प्रास्ताविकम्
- अस्मादृशानाम् अन्तर्जालाध्येतॄणां सौकर्याय प्रतिमन्त्रं विविच्य तैत्तिरीयश्रुतेर् भट्टभास्करभाष्यं ज्ञानयज्ञाख्यं प्रकाश्यते। कदाचिदन्येषाम् अप्युपयोगाय स्यात्। दोषेषु दृष्टेषु सूचनीया वयम् (प्रत्येकस्मिन् पृष्ठे लेखनीचित्रनोदनेन github fork इति कृत्वा pull request इति प्रेषयितुं शक्यम्)!
- उट्टङ्कितपाठो नाना-जाल-क्षेत्रेभ्यो लब्धः।
- सम्पादने ऽस्मिन् लब्धः पाठो (संहिताया भाष्यस्यापि च) यथापेक्षं परिवर्तितः । विवरणान्य् अन्यत्र।
भाष्यसमीकरणम्
- क्वचिन् मन्त्राणां व्याख्या पूर्वमेवागता इत्यस्मात् ‘व्याख्यातं पूर्वत्र’ इति, ‘गतमन्यत् ’ इत्यादिदिशा भाष्य उच्यते । तत्र अध्येतृसौकर्याय पूर्वतनभाष्यभाग एव सूचिरूपेण स्थापितः । तेन अयमत्र पूर्वतनभाग इति स्पष्टं ज्ञायते ।
- भाष्ये लुप्तपङ्किनिवेशः क्वचित् कृतः।
- भाष्ये टङ्कणदोषः क्वचिन् निवारितः ।
- क्वचित् वाक्यामध्ये दण्डो ऽनवधानेन स्थापितः । स च निष्कासितः । योग्यस्थाने पूरणेन सार्थकीकृतः । यथा -“उपासदत् उपसीदति दोग्धा । ऌदित्वादङ् “। इत्यत्र। “उपासदत् उपसीदति । दोग्धा ऌदित्वादङ् ।” इति वाक्यं समीचीनम् ।
- भाष्ये क्वचिन् मन्त्राणां व्याख्या नास्ति ।
- यथा - पञ्चमप्रपाठके तद्रेत॑स्सि॒क्तन्न इत्यादि ३५-तः ४० पर्यन्तम् ।
- भाष्योक्तप्रतीकानि मूले क्वचित् पूर्वापरीकरेणोपलभ्यते । यथा - ५ प्रपाठके पुत्रस्येति ॥ अमुष्मा+++(अमुष्मै इति पदम् उत्तरमूले उपलभ्यते । अत्र नोपलभ्यते)+++ इत्यत्र यथा नारायणाय केशवायेति ।
सम्पादकस्य टिप्पन्यः
- संहिता-भाष्ययोर्मध्ये पूर्वतनपुस्तकापेक्षया ऽनेकधा व्यत्यासो ऽस्मिंस् संस्करणे कृतः । तत्र तत्र “संपादकस्य लेख” इति किमपि लिख्यते ।
- यत्राधिकजिज्ञासा भवति तत्रापि सम्पादकस्य लेख इति निर्दिष्टम् । तत्र क्वचित् परिशीलनीयमपि वाक्यजातं भवति ।
- क्वचिन् मन्त्राणां व्याख्या नास्ति । यथा - ए॒वैनँ॑ समा॒नाना॑ङ्करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठति । एतादृशस्थलेषु सम्पादकस्य लेख इति स्थापितम् । तेन अन्यत्र भाष्यादिष्वैतादृशवाक्यजातस्यार्थोपलब्धावत्र तदर्थो निवेशितुं सुकरो भवति ।
अवशिष्टकर्म
- यस्मिन् भागे ??? चिह्नं विद्यते तत्र मुद्रितपुस्तकानुसारेण वाक्यानि योजनीयानि ।
- इदानीं टङ्कितभट्टभास्कभाष्यस्य मुद्रितपुस्तकेन सह तोलनं कार्यम् । क्वचित् पङ्क्तयो लुप्ताः।