाभत्वात् । तस्मात् “इमे वै लोका अप्सु प्रतिष्ठिताः” इत्येतमर्थम् इयमृगभिवदतीति । एवमपां समस्तकारणत्वप्रतिपादनेनाबीष्टकानामेव वैशिष्ट्यं प्रतिपादितम् । तस्मादेवम्भूता अबीष्टका उपधेया इति विधिरनुमीयते ॥११॥ इदानीम् आसाम् उपधानप्रयोगमाह - जानुदघ्नीमिति ॥ शौल्बेन विमानेन सावित्रवद्रथचक्रं परिलिख्य तत्र जानुदघ्नीं जानुप्रमाणाम् उत्तरवेदीं खात्वा गुल्फदघ्नम् अपाम् अद्भिः पूरयित्वा । “पूरणगुण” इति समासप्रतिषेधात् पूरणार्थैर्योगे षष्ठ्यनुमीयते । ततः पुष्करपर्णैः पद्मपलाशैः पुष्करदण्डैश्च पृथग्भूतैः पुष्करैर् अपृथग्भूतमूलाङ्कुरार्पणैस् ताः संस्तीर्य सञ्छाद्य इतरा इष्टका उपधाय पुनश्च पुष्करपर्णादिभिः प्रच्छाद्य एवं पञ्चचितीकं चित्वा तस्मिन्विहायसे मञ्चवत् स्थापिते अग्निं प्रणीय कर्मानुगुणमग्निप्रणयनं कृत्वा । अथ “तमभित एव अबीष्टकाः” इत्यनन्तरकरणीयम् अबीष्टकोपधानं वक्ष्यन् मध्ये ब्रह्मवादिपर्यनुयोगमवतारयत्य् अग्न्यन्तरेभ्योऽस्य वैलक्षण्यं दर्शयितुं - ब्रह्मवादिनोऽत्र पर्यनुयोगमाहुः । कस्मात् सत्यात् कारणाद् अयम् आरुणकेतुको ऽग्निः प्रणीयते अग्नौ पुनरपि चीयते अबीष्टकानां प्रणयनोत्तरकालम् उपधानात् । अग्न्यन्तरे हि सर्वचितेऽग्नौ पश्चादग्निः प्रणीयते । तत्कोऽस्य विशेषः येनैतदेवं भवतीति । अथोत्तरं - साप्प्रणीतेयम् अद्भिस्सहितस्साप् साप्त्वादयं प्रणीते चीयते । कथं साप्त्वामित्याह - अप्सु हीति ॥ यद्वा - सोऽयं प्रणीतेऽपि चेतव्यस् तिष्ठत्वन्योग्निः । अयमारुणकेतुकः प्रणीतेऽपि चेतव्यः । “स प्रणीतेऽयं” इति वक्तव्ये वर्णव्यत्ययो लिङ्गव्यत्ययो वा । नाग्न्यन्तरवदयं प्रणीत एव चेतव्यः । हेतुमाह - अप्सु ह्ययं चीयते । आदावद्भिः पूरणं ततः पुनः पुष्करपर्णादिसञ्छादनम् अन्ते इष्टकानामुपधानमित्य् एवं प्रायेण अप्स्वेवायं चीयते । तत्र यदि मध्येनाग्निः प्रणीयेत असौ अग्निर् भुवने जले अनाहिताग्निरप्येता अप्ययं विलयं प्राप्नुयादिति । छान्दसो लुट्, सकारोपजनश्च । “न लुट्” इति निघाताभावः । यद्वा - न केवलं चितावेव अपि तु भुवनेऽप्य् असौ अनाहिताग्निर् एव इयान् न कदाचिदप्य् अस्याग्निसम्बन्धो भवेत् । आवश्यके वा तृच् । तस्मादग्निं प्रणीयोपसमाधाय तमभित एवाबीष्टका उपदधाति । छान्दसमिकारस्य दीर्घत्वम् ॥१२॥ अथ पुनः कस्मिन्कर्मण्यस्याङ्गभाव इत्याह - अग्निहोत्र इत्यादि ॥ अथो अन्यदपि ब्रह्मवादिन आहुः सर्वेषु यज्ञक्रतुष्व् अस्याङ्गभाव इति । यत्र ज्योतिष्टोमादिषु यज्ञेषु क्रतुषु चोत्तरेष्व् अग्निष्टुदादिषु यत्राग्निर्नास्ति तत्रापीत्यर्थः ॥१३॥ एतद् एवार्थरूपं प्रश्नप्रतिवचनाभ्याम् आहुः शण्डिलाः शण्डिलस्य पुत्राः । “गर्गादिभ्यो यञ्” “यञञोश्च” इति बहुषु लुक् । कमग्निं चिनुते यः सवित्रं सत्र्यं सत्रे भवम् अग्निं चिनुते स किं फलमग्निं चिनुते इति प्रश्नः । उत्तरं - संवत्सरं प्रत्यक्षेण । चिनुत इत्येव । पुनश्च - कमिति प्रश्नः । एवं सर्वत्र । सावित्रादयोऽग्निविकाराः । तत्र सावित्रं चिन्वानोऽमुमादित्यं प्रत्यक्षेण चिनुते । नाचिकेतं चिन्वानः प्राणान् प्रत्यक्षेण चिनुते । चातुर्होत्रियमग्निं चिन्वानः । ब्रह्म प्रत्यक्षेण चिनुते । उक्तं च “ब्रह्म वै चतुर्होतारः” इति । यज्ञो ब्रह्म वेदो वा । वैश्वसृजं चिन्वानश्शरीरं प्रत्यक्षेण चिनुते । अग्निपुरुषस्य हिरण्यगर्भस्य वा उपानुवाक्यम् आशुं महान्तम् अग्निं चिन्वान इमान् लोकान् भूरादीन् प्रत्यक्षेण चिनुते । इमम् अस्मिन् प्रकरणे विहितम् आरुणकेतुकमग्निं चिन्वानः यो ऽयम् इतश्चामुतश्चाव्यतीपाती तं चिनुत इति इमं चामुं च लोकं व्यतीत्य अतिक्रम्य हित्वा यो न गच्छति सर्वगतत्वेन चलितुमशक्यत्वात्तं विश्वात्मानम् ईश्वरमिति । प्रश्नप्रतिवचनावसानद्योतनार्थावितिशब्दौ । एवं शण्डिलमतानुसारेण केचिदस्य सर्वेषु यज्ञक्रतुषु च अङ्गभावमाहुरिति । योऽग्नेरिति । अग्निना मिथुनीभावमात्मन इच्छतीति मिथूया । “सुप आत्मनः क्यच्” “अप्रत्ययात्” इत्यकारप्रत्ययः । ताद्धर्म्यात्ताच्छब्द्यम् । एवं वेदिता मिथुनशक्तिमान् भवति ॥१४॥ इत्यारण्यके प्रथमे द्वाविंशोऽनुवाकः ॥२२॥
२३
पुनश्चापस्तूयन्ते अबीष्टकानामेव वैशिष्ट्यं वक्तुम् - आप इति ॥ कार्ये कारणशब्दः । अपां कार्यभूतम् इदं परिदृश्यमानं विश्वं जगद् अग्रे सलिलमात्रमेवासीद् आप एव ससर्जादौ तासु वीर्यमवासृजत् । इति । अथ सो ऽप्छरीरः प्रजापतिस् तदभिमानी हिरण्यगर्भ एको ऽसहायः पुष्करपर्णे पुष्करपर्णाकारे पुष्टिकारके कस्मिंश्चित् प्रदेशे सलिलमध्ये समभवत् समपद्यत अहमस्मीत्यभ्यमन्यत । अथ तस्य अभिमन्यमानस्य अन्तः मनसि काम इच्छा समवर्तत उदपद्यत । यदा ह्यभिमन्यते तदैव चान्तर्मन उत्पद्यते तत्रैव चेच्छादय उत्पद्यन्ते । तस्य तु समस्तं जगच्छून्यं पश्यत इदं सृजेयमिति प्रथममिच्छोदपादि । तस्माद् यत्पुरुषः प्रथमं मनसाऽभिगच्छत्य् अभिप्राप्नोति ध्यायति तद् एव वाचा वदति तद् एव कर्मणा करोति तदेव वाक्कर्माभ्यां विवृणोति यथा प्रजापतिना कृतमिति । तद् इदमर्थरूपमभिलक्ष्य इयमृगनूक्ता ॥१॥ कामस्तदग्र इति ॥ एतां च सङ्कल्पवतीमुपदधाति । व्याख्याता चेयं त्रिषटुप् - “जुष्टो दमूना” इत्यत्र । प्रजापतेर् अग्रे प्रथमं कामस्समवर्तत समपद्यत यन्मनसः प्रथमं रेतः कार्यभूतम् आसीत् सतो बन्धुं व्यक्तसम्बन्धिनं यं कामम् असत्य् अव्यक्ते निरविन्दन् निष्कृष्य लब्धवन्तः हृदये प्रार्थितं कवयः मेधाविनः प्रजापतयः प्राणा वा । मनीषा मनस ईशितार इति ॥२॥ एनम् एवं वेदितारं तद् अभिप्रेतं शीघ्रम् उपनमत्य् उपसम्प्राप्नोति यत्कामो भवति यत्काम्यं कामयमानोऽयं भवति । देशकालप्रत्यासत्तिपरौ द्वावुपशब्दौ । “शीलिकामि” इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ॥३॥ अथ स प्रजापतिस्सिसृक्षुस् तपोऽतप्यत । तपसश्चान्ते तं तप्ततपस्कं शरीरमधूनुत कम्पितवान् । अथ तस्य शरीरस्य यन्मांसम् अरुचिजननम् आसीत् ततोऽरुणादय ऋषय उदतिष्ठन् उदपद्यन्त । अरुषो जाता अरुणाः केतवः ज्ञानमयास् तप्तशरीरप्रभवत्वाद् वातरशनाः शुष्कशरीरप्रभवत्वाद् वातं शुष्कं रशना शरीरं बन्धनत्वात् । अथ तस्यैव शरीरस्य ये नखा आसन् ते वैखानसा ऋषयोऽभवन् नखविरूढा वैखानसाः । प्रातिलोम्येन वर्णा वर्तन्ते । अथ ये वालास् तस्य शरीरस्य रोमाणि ते वालखिल्या ऋषयोऽभवन् वालजाः खिला वालखिल्याः । वालत्वेन खिल्यन्त इति वालखिल्याः । यद्वा - वालजत्वेन सौक्ष्म्यात् खिला दुर्निरूपा वालखिल्याः । अथ यो रसस् तस्मात् शरीराद् विधूननेनैव गळितः स कूर्मोऽभवत् । कुत एतत्? यदाह “सोऽपाम् । अन्तरतः कूर्मं भूतं सर्पन्तम् । तमब्रवीत्” इति ॥४॥ अत्र सस् तमिति प्रथमद्वितीयान्तयोः स्थानविनिमयः । एतदुक्तं भवति - तम् अपामन्तरतः मध्ये कूर्मं भूतं कूर्मात्मना सञ्जातम् उत्पन्नं सर्पन्तं जले प्लवमानं स्वशरीरपरिमाणं स प्रजापतिर् अब्रवीत् हे कूर्म ! मम वै ममैव त्वङ्मांसा त्वङ्मासात् । पूर्ववदाकारः । समभूत् समुत्पन्नोसि । पुरुषव्यत्ययः । त्वङ्मांसप्रभवो रसो यः स त्वङ्मांसशब्देनोच्यते । त्वमित्यस्य वा छान्दसो ङकारोन्तादेशः । अथ कूर्मः नेत्यब्रवीद् यत्त्वयोक्तं तन्नेत्यर्थः । हेतुमाह - पूर्वमेवाहमिति । यद्वा - मे मांसा त्वं समभूरिति मन्यसे नैवं मन्तव्यम् । पूर्वमुक्तं निषिद्धम्; इदानीम् उत्पत्तिरेव निषिध्यते - पूर्वमेवाहमिहासं तव शरीरविधूननात् प्रागपीहास्मिन् प्रदेशे अहं स्थितवानेवेति । यस्मादेवं तत् तस्मात् पुरुषस्य पूरयितुर्व्यापिनः परमपुरुषस्य समस्तचेतनाभिमानिनः पुरुषत्वम् । अथ कूर्मः पुरुषेणात्मनो भेदं दर्शयन् “पूर्वमेवाहमिहासं” इति यदुक्तं तस्य सत्यत्वख्यापनार्थं सहस्रशीर्षादिलक्षणः पुरुषो भूत्वा उदतिष्ठद् व्याप्य स्थितवान् । व्याप्त्या सर्वत्र शिरःप्रभृतिकार्यसम्भवात् शिरःप्रभृतीनामानन्त्यम् । यस्मादेवं तस्मात् पूर्वमेवाहमिहासम् अतोऽहं पुरुष इति । पूर्वमेव सन् पुरुष इति पृषोदरादिः । यद्वा - व्याप्तेरिदं फलमुच्यते - पूरणात् पूर्वमिहासमिति । तस्मात्पूरयतीति पुरुषः, औणादिकः पृणोतेरुषन्प्रत्ययः । अथ तं कूर्मम् उपसंहृतवपुषं प्रजापतिर् अब्रवीत् त्वं यदि पूर्वं समभूस् तर्हि त्वम् एव पूर्वः पुरातन इदं सृष्टिकर्म कुरुष्व कर्तुमर्हसि त्वमेव ममापीश्वर इति ॥५॥ अथ स कूर्म आरुणकेतुकाग्न्यात्मा । कुत एतत् ? “अथारुणः केतुः” इति वक्ष्यमाणत्वात् । अरुषो मांसलक्षणाज्जातोऽरुणः प्रकाशकत्वात् । केतुं केतयतीति केतुर् अग्निरुच्यते । स इत आदिसलिलाद् आपो ऽपो ऽञ्जलिना पुरस्तादादाय गृहीत्वा । विभक्तिव्यत्ययेन प्रथमा । शस एव वा “ऊडिदम्” इत्युदात्तत्वाभावः । पुरस्तादात्मनोऽग्रे उपदधाद् इष्टकाबुध्या उपहितवानपः “एवा ह्येव तया देवतयाऽङ्गिरस्वध्रुवा सीद” इति । अथ ततस् ताभ्य उपधीयमानाभ्यो ऽद्भ्य आदित्य उदतिष्ठद् देवानामादिभूतस्सविता समुत्पन्नः । हे एव ! अयनशील ! देव ! त्वं ह्य् एवा अयनसमर्थः । तस्मादागच्छेति प्रागेव व्याख्यातो मन्त्रः । अथ यत्र आदित्य उदतिष्ठत् सा प्राची दिक् अभवत् । प्रथमतोञ्चनात् प्राची । अथ सो ऽरुणः केतुर्दक्षिणतः दक्षिणहस्तपार्श्वे उपादधाद् इत्यादि । गतम् । पश्चाद् आत्मनः पृष्ठतः । उत्तरतः सव्यपार्श्वगोलदृष्टान्तस्य दक्षिणादुद्गततरत्वात् । मध्ये यत्रातिष्ठत् । उपरिष्टात् शिरसः परस्तात् ॥६॥ अथ ताभ्य उपधीयमानाभ्यो अद्भयः या विप्रुषः सूक्ष्मास्तोयबिन्दवः विपरापतन् विविधमितश्चेतश्च परापतिता अबुद्धिपूर्वं गळिता विनष्टप्रायास् ताभ्यो ऽसुरादय उदतिष्ठन् । तस्मात् ते सदा देवेभ्यः पराभवन् पराभूताः । कस्मात् ? विप्रुड्भ्यो हि ते समभवन् समुत्पन्ना विप्रुषो हि कर्मण्यनुपयोगाद् विनष्टप्राया इति । तद् इदमर्थरूपं सृष्टिलक्षणम् अभिलक्ष्य एषा गाथा अनूक्ता ॥७॥ आपो ह यद्बृहतीरिति ॥ इमां चोपदध्यात् । इयं चतुष्पदा त्रिष्टुप् । तत्र “अद्भयो वा इदं समभूत्” इति चतुर्थपादापेक्षितमध्याहार्यं प्रागेव तस्य पाठाद् ब्राह्मणं दर्शयति । यद् यस्माद् आपो बृहतीर् महत्यो गर्भमायन् प्राप्तवत्यः दक्षं वृद्धिशीलं दधाना धारयितुकामाः । हेतौ शानच् । जनयन्तीर् जनयितुकामाः कं ? स्वयम्भुम् अन्यानपेक्षया यो विश्वं स्वयमेव भावयितुं शक्नोति । यद्वा - विश्वात्मतया स्वयमेव भविता । तादृशं यस्मादाप आयन् ततस् तस्माद् इमे सर्गाः स्रष्टव्या लोका अध्यसृज्यन्त तस्यैश्वर्यादुत्पन्नाः । अथ “तस्मादिदं सर्वं ब्रह्म स्वयम्भु” इति चतुर्थं पादं दर्शयिष्यद् ब्राह्मणं तस्मादित्यंशसमर्थनायाध्याहारेण हेतुं दर्शयति - एवमुक्तेन प्रकारेण अद्भ्य इदं सर्वं यस्मात् समभूत् स्वयम्भुवोऽप्यपां गर्भत्वेन तत्परिणामत्वात् तस्मादिदं सर्वं भुवनजातं ब्रह्म स्वयम्भु यथा अद्भ्यस्सम्भूतो हिरण्यगर्भो ब्रह्मा स्वयम्भूश्च भवत्य् एवमिदं विश्वमप्परिणामत्वाद् बृंहणशीलं स्वयम्भवनसमर्थं च भवतीत्यपामेव स्तुतिः ॥८॥ इदानीं दृष्टान्तेनोक्तं समर्थयते - तस्माद् अप्परिणामत्वाद् इदं सर्वं शिथिलमिव अध्रुवमिव च अभवद् भवत्य् अपां शिथिलाध्रुवस्वभावत्वात् । कथं तर्हीदमिदानीं विश्वं दृढं स्थिरं च भवतीत्याह - तस्मिन्नेव काले प्रजापतिर् आत्मना स्वयमेव आत्मानम् आत्मशरीरभूतं विश्वं विधाय सृष्ट्वा तदेव सृष्टमात्रमेव अनुप्राविशद् अनुक्रमेण प्रविश्य स्थितो ऽहमिदमित्यभिमानेन विश्वमनुप्रविश्याधारयत् । तद् इदमर्थरूपं प्रजापतिप्रवृत्तिलक्षणम् अभिलक्ष्य एषा ऋक् अनूक्ता ॥९॥ विधाय लोकानिति ॥ इमाञ्च त्रिष्टुभमुपदधाति । विधाय लोकान् भूतादीन् विधाय भूतान्य् आकाशादीनि विधाय च सर्वाः प्रदिशः प्रधानदिशः प्रागाद्या दिशश्च कोणदिशश्च प्रजापतिः प्रथमजाः प्रथमजातः प्रथमपुत्र ऋतस्य उदकस्य । “जनसन” इति विट्, “विड्वनोरनुनासिकस्यात्” इत्यात्वम् । आत्मना स्वयमेव आत्मानम् आत्मीयं शरीरं जगल्लक्षणम् अभिसंविवेश आभिमुख्येन प्रविष्टवान् । “तत्सृष्ट्वा । तदेवानु प्राविशत्” इत्यत्र विस्तरो भविष्यति ॥१०॥ एवं वेदिता सर्वमेव जगद् इदम् आप्त्वा लब्ध्वा सर्वं च अवरुध्य विधेयीकृत्य तदेवानु प्रविशति स्वामित्वेन धारयति ॥११॥ इत्यारण्यके प्रथमे त्रयोविंशोऽनुवाकः ॥२३॥
२४
इदानीमबीष्टकानामनुष्ठानविशेषमाह - चतुष्टय्य इति ॥ चत्वारोऽवयवा आसाम् । “सङ्ख्याया अवयवे तयप्” “टिड्ढाणञ्” इत्यादिना ङीप् । चत्वारोऽवयवाश् चतुर्धा भिन्ना वर्ष्या आपो गृह्णाति । उभयत्र विभक्तिव्यत्ययः । चत्वार्य् अपां रूपाणि रूपणान्य् आविर्भावा मेघादयः । मेघः मेहनसमर्थजलदविशेषात्मकमेकं रूपम् । विद्युद् विद्योतनात्मकमेकं रूपम् । स्तनयित्नुर् गर्जनात्मकम् । वृष्टिर् अप्पतनात्मकम् । तान्येव रूपाण्य् अवरुन्धे चतुष्टयीनां ग्रहणात् ॥१॥ आतपति बलवति सूर्ये तपति वर्ष्या वर्षभवा गृह्णाति । ताः पुरस्तात् पूर्वस्यां दिश्य् उपदधाति याः पूर्वस्यां दिश्य् अबिष्टकाश्चोदितास् ता वर्ष्याभिरेव कार्या इत्यर्थः । एता वै ब्रह्मवर्चस्या आपः ब्रह्मवर्चससम्पादनार्हाः । “छन्दसि च” इति यः । मुखतः प्रथमम् एव ब्रह्मवर्चसम् अवरुन्धे प्रापयति यजमानं तस्मात् पुरुषो मुखतो ब्रह्मवर्चसितरो ऽतिशयेन ब्रह्मवर्चसवान् ॥२॥ कूपे भवा रूप्याः । “भवेच्छन्दसि” इति यत् । ता दक्षिणत इत्यादि । गतम् । पुरुषस्य दक्षिणोऽर्धस् तेजस्वितर इतरस्मात् ॥३॥ स्थावराः स्थानशीलाः ॥ “स्थेसभासपिसकसो वरच्” इति वरच् । पश्चादायत्या पुरुषः प्रतिष्ठितो भवति, पश्चात् स्थावरोपरोधात् ॥४॥ वहन्त्यः स्रोतस्विन्य ओजः बलं तेन हेतुना आपो धावन्त्यः वेगेन गच्छन्त्यः वहन्त्य इव आकर्षयन्त्य इव च भवन्ति । उद्गतीर् उद्गतय ऊर्ध्वगतय इव च भवन्त्य् आकूजतीः समन्तात् शब्दयन्त्य इव च भवन्ति । तस्मादुत्तरोऽर्धः पुरुषस्य बलवत्तरः ॥५॥ सम्भार्या गृहेषु स्थिताः । सम्भ्रियन्त इति सम्भार्याः । कर्मणि ण्यत् । इयं खलु पृथिवी सम्भार्या आपः सम्भार्यत्वसाम्यात् पृथिव्यपि सम्भार्या । सम्यक् भ्रियन्ते सर्वेऽप्यनयेति करणे ण्यत् ॥६॥ पल्वल्याः पल्वले भवा अशोष्यस्वभावाः । असौ द्यौः पल्वल्या आपः । अशोष्यत्वलक्षणसामर्थ्यात् ताच्छब्द्यम् ॥७॥ अथ दिक्षूपधानं स्तूयते - दिक्षूपदधातीति ॥ एता इष्टकाः । को लाभः ? सर्वान्नसिद्धिः । कुत एतत् ? दिक्षु ह्य् आपः स्थितास् ताश्च स्वयम् अन्नं, अन्नकारणत्वात् तासाम् । तदेवाह - अद्भ्यो वा अन्नं जायते । तस्माद् यन् नाम किञ्चिद् अद्भ्योऽन्नं जायते तत् सर्वम् अवरुन्धे दिक्षूपधानेन ॥८॥ अथारुणकेतुकपदं निर्वक्ति - तं वा इति ॥ यस्मादिदमरुणादय ऋषयोऽचिन्वन् पूर्वं तस्मादारुणकेतुकः । “तस्येदं” इति छान्दसष् ठक् । अध्यात्मादित्वाद्वा ठञ् । छान्दसं प्रत्यायात्पूर्वपदस्योदात्तत्वम् । तद् इदमर्थरूपम् अभिलक्ष्य एषा ऋक् अनूक्ता ॥९॥ केतवो अरुणासश्च इति ॥ व्याख्यातेयम् । अस्यार्थस्य अनूक्तिर्व्याख्यानमर्थस्य अनया क्रियते । यथा अरुणादय ऋषयः समाहिता असहस्रधात्रीं प्रतिष्ठाम् अग्निं शतधा भिन्नम् अचिन्वन् इति शेषः । अत्र त्रयाणां कर्तृत्वे प्राधान्यादारुणकेतुभिर् व्यपदेशः ॥१०॥ य एतमग्निम् आरुणकेतुकं चिनुते यश्च एनम् अग्निम् एवम् उक्तप्रकारेण वेद जानाति । स चेता वेदिता च शतशश्चैव शतेन शतेन च सहस्रशश्श्च सहस्रेण सहस्रेण च प्रजाभिः पशुभिश्च प्रतितिष्ठति प्रतिष्ठितो भवति । “सङ्ख्यैकवचनाच्च” इति शस् । इदं द्वितीयमारुणकेतुकस्य निर्वचनम् । प्रथमं तु “अथारुणः केतुर्दक्षिणतः” इत्यत्र । आरुणकेतुकलक्षणकूर्मरूपिपुरुषप्रभवत्वाद् आरुणकेतुकोऽग्निरिति सूचितमिति ॥११॥ इत्यारण्यके प्रथमे चतुर्विंशोऽनुवाकः ॥२४॥
२५
अथारुणकेतुकस्य प्रयोगशरीरमाह - जानुदघ्नीमिति ॥ व्याख्यातम् । विहितानामेव पूरणादीनां पुनर्विधानं स्तुत्यर्थम् । अपाम् अद्भिः पूरयति । “पूरणगुण” इति समासप्रतिषेधात् षष्ठी विज्ञाता । अपां सर्वत्वाय सर्वोऽप्यग्निरम्मय इति ख्यापनार्थमबीष्टकावत्त्वादग्नेः । यद्वा - सर्वमिदं जगद् अद्भिः पूर्णम् अम्मयमिति विश्वमिति ख्यापनार्थम् । तप इति । प्रजापतेस् तपःप्रभावसम्भूतत्वात् । सत्यमिति । दृढत्वाद् दीप्तिमत्वाद्वा । अमृतमिति । हिरण्यगर्भस्वरूपत्वात् । यद्वा - ब्रह्मैव पुरुषः पूरकत्वसामान्यात् । एतावदिति । यावद् एतत् तपस्सत्यम् अमृतमित्य् एतावदेव परमार्थतो ऽस्त्य् असत्प्रायमन्यत् । तस्माद् एतदात्मकं पुष्करपर्णं रुक्मं पुरुषत्रयमुपदध्यादिति । तस्मात् तदुपधानाद् यावदेवास्ति तत् सर्वम् अवरुन्धे ॥१॥ कूर्ममिति ॥ अत्र मन्त्रस्य अनाम्नातत्वान् महाग्निकेनोपदधाति “मही द्यौः” इति । अपामेवेति । अपां सम्बन्धि यन् मेधार्हं यज्ञार्हं तद् अवरुन्धे रसात्मकत्वात् कूर्मस्य । अथो अपि च स्वर्गस्य लोकस्य समष्ट्यै सम्यगाप्त्यै भवति पुरुषरूपत्वात्तस्य ॥२॥ आपमापामित्यबीष्टकाविधिसूचनार्थस् तन्मन्त्रपाठः ॥३॥ लोकम्पृणेति लोकम्पृणा उपदधाति । यास्तिस्रः परमजा इत्यत्र विशेषो मन्त्रस्य याः परमजाताः परमजास् तिस्रः ॥४॥ “इन्द्रघोषा वः” इत्यादिभिश्च “एवा ह्येव” इत्यादिभिश्च । गता मन्त्राः ॥५॥ अथ पञ्चचितीरुपदधाति । पञ्चसु चितीषु व्याख्याताः । एवं लोकम्पृणान्ताः पाङ्क्ताः पङ्क्तिविकाराः पञ्चसङ्ख्यासम्भूताः । पङ्क्तिशब्द उत्सादिकस् तस्माद् यावान् अग्निस् तं चिनुते पञ्चचित्युपधानेन ॥६॥ लोकम्पृणया पूर्वोक्तया द्वितीयामुपदधाति । पञ्चसु चितीषु व्याख्यातो लोकम्पृणाशब्दः । अथ लोकम्पृणां विट्त्वेन स्तोतुं विराजः प्राशस्त्यमाह - पञ्चपदा विराट् अन्नं प्रजापतिमूर्तिर्वा । पञ्च पादा अस्या इति पञ्चपदा । “सङ्ख्यासुपूर्वस्य” इति लोपः व्यत्ययेन ऋचोऽन्यत्रापि । “टाबृचि” “पादः पत्” इति पद्भावः । तस्याः पृथिव्यादयः पञ्च पादा दिशः सर्वा एकपादः । परस्ताद् रजसो यो वर्तते स परोरजा अज आदित्यो वा स पञ्चमः पादः । पारस्करादित्वात् सुट् । ईदृशी विराट् लोकम्पृणा इत्यनुक्तेऽपि स्तुतिर् गम्यते ॥७॥ एथ एतमग्निं चिन्वान एवं वेदिता च विराजि प्रतिष्ठितो भवति ॥८॥ इत्यारण्यके प्रथमे पञ्चविंशोऽनुवाकः ॥ २५॥
२६
“अग्निं प्रणीय” इत्याद्युक्तमेव अनुवदति न्यायेन विशेषं वक्तुम् । यदुक्तं पूर्वमस्माभिः - अयमबिष्टाकावान् अग्निर् अग्निहोत्रादिकर्मस्वङ्गभावं प्रतिपद्यते, अन्येषां मते सर्वेषु यज्ञक्रतुष्विति; तदिदमनुपपन्नम् । अथेत्युपक्रमे । हेति विनिग्रहे । अयं तावद् अरुणो नाम साक्षात् स्वयम्भुवोऽपत्यम् एवमाह - सावित्रस्सर्वोग्निरिति । कोऽर्थः ? यावानग्निः काठके विधीयते सावित्रो नाचिकेतश्चातुर्होत्रो वैश्वसृज उपानुवाक्य आरुणकेतुकश्च स सर्वो ऽपि सावित्र एव सावित्रे सर्वस्यान्यस्यानुषङ्गात् सावित्रः प्रथमा चितिर् नाचिकेतो द्वितीय इत्यादि । तस्मादारुणकेतुकस्यापि पृथक्कृतस्य अग्निहोत्राद्यङ्गभावो न युक्त इति ॥१॥ अथेममनुषङ्गपक्षं दूषयति - अननुषङ्गमिति ॥ एषामग्नीनामनुषङ्गाभावमेव वयं ब्रह्मवादिनो मन्यामहे । तस्मात् सर्वेऽपि पृथक्पृथक् पञ्च चितयः प्रयोक्तव्या इति ॥२॥ हेतुमाह - नानेति ॥ नाना पृथग्भूतानि खल्वेतेषां वीर्याणि कर्मफलानि तत्कथमैकधर्म्यं स्यात् । नानात्वमेव समर्थयते - कमिति । किम्फलमग्वनिं चिनुते यस्सवित्रं चिनुते । अथ यस्सावित्रं चिनुते सोऽपि किम्फलं चिनुते यत्पलमुद्दिश्य सत्र्यमग्निं चिनुते तत्फलकोऽन्य एतत्फलकोऽप्यन्य इति यावत् । सर्वं निगदसिद्धम् ॥३॥ इदानीमनुषङ्गदोषमाह - वृषेति ॥ वृषा सेक्ता खल्वग्निः । अनुषङ्गं हि कुर्वन् तस्य वृषाणौ मुष्कौ संस्फालयेत् शातयेत् । स्फुरतेः “चिस्फुरोर्णौ” इत्यात्वम् । हीनवीर्यत्वाच् छिन्नवृषणः स्यादग्निः । ततश्च अस्य यज्ञो हन्येत नश्येन् निर्वीर्यत्वादग्नेः । तस्मान्नानुषज्यः ॥४॥ तर्ह्यग्निहोत्रादिष्वप्ययं प्रयुज्यतामित्याह - सोत्तरवेदिष्विति ॥ उत्तरवेदिसहितेषु क्रतुषु कर्मसु पश्वादिष्व् इममग्निं चिन्वीत । कारणमाह - उत्तरवेद्यां ह्यग्निश्चीयते । तस्मात् सर्वोऽप्यग्निः प्रकृतिर् विकृतिर्वा उत्तरवेदिमत्स्वेव कर्मसु चेतव्यः । न चास्त्यग्निहोत्रादिषु उत्तरवेदिः । तेषु तु विहितप्रतिषिद्धत्वाद् विकल्प इति ॥५॥ प्रजाकामश्चिन्वीतेत्येवमादय आरुणकेतुकस्य काम्यविधयः निगदसिद्धाः ॥६॥ सञ्ज्ञानमिति ॥ सम्यक् ज्ञानसाधनम् आपः पशूनाम् । तत्र सञ्ज्ञाने अप्सु चीयमानः पशूनस्मै सञ्ज्ञापयति ततः पशुमान् भवति ॥७ -१०॥ स्तृणुत एनमिति ॥ छिनत्त्येव शत्रून् ॥११॥ तेजस्कामादयस्समुदिताः प्रथमया चेतारं विशिंषन्ति ॥१२॥ एतावदित्यादि ॥ गतम् ॥१३॥ अथ तस्य आरुणकेतुकचित एतद् इदं वक्ष्यमाणं व्रतं नियमः - वर्षति न धावेद् इत्यादि । नाप्स्विति । कर्माङ्गत्वेन स्मृतिप्रतिषिद्धस्यापीह प्रतिषेधः श्रौतप्रायश्चित्तार्थः । न निष्ठीवेद् अप्सु । न विवसनस्स्नायात् । गुह्य इति । अग्निचिन्नाम संवृतोऽग्निः । तेनाग्निना एतस्याबीष्टकाग्नेर् अनतिदाहाय अतिक्रम्य दाहो मा भूदिति वस्त्रादिना छादित एव स्नायाद् अग्न्यन्तरयोगो ह्य् अग्न्यन्तरमतिदहति । यद्वा - गुह्येनाबिष्टकाग्निना आत्मनो दाहो मा भूदिति संवृत एव स्नायात् ॥१४॥ न पुष्करपर्णानीति ॥ उपहितस्यैव निषेध इत्येके । सर्वस्येत्यन्ये । एतस्य पुष्करपर्णाद्यात्मनोऽग्नेर् अनभ्यारोहाय आभिमुख्येनारोहणम् अभ्यारोहणमिति । यद्वा - पुष्करपर्णाद्यात्मना अग्निना आत्माऽभ्यारूढो मा भूदिति नाधितिष्ठेत् । न कूर्मस्येति । कर्मणस्सम्प्रदानत्वाच् चतुर्थ्यर्थे षष्ठी । उपहितस्याभक्ष्यत्वम् । नोदकस्येति । उदके भव औदकः मत्स्यादिस् तस्य नाश्नीयात् । नौदकस्य इति वक्तव्ये वर्णव्यत्ययेन ओकारः । यद्वा - मञ्चाः क्रोशन्तीतिवत् तात्स्थात् ताच्छब्द्यम् । उदकचरस्य नाश्नीयादिति । अथ य एतमग्निं चिनुते यश् च एनम् अग्निमेवं फलकम् एवंव्रतकं च जानात्य् एनम् ओदकान्य् औदकान्य् उदके भवानि मत्स्यादीन्य् उदकनिमित्तानि वा व्याध्यादीनि व्यसनकारणान्य् अघातुकानि भवन्ति घातुकान्येतस्य न भवन्ति । “न लोकाव्यय” इति षष्ठीप्रतिषेधः । उदकशब्दस्यादिवृद्धौ वर्णव्यत्ययेन ओकारः । एनादेशस्याद्युदात्तत्वं छान्दसम् । अघातुकशब्दस्य चोत्तरपदाद्युदात्तत्वं छान्दसमेव । तदिदमाद्युदात्तत्वं व्यत्ययस्थानमेवेति वेदितव्यम् । अथ आपश् च एनम् अघातुका भवन्ति न परमौदकान्येव ॥१५॥ इत्यारण्यके प्रथमे षड्विंशोऽनुवाकः ॥ २६॥
२७
अथ तिस्रो द्विपदा उपदधाति - इमा नुकमिति ॥ सर्वास्त्रिष्टुभः । द्वितीयः पादस्त्र्यक्षराभिक्रान्तः । नुकमिति सुखनाम । इमानि भुवनानि सुखं सीषधेम साधयामः । छान्दसो लुङ्, " बहुलं छन्दस्यामाङ्योगेऽपि" इत्यडभावः । वर्णव्यत्ययेन उपान्त्यस्य एकारः । इन्द्रश्च विश्वे च देवा वयं च साधयामः । “त्यदादीनि सर्वैर्नित्यम्” इत्यस्मदः शेषः । न अस्माकं यज्ञं च तन्वं शरीरं प्रजां च आदित्यैस्सहेन्द्रः सीषधातु साधयतु । साधयतेर्लोटि शपश्चङ्, तस्य च दीर्घत्वम् । चङि द्विर्वचनह्रस्वत्वाभ्यासकार्याणि । आदित्यैर् मरुद्भिश्च सह सगण आत्मीयगणसहित इन्द्रो ऽस्माकं तनूनाम् अविता रक्षिता भूतु भवतु । शपो लुक् । “भूसुवोस्तिङि” इति गुणाभावः ॥१ -३॥ अथ षोडशदुःखक्षपणीरुपदधाति - आप्लवस्वेति ॥ सर्वा अनुष्टुभः । विशेषो वक्ष्यते । अत्र अग्निरेव यजमानीकृत्योच्यते । हे आण्डीभवज ! अण्डमेवाण्डी । स्वार्थिकाणन्तात् स्त्रियां ङीप् । अण्डस्य वा इयमाण्डी, अण्डस्यान्तर्गततया यत्र गर्भश्शेते । तत्र भव आण्डीभवो ऽण्डजः पितामहः, तस्माज्जात आण्डीभवजः यथा “प्राजापत्यो वा एषोऽग्निः” इति । आमन्त्रिताद्युदात्तत्वाभावश् छान्दसः । स त्वं मा मुहुराप्लवस्व मा च मुहुः प्रप्लवस्व । आप्लवनम् आगमनं जन्म, प्रप्लवनं प्रायणं मरणम् । किं तर्हि कुर्यामिति चेत् सुखादीं सुखानामादिं मुख्यं दुःखनिधनां दुःखानां निधनं विनाशहेतुम् । उभयत्रापि छान्दसं दीर्घत्वम् । ईदृशीं स्वां पुरम् आत्मीयं स्थानं प्रतिमुञ्चस्व बन्धय । तादृशं विष्टपं स्थानं कल्पय यत्र न जन्ममरणे इति । अन्य आह - अत्र समुच्चये लोट्, यथा ओदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायमभ्यवहरतीति । आप्लवस्व जायस्व, प्रप्लवस्व म्रियस्व, आण्डी भव अण्डस्थो भव । अण्डे भव आण्डः, अभूततद्भावे च्विः । गर्भवासित्वं प्रतिपद्यस्व । चेत्यस्य वर्णव्यत्ययेन जकारः । यद्वा - जनेर्निरुपपदादेव छान्दसो डः । हे ज ! जननशील ! सुखादीम् आपातसुखां दुःकनिधनां परिणामदुःखां स्वां पुरम् आत्मीयाम् अनुभूयमानाम् इमामेव मा मुहुः प्रतिमुञ्चस्व मा परिगृहाण, आप्लवादिक्रमेण पुनःपुनो ऽसाधारणीं देहपरम्परां प्रतिमुञ्चस्वेति । सामान्यवचनो धातुः ॥४॥ मरीचय इति ॥ बहुवचनाद् आद्यर्थोऽवगम्यते । मरीच्यादयो स्वायम्भुवाः स्वयम्भुवोऽपत्यानि स्वयम्भुवो मानसाः पुत्राः । यद्वा - मरीचिनामानः पुत्राः स्वायम्भुवाः केचिदृषयः । शरीराणि लोकानां ये अकल्पयन् ते मरीचयस् ते तव देहं कल्पयन्तु हे अग्ने ! किञ्च ते तव ख्यातिश्च मा स्म रिषन् मा रिष्टा विनष्टा भूत् । प्रकृतिप्रत्यययोः स्मशब्देन व्यवधानं छान्दसम् । “ढ्रलोपे पूर्वस्य” इति क्तिनो दीर्घत्वम् । अन्य आह - ख्यातिः ख्याः । “क्विप्च” इति क्विप् । कीदृशी ख्यातिः ? तीस् तरन्ती सर्वत्र प्रथमाना, मास्म रिषत् सङ्कुचिता मा भूत् । तरतेः क्विप् । “ऋत इद्धातोः” इतीत्वम् । “र्वोरुपधायाः” इति दीर्घत्वम् ॥५॥ उत्तिष्ठतेति ॥ ऋत्विजोऽबिष्टकाधिष्ठिताः स्तूयन्ते । उत्तिष्ठत उत्सहध्वम् । “उदोऽनूर्ध्वकर्मणि” इत्यात्मनेपदाभावश् छान्दसः । मा स्वप्त अलसा मा भूत । अग्निमिच्छध्वं निर्वर्तयितुमिच्छत । यद्वा - अग्निमन्विच्छत केनोपायेन सिद्धस्स्यादिति । भारता हविरादिभरणशीलास्सन्त इच्छध्वमिति । भरणाद् भारताः, यथा - “भारतेत्याहैष हि देवेभ्यो हव्यं भरति” इति । राज्ञः सोमस्य पीतस्य तृप्तासः पीतेन सोमेन तृपाः । “पूरणगुण” इति समासप्रतिषेधात् षष्ठी ज्ञापिता । सयुजोषसः सह युज्यत इति सयुजस् तादृश्य उषसो येषां ते सयुजोषसः । अकारोपजनश् छान्दसः । सूर्येण समानम् उद्यन्तः । यद्वा - सूर्येण सयुक् जोषः प्रीतिर्येषां ते सयुजोषसः । पूर्वस्यान्त्यलोपश्छान्दसः, समानप्रीतयः । जुषेरसुनि जोषः । जगद्रक्षणे सूर्येण समानयोगक्षेमाः स्थ । तस्मान्न तूष्णीमासीतव्यमिति भावः ॥६॥ युवेति ॥ प्रतीकग्रहणमिदं “युवा सुवासाः परिवीत आगात्” इत्यस्यास् त्रिष्टुभः । व्याख्यातेयं पशुहौत्रे “अञ्जन्ति त्वाम्” इत्यत्र । नित्ययुवा शोभनवासास् तेजसा परिवीत आगच्छतु । स एव हि श्रेयान् वृद्धतरो जायमान एव भवति । तं धीमन्तः कवय ऊर्ध्वं नयन्ति स्वायत्तयज्ञकर्माणः मनसा देवमिच्छन्त इति ॥७॥ अष्टाचक्रेति ॥ अष्टाचक्रा अष्टव्यूहा अष्टावरणा वा नवद्वारा नवनिर्गमना देवानां देवनशीलानां पूः स्थानम् अयोध्या न केनचिदपि सम्प्रहर्तुं शक्या । “ययतोश्चातदर्थे” इत्युत्तरपदान्तोदात्तत्वम् । तस्यां पुरि हिरण्मयः हितरमणीयः हिरण्यप्रभवो वा कोशः - कीदृशः ? - स्वर्गः सुखमयः शोभनावरणो वा लोकः स्थानं यत्रेश्वरो लोक्येत ज्योतिषा आत्मीयेन तेजसा समन्ताद् आवृतः परिवेष्टितः । ईदृशब्रह्मबुद्धिरिष्टकासु कर्तव्येति भावः ॥८॥ यो वै तामिति ॥ यस्तां ब्रह्मणः पुरीम् अमृतेन ज्योतिषा आवृताम् । छान्दसमन्तोदात्तत्वम् । वेद पश्यति ब्राह्मणस् तस्मै ब्रह्म शाश्वतं भानक्रियादानशक्त्यानन्दात्मकं परम्ब्रह्म ब्रह्मा प्रजापतिश्चान्ये च सर्वे देवा आयुरादीनि ददुर् ददति ॥९॥ विभ्राजमानामिति ॥ विभ्राजमानां बहुप्रकारं दीप्यमानां हरिणीं कनकवर्णां हरणशीलां वा मनसः, यशसा दीप्त्या सम्परीवृतां समन्तात् परिवेष्टितां पुरं हिरण्मयीं - गतं - ब्रह्मा विवेश प्रविष्टवान् अपराजिता सर्वोपद्रवरहिताम् । “सुपां सुलुक्” इति लुक् । उपलक्षणत्वात् सर्वेऽपि ब्रह्मादयः पिपीलिकान्ताः स्वाधिकारोपाध्यवच्छिन्नतया परं सङ्कोचयन्तस् तमेव सङ्कुचितं स्वात्मतयाऽभिमन्यन्ते । इदमेव बन्धनम् । सर्वकर्मक्षयेण त्वधिकारनिवृत्तौ परत्वेनाभिधानात् तत्साधर्म्यमुपयन्तीति मुक्ता इत्युच्यन्ते । तत्रैते अधिकारनिवृत्या मुक्ताः । ईश्वरोऽनादिमुक्तः, अधिकारस्याविद्यमानत्वात् । तत्राधिकारकारणमेव अभिमन्तृत्वं चेतनत्वं चेत्येके । अन्य एव तेभ्यश्चेतना इत्यन्ये । पराभिमन्त्रभिमन्तव्यांशा इतरेऽभिमन्तारोऽभिमन्तव्यानि चेत्यपरे । एवमेतत्स्थानबुध्या इष्टकोपधेयेति । निष्ठान्तयोरनन्तरस्य गतेरन्तोदात्तत्वं छान्दस्म् ॥१०॥ पराङिति ॥ पराङ् अपुनरावृत्तः शान्तिं परां प्राप्नोति । अज्यामयीं वयोहानिर् ज्या सैवामयस् तद्वन्तो ज्यामयिनः मरणधर्माणस् तद्विपरीतो ऽज्यामय्य् अमृतिभूतः । अमुत्र फलमेतत् । इह च पराङेत्य् अपुनरावृत्त एव गच्चति सुखम् अनाशकी नाशकोपमृत्युः, बन्धकं वा कर्म, तद्वन्तो नाशकिनः, तद्विपरीतो ऽनाशकी जितापमृत्युः । एवम् इह च अमुत्र च विद्वान् ब्रह्मवित् सुखी सम्पद्यते । किञ्च अन्वेत्य् अनुक्रमेण गच्छति च देवासुरान् उभयान् देवा इन्द्रादयस् तेभ्योऽन्ये असुरा मनुष्यादयस् तान् सर्वान् स्वेच्छयैवान्वेति । यदा यथाभावं कामयते तदैव यथाभावं स्वेच्छया प्रतिपद्यते । न तत् किञ्चित्कामयते, परमेव प्राप्नोति ॥११॥ यत्कुमारीति ॥ मन्त्रयतिसमानार्थो मन्द्रयतिः । मन्त्रयतेरेव वा वर्णव्यत्ययेन दकारः । मत्रि गुप्तभाषणे । अप्राप्तभर्तृका कुमारी सा प्राप्तयौवना रहसि मन्त्रयते “मम सख्यः सर्वा लब्धकौमारपतयः मोदन्ते, अहं मन्दभाग्या अद्यापि पितृकुले वसामि” इत्येवमिमां मन्त्रयमाणां कुर्वतः पितुर् यत् पापम्, अथ योषिद् युवतिः सा अतीव रागान्धा अभीष्टवल्लभालाभेन मन्त्रयते “निर्दयो मां मन्मथो बाधते किमनेन वराकेणोपयन्त्रा तमेव हृदयचोरम् अभिसरामि” इत्य् एवं मन्त्रयमाणाया अस्या एव यत् पापं, अथ पतिव्रता त्याक्तान्यपुरुषिका कौमारपतावेव नियता सा मन्त्रयते “अहमत्रभवन्तमेव ध्यायामि, अयं तु मामकृतपुण्यां नाद्रियते, तद्वरं मर्तुम्” इति तामेव मन्त्रयमाणां कुर्वतः पत्युर् यत् पापम्, यच्चान्यत् किञ्चिद् अरिष्टं नाम्ना निर्देष्टुमशक्यं महत्पापं क्रियते पित्रादिभिरन्यैर्वा तत् सर्वम् अग्निर् आरुणकेतुको ऽनुवेधयत्य् अनुक्रमेण नाशयति । वेधतिर्धात्वन्तरं विध्यतिसमानार्थम् ॥१२॥
…
सिकता इति । सिकताः पांसवो यथा वायुना इतश्चेतश्च समुदीरिताः क्वचित् संयन्ति सङ्गच्छन्ते यथा इमे जीवा रश्मिभिः रज्जुस्थानीयैः कर्मभिर् अस्माल्लोकात् कर्मार्जनस्थानाद् अमुष्माच्च तत्फलभोगस्थानाच्च समुदीरिताः सम्यक् कर्मानुगुणं प्रेरिताः संयन्ति संहत्य क्वचिद्वर्तन्ते, पुनश्च अन्यैः कर्मभिर् वाय्वन्तरस्थानीयैर् अन्यत्र नीयमानाः परस्परं वियुज्यन्ते । इत्थं व्यवस्थां विधाय तत इमां व्यवस्थाम् ऋषिभिर् मन्त्रदृग्भिः पृश्निभिः शुक्लैः शुद्धवर्णैर् निजरश्मिस्थानीयैर्वा ईश्वरो ऽदाद् लोकेषु प्रकाशितवान् । यद्वा - विभक्तिव्यत्ययः । शुद्धेभ्य ऋषिभ्य इममर्थम् अदाद् उपदिष्टवान् । यद्वा - दानस्य प्रशंसेयं क्रियते । “यः” इत्यध्याहार्यम् । एवं कर्मवशेन अनियतसंसर्गिणां जीवानां मध्ये यो ददाति गोभूहिरण्यादिकं स शुद्धैर् ऋषिभिः समेति । ततस् तत्संसर्गेण विधूतपाप्मा भवतीति । वचनव्यत्ययो वा - ये अदाद् अदुरिति ॥१४॥ अपेतेति ॥ त्रिष्टुप् । अपेत अपगच्छत अतः स्थानाद् वीत विश्लिष्टा गच्छत । विसर्पत विविधमिष्टं देशं गच्छत । येऽत्र स्थाने उत्तरवेद्यां पुराणाः पूर्वमेव इदं स्थानं श्रिताः स्वामिनः ये च नूतना इदानीन्तना अस्वामिन एवाधितिष्ठन्ति इदं स्थानं ते सर्वेऽप्यपेतेति । ननु युक्तम् अस्वामिनोऽपयन्तीति ; कस्य पुनर्हेतोः स्वामिनोऽप्यपयन्तीत्याह - अहोभिरिति । अहोभिर् दिवसैर् अक्तुभिः रात्रिभिश्च व्यक्तं दृढं वृष्ट्यादिद्वारेण अहोरात्रैर्यागार्थं दृढं सम्पादितमिदम् अवसानं स्थानम् अस्मै यजमानाय यष्टुकामाय ददातु प्रयच्छतु यमः सर्वस्य नियन्ता सर्वस्य स्वामी ईश्वरः स एव ददात्विति । अहरादिग्रहणं दानपौष्कल्यख्यापनार्थम्, योग्ये हि काले उदकपूर्वकं लोकप्रकाशं च कृतं दानं स्वत्वापादकमिति ॥१५॥ नृ मुणन्त्विति ॥ ये परपीडादिना परभृत्यभावादिना जीवन्तो गर्हिताः पुरुषास् ते जातिमात्रान्वयवन्तो नृशब्देनोच्यन्ते । तत्रार्थवल्लक्षणविभक्त्युत्पत्यनादरेण - उत्पाद्या वा विभक्तिस् तस्याः “सुपां सुलुक्” इति लोपेन - तेषामवस्तुत्यं सूचयति । ते नरा मुणन्तु प्रतिजानन्तु - किम् ? अपेत वीतेति प्रकृतत्वाद् अतः स्थानाद् अपैतुम् । मुण प्रतिज्ञाने, तौदादिकः । । तथा यस् तेषां नृणां मध्ये अर्यः स्वामी सोपि पातु रक्षत्व् अस्मान् इतोपयानेन । यद्वा - तेषाम् अर्यः यो ना तद्वदवस्तुभूतः सोऽप्यस्मान् पातु, तानेव वा निजभृत्यान् पातु, तानेव वा निजभृत्यान् पातु तानपेतान् स्वयमप्यन्वपैत्व् इति भावः । तथा ये अकृष्टा अकर्मयोग्या दुष्कुलप्रसूताः, ये च कृष्टजा विशुद्धवंशजाताः, एवं स्वयमकर्मयोग्या अन्धादयः पातकिनो वा, तेऽस्मात् स्थानाद् अपयन्तु । तथा कुमारीषु कन्यासु ये हिता निहिता गर्भत्वेन स्थापिताः, ये च कनीनीषु निहिताः, कन्यावस्थायामेव प्रसूतपुत्राः कनीन्यः, तास्वपरिणीतासु ये गर्भत्वेन निहिताः, ये च जारिणीषु निहिताः, चोरपतिर् जारः । उपलक्षणत्वाद् दुष्टक्षेत्रजास् ते सर्वेऽप्युपधानस्थानाद् अपयन्तु ॥१६॥ रेतःपीता इति ॥ रेतः पीतं यैस् ते रेतःपीताः ।“निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम्” इति निष्ठायाः परनिपातः । “जातिकालसुखादिभ्योऽनाच्छादनात्” इति प्राप्तमुत्तरपदान्तोदात्तत्वं व्यत्ययेन न प्रर्तते । आण्डपीता अण्डान्येवाण्डानि तानि द्रवीकृत्य यैः पीतानि । यद्वा - अण्डस्थमुदकमाण्डं तद्यैः पीतं ते आण्डपीताः । उपलक्षणत्वाद् अभक्ष्यभक्षिणः सर्वेऽपि पुरुषाः स्त्रियो वा इतोऽपयन्तु । तथा अङ्गारेषु ये अन्यायेन हुताः पश्वादयः प्रमादाद्वा हुताः पिपीलिकादयः पिशाचादिभावेन जगति तिष्ठन्ति तेऽप्य् अस्मात् स्थानाद् अपयन्तु । तथा उभयान् पुत्रपौत्रकान् पुत्रकान् पौत्रकांश्च श्रुतवृत्तहीनतया कुत्सितान् अहं युवे पृथक्करोम्य् अस्मात् स्थानाद् अपनयामि । यौतिः पृथग्भावे । छन्दसि व्यत्ययेनात्मनेपदित्वात्, आदादिकत्वात् शपो लुक् । यमराजगान् यमेन यातयितुं योग्यान् ॥१७॥ शतमिन्न्विति ॥ प्रतीकग्रहणमिदं शतमिन्नुशरद इत्यस्यास्त्रिष्टुभः । इयं च शाखान्तरीया वैश्वदेवकाण्डे “योगोयोगे” इत्यनुवाके आम्नाता । अर्थस्तु - हे देवाः “शतायुः पुरुषः” इति शतमपि शरदः संवत्सरा अस्माकम् अन्त्य् अन्तिकस्थाः स्वल्पसङ्ख्या एव भवन्ति । यत्र आयुषि नो ऽस्माकं तनूनां जरसं चक्र कुरुथ तदपि स्वल्पं, जराहीनं न लभ्यत इति भावः । तदेव दर्शयति - पुत्रा एवास्य यत्र अस्य जीर्णदेहस्य पितरः पातारो भवन्ति तस्य स्वल्पस्यासारस्य च आयुषो गमनात् प्राप्तेः प्रागेवायुषो मध्याद् अस्मान् मा रिरीषत मामीमरत शतमन्यूनमेव दातव्यमिति ॥१८॥ अदो यदिति ॥ अदो दृश्यमानं विलम्बं विविधं लम्बनीयं विविधं शब्दनीयं वा विविधं वा । लम्बयन्ते शब्दयन्ति यत्र तादृशं, विविधं लम्बनीयं वा शब्दभेदेन एकमेव वस्तु विकल्प्यत इति । ईदृशं ब्रह्म यद् अदः सर्वेषामेव पित्रादीनामपि विलबं पित्रादिविकल्पा अप्यस्यैवेति । लबिशब्दे, घञर्थे कः । यद्वा - यत्पूर्वोक्तं ब्रह्म तत्सर्वेषां पित्रादीनामपि विलबं विविधमवलम्बनम् । तदेव सर्वेऽप्यवलम्बन्ते । । न तेन विना कस्यचित् कदाऽप्य् आत्मलाभ इति । विहायसां विहायसि स्थितानाम् । तात्स्थ्यात्ताच्छब्द्यम् ॥१९॥ कामप्रयवणमिति ॥ इयमास्तारबृहती चतुष्पदा । कामाः प्रकर्षेण यूयन्ते प्राप्यन्ते येन तत् कामप्रयवणम् । यद्वा - यवनं पृथक्करणं तन्निवृत्तिः प्रायवणं प्रस्मरणप्रस्थानादिवत्, तेन कामाः प्राप्यन्ते येन तत् कामप्रयवणम् । ईदृशं मे मम अस्तु तद्ब्रह्म तत्प्रसादेन तस्येव ममापि कामाः प्रकर्षेण सङ्कल्पमात्र एव सम्पद्यन्ताम् । किं कारणमित्याह - उक्तेन याथात्म्यज्ञानेन स एव सनातनोऽस्मीति ममेदं हृदयं हृद्याविष्कृतं तत्प्रसादेन तस्मादिति हिशब्दो हेतुभावमाचष्टे । यद्वा - कामप्रयवणमिति भावे ल्युट् । कामानां प्रकर्षेण सम्पत्तिर् ममास्तु । स ह्येवास्मि सनातनः । तस्मात्तादृशेन मया किं दुष्प्रापमिति । यद्वा - कामानां प्रदातारः कामप्रा देवाः । प्रापूरणे, आतोऽनुपसर्गे कः । तैस्सह यवनं मिश्रणं कामप्रयवणं देवत्वप्राप्तिर् ममास्तु । छान्दसं णत्वम् । स ह्येव सनातनोऽस्मि यस्सर्वदेवमय इत्य् अतो हेतोर् मम नाकः स्वर्गः यत्र कं दुःखं नास्ति ब्रह्मश्रवः ब्रह्मशब्दवत् श्रवणं यस्य ब्रह्मेत्येवं यद् ब्रह्मशब्देनैव श्रूयते तच्च मम, रायो हिरण्यादयोऽपि मम सन्तु, धनं च मम धिनोतीति धनं स्त्र्यादि । एतत् पुरुषार्थचतुष्टयमपि मे सम्पन्नमिति । तस्माद् यूयमपि हे आपः ! हे अबीषअटकाः ! देवीर् देवनशीलास्सत्य इह अस्माकं कर्मणि पुत्रान् पश्वादीन् आहित आभिमुख्येन स्थापयत । दधातेर् हिभावः शपो लुक्च छान्दसः । यद्वा - हिनोतेर् अन्तर्भावितण्यर्थस्य शपो लुक् । पुत्रादीनिह गमयतेति । अत्राप इत्यस्य व्यत्ययेन आमन्त्रितनिघाताभावः । केचिदाहुः - पञ्चपदा पङ्क्तिरियम् । तत्र “आपो देवीरिहाहित” इति पञ्चमः पादः । तत्र पदादित्वान्निघाताभावे षाष्ठिकमाद्युदात्तत्वमिति ॥२०॥ इत्यारणअयके प्रथमे सप्तविंशोऽनुवाकः ॥२७॥
२८
अथ द्वे उपदधाति - विशीर्ष्णीमिति ॥ “स तान्वाच्यायया” इति द्वितीया त्र्यवसाना । तत्र प्रथमाऽनुष्टुप् । द्वितीया षट्पदा जगती । विगतं शिरो यस्यास्सा विशीर्ष्णी । गृध्रशिर इव शिरो यस्यास्सा गृध्रशीर्ष्णी । “अन उपधालोपिनः” इति ङीप् । विशीर्ष्णीनाम्नीं गृध्रशीर्ष्णीनाम्नीं च निर्ऋतिम् अलक्ष्मीम् इतः स्थानाद् अपहथो ऽपजहि हे अग्ने ! । व्यत्ययेन द्विवचनम् । तथा परिबाधादिनाम्नश्च निर्ऋतिपुरुषानपजहि परितो बाधनशीलः परिबाधः श्वेतः कुक्षिर्यस्य स श्वेतकुक्षः । अकारस्समासान्तः । न्यग्भूता जङ्घा यस्य निजङ्घः । शबलं शुक्लमिश्रमुदरं यस्य स शबलोदरः ॥१॥ स तानिति ॥ हे अग्ने ! स त्वं तान् सर्वान् वाच्यायया सह नाशय । वाच्यान्यवद्यान्य् आत्मन इच्छतीति “सुप आत्मनः क्यच्” “अप्रत्ययात्” इत्यकारप्रत्ययः । वाच्याया वाच्यापादिनी काचिदलक्ष्मीः परिबाधादिसहचारिणी । अतस् तान् सहैव नाशय । यद्वा - वाच्या नामालक्ष्मीर् यद्योगात्पुरुषा अपि वाच्या भवन्ति, तां च नाशयेति सम्बध्यते । द्वितीयाया आकारः । कीदृशी सा ? यया सह परिबाधादयो वर्तन्त इति तान् सर्वान् सन्दृशः सन्दृष्टानेव नाशय सान्दृष्टिकमेव तेषां नाशं कुरु । किञ्च - ईर्ष्यासूये ईर्ष्यामसूयां च बुभुक्षां मन्युं कृत्यां च परप्रयुक्तां ये दीधिरे दीपयन्ति । दीधीङो लिटि “ईवर्णयोर्दीधीवेव्योः” इति लोपः । यद्वा - दधातेर्लिटि “बदुलं छन्दसि” इत्यभ्यासस्येत्वम् । “तुजादीनाम्” इति दीर्घत्वम् । ये ईर्ष्यादीन् पुरुषेषु धारयन्ति स्थापयन्ति तानपि सन्दृशो नाशय रथेन किंशुकावता किंशुकवता चरत इति । “मतौ बह्वचः” इति दीर्घत्वम् ॥२॥ इत्यारण्यके प्रथमे अष्टाविंशोऽनुवाकः ॥२८॥
२९
अथ तिस्र उपदधाति - पर्जन्यायेति ॥ प्रथमतृतीये त्रिपदे गायत्र्यौ । द्वितीया त्रिष्टुप् चतुष्पदा । पर्जन्याय प्रगायत प्रकर्षेण शब्दयत स्तुतिं कुरुत । दिवस्पुत्राय तत्रोत्पन्नत्वात् । “षष्ठ्याः पतिपुत्र” इति सत्वम् । मीढुषे सेचनसमर्थाय स च नो ऽस्माकं यवसं भक्ष्यम् ऋच्छतु समर्पयत्विति ॥१॥ इदं वच इति ॥ वचः स्तुतिवाक्यं पर्जन्याय स्वराजे स्वायत्तदीप्तये अस्माभिः क्रियते । इदं च तस्य पर्जन्यस्य हृदो हृदयस्य अन्तरम् अन्तरवस्थितमस्तु, हृद्यमस्तु तस्येति यावत् । यथा च तत् तथा भवति तथा युयोत मिश्रयत, हे ऋत्विग्यजमानाः ! तस्य हृदये अवस्थितं कुरुत । यौतेर् व्यत्ययेन शपः श्लुः । “तप्तनप्तनथनाश्च” इति तबादेशः । ततश्च मयोभूः सर्वेषां सुखस्य भावयिता वातोऽस्तु । भरतेरन्तर्भावितण्यर्थात् क्विप् । तथा विश्वकृष्टयः सर्वे मनुष्या अस्मे अस्माकं सम्बन्धिनः पुत्रपौत्रादयः मयोभुवः सन्तु । ओषधीर् ओषधयश्च सुपिप्पलाः शोभनफलाः सन्तु देवगोपा देवानां गोपयित्र्यः सन्तु यागसाधनेन । “गतिकारकयोरपि” इत्यसुन् । वचनव्यत्ययेनैकवचनम् ॥२॥ यो गर्भमिति ॥ यो देवः पर्जन्य ओषध्यादीनां गर्भं कृणोति करोत्य् उत्पादयति तस्मै प्रगायतेति । पुरुषीणां मनुष्यस्त्रीणाम् । मनुष्यपर्यायोऽपि पुरुषशब्दोऽस्ति, तस्मात् पुंयोगलक्षणो ङीष् । अर्वताम् अश्वानाम् ॥ इत्यारण्यके प्रथमे एकोनविंशोऽनुवाकः ॥२९॥
३०
अथ तिस्र उपदधाति - पुनर्मामिति ॥ प्रथमतृतीये अनुष्टुभौ । द्वितीया संस्तारबृहती । पुनर्मामिन्द्रियमैतु यदन्यायेन सिक्तं रेतस् तत्पुनरपि मामेवागच्छतु । तथा आयुश्च मां पुनरैतु यदाचारवर्जनादिना मत्तो विनिर्गतं तत्पुनरपि मामेवागच्छतु । भगश्च मामैतु पुनः या पापाभिभूतं मां विहाय गता श्रीस्सा मामेव पुनरैतु । ब्राह्मणं च पुनर्मामैतु ब्रह्मण इदं ब्राह्मणं ब्रह्मवर्चसम् । “ब्राह्मोजातौ” इति लोपो व्यत्ययेन न प्रवर्तते । असत्प्रतिग्रहादिना यन्मत्तोऽपगतं तत्पुनरपि प्राप्नोतु । द्रविणं बलं शक्तिस् तच्च पुनरैतु माम् । कर्मलोपादिना या मत्तोपगता शक्तिः सा च पुनरागच्छतु ॥१॥ यन्मेद्येति ॥ यन्मे मम रेतो ऽद्य कर्मकाले अतः पृथिवीमस्कान् स्कन्नम् । स्कन्देर्लुङि “वदव्रज” इति वृद्धौ इतो लोपः । “बहुलं छन्दसि” इति ईडभावे हल्ङ्यादिसंयोगान्तलोपौ । यच्च रेतः स्कन्नम् ओषधीरप्यसरद् अपिसंसृष्टम् ओषधीषु संसृज्यावस्थितं यच्चापोऽप्यसरद् अप्सु संसृज्य स्थितम् । विभक्तिव्यत्ययेन प्रथमा । तदिदमहं पुनराददे एनेनोपधानेन दीर्घायुत्वाय मम दीर्घायुष्ट्वाय । छान्दसो वर्णलोपः । तता वर्चसे बलाय तेजसे वा ॥२॥ यन्मे रेत इति ॥ यन्मे रेतः प्रसिच्यते प्रशस्तं सिच्यते ऋतौ स्वदारेषु यच्च मम तथा सिक्तं रेतः पुनराजायते आभिमुख्येन प्रजात्वेनोत्पद्यते तेन शोभनपरिणामेन रेतसा माममृतम् अमरणधर्माणं कुरु हे अग्ने !। तथा तेन मां सुप्रजसं शोभनापत्यमेव कुरु, निन्दितापत्यो मा भूवं त्वत्प्रसादेन । “नित्यमसिच् प्रजामेधयोः” इत्यसिच् समासान्तः ॥३॥ इत्यारण्यके प्रथमे त्रिंशोऽनुवाकः ॥३०॥
३१
अथ वैश्रवणयज्ञमन्त्राः - तत्र “अद्भ्यः” इति चतसृभिर् वैश्रवणमावाहयति ॥ सर्वा अनुष्टुभः । तृतीया त्रिष्टुप् । अद्भयो ऽपां कर्मणाम् । कर्मणस्सम्प्रदानत्वाच् चतुर्थी । अपां तिरोधास् तिरोधाता छादकः । “आतो मनिन्” इति विच्, कृदुत्तरपदप्रकृतिस्वरेण उत्तरपदान्तोदात्तत्वम् । जायत अजायत । “बहुलं छन्दस्यमाङ्योगेऽपि” इत्यडभावः । अनादिवैश्रवण आमन्त्र्यते कुबेरः । हे कुबेर ! त्वया निगृहीतो यो वैश्रवणः विश्रवसोऽपत्यम् । शिवाद्यणन्तः । स खलु तव अद्भ्यस् तिरोधा जायते । तव कर्मणां तिरोधायक आसीदिति हेतुना तं तिरोहितवानसि त्वम् अतोऽस्माकमपि सपत्नान् शत्रून् तिरोधेहि नाशय । तिरश्शब्दे निपातत्वादाद्युदात्तः । ये नाम केचन अस्माकमपः कर्माण्य् अश्नन्ति तिरोदधति नाशयन्ति तेऽपि सर्वे त्वया निगृहीतव्याः । तदर्थम् इमम् अस्मद्यज्ञम् आगच्छेति ॥१॥
त्वाष्ट्रीमिति ॥ त्वष्ट्रा निर्मितां मायाम् । अद्भुतत्वाद् रथो मायेत्युच्यते । बहुमायत्वाद्वा । तादृशं रथमास्थाय । पुनश्च विशेष्यते - सहस्रबन्धुरं सहस्रवन्धुरम् अराणां सहस्रं यस्मिन्नस्ति तच्चक्रं सहस्रम् । मत्वर्थीयोकारः । तादृशचक्रवती धूर्यस्य रथस्य स सहस्रवन्धुरः । वर्णव्यत्ययेन मतुप्तकारस्य नकारः । यद्वा - “छन्दसीवनिपौ” इति विनिप्रत्ययः, तलोपाभावश् छान्दसः, नकारोपजनो वा व्यत्ययः । एवं ह्यन्तोदात्तत्वम् उपपन्नं भवति पुरुश्चक्रं बहुचक्रम् । त्रिचक्रादित्वाद् उत्तरपदान्तोदात्तत्वम् । सहस्राश्वं गतम् । ईदृशं रथम् आस्थाय अस्माकं बलिं प्रतिष्ठाहेतुं पूजामायाह्य् आगच्छ वैश्रवण त्वम् ॥२॥
यस्मा इति ॥ यस्मै सर्वाणि भूतानि बलिं पूजां धनादिरूपाम् आवहन्त्य् उपहरन्ति धनं प्राणिनं सस्त्रादि रत्नादि वा । गावः गाः । विभक्तिव्यत्ययः । कश्चिदाह - काः ? गाश्च वासश्चेति । वस्तेः क्विप् । स्वरस्तु नोपपद्यते । व्यत्ययो वाऽनुदात्तत्वम् । हस्ति हस्तिसञ्ज्ञं वस्तु वस्तु हिरण्यम् अश्वान् गतम् । तस्य यज्ञियस्य यज्ञार्हस्य वैश्रवणस्य सुमतौ कल्याणमनने अनुग्रहबुद्धौ असाम भूयास्म । उत्तमस्य पित्वाद्धातुस्वरः । पादादित्वान्न निहन्यते । “नञ् सुभ्याम्” इति सुमतिशब्दोऽन्तोनुदात्तः । “यज्ञर्त्विग्भ्यां घखञौ” इति घः । पुनश्च विशेष्यते वैश्रवणः - श्रियं बिभ्रतो ऽन्नमुखीम् अन्नप्रधानाम् । छान्दसः स्त्रीप्रत्ययः । विराजं विविधं राजमानाम् अस्मान् शीघ्रमायाहीति ॥३॥
सुदर्शन इति ॥ सुदर्शनादयः पर्वताः । शोभनदर्शनः सुदर्शनः । क्रौञ्चाकृतिः क्रौञ्चः । मेनकाया अपत्यं मैनागः । वर्णव्यत्ययेन गकारः । महान् गिरिः महागिरिः सुदर्शनादीनां विशेषणम् ।
“महान् व्रीह्य्-अपराह्ण” इति व्रीह्यादि-ग्रहणस्य उपलक्षणत्वाच्
छान्दसं पूर्वपद-प्रकृति-स्वरत्वम् ।
तेषु सुदर्शनादिषु यत् तव नगरं शतद्वाट्टारगमन्ता शतद्वाट्टारगमन्तं द्वारः द्वाराण्य् अट्टाराः कक्ष्याविशेषा गमन्ता रथ्याः । गमेरौणादिको झच् वसन्तादिवत् । शतं द्वारादीनि यस्मिन् तत् शतद्वाट्टारगमन्ता । “सुपां सुलुक्” इत्याकारः, छान्दसं त्र्युदात्तत्वम् । तादृशं तन्नगरम् इदानीं संहार्यम् उपसंहृतव्यापारं कार्यम् । शीघ्रमिहागन्तव्यमिति भावः । इह हि त्वय्यागते तत्र द्वाराणि पिधीयन्ते अट्टाराश्च निषिध्यन्ते रथ्याश्च निवृत्तजनसञ्चारा भवन्ति ॥४॥
अतः परं ब्राह्मणम् ॥ इति मन्त्रा आवाहनमन्त्रा उक्ताः । अत ऊर्ध्वं वैश्रवणयज्ञस्य कल्पः प्रयोग उच्यते । यदि बलिं हरेत् । अनग्नौ बलिहरणस्य पाक्षिकत्वं वक्ष्यति । तस्मिन् पक्षे “हिरण्यनाभये” इति बलिं दद्यात् । हिरण्यस्य नाभिर् नहनं हिरण्यनाभिर् हिरण्यं सर्वमस्मिन् नद्धमिति । “समासस्य” इत्यन्तोदात्तत्वम् । विविधं तुदतीति वितुदिः शत्रूणाम् । “इक्कृष्यादिभ्यः” इतीक्प्रत्ययः । यद्वा - सर्वानपि प्राणिनो हिरण्यं दुर्लभं कुर्वन् वितुदतीति वितुदिर् गुह्यकाधिपतिः । कौबेराय कुबेरपुत्राय शिवाद्यणन्तो द्रष्टव्यः । अयं वलिर् उपह्रियते । स इमं बलिं गृह्णातु । तस्मै सर्वभूताधिपतये अधिकं पालयित्रे नमः सर्वभूतानां यक्षगुह्यकानां वा स्वामिने नमः । अथ एवं बलिं हृत्वोपतिष्ठेत “क्षत्रं” इति मन्त्रेण । अनुष्टुप्प्रकारोऽयम् । “उपान्मन्त्रकरणे” इत्यात्मनेपदम् । क्षतात्त्रायते यत् तत् क्षत्रं तादृक्स्वभावं क्षत्रं क्षत्त्रियो नाम वैश्रवणः वयं च ब्राह्मणास्स्मः । ब्रह्मक्षत्रे च परस्पररक्षिते । अतो नमस् ते अस्तु मा मा हिंसीः । गतम् । अस्मात् कारणाद् इमं बलिमनुप्रविश्य एतद् अन्नम् अद्धि भक्षय । एतदुक्तं भवति - यस्मादावां ब्रह्मक्षत्रे यस्माच्चाहं नमस्करोमि यस्माच्चाहिंस्योऽहम् अस्मात्कारणाद् उच्यसे प्रविश्य अन्नमद्धीति । अतः सोढव्यो नियोगार्थ इति ॥५॥
अथ तमग्निम् आदधीत स्थापयेद् यस्मिन् अग्नौ एतद् बलिहरणाख्यं कर्म प्रयुञ्जीत । तस्यायं मन्त्रः - तिरोऽधा भूर् इत्यादिः । तिरो ऽधा धेहि । छान्दसो लुङ् । भूर् भूत्वा सर्वाणि भूतजातानि स्वमहिम्ना छादय । यद्वा - भूर्लोकं स्वतेजसा तिरोधेहि । एवम् उत्तरे पर्याये गताः । तथा च कुर्वन् सर्वेषां लोकानाम् आधिपत्ये अधिपतावस्मिन्नग्नौ सीद । अत्र तिरोधेहि च सर्वेषां लोकानामाधिपत्ये सीद च इति चार्थस्य विद्यमानत्वात् । “चादिलोपे विभाषा” इति प्रथमा तिङ्विभक्तिर्न निहन्यते । तेनाडागम उदात्तः ॥६॥
अथ आधानानन्तरं तमग्निमिन्धीत उद्दीपयेत् तिरोऽधा भूस्स्वाहा इत्यादिभिर्मन्त्रैः । तेच गताः । यस्मिन्काले अस्य आरुणकेतुकस्याग्नेरङ्गभूताः सर्वा आहुतयो हुता भवेयुर् अपि ब्राह्मणमुखीना ब्राह्मणं मुखमुपायो यासां ता ब्राह्मणमुखीनाः । स्वार्थिकः खः । “रुद्रो वा एष यदग्निस्स एतर्हि जातः” इत्यादिब्राह्मणप्रापिताश्शतरुद्रादयो ब्राह्मणमुखीना अपि यस्मिन् काले हुता भवेयुस् तस्मिन् काले अह्नः सम्बन्धिन्य् एतद्वलिकर्म प्रयुञ्जीत । अथ कालान्तरं विधीयते - परस्सुप्तजनाद्वेपीति । सुप्ता जना यस्मिन् काले स सुप्तजनस् तस्मात् परः परस्सुप्तजनः । पारस्करादित्वात् सुट्, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च । ततो ल्यब्लोपे पञ्चमी । अन्य आह - वेपनमस्यास्तीति वेपि इदं बलिकर्म अतिपन्नं चेद् वेपनकर्म भवति । तस्मात् परस्सुप्तजनात् कुर्यात् शीघ्रं कुर्यदिति यावत् । इदं बलिकर्म प्रमाद्यन्तम् अवधानहीनं न आध्यापयेत् सुवृत्तमेव ग्राहयेत् । अथ य एवम् एतद् बलिकर्म वेद तस्य सर्वार्था सर्वेऽप्यभिमता अर्थाः सिध्यन्ते स्वयमेवाचिरात् सम्पद्यन्ते । अन्तर्भावितण्यर्थस्य कर्मकर्तर्यात्मनेपदम् । अथ इदं बलिकर्म अजानताम् अविदुषां सम्बन्धिनः पुत्रादयः सर्वेऽपि क्षुध्यन्ति । यद्वा - इदमजानताम् अत एव क्षुध्यन् क्षुध्यताम् । विभक्तिव्यत्ययः । एतदज्ञानेन क्षुधा पीडितानां सर्वेऽपि पुरुषार्था न सिध्यन्ते ॥७॥
अथ बलिहरणमन्त्राः - यस्ते विघातुक इति ॥ इयं चास्तारपङ्क्तिः । यस्ते तव भ्राता विघातुकः सर्वेषां हिरण्यलाभविघ्नकरणशीलः ममान्तर्हृदये ध्येयत्वेन श्रितस् तस्मै इदमग्रपिण्डं प्रथमपिण्डं प्रधानपिण्डं वा जुहोमि । अतः समे अर्थान् अभिमतान् पुरुषार्थान् प्रयोजनानि वा मा विवधीन् मा तेषां विघातुकोभूद् अपि तु तान् मयि किं ? सामर्थ्याद् अभिमतत्वाच्च दधातु । स्वाहेति प्रदानार्थः ॥८॥
अथोपस्थानमन्त्राः - राजाधिराजायेत्यादि ॥ इयं तु जगती । राज्ञामप्यधिराजो राजाधिराजः सर्वेभ्यो राजभ्योऽदिकं राजत इति । प्रसह्यसाहिने प्रसह्य सर्वानर्थान् साधयितुं यस्सहते अभिभवति वा तस्मै वैश्रवणाय वयं नमस्कुर्महे । स च वैश्रवणः कामकामाय काम्यानर्थान् हिरण्यादीन् कामयमानाय मह्यं कामान् ददातु काम्यानर्थान् प्रयच्छतु । कस्य काम्यान् ? मे मम कामान् मया ये काम्यन्ते तानेव ददातु । अत्र यदि मे कामानिति न विशिंष्यात् तदा अन्यकामान् अनिष्टफलानप्यस्मै दद्यात् । अथ यदि मह्यमिति न ब्रूयाद् एतदीयान् कामान् कस्मैचित्कामकामाय दद्यात् । कामकामायेति इदानीं किमर्थं ? शीघ्रप्रदानार्थं ; यदा कामान् कामये इदानीमेव ददात्विति । इतरथा इतरान्प्रत्य् एतदीयान् कामान् अस्मा एव कदाचिद्दद्यात् । “शीलिकामि” इत्यादिना णः; पूर्वपदप्रकृतिस्वरत्वं बाधित्वा पूर्वोत्तरपदयोर्युगपदाद्युदात्तत्वं छान्दसम् । कामानां काम्यानां हिरण्यादिधनानामीश्वरस्स्वामी । यद्वा - कामानामिच्छानामीश्वरः यथाकामं निर्वर्तयितुं क्षमः । केचिदाहुः - यथा यथा कामयन्ते पुरुषाः सोऽर्थस्तथा तथा सम्पद्यत एव । तस्य गृहीता वैश्रवण ईश्वरेण कृतः । अतोऽसौ कामेश्वरः । स त्वनेन बलिकर्मणा आराधितः कामकामायैव कामान् प्रयच्छतीति । महाराजवेषो महाराजः दर्शनीयविग्रह इति । पदत्रयमप्यन्तोदात्तम् ॥९॥
केतवो अरुणासश्चेत्यादिरुपस्थानविशेषो व्याख्यातः । सूत्रकारेण त्वन्यथा प्रयोग उक्तः । स इह ब्राह्मणविरोधाच्चिन्त्य इति नोक्तः । इदं च कर्मान्तरमारुणकेतुके व्याख्यातम् । तदन्यत्रापि ब्राह्मणोक्तं कर्तव्यम् ; यथाऽग्निहोत्रादिष्वबीष्टकोपधानम् ॥१०॥
इत्यारण्यके प्रथमे एकत्रिशोऽनुवाकः ॥३१॥
३२
संवत्सरमेतदित्यादि ॥ एतद् वक्ष्यमाणं व्रतं नियमरूपं संवत्सरं चरेत् । संवत्सरे द्वौ वा मासौ । तुल्यत्वाद्विकल्पः । “आरुणकेतुकं चेष्यमाणस्य पुरस्तादेद्व्रतं विधीयते । स्वाध्यायेऽपि” इति सूत्रकारवचनाद् अध्येष्यमाणानामपि भवति । अथ तद्व्रतस्वरूपमाह - नियमस्समासेनेति । नियमः कर्तव्यः नियतो वर्तत इति समासेन सङ्क्षेपेण समुदायरूपेण व्रतस्वरूपं जानीयात् । अथ तस्मिन् नियमसामान्ये नियमविशेषा वक्ष्यमाणा ज्ञातव्याः । सामान्येन प्रतिज्ञातस्य नियमस्य “को नियमः कथंलक्षणः” इत्याद्यपेक्षायां “त्रिषवणं” इत्यादिना तत्प्रकारविशेषा उच्यन्त इति । यथा - “अथातो धर्मजिज्ञासा” इति सामान्येन धर्मो जिज्ञास्य इति प्रतिज्ञाय “को धर्मः कथंलक्षणः” इत्याद्यपेक्षायां “चोदनालक्षणोऽर्थः” इत्यादिना धर्मस्वरूपादिकं प्रतिपाद्यते; एवमिदं द्रष्टव्यम् । त्रिषवणं सवनत्रयेऽप्य् उदकोपस्पर्शी स्यात् । सूयतेऽस्मिन् सोम इति सवनम् । त्रयाणां सवनानां प्रातस्सवनादीनां समाहारस् त्रिषवणम् । उदकोपस्पर्शनं स्नानम् । चतुर्थकालपानभक्तस्याद् यस्मिन् काले क्षीरादि पिबति भक्तं चाश्नाति ततश्चतुर्थे काले पानं भक्तं च यस्य स चतुर्थकालपानभक्तः । पीयत इति पानं क्षीरादि । भक्तमन्नम् । यस्य यद्विहितं तस्य तच्चतुर्थे काले भवति । यथा - आद्ये अह्नि भुक्त्वा उत्तरेद्युर्नक्तं भुञ्जीत । ततस्तृतीयमहोरात्रं लङ्घयित्वा चतुर्थस्याह्नि भुञ्जीतेत्यादि । अहरहर्वेति विकल्पः । भक्षाणां समूहो भैक्षम् । औदुम्बरीभिर् उदुम्बरावयवैः । “अनुदात्तादेश्च” इत्यञ् । समिद्भिः प्रादेशमात्राभिः शुष्काभिर् अग्निं परिचरेत् । पुनर्मामैत्विन्द्रियमित्येतेनानुवाकेन । स च पूर्वत्र व्याख्यातः । उद्धृताश्च परिपूताश्च वस्त्रादिना उद्धृतपरिपूताः । “पूर्वकालैक” इति समासः । ताभिर् अद्भिः कार्यम् आचमनादिकं कुर्वीत । स्नानं च अवगाह्यैव । असञ्चयवान् भैक्षपक्षादन्यत्र पानादिसाधनस्य सङ्ग्रहवान् न स्यात् । असमर्थसमासः । “अग्नये स्वाहा” इत्यादिभिः स्वाहाकारान्तैर् मन्त्रैर् व्रतहोमाः कर्तव्याः, होमा इति वचनात् । “जुहोतिचोदनस्वाहाकारप्रदानः” इति । व्रतग्रहणं यावद्व्रतसमाप्ति होतव्या इति सूचनार्थम् । प्रवर्ग्यवदादेशः विधिस्स्यात् प्रवर्ग्यकार्याण्यत्र प्राप्यन्ते । यथा “मदन्तीरुपस्पृश्य शान्तिं कृत्वा” इत्येवमादीनि । अरुणाः काण्डऋषयो ऽरुणनामान आरुणकेतुककाण्डस्य ऋषयः । तेन एभ्योऽपि व्रतहोमाः कर्तव्या इत्युक्तं भवति । तत्र “प्रवर्ग्यवदादेशः” इति वचनात् प्रथमं काण्डमुपाकृत्य अनन्तरं “उपाकरणे समापने च ऋषिर्यः प्रज्ञायते । सदसस्पतिर्द्वितीयः” इति “अरुणेभ्यः स्वाहा” इति हुत्वा “अग्ने व्रतपते आरुणकेतुव्रतं चरिष्यामि” इत्यादि कुर्यात् । उक्तं च - काण्डोपकरणेष्वेतान् पुरस्तात् सदस्पतेः । जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥ इत्य् अरण्येऽधीयीरन् अरण्यमध्ये इत्यर्थः । भद्रं कर्णेभिरिति द्वे शान्त्यर्थं जपित्वा महानाम्नीभिः “आपमापां” इत्यादिभिर् उदकं मदन्तीं संस्पृश्य तं ब्रह्मचारिणा संस्पर्शयित्वा तं ब्रह्मचारिणे आचार्यो दद्याद् व्रते नियुञ्जीत व्रतं कारयेदिति यावत् । चेष्यमाणस्य त्व् अध्वर्युः कारयेत् । शिवा नश्शन्तमेत्योषधीः फलपाकान्ता आलभते स्पृशति । सुमृडीकेति भूमिम् आलभत इत्येव । एवमपवर्गे अपि कर्तव्यम् । फलप्राप्तौ अध्ययनक्रियासमाप्तिर् अपवर्गः । धेनुर्दक्षिणा देया । कंसं भोजनपात्रं वासश्च क्षौमं क्षुमा अतसी तस्या विकारः क्षौमम् । अन्यद्वा शुक्लं कार्पासविकारादि यथाशक्ति वा देयम् । अशक्तौ न धेन्वादिनिर्बन्धः । एवम् उक्तप्रकारेण स्वाध्यायधर्मेण प्रवर्ग्यं मदन्तीर् महानाम्नीभिर् उपस्पृश्येत्यादिकमावर्त्यावर्त्य अरण्येऽधीयीत । यत् “अरण्येऽधीयीत” इत्युक्तं तदेवं विशिष्टं कुर्यादिति । एवमधीयानस् तपस्वी भवति पुण्यश् च भवति । तपस्वी स्वाध्यायवान् “तपो हि स्वाध्यायः” इति ब्राह्मणम् । पुण्यस्सुकृती । अभ्यासो मङ्गलार्थः, मङ्गलान्तानि हि ब्राह्मणान्यध्येतॄणां पापक्षपणार्थानि भवन्तीति ॥१॥ इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये तैत्तिरीयारण्यकतन्त्रे आरुणकेतुके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः समाप्तः ॥३२॥ प्रपाठकश्च समाप्तः ॥१॥